| |
|

This overlay will guide you through the buttons:

अथत्रयस्त्रिंशोऽध्यायः.
अथ त्रयस्त्रिंशः अध्यायः।
atha trayastriṃśaḥ adhyāyaḥ.
अर्चावतारमहत्त्वम्.
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः । पञ्चधावस्थितं रूपं परव्यूहादिभेदतः ॥ ३३.१ ॥
अथ वक्ष्ये विशेषेण देवदेवस्य शार्ङ्गिणः । पञ्चधा अवस्थितम् रूपम् पर-व्यूह-आदि-भेदतः ॥ ३३।१ ॥
atha vakṣye viśeṣeṇa devadevasya śārṅgiṇaḥ . pañcadhā avasthitam rūpam para-vyūha-ādi-bhedataḥ .. 33.1 ..
अनुग्रहाय लोकानां भक्तानामनुकंपया । परव्यूहादिभेदेन देवदेवः प्रवर्तते ॥ ३३.२ ॥
अनुग्रहाय लोकानाम् भक्तानाम् अनुकंपया । पर-व्यूह-आदि-भेदेन देवदेवः प्रवर्तते ॥ ३३।२ ॥
anugrahāya lokānām bhaktānām anukaṃpayā . para-vyūha-ādi-bhedena devadevaḥ pravartate .. 33.2 ..
आद्येन पररूपेण व्यूहाख्येनेतरेण तु । तथाविभवरूपेण नानाभावमुपेयुषा ॥ ३३.३ ॥
आद्येन पर-रूपेण व्यूह-आख्येन इतरेण तु । तथा अविभव-रूपेण नानाभावम् उपेयुषा ॥ ३३।३ ॥
ādyena para-rūpeṇa vyūha-ākhyena itareṇa tu . tathā avibhava-rūpeṇa nānābhāvam upeyuṣā .. 33.3 ..
अन्तर्यामिस्वरूपेण चतुर्थेन तथा पुनः । अर्चावताररूपेण पञ्चधावस्थितो हरिः ॥ ३३.४ ॥
अन्तर्यामि-स्व-रूपेण चतुर्थेन तथा पुनर् । अर्चा-अवतार-रूपेण पञ्चधा अवस्थितः हरिः ॥ ३३।४ ॥
antaryāmi-sva-rūpeṇa caturthena tathā punar . arcā-avatāra-rūpeṇa pañcadhā avasthitaḥ hariḥ .. 33.4 ..
अनौपम मनिर्देस्यं पुनस्स भजते परं । विश्वाप्यायनकं कान्त्या पूर्णेन्द्वयुतुल्यया ॥ ३३.५ ॥
अनौपम मनिर्देस्यम् पुनर् स भजते परम् । ॥ ३३।५ ॥
anaupama manirdesyam punar sa bhajate param . .. 33.5 ..
परन्धाम परञ्ज्योतिस्सर्वशक्तिमयोऽमलः । निर्द्वन्द्वो निर्विकल्पोऽच्छोनित्योऽचिन्त्यस्सनातनः ॥ ३३.६ ॥
परन् धाम परन् ज्योतिः सर्व-शक्ति-मयः अमलः । निर्द्वन्द्वः निर्विकल्पः अच्छः नित्यः अचिन्त्यः सनातनः ॥ ३३।६ ॥
paran dhāma paran jyotiḥ sarva-śakti-mayaḥ amalaḥ . nirdvandvaḥ nirvikalpaḥ acchaḥ nityaḥ acintyaḥ sanātanaḥ .. 33.6 ..
अप्रमेयो निराद्यन्तो दृश्योऽदृश्यो ह्यतीन्द्रियः । सुसूक्ष्मत्वादनिर्देश्यस्सर्वज्ञस्सदसद्विभुः ॥ ३३.७ ॥
अप्रमेयः निरादि-अन्तः दृश्यः अदृश्यः हि अतीन्द्रियः । सु सूक्ष्म-त्वात् अनिर्देश्यः सर्वज्ञः सत्-असत्-विभुः ॥ ३३।७ ॥
aprameyaḥ nirādi-antaḥ dṛśyaḥ adṛśyaḥ hi atīndriyaḥ . su sūkṣma-tvāt anirdeśyaḥ sarvajñaḥ sat-asat-vibhuḥ .. 33.7 ..
आनादिमत्परं ब्रह्म सर्वहेयविवर्जितं । व्यापि यत्सर्वभूतेषु स्थितं सदसतोः परं ॥ ३३.८ ॥
आनादिमत् परम् ब्रह्म सर्व-हेय-विवर्जितम् । व्यापि यत् सर्व-भूतेषु स्थितम् सत्-असतोः परम् ॥ ३३।८ ॥
ānādimat param brahma sarva-heya-vivarjitam . vyāpi yat sarva-bhūteṣu sthitam sat-asatoḥ param .. 33.8 ..
शङ्खचक्रगदापद्मदिव्यायुधपरिष्कृतः । सहस्रादित्यसंकाशे पकमे व्योम्नि संस्थितः ॥ ३३.९ ॥
शङ्ख-चक्र-गदा-पद्म-दिव्य-आयुध-परिष्कृतः । सहस्र-आदित्य-संकाशे पकमे व्योम्नि संस्थितः ॥ ३३।९ ॥
śaṅkha-cakra-gadā-padma-divya-āyudha-pariṣkṛtaḥ . sahasra-āditya-saṃkāśe pakame vyomni saṃsthitaḥ .. 33.9 ..
नित्यमुक्तैकसंभाव्यश्चतुर्भुजधरोहरिः । अन्यूनानतरिग्तैस्स्वैर्गुणैष्षड्भिरलङ्कृतः ॥ ३३.१० ॥
नित्यम् उक्त-एक-संभाव्यः चतुर्-भुज-धरः हरिः । अन्यून-अनत-रिग्तैः स्वैः गुणैः षड्भिः अलङ्कृतः ॥ ३३।१० ॥
nityam ukta-eka-saṃbhāvyaḥ catur-bhuja-dharaḥ hariḥ . anyūna-anata-rigtaiḥ svaiḥ guṇaiḥ ṣaḍbhiḥ alaṅkṛtaḥ .. 33.10 ..
समस्समविभक्ताङ्गस्सर्वावयवसुन्दरः । दिव्यैराभरणैर्युक्तस्सुधाकल्लोलसंकुलैः ॥ ३३.११ ॥
समः सम-विभक्त-अङ्गः सर्व-अवयव-सुन्दरः । दिव्यैः आभरणैः युक्तः सुधा-कल्लोल-संकुलैः ॥ ३३।११ ॥
samaḥ sama-vibhakta-aṅgaḥ sarva-avayava-sundaraḥ . divyaiḥ ābharaṇaiḥ yuktaḥ sudhā-kallola-saṃkulaiḥ .. 33.11 ..
श्रिया नित्यानपायिन्या सेव्यमानो जगत्पतिः ॥ ३३.१२ ॥
श्रिया नित्य-अनपायिन्या सेव्यमानः जगत्पतिः ॥ ३३।१२ ॥
śriyā nitya-anapāyinyā sevyamānaḥ jagatpatiḥ .. 33.12 ..
पञ्चधातु पुनर्व्यूहः प्रोच्यते श्रुतिसम्मतः । देवो विष्ण्वादिभेदेव पञ्चधा व्यवतिष्ठते ॥ ३३.१३ ॥
पञ्च-धातु पुनर् व्यूहः प्रोच्यते श्रुति-सम्मतः । देवः विष्णु-आदि-भेदा इव पञ्चधा व्यवतिष्ठते ॥ ३३।१३ ॥
pañca-dhātu punar vyūhaḥ procyate śruti-sammataḥ . devaḥ viṣṇu-ādi-bhedā iva pañcadhā vyavatiṣṭhate .. 33.13 ..
स वा एष पुरुषः पञ्चधा पञ्चात्मेति च श्रुतिः । तथा पोपूयमानः पञ्चभिस्स्वगुणैरिति ॥ ३३.१४ ॥
स वै एष पुरुषः पञ्चधा पञ्च-आत्मा इति च श्रुतिः । तथा पोपूयमानः पञ्चभिः स्व-गुणैः इति ॥ ३३।१४ ॥
sa vai eṣa puruṣaḥ pañcadhā pañca-ātmā iti ca śrutiḥ . tathā popūyamānaḥ pañcabhiḥ sva-guṇaiḥ iti .. 33.14 ..
आदिमूर्तिस्तु पञ्चानां विष्णुर्भेदाश्च तस्यतु । चतस्रः पुरुषाद्यास्स्युर्मूर्तयो भिन्नलक्षणाः ॥ ३३.१५ ॥
आदि-मूर्तिः तु पञ्चानाम् विष्णुः भेदाः च तस्य तु । चतस्रः पुरुष-आद्याः स्युः मूर्तयः भिन्न-लक्षणाः ॥ ३३।१५ ॥
ādi-mūrtiḥ tu pañcānām viṣṇuḥ bhedāḥ ca tasya tu . catasraḥ puruṣa-ādyāḥ syuḥ mūrtayaḥ bhinna-lakṣaṇāḥ .. 33.15 ..
तद्विष्णोश्श्रमापनुदाय चतुर्गुणाऽऽयेति चश्रुतिः । तस्माद्ब्रह्म चतुष्पादित्युच्यते वेदवेदिभिः ॥ ३३.१६ ॥
तत् विष्णोः श्रम-अपनुदाय चतुर्गुण-आय इति चश्रुतिः । तस्मात् ब्रह्म चतुष्पाद् इति उच्यते वेद-वेदिभिः ॥ ३३।१६ ॥
tat viṣṇoḥ śrama-apanudāya caturguṇa-āya iti caśrutiḥ . tasmāt brahma catuṣpād iti ucyate veda-vedibhiḥ .. 33.16 ..
पादादर्धात्त्रिपादाच्च केवलाच्छक्तिभेदतः । क्रमेण धर्मज्ञानैश्वर्यवैराग्याख्यैर्गुणैर्युताः ॥ ३३.१७ ॥
पादात् अर्धात् त्रि-पादात् च केवलात् शक्ति-भेदतः । क्रमेण धर्म-ज्ञान-ऐश्वर्य-वैराग्य-आख्यैः गुणैः युताः ॥ ३३।१७ ॥
pādāt ardhāt tri-pādāt ca kevalāt śakti-bhedataḥ . krameṇa dharma-jñāna-aiśvarya-vairāgya-ākhyaiḥ guṇaiḥ yutāḥ .. 33.17 ..
भवन्तिमूर्तयस्तस्माच्चतस्रो विषयैर्निजैः । चातुरात्म्यादादिमूर्तेश्चतस्रस्तत्रमूर्तयः ॥ ३३.१८ ॥
भवन्ति-मूर्तयः तस्मात् चतस्रः विषयैः निजैः । चातुरात्म्यात् आदि-मूर्तेः चतस्रः तत्र मूर्तयः ॥ ३३।१८ ॥
bhavanti-mūrtayaḥ tasmāt catasraḥ viṣayaiḥ nijaiḥ . cāturātmyāt ādi-mūrteḥ catasraḥ tatra mūrtayaḥ .. 33.18 ..
विष्णुश्चैव महाविष्णुस्सदाविष्णुरिति क्रमाथ् । व्यापी नारायण इति तन्नामानि ततःक्रमाथ् ॥ ३३.१९ ॥
विष्णुः च एव महाविष्णुः सदा विष्णुः इति । व्यापी नारायणः इति तद्-नामानि ॥ ३३।१९ ॥
viṣṇuḥ ca eva mahāviṣṇuḥ sadā viṣṇuḥ iti . vyāpī nārāyaṇaḥ iti tad-nāmāni .. 33.19 ..
विष्णोरंशस्तु पुरुषो महाविष्णोस्तु सत्यकः । सदाविष्णोरच्युतस्स्याद्य्यापिनोऽंशोऽनिरुद्धकः ॥ ३३.२० ॥
विष्णोः अंशः तु पुरुषः महाविष्णोः तु सत्यकः । सदा विष्णोः अच्युतः स्यात् यापिनः अंशः अनिरुद्धकः ॥ ३३।२० ॥
viṣṇoḥ aṃśaḥ tu puruṣaḥ mahāviṣṇoḥ tu satyakaḥ . sadā viṣṇoḥ acyutaḥ syāt yāpinaḥ aṃśaḥ aniruddhakaḥ .. 33.20 ..
धर्मादिभिर्ब्रह्मगुणैश्चतुर्धाभेद ईरितः । तृतीयं विभवाख्यन्तं विश्वमन्तरमध्यमम्? ॥ ३३.२१ ॥
धर्म-आदिभिः ब्रह्म-गुणैः चतुर्धा भेदः ईरितः । तृतीयम् विभव-आख्य-अन्तम् विश्वम् अन्तर-मध्यमम्? ॥ ३३।२१ ॥
dharma-ādibhiḥ brahma-guṇaiḥ caturdhā bhedaḥ īritaḥ . tṛtīyam vibhava-ākhya-antam viśvam antara-madhyamam? .. 33.21 ..
नानाकारक्रियाकर्तृ रूपं वक्ष्ये महात्मनः । विभवा मत्स्यकूर्माद्या हयग्रीवादयो मताः ॥ ३३.२२ ॥
नाना आकार-क्रिया-कर्तृ रूपम् वक्ष्ये महात्मनः । विभवाः मत्स्य-कूर्म-आद्याः हयग्रीव-आदयः मताः ॥ ३३।२२ ॥
nānā ākāra-kriyā-kartṛ rūpam vakṣye mahātmanaḥ . vibhavāḥ matsya-kūrma-ādyāḥ hayagrīva-ādayaḥ matāḥ .. 33.22 ..
अन्तर्यामिस्वरूपं तु तुरीयमिदमुच्यते । नीवारशूकवत्तन्वी पीताभा स्यात्तनूपमा ॥ ३३.२३ ॥
अन्तर्यामि-स्वरूपम् तु तुरीयम् इदम् उच्यते । नीवार-शूक-वत् तन्वी पीत-आभा स्यात् तनू-उपमा ॥ ३३।२३ ॥
antaryāmi-svarūpam tu turīyam idam ucyate . nīvāra-śūka-vat tanvī pīta-ābhā syāt tanū-upamā .. 33.23 ..
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः । इत्युक्तश्श्रुत्यभिहितो हृदयांबुजमध्यमे ॥ ३३.२४ ॥
तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः । इति उक्तः श्रुति-अभिहितः हृदय-अंबुज-मध्यमे ॥ ३३।२४ ॥
tasyāḥ śikhāyāḥ madhye paramātmā vyavasthitaḥ . iti uktaḥ śruti-abhihitaḥ hṛdaya-aṃbuja-madhyame .. 33.24 ..
ज्वलन्महाग्नौ विश्वार्चिर्ज्वालान्ते विश्वतो मुखे । आपादतलचूडाग्रं सन्तापयति सन्ततं ॥ ३३.२५ ॥
ज्वलन् महा-अग्नौ विश्व-अर्चिः-ज्वाला-अन्ते विश्वतस् मुखे । आपादतल चूडा-अग्रम् सन्तापयति सन्ततम् ॥ ३३।२५ ॥
jvalan mahā-agnau viśva-arciḥ-jvālā-ante viśvatas mukhe . āpādatala cūḍā-agram santāpayati santatam .. 33.25 ..
शिखा तत्र च पीताभा तन्वी नीवारशूकवथ् । मध्ये शिखायास्तस्याश्च ज्योतिः प्रज्वलितं महथ् ॥ ३३.२६ ॥
शिखा तत्र च पीत-आभा तन्वी । मध्ये शिखायाः तस्याः च ज्योतिः प्रज्वलितम् ॥ ३३।२६ ॥
śikhā tatra ca pīta-ābhā tanvī . madhye śikhāyāḥ tasyāḥ ca jyotiḥ prajvalitam .. 33.26 ..
स्वसंकल्पविशेषेण तप्तजांबूनदप्रभः । पीतांबरधरस्स्ॐयस्सुप्रसन्नश्शुचिस्मितः ॥ ३३.२७ ॥
स्व-संकल्प-विशेषेण तप्त-जांबूनद-प्रभः । पीत-अंबर-धरः सोंयः सु प्रसन्नः शुचि-स्मितः ॥ ३३।२७ ॥
sva-saṃkalpa-viśeṣeṇa tapta-jāṃbūnada-prabhaḥ . pīta-aṃbara-dharaḥ soṃyaḥ su prasannaḥ śuci-smitaḥ .. 33.27 ..
पद्माक्षो रक्तनेत्रास्यपाणिपादश्चतुर्भुजः । चक्रशङ्खाभयधरः कटिन्यस्तान्यहस्तकः ॥ ३३.२८ ॥
padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ | cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ || 33.28 ||
padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ | cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ || 33.28 ||
श्रीवत्सांको महाबाहुस्सर्वाभरणभूषितः । हृदि तिष्ठति सर्वात्मा श्रीभूमिभ्यां च पार्षदैः ॥ ३३.२९ ॥
श्रीवत्स-अंकः महा-बाहुः सर्व-आभरण-भूषितः । हृदि तिष्ठति सर्वात्मा श्री-भूमिभ्याम् च पार्षदैः ॥ ३३।२९ ॥
śrīvatsa-aṃkaḥ mahā-bāhuḥ sarva-ābharaṇa-bhūṣitaḥ . hṛdi tiṣṭhati sarvātmā śrī-bhūmibhyām ca pārṣadaiḥ .. 33.29 ..
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । अन्तर्यामीति विज्ञेयस्सर्वकारणकारणः ॥ ३३.३० ॥
भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया । अन्तर्यामी इति विज्ञेयः सर्व-कारण-कारणः ॥ ३३।३० ॥
bhrāmayan sarva-bhūtāni yantra-ārūḍhāni māyayā . antaryāmī iti vijñeyaḥ sarva-kāraṇa-kāraṇaḥ .. 33.30 ..
अन्यदर्चास्वरूपं तु सर्वोत्तरफलप्रदं । नित्यमुक्तोपभोग्यत्वात्परव्यूहात्मनोहरेः ॥ ३३.३१ ॥
अन्यत् अर्चा-स्वरूपम् तु सर्व-उत्तर-फल-प्रदम् । नित्य-मुक्त-उपभोग्य-त्वात् पर-व्यूह-आत्मनः हरेः ॥ ३३।३१ ॥
anyat arcā-svarūpam tu sarva-uttara-phala-pradam . nitya-mukta-upabhogya-tvāt para-vyūha-ātmanaḥ hareḥ .. 33.31 ..
तत्कालसन्निकृष्टैकलक्ष्यत्वाद्विभवात्मनः । विशुद्धैर्योगसंसिद्धैश्चिन्त्यत्वादन्तरात्मनः ॥ ३३.३२ ॥
तद्-काल-सन्निकृष्ट-एक-लक्ष्य-त्वात् विभव-आत्मनः । विशुद्धैः योग-संसिद्धैः चिन्त्य-त्वात् अन्तरात्मनः ॥ ३३।३२ ॥
tad-kāla-sannikṛṣṭa-eka-lakṣya-tvāt vibhava-ātmanaḥ . viśuddhaiḥ yoga-saṃsiddhaiḥ cintya-tvāt antarātmanaḥ .. 33.32 ..
अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुशः । विशेषभक्तिहेतुत्वात्प्रतिमाराधनं परं ॥ ३३.३३ ॥
अर्चा-आत्मनि एव सर्वेषाम् अधिकारः निरङ्कुशः । विशेष-भक्ति-हेतु-त्वात् प्रतिमा-आराधनम् परम् ॥ ३३।३३ ॥
arcā-ātmani eva sarveṣām adhikāraḥ niraṅkuśaḥ . viśeṣa-bhakti-hetu-tvāt pratimā-ārādhanam param .. 33.33 ..
अर्चावतारस्सर्वेषां बान्धवो भक्तवत्सलः । अर्चावतारविषये मयाप्युद्देशतस्तथा ॥ ३३.३४ ॥
अर्चा-अवतारः सर्वेषाम् बान्धवः भक्त-वत्सलः । अर्चा-अवतार-विषये मया अपि उद्देशतः तथा ॥ ३३।३४ ॥
arcā-avatāraḥ sarveṣām bāndhavaḥ bhakta-vatsalaḥ . arcā-avatāra-viṣaye mayā api uddeśataḥ tathā .. 33.34 ..
उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । विचित्रा देहसंपत्तिरीश्वराय निवेदितुं ॥ ३३.३५ ॥
उक्ताः गुणाः न शक्यन्ते वक्तुम् वर्ष-शतैः अपि । विचित्रा देह-संपत्तिः ईश्वराय निवेदितुम् ॥ ३३।३५ ॥
uktāḥ guṇāḥ na śakyante vaktum varṣa-śataiḥ api . vicitrā deha-saṃpattiḥ īśvarāya niveditum .. 33.35 ..
कल्पिता ब्रह्मणा पूर्वं हस्तपादादिसंयुता । मुधैव जिह्वा कृष्णेति केशवेति न वक्ष्यति ॥ ३३.३६ ॥
कल्पिता ब्रह्मणा पूर्वम् हस्त-पाद-आदि-संयुता । मुधा एव जिह्वा कृष्णा इति केशव इति न वक्ष्यति ॥ ३३।३६ ॥
kalpitā brahmaṇā pūrvam hasta-pāda-ādi-saṃyutā . mudhā eva jihvā kṛṣṇā iti keśava iti na vakṣyati .. 33.36 ..
मुधा चित्तं नतद्गामि यदन्यत्किमितोऽधिकं । सा जिह्वा या हरिं स्तौति तच्चित्तं केशवार्पितं ॥ ३३.३७ ॥
मुधा चित्तम् नतत्-गामि यत् अन्यत् किम् इतस् अधिकम् । सा जिह्वा या हरिम् स्तौति तत् चित्तम् केशव-अर्पितम् ॥ ३३।३७ ॥
mudhā cittam natat-gāmi yat anyat kim itas adhikam . sā jihvā yā harim stauti tat cittam keśava-arpitam .. 33.37 ..
तत्कर्मचार्चनं तस्य तदन्यत्तु निरर्थकं । सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणं ॥ ३३.३८ ॥
तद्-कर्म च अर्चनम् तस्य तद्-अन्यत् तु निरर्थकम् । सत्ता-मात्रम् परम् ब्रह्म विष्णु-आख्यम् अ विशेषणम् ॥ ३३।३८ ॥
tad-karma ca arcanam tasya tad-anyat tu nirarthakam . sattā-mātram param brahma viṣṇu-ākhyam a viśeṣaṇam .. 33.38 ..
दुर्विचिन्त्यं यतःपूर्वं तत्प्राप्त्यर्थमिहोच्यते । वातोर्मिचञ्चलं चित्तमनालंबनमस्थिरं ॥ ३३.३९ ॥
दुर्विचिन्त्यम् यतस् पूर्वम् तद्-प्राप्ति-अर्थम् इह उच्यते । वात-ऊर्मि-चञ्चलम् चित्तम् अनालंबनम् अस्थिरम् ॥ ३३।३९ ॥
durvicintyam yatas pūrvam tad-prāpti-artham iha ucyate . vāta-ūrmi-cañcalam cittam anālaṃbanam asthiram .. 33.39 ..
सूक्ष्मत्वाद्ब्रह्मणोऽजस्य निग्राह्यं ग्राह्मधर्मणः । सम्यगभ्यस्यतोऽजस्रमुपबृंहितशक्तिमथ् ॥ ३३.४० ॥
सूक्ष्म-त्वात् ब्रह्मणः अजस्य निग्राह्यम् ग्राह्म-धर्मणः । सम्यक् अभ्यस्यतः अजस्रम् उपबृंहित-शक्तिमथ् ॥ ३३।४० ॥
sūkṣma-tvāt brahmaṇaḥ ajasya nigrāhyam grāhma-dharmaṇaḥ . samyak abhyasyataḥ ajasram upabṛṃhita-śaktimath .. 33.40 ..
जन्मान्तरशतस्यापि ब्रह्मग्राह्येव जायते । यद्यस्तरायदोषेण नापकर्षो विचिन्त्यते ॥ ३३.४१ ॥
जन्मान्तर-शतस्य अपि ब्रह्म-ग्राही एव जायते । यदि अस्तराय-दोषेण ना अपकर्षः विचिन्त्यते ॥ ३३।४१ ॥
janmāntara-śatasya api brahma-grāhī eva jāyate . yadi astarāya-doṣeṇa nā apakarṣaḥ vicintyate .. 33.41 ..
योगिनो योगरूढस्य तालाग्रात्पतनं यथा । तदाप्नोति परं ब्रह्मक्लेशेन महतापि च ॥ ३३.४२ ॥
योगिनः योग-रूढस्य ताल-अग्रात् पतनम् यथा । तत् आप्नोति परम् ब्रह्म-क्लेशेन महता अपि च ॥ ३३।४२ ॥
yoginaḥ yoga-rūḍhasya tāla-agrāt patanam yathā . tat āpnoti param brahma-kleśena mahatā api ca .. 33.42 ..
जन्मान्तराभ्यासोद्धेन विज्ञानेन समाधिना । विष्ण्वाख्यं ब्रह्मदुष्प्रापं विषयाक्रान्तचेतसा ॥ ३३.४३ ॥
विज्ञानेन समाधिना । विष्णु-आख्यम् ब्रह्म-दुष्प्रापम् विषय-आक्रान्त-चेतसा ॥ ३३।४३ ॥
vijñānena samādhinā . viṣṇu-ākhyam brahma-duṣprāpam viṣaya-ākrānta-cetasā .. 33.43 ..
मनुष्येणाल्पसारेण तत्प्राप्तौ साधनं त्विदं । सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणां ॥ ३३.४४ ॥
मनुष्येण अल्प-सारेण तद्-प्राप्तौ साधनम् तु इदम् । सुरूपाम् प्रतिमाम् विष्णोः प्रसन्न-वदन-ईक्षणाम् ॥ ३३।४४ ॥
manuṣyeṇa alpa-sāreṇa tad-prāptau sādhanam tu idam . surūpām pratimām viṣṇoḥ prasanna-vadana-īkṣaṇām .. 33.44 ..
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः । तामर्चयेत्तां व्रणमेत्तां नमेत्तां विचिन्तयेथ् ॥ ३३.४५ ॥
कृत्वा आत्मनः प्रीति-करीम् सुवर्ण-रजत-आदिभिः । ताम् अर्चयेत् ताम् व्रणमेत् ताम् नमेत् ताम् विचिन्तयेथ् ॥ ३३।४५ ॥
kṛtvā ātmanaḥ prīti-karīm suvarṇa-rajata-ādibhiḥ . tām arcayet tām vraṇamet tām namet tām vicintayeth .. 33.45 ..
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीं ॥ ३३.४६ ॥
विशति अपास्त-दोषः तु ताम् एव ब्रह्म-रूपिणीम् ॥ ३३।४६ ॥
viśati apāsta-doṣaḥ tu tām eva brahma-rūpiṇīm .. 33.46 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे त्रयस्त्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् सहितायाम् प्रकीर्ण-अधिकारे त्रयस्त्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām sahitāyām prakīrṇa-adhikāre trayastriṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In