| |
|

This overlay will guide you through the buttons:

अथ त्रयोदशोऽध्यायः.
atha trayodaśo'dhyāyaḥ.
नवषट्पञ्चमूर्तिविधानम् अत ऊर्ध्वं प्रवक्ष्यामि नवषट्पञ्चमूर्तिकं । विष्णुं च पुरुषं सत्यमच्युतं चाविरुद्धकं ॥ १३.१ ॥
navaṣaṭpañcamūrtividhānam ata ūrdhvaṃ pravakṣyāmi navaṣaṭpañcamūrtikaṃ . viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāviruddhakaṃ .. 13.1 ..
नरनारायणाभ्यां तु वाराहं नारसिंहकं । एवं तु नवमूर्तिस्तु स्थापयित्वा यधाविधि ॥ १३.२ ॥
naranārāyaṇābhyāṃ tu vārāhaṃ nārasiṃhakaṃ . evaṃ tu navamūrtistu sthāpayitvā yadhāvidhi .. 13.2 ..
विष्ण्वादिपञ्चमूर्तीस्तु अदिमूर्तिन्तथाक्रमाथ् । स्थापयेत्तत्क्रमेणैव षण्मूर्तिकमिहोच्यते ॥ १३.३ ॥
viṣṇvādipañcamūrtīstu adimūrtintathākramāth . sthāpayettatkrameṇaiva ṣaṇmūrtikamihocyate .. 13.3 ..
विष्ण्वादीनां तु पञ्चानां स्थापनं पञ्चमूर्तिकं । दशावतारकल्पः मत्स्यः कूर्मोवराहश्च नारसिंहोऽथ वामनः ॥ १३.४ ॥
viṣṇvādīnāṃ tu pañcānāṃ sthāpanaṃ pañcamūrtikaṃ . daśāvatārakalpaḥ matsyaḥ kūrmovarāhaśca nārasiṃho'tha vāmanaḥ .. 13.4 ..
रामो रामश्च रामश्च कृष्णः कर्किरिमे दश । सर्गकाले तु भगवान्सृष्ट्वा विखनसं गुरुं ॥ १३.५ ॥
rāmo rāmaśca rāmaśca kṛṣṇaḥ karkirime daśa . sargakāle tu bhagavānsṛṣṭvā vikhanasaṃ guruṃ .. 13.5 ..
वेदानुपादिशत्तस्मै लोकसंरक्षणक्षमान् । पुरा मध्वादयः काले संभूय भुवि राक्षसाः ॥ १३.६ ॥
vedānupādiśattasmai lokasaṃrakṣaṇakṣamān . purā madhvādayaḥ kāle saṃbhūya bhuvi rākṣasāḥ .. 13.6 ..
अपाहरंस्तु तान्वेदान्बलात्कृत्व विधिं मुहुः । तदा तु सोमकं हन्तुं राक्षसं रणविक्रमं ॥ १३.७ ॥
apāharaṃstu tānvedānbalātkṛtva vidhiṃ muhuḥ . tadā tu somakaṃ hantuṃ rākṣasaṃ raṇavikramaṃ .. 13.7 ..
अन्तर्हितमकूपारे मात्स्यं भावं गतो हरिः । हत्वा तु सोमङ्कं पश्चाद्वेदानब्जभुवे ददौ ॥ १३.८ ॥
antarhitamakūpāre mātsyaṃ bhāvaṃ gato hariḥ . hatvā tu somaṅkaṃ paścādvedānabjabhuve dadau .. 13.8 ..
ग्रामादिषु च सर्वत्र मध्यमे पश्चिमेऽपिवा । हस्तिपृष्ठविमाने तु कुंभाकारविमानके ॥ १३.९ ॥
grāmādiṣu ca sarvatra madhyame paścime'pivā . hastipṛṣṭhavimāne tu kuṃbhākāravimānake .. 13.9 ..
द्वितालेनोत्तमं कुर्यान्मानमेतदुदाहृतं । अवतारस्य सर्वस्य कौतुकं स्याच्छतुर्भुजं ॥ १३.१० ॥
dvitālenottamaṃ kuryānmānametadudāhṛtaṃ . avatārasya sarvasya kautukaṃ syācchaturbhujaṃ .. 13.10 ..
विशेषमत्र वक्ष्यामि प्रधानेऽब्जावले क्रमाथ् । हौत्रप्रशंसनं कृत्वा देवतावाहनं चरेथ् ॥ १३.११ ॥
viśeṣamatra vakṣyāmi pradhāne'bjāvale kramāth . hautrapraśaṃsanaṃ kṛtvā devatāvāhanaṃ careth .. 13.11 ..
मत्स्यं च जलजं चेति भद्रं क्रीडात्मकंऽतथा । एवमादिभिरावाह्य चान्यत्पूर्ववदाचरेथ् ॥ १३.१२ ॥
matsyaṃ ca jalajaṃ ceti bhadraṃ krīḍātmakaṃ'tathā . evamādibhirāvāhya cānyatpūrvavadācareth .. 13.12 ..
यस्स्वयं सृष्टऽमित्युक्त्वा शतमष्टोत्तरं यजेथ् । यथोक्तेनैव मार्गेण संस्थाप्य विधिनार्ऽचयेथ् ॥ १३.१३ ॥
yassvayaṃ sṛṣṭa'mityuktvā śatamaṣṭottaraṃ yajeth . yathoktenaiva mārgeṇa saṃsthāpya vidhinār'cayeth .. 13.13 ..
कूर्मः देवासुरार्थं मृते कृतयुगे हरिः । कच्छपस्समभूद्धर्तुं मन्धरं तं महाचलं ॥ १३.१४ ॥
kūrmaḥ devāsurārthaṃ mṛte kṛtayuge hariḥ . kacchapassamabhūddhartuṃ mandharaṃ taṃ mahācalaṃ .. 13.14 ..
ग्रामादौ वास्तुमध्ये च पर्वताग्रे विशेषतः । नन्द्यावर्तविमाने वा फेलाकारविमानके ॥ १३.१५ ॥
grāmādau vāstumadhye ca parvatāgre viśeṣataḥ . nandyāvartavimāne vā phelākāravimānake .. 13.15 ..
एकतालेन मानेन कूर्मरूपं विधीयते । कूर्मरूपं ध्रुवं कुर्यात्कौतुकं तु चतुर्भुजं ॥ १३.१६ ॥
ekatālena mānena kūrmarūpaṃ vidhīyate . kūrmarūpaṃ dhruvaṃ kuryātkautukaṃ tu caturbhujaṃ .. 13.16 ..
प्रतिष्ठां पूर्ववत्कुर्याद्गार्हपत्ये विशेषतः । हौत्रमत्र प्रशंसन्ति मूर्तिमस्त्रमथोच्यते ॥ १३.१७ ॥
pratiṣṭhāṃ pūrvavatkuryādgārhapatye viśeṣataḥ . hautramatra praśaṃsanti mūrtimastramathocyate .. 13.17 ..
अकूपारं कूर्मरूपं विष्णुं च वसुधाधरम्ऽ । अकूपारं जलं कूर्मं कच्छपंऽत्विति के च न ॥ १३.१८ ॥
akūpāraṃ kūrmarūpaṃ viṣṇuṃ ca vasudhādharam' . akūpāraṃ jalaṃ kūrmaṃ kacchapaṃ'tviti ke ca na .. 13.18 ..
समावाह्य तु तैरेव निरुप्याज्याहुतीर्यजेथ् । रायामीशऽस्समुच्चार्य शतमष्टाधिकं यजेथ् ॥ १३.१९ ॥
samāvāhya tu taireva nirupyājyāhutīryajeth . rāyāmīśa'ssamuccārya śatamaṣṭādhikaṃ yajeth .. 13.19 ..
उक्तवत्थ्सापयेद्विद्वान्विधिना सम्यगर्चयेथ् । मत्स्यकूर्मौ द्विधा प्रोक्तौकिं चिद्भेदं प्रचक्षते ॥ १३.२० ॥
uktavatthsāpayedvidvānvidhinā samyagarcayeth . matsyakūrmau dvidhā proktaukiṃ cidbhedaṃ pracakṣate .. 13.20 ..
द्विभुजौ केचिदिच्छन्ति केचिदिष्टभुजौ बुधाः ।
dvibhujau kecidicchanti kecidiṣṭabhujau budhāḥ .
वराहः
देवमानुषतिर्यञ्च स्थावरा जङ्गमास्तथा ॥ १३.२१ ॥
devamānuṣatiryañca sthāvarā jaṅgamāstathā .. 13.21 ..
पुरासृष्टा यथा सर्वे चत्वारो भुवि जन्तवः । जरायुजाण्डजोद्भिज्जन्वेदजाश्चेति जातितः ॥ १३.२२ ॥
purāsṛṣṭā yathā sarve catvāro bhuvi jantavaḥ . jarāyujāṇḍajodbhijjanvedajāśceti jātitaḥ .. 13.22 ..
एवं प्रवर्तमाने तु हिरण्याक्षो महाबलः । रसातलमगाद्धृत्वा चराचरधरां महीं ॥ १३.२३ ॥
evaṃ pravartamāne tu hiraṇyākṣo mahābalaḥ . rasātalamagāddhṛtvā carācaradharāṃ mahīṃ .. 13.23 ..
महावराहवपुषा तां तदोद्धृतवान्हरिः । वराहस्त्रिविधः प्रोक्तो देवस्याविष्कृतौ पुनः ॥ १३.२४ ॥
mahāvarāhavapuṣā tāṃ tadoddhṛtavānhariḥ . varāhastrividhaḥ prokto devasyāviṣkṛtau punaḥ .. 13.24 ..
क्रमादादिवराहश्च वराहः प्रलयात्मकः । यज्ञवाराह इत्येवं त्रिविधिस्संप्रकीर्तितः ॥ १३.२५ ॥
kramādādivarāhaśca varāhaḥ pralayātmakaḥ . yajñavārāha ityevaṃ trividhissaṃprakīrtitaḥ .. 13.25 ..
विमाने पर्वताकारे श्रीप्रतिष्ठितके तथा । दशतालेन मानेन देवं सूकरमाचरेथ् ॥ १३.२६ ॥
vimāne parvatākāre śrīpratiṣṭhitake tathā . daśatālena mānena devaṃ sūkaramācareth .. 13.26 ..
चतुबान्हुसमायुक्तं शङ्खचक्रधरं परं । वामपादं समाकुञ्च्य महीमुद्धृत्य सादरं ॥ १३.२७ ॥
catubānhusamāyuktaṃ śaṅkhacakradharaṃ paraṃ . vāmapādaṃ samākuñcya mahīmuddhṛtya sādaraṃ .. 13.27 ..
दक्षिणं चण्डितं कुर्यान्महीमूरौ समाचरेथ् । महीं च श्यामवर्णां तु कुर्याच्चैव विधानतः ॥ १३.२८ ॥
dakṣiṇaṃ caṇḍitaṃ kuryānmahīmūrau samācareth . mahīṃ ca śyāmavarṇāṃ tu kuryāccaiva vidhānataḥ .. 13.28 ..
एवमादिवराहन्तु कारयेल्लक्षणान्वितं । अवान्तरमनुप्राप्य यदा तु प्रलयं हरिः ॥ १३.२९ ॥
evamādivarāhantu kārayellakṣaṇānvitaṃ . avāntaramanuprāpya yadā tu pralayaṃ hariḥ .. 13.29 ..
तत्तोयमुपसंहर्तुं वराहं रूपमास्थितः । ततः प्रलयवाराहं पुराभूतं च कारयेथ् ॥ १३.३० ॥
tattoyamupasaṃhartuṃ varāhaṃ rūpamāsthitaḥ . tataḥ pralayavārāhaṃ purābhūtaṃ ca kārayeth .. 13.30 ..
शङ्खचक्रधरं स्ॐयं पीतांबरधरं हरिं । दक्षिणं चाभयं हस्तं वामं कट्यवलंबितम्, ॥ १३.३१ ॥
śaṅkhacakradharaṃ s_oṃyaṃ pītāṃbaradharaṃ hariṃ . dakṣiṇaṃ cābhayaṃ hastaṃ vāmaṃ kaṭyavalaṃbitam, .. 13.31 ..
महीं तु दक्षिणे कुर्यात्सश्यामनिभां तथा । सुखासनक्रमेणैव चासीनां वा स्वलङ्कृतां ॥ १३.३२ ॥
mahīṃ tu dakṣiṇe kuryātsaśyāmanibhāṃ tathā . sukhāsanakrameṇaiva cāsīnāṃ vā svalaṅkṛtāṃ .. 13.32 ..
एवं प्रलयवाराहं कारयेत्तु विचक्षणः । हिरण्याक्षःपुरा रक्षो बलवान्बलिनां वरः ॥ १३.३३ ॥
evaṃ pralayavārāhaṃ kārayettu vicakṣaṇaḥ . hiraṇyākṣaḥpurā rakṣo balavānbalināṃ varaḥ .. 13.33 ..
वरेण गर्वाद्दुर्बुद्धिर्यज्ञविद्वेषकोऽवृधथ् । अवातरत्तदा विष्णुवन्रसूकरमूर्तिमान् ॥ १३.३४ ॥
vareṇa garvāddurbuddhiryajñavidveṣako'vṛdhath . avātarattadā viṣṇuvanrasūkaramūrtimān .. 13.34 ..
हत्वा सदैत्यं सबलं पश्चाद्यज्ञान्न्यवर्तयथ् । तस्माद्यज्ञवराहं तु तञ्च कुर्याद्विधानतः ॥ १३.३५ ॥
hatvā sadaityaṃ sabalaṃ paścādyajñānnyavartayath . tasmādyajñavarāhaṃ tu tañca kuryādvidhānataḥ .. 13.35 ..
श्वेतं यज्ञवराहं तु श्रीभूमिभ्यां सहैव वा । सुखासने समासीनं कुर्याल्लक्षणसंयुतं ॥ १३.३६ ॥
śvetaṃ yajñavarāhaṃ tu śrībhūmibhyāṃ sahaiva vā . sukhāsane samāsīnaṃ kuryāllakṣaṇasaṃyutaṃ .. 13.36 ..
त्रयाणां च वराहाणां स्थापने भेद उच्यते । पूर्वोक्तेन क्रमेणैव सर्वं कृत्वा विशेषतः ॥ १३.३७ ॥
trayāṇāṃ ca varāhāṇāṃ sthāpane bheda ucyate . pūrvoktena krameṇaiva sarvaṃ kṛtvā viśeṣataḥ .. 13.37 ..
सभ्याग्निकुण्डे रात्रौतु हौत्रशंसनमाचरेथ् । वराहं वरदं विष्णुमुर्वीसंधारणं तथा ॥ १३.३८ ॥
sabhyāgnikuṇḍe rātrautu hautraśaṃsanamācareth . varāhaṃ varadaṃ viṣṇumurvīsaṃdhāraṇaṃ tathā .. 13.38 ..
वज्रदंष्ट्रऽमिति प्रोच्य देवमादिवराहकं । महीं तां पृथुलामुर्वीऽमिति देवीं महीं क्रमाथ् ॥ १३.३९ ॥
vajradaṃṣṭra'miti procya devamādivarāhakaṃ . mahīṃ tāṃ pṛthulāmurvī'miti devīṃ mahīṃ kramāth .. 13.39 ..
आवाहयेद्यथान्यायमन्वत्सर्वं समाचरेथ् । वाराहं प्रलयहरं भूतेशं विष्णुमेव च ॥ १३.४० ॥
āvāhayedyathānyāyamanvatsarvaṃ samācareth . vārāhaṃ pralayaharaṃ bhūteśaṃ viṣṇumeva ca .. 13.40 ..
जगत्त्रयात्मकंऽ चोक्त्वा वराहं प्रलयात्मकं । वराहं देवरूपं च यज्ञेशं यज्ञवर्धकं ॥ १३.४१ ॥
jagattrayātmakaṃ' coktvā varāhaṃ pralayātmakaṃ . varāhaṃ devarūpaṃ ca yajñeśaṃ yajñavardhakaṃ .. 13.41 ..
विष्णुंऽ चेति तथा देवं यज्ञवाराहमाह्वयेथ् । आवाहनादिसर्वत्र पूर्ववत्कारयेद्बुधः ॥ १३.४२ ॥
viṣṇuṃ' ceti tathā devaṃ yajñavārāhamāhvayeth . āvāhanādisarvatra pūrvavatkārayedbudhaḥ .. 13.42 ..
क्ष्मामेकाऽमिति मन्त्रेण यजेदष्टोत्तरं शतं । हरेरुक्तविधानेन सर्वं पूर्ववदाचरेथ् ॥ १३.४३ ॥
kṣmāmekā'miti mantreṇa yajedaṣṭottaraṃ śataṃ . hareruktavidhānena sarvaṃ pūrvavadācareth .. 13.43 ..
नारसिंहः
हिरण्यकशिपुर्नाम दैत्यानां प्रबलोऽभवथ् । वरेण गर्वाद्दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ १३.४४ ॥
hiraṇyakaśipurnāma daityānāṃ prabalo'bhavath . vareṇa garvāddaityendro hiraṇyakaśipustadā .. 13.44 ..
देवैर्मृगैर्मनुष्यैर्वा जीविभिर्वाप्यजीविभिः । दिवा वा यदि वा रात्रौ वधो मे न भवेदिति ॥ १३.४५ ॥
devairmṛgairmanuṣyairvā jīvibhirvāpyajīvibhiḥ . divā vā yadi vā rātrau vadho me na bhavediti .. 13.45 ..
लोकानुद्वेजयमास तदा तं दैत्यसत्तमं । हन्तुकामः कृतोद्योगश्चिन्तयित्वा हरिः प्रभुः ॥ १३.४६ ॥
lokānudvejayamāsa tadā taṃ daityasattamaṃ . hantukāmaḥ kṛtodyogaścintayitvā hariḥ prabhuḥ .. 13.46 ..
तत्पालितपुराद्बाह्ये महापर्वतमस्तके । रक्षसा पीडितैर्देवैः प्रार्थितः करुणानिधिः ॥ १३.४७ ॥
tatpālitapurādbāhye mahāparvatamastake . rakṣasā pīḍitairdevaiḥ prārthitaḥ karuṇānidhiḥ .. 13.47 ..
नरसिंहवपुर्भूत्वा दिवा रात्रिं व्यपोह्य च । संध्याकालेऽवधीत्तन्तु भुवङ्गे स नखायथः ॥ १३.४८ ॥
narasiṃhavapurbhūtvā divā rātriṃ vyapohya ca . saṃdhyākāle'vadhīttantu bhuvaṅge sa nakhāyathaḥ .. 13.48 ..
बाह्यमाभ्यस्तरं हित्वा जीवाजीवैर्नखैश्शुभैः । एवं दैत्यवधं कृत्वा पर्वतेऽन्तरभूत्हरिः ॥ १३.४९ ॥
bāhyamābhyastaraṃ hitvā jīvājīvairnakhaiśśubhaiḥ . evaṃ daityavadhaṃ kṛtvā parvate'ntarabhūt_hariḥ .. 13.49 ..
ततस्तमर्चयेद्भक्त्या विजयार्थं विवृद्धये । पर्वताकृतिके वापि श्रीप्रतिष्ठितकेऽपिवा ॥ १३.५० ॥
tatastamarcayedbhaktyā vijayārthaṃ vivṛddhaye . parvatākṛtike vāpi śrīpratiṣṭhitake'pivā .. 13.50 ..
दशतालेन मानेन नरसिंहं प्रकल्पयेथ् । गिरिजं स्थूणजं चैव सुदर्शननृसिंहकं ॥ १३.५१ ॥
daśatālena mānena narasiṃhaṃ prakalpayeth . girijaṃ sthūṇajaṃ caiva sudarśananṛsiṃhakaṃ .. 13.51 ..
तथा लक्ष्मीनृसिंहं च पातालनरसिंहकं । तथा पुच्छनृसिंहं च नृसिंहं षड्विधं विदुः ॥ १३.५२ ॥
tathā lakṣmīnṛsiṃhaṃ ca pātālanarasiṃhakaṃ . tathā pucchanṛsiṃhaṃ ca nṛsiṃhaṃ ṣaḍvidhaṃ viduḥ .. 13.52 ..
सिंहासने समासीनं सर्वाभरण भूषितं । नारसिंहं चतुर्बाहुं शङ्खचक्रधरं परं ॥ १३.५३ ॥
siṃhāsane samāsīnaṃ sarvābharaṇa bhūṣitaṃ . nārasiṃhaṃ caturbāhuṃ śaṅkhacakradharaṃ paraṃ .. 13.53 ..
पादौ द्वौ च समाकुञ्च्य न्यस्य सिंहासने स्थितं । प्रसार्य हस्तौ द्वौ जान्वोस्तयोरूर्ध्वे निधाय च ॥ १३.५४ ॥
pādau dvau ca samākuñcya nyasya siṃhāsane sthitaṃ . prasārya hastau dvau jānvostayorūrdhve nidhāya ca .. 13.54 ..
वस्त्रेण चोरू बद्ध्वैवमासीनं गिरिजं तथा । श्रियं कनकवर्णाभां मेदिनीं श्यामसन्निभां ॥ १३.५५ ॥
vastreṇa corū baddhvaivamāsīnaṃ girijaṃ tathā . śriyaṃ kanakavarṇābhāṃ medinīṃ śyāmasannibhāṃ .. 13.55 ..
ब्रह्मेशौ वन्दमानौ तु दक्षिणोत्तरयोः क्रमाथ् । वाहनं सामवेदं च प्रमुखे संप्रकल्पयेथ् ॥ १३.५६ ॥
brahmeśau vandamānau tu dakṣiṇottarayoḥ kramāth . vāhanaṃ sāmavedaṃ ca pramukhe saṃprakalpayeth .. 13.56 ..
साम श्यामनिभं कुर्यात्सर्वाभरणभूषितं । भूमीशो नामगन्धर्वो शैषिकस्थानमाश्रितः ॥ १३.५७ ॥
sāma śyāmanibhaṃ kuryātsarvābharaṇabhūṣitaṃ . bhūmīśo nāmagandharvo śaiṣikasthānamāśritaḥ .. 13.57 ..
कारयेदुक्तवर्णन्तं सर्वाभरणभूषितं । स्थूणजं संप्रवक्ष्यामि स्थूणादाविर्बभौ हरिः ॥ १३.५८ ॥
kārayeduktavarṇantaṃ sarvābharaṇabhūṣitaṃ . sthūṇajaṃ saṃpravakṣyāmi sthūṇādāvirbabhau hariḥ .. 13.58 ..
वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च । चतुर्भुजधरं देवं शङ्खचक्रेच कारयेथ् ॥ १३.५९ ॥
vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca . caturbhujadharaṃ devaṃ śaṅkhacakreca kārayeth .. 13.59 ..
हस्तं तु दक्षिणं पूर्वं कुर्याद्दानकरं तधा । वामहस्तं प्रबद्ध्यैव ऊरौ च तु सुविन्यसेथ् ॥ १३.६० ॥
hastaṃ tu dakṣiṇaṃ pūrvaṃ kuryāddānakaraṃ tadhā . vāmahastaṃ prabaddhyaiva ūrau ca tu suvinyaseth .. 13.60 ..
सटाकन्धरसंयुक्तं तीक्ष्णदंष्ट्रं भयानकं । शङ्खकुन्देन्दुधवलं सर्वाभरणभूषेतं ॥ १३.६१ ॥
saṭākandharasaṃyuktaṃ tīkṣṇadaṃṣṭraṃ bhayānakaṃ . śaṅkhakundendudhavalaṃ sarvābharaṇabhūṣetaṃ .. 13.61 ..
सुदर्शननृसिंहस्य लक्षणं संप्रवक्ष्यते । सूर्यकोटिप्रतीकाशं चक्रं विमलमुज्ज्वलं ॥ १३.६२ ॥
sudarśananṛsiṃhasya lakṣaṇaṃ saṃpravakṣyate . sūryakoṭipratīkāśaṃ cakraṃ vimalamujjvalaṃ .. 13.62 ..
बृहद्भानुपुरद्वन्द्वं चक्रमध्ये प्रकल्पयेथ् । चक्रमध्ये समासीनं नृसिंहमरुणप्रभं ॥ १३.६३ ॥
bṛhadbhānupuradvandvaṃ cakramadhye prakalpayeth . cakramadhye samāsīnaṃ nṛsiṃhamaruṇaprabhaṃ .. 13.63 ..
अत्यन्तभीषणाकारं भक्तानामभयप्रदं । चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेथ् ॥ १३.६४ ॥
atyantabhīṣaṇākāraṃ bhaktānāmabhayapradaṃ . cakrāyudhaṃ caturbāhuṃ devadevaṃ prakalpayeth .. 13.64 ..
वक्ष्येलक्ष्मीरृसिंहस्य लक्षणं मुनिसत्तमाः । वामपादं समाकुञ्च्य दक्षिणं संप्रसार्य च ॥ १३.६५ ॥
vakṣyelakṣmīrṛsiṃhasya lakṣaṇaṃ munisattamāḥ . vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca .. 13.65 ..
वामोरौ श्रियमासीनां प्रांजलीकृतवास्तकां । वामहस्तेन देह्यश्च कुर्वन्तमुपगूहनं ॥ १३.६६ ॥
vāmorau śriyamāsīnāṃ prāṃjalīkṛtavāstakāṃ . vāmahastena dehyaśca kurvantamupagūhanaṃ .. 13.66 ..
दक्षिणं त्वभयं कुर्यात्पराभ्यां शङ्कचक्रके । पातालनारसिंहाख्यमासीनं पूर्ववत्तथा ॥ १३.६७ ॥
dakṣiṇaṃ tvabhayaṃ kuryātparābhyāṃ śaṅkacakrake . pātālanārasiṃhākhyamāsīnaṃ pūrvavattathā .. 13.67 ..
फणैस्तु पञ्चभिस्सम्यक्छन्नमूर्धानमेव च । दक्षिणादक्षिणं हस्तं वरदं कटीकं तथा ॥ १३.६८ ॥
phaṇaistu pañcabhissamyakchannamūrdhānameva ca . dakṣiṇādakṣiṇaṃ hastaṃ varadaṃ kaṭīkaṃ tathā .. 13.68 ..
वक्ष्ये पुच्छनृसिंहस्तु पुच्छयुक्तं तु कारयेथ् । अभयं दक्षिणं हस्तं वाममूरुप्रतिष्ठितं ॥ १३.६९ ॥
vakṣye pucchanṛsiṃhastu pucchayuktaṃ tu kārayeth . abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitaṃ .. 13.69 ..
दक्षिणं पादमाकुञ्च्य सर्वाभरणभूषितं । नारसिंहमिदं कृत्वास्थापनारंभमाचरेथ् ॥ १३.७० ॥
dakṣiṇaṃ pādamākuñcya sarvābharaṇabhūṣitaṃ . nārasiṃhamidaṃ kṛtvāsthāpanāraṃbhamācareth .. 13.70 ..
तत्रचाहवनीयाग्नौ हौत्रशंसनमाचरेथ् । नारसिंहं तपोनाथं महाविष्णुं महाबलं ॥ १३.७१ ॥
tatracāhavanīyāgnau hautraśaṃsanamācareth . nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalaṃ .. 13.71 ..
भक्तवत्सलऽ मित्युक्त्वा नरसिंहं समाह्वयेथ् । तपोनिधिंऽ समुच्चार्य शतमष्टाधिकं यजेथ् ॥ १३.७२ ॥
bhaktavatsala' mityuktvā narasiṃhaṃ samāhvayeth . taponidhiṃ' samuccārya śatamaṣṭādhikaṃ yajeth .. 13.72 ..
स्नापनं चोत्सवं चैव हरेरिव विधानतः ॥ १३.७३ ॥
snāpanaṃ cotsavaṃ caiva hareriva vidhānataḥ .. 13.73 ..
इति श्रीवैखानसेभगवच्छास्त्रे भृगुप्रोक्तायां संहितायांप्रकीर्णाधिकारे त्रयोदशोऽध्यायः.
iti śrīvaikhānasebhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃprakīrṇādhikāre trayodaśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In