| |
|

This overlay will guide you through the buttons:

अथत्रयोविंशोऽध्यायः.
अथ त्रयोविंशः अध्यायः।
atha trayoviṃśaḥ adhyāyaḥ.
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनं । सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ॥ २३.१ ॥
अतस् परम् प्रवक्ष्यामि पूर्व-उद्दिष्टम् सुदर्शनम् । सुदर्शनस्य च उद्दिष्टम् प्रमाणम् च विशेषुः ॥ २३।१ ॥
atas param pravakṣyāmi pūrva-uddiṣṭam sudarśanam . sudarśanasya ca uddiṣṭam pramāṇam ca viśeṣuḥ .. 23.1 ..
महाबेरस्य मानेन नवाङ्गुलमिति स्मृतं । तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलं ॥ २३.२ ॥
महाबेरस्य मानेन नव-अङ्गुलम् इति स्मृतम् । तस्य वृत्तम् समुद्दिष्टम् अराः च एव तु ॥ २३।२ ॥
mahāberasya mānena nava-aṅgulam iti smṛtam . tasya vṛttam samuddiṣṭam arāḥ ca eva tu .. 23.2 ..
वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतं । तन्मध्ये चारकूटं स्यादेकांगुलमुदाहृतं ॥ २३.३ ॥
वृत्तम् पट्टस्य विस्तारम् एक-अङ्गुलम् उदाहृतम् । तद्-मध्ये चारकूटम् स्यात् एक-अंगुलम् उदाहृतम् ॥ २३।३ ॥
vṛttam paṭṭasya vistāram eka-aṅgulam udāhṛtam . tad-madhye cārakūṭam syāt eka-aṃgulam udāhṛtam .. 23.3 ..
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा । अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकं ॥ २३.४ ॥
अराः द्वादश उद्दिष्टाः एतत् चक्रस्य वै तथा । अधमम् मार्गम् आलोक्य प्रोक्तम् एतत् प्रमाणकम् ॥ २३।४ ॥
arāḥ dvādaśa uddiṣṭāḥ etat cakrasya vai tathā . adhamam mārgam ālokya proktam etat pramāṇakam .. 23.4 ..
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादराथ् । महाबेरस्य हस्तेन द्वादशांगुलमुच्यते ॥ २३.५ ॥
तत्र मध्यम् प्रमाणम् तु वक्ष्यामि श्रुणुत आदराथ् । महाबेरस्य हस्तेन द्वादश-अंगुलम् उच्यते ॥ २३।५ ॥
tatra madhyam pramāṇam tu vakṣyāmi śruṇuta ādarāth . mahāberasya hastena dvādaśa-aṃgulam ucyate .. 23.5 ..
तद्वृत्तं तस्य हस्तेन द्वादशांगुलमुच्यते । वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलं ॥ २३.६ ॥
तत् वृत्तम् तस्य हस्तेन द्वादश-अंगुलम् उच्यते । वृत्तम् तस्य समुद्दिष्टम् आरकूटम् ॥ २३।६ ॥
tat vṛttam tasya hastena dvādaśa-aṃgulam ucyate . vṛttam tasya samuddiṣṭam ārakūṭam .. 23.6 ..
वृत्तपट्टस्य विस्तारमेकांगुलमुदाहृतं । अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ॥ २३.७ ॥
वृत्त-पट्टस्य विस्तारम् एक-अंगुलम् उदाहृतम् । अष्टौ च चतुर्-अङ्गुल्या? दुद्दिष्टाः च समासतस् ॥ २३।७ ॥
vṛtta-paṭṭasya vistāram eka-aṃgulam udāhṛtam . aṣṭau ca catur-aṅgulyā? duddiṣṭāḥ ca samāsatas .. 23.7 ..
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे । कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेथ् ॥ २३.८ ॥
अराः षोडश उद्दिष्टाः चक्रस्य एव तु मध्यमे । कूर्मम् वा अपि अथ सिंहम् वा पद्मम् वा अपि अथ ॥ २३।८ ॥
arāḥ ṣoḍaśa uddiṣṭāḥ cakrasya eva tu madhyame . kūrmam vā api atha siṃham vā padmam vā api atha .. 23.8 ..
अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतं । उभयोः पादयोश्चैव सिंहेनैव तु कारयेथ् ॥ २३.९ ॥
अधस्तात् योग-दण्डम् च एक-अङ्गुलम् उदाहृतम् । उभयोः पादयोः च एव सिंहेन एव तु ॥ २३।९ ॥
adhastāt yoga-daṇḍam ca eka-aṅgulam udāhṛtam . ubhayoḥ pādayoḥ ca eva siṃhena eva tu .. 23.9 ..
आयसेनैव वा कुर्याद्दारुणा वा तथैव च । सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते ॥ २३.१० ॥
आयसेन एव वा कुर्यात् दारुणा वा तथा एव च । सर्वत्र सुंदरम् कुर्यात् स जानन? विधीयते ॥ २३।१० ॥
āyasena eva vā kuryāt dāruṇā vā tathā eva ca . sarvatra suṃdaram kuryāt sa jānana? vidhīyate .. 23.10 ..
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः । मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ॥ २३.११ ॥
एतत् लक्षणम् उद्गिष्टम् चक्रस्य एव प्रमाणतः । मधूच्छिष्टेन विधिना कुर्यात् वै तत्र तत्र तु ॥ २३।११ ॥
etat lakṣaṇam udgiṣṭam cakrasya eva pramāṇataḥ . madhūcchiṣṭena vidhinā kuryāt vai tatra tatra tu .. 23.11 ..
विदध्याद्देव देवस्य हेति प्रवरमुत्तमं । प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ॥ २३.१२ ॥
विदध्यात् देव देवस्य ह इति प्रवरम् उत्तमम् । प्रमाणम् च तु सर्वत्र तत् त्रि-भागम् विशेषतः ॥ २३।१२ ॥
vidadhyāt deva devasya ha iti pravaram uttamam . pramāṇam ca tu sarvatra tat tri-bhāgam viśeṣataḥ .. 23.12 ..
स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः । अथातस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमं ॥ २३.१३ ॥
स्थापनाम् मूर्ति-मन्त्रम् च चक्रस्य श्रुणुत ऋषयः । अथ अतस् संप्रवक्ष्यामि वैष्णवम् चक्रम् उत्तमम् ॥ २३।१३ ॥
sthāpanām mūrti-mantram ca cakrasya śruṇuta ṛṣayaḥ . atha atas saṃpravakṣyāmi vaiṣṇavam cakram uttamam .. 23.13 ..
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना । कालचक्रं वीरचक्रं सहस्रविकचं क्रमाथ् ॥ २३.१४ ॥
त्रिविधम् चक्रम् उद्दिष्टम् ब्रह्मणा परम-इषिना । कालचक्रम् वीरचक्रम् सहस्रविकचम् ॥ २३।१४ ॥
trividham cakram uddiṣṭam brahmaṇā parama-iṣinā . kālacakram vīracakram sahasravikacam .. 23.14 ..
करोद्धृतं वीरचक्रं देवस्य मुखमानतः । सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ॥ २३.१५ ॥
कर-उद्धृतम् वीर-चक्रम् देवस्य मुख-मानतः । सर्व-अजिनाम् समूहन्त बजम् ख-त्रयम् अन्ततस्? ॥ २३।१५ ॥
kara-uddhṛtam vīra-cakram devasya mukha-mānataḥ . sarva-ajinām samūhanta bajam kha-trayam antatas? .. 23.15 ..
देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितं । ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेथ् ॥ २३.१६ ॥
देवस्य मुख-मानम् स्यात् द्वादश-अष्ट-आर-चिह्नितम् । ज्वाला-पञ्चक-संयुक्तम् कर-अग्रे दक्षिणे चरेथ् ॥ २३।१६ ॥
devasya mukha-mānam syāt dvādaśa-aṣṭa-āra-cihnitam . jvālā-pañcaka-saṃyuktam kara-agre dakṣiṇe careth .. 23.16 ..
मयं महीमयं दिव्यमष्टारं द्वादशारकं । एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ॥ २३.१७ ॥
मयम् मही-मयम् दिव्यम् अष्ट-अरम् द्वादश-अरकम् । एभिः मन्त्रैः समभ्यर्च्य रक्षा-अर्थम् मोक्ष-शान्तये ॥ २३।१७ ॥
mayam mahī-mayam divyam aṣṭa-aram dvādaśa-arakam . ebhiḥ mantraiḥ samabhyarcya rakṣā-artham mokṣa-śāntaye .. 23.17 ..
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदं । ध्रुवबेरमुखायामं द्विगुणायामविस्तृतं ॥ २३.१८ ॥
कालचक्रम् प्रवक्ष्यामि औत्सवम् सर्व-शान्ति-दम् । ध्रुव-बेर-मुख-आयामम् द्विगुण-आयाम-विस्तृतम् ॥ २३।१८ ॥
kālacakram pravakṣyāmi autsavam sarva-śānti-dam . dhruva-bera-mukha-āyāmam dviguṇa-āyāma-vistṛtam .. 23.18 ..
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकं । वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतं ॥ २३.१९ ॥
वृत्तम् च षड्गुणम् प्रोक्तम् क्षत-अन्तम् तत् सु वृत्तकम् । वृत्तस्य पट्ट-विस्तारम् त्रियङ्गुलम् इति स्मृतम् ॥ २३।१९ ॥
vṛttam ca ṣaḍguṇam proktam kṣata-antam tat su vṛttakam . vṛttasya paṭṭa-vistāram triyaṅgulam iti smṛtam .. 23.19 ..
षडङ्गुलसमायाममारकूटं तु त्षङ्गुलं । यवा कारकरा ज्ञेया उभयत्र प्रवेशता ॥ २३.२० ॥
षष्-अङ्गुल-समायामम् आरकूटम् तु । उभयत्र ॥ २३।२० ॥
ṣaṣ-aṅgula-samāyāmam ārakūṭam tu . ubhayatra .. 23.20 ..
अरकूटेऽथ सिंहं वा मकरं वाथ पद्मकं । ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ॥ २३.२१ ॥
अरकूटे अथ सिंहम् वा मकरम् वा अथ पद्मकम् । ज्वाला-त्रिकम् वा कर्तव्यम् ज्वाला-पञ्जकम् एव वा ॥ २३।२१ ॥
arakūṭe atha siṃham vā makaram vā atha padmakam . jvālā-trikam vā kartavyam jvālā-pañjakam eva vā .. 23.21 ..
शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेथ् । चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतं ॥ २३.२२ ॥
शत-अष्ट-आरम् निंशतिम् वै उत्तमे सम्यक् आचरेथ् । चतुष्पञ्च-द्विपञ्चाशत् मध्यमे समुदाहृतम् ॥ २३।२२ ॥
śata-aṣṭa-āram niṃśatim vai uttame samyak ācareth . catuṣpañca-dvipañcāśat madhyame samudāhṛtam .. 23.22 ..
द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेथ् । एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेथ् ॥ २३.२३ ॥
द्वात्रिंशत् वा चतुर्विंशत् अधमे संप्रयोजयेथ् । एवम् उत्सव-अर्थम् ॥ २३।२३ ॥
dvātriṃśat vā caturviṃśat adhame saṃprayojayeth . evam utsava-artham .. 23.23 ..
चक्राधस्तात्तथा नालं द्वादशांगुलमाचरेथ् । चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेथ् ॥ २३.२४ ॥
चक्र-अधस्तात् तथा नालम् द्वादश-अंगुलम् आचरेथ् । चक्र-द्विगुण-दण्डम् तु खदिरम् च आसनम् ॥ २३।२४ ॥
cakra-adhastāt tathā nālam dvādaśa-aṃgulam ācareth . cakra-dviguṇa-daṇḍam tu khadiram ca āsanam .. 23.24 ..
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनं । षडङ्गुलायतविस्तारां फलकां संप्रकल्पयेथ् ॥ २३.२५ ॥
याज्ञिकैः अथ वा वृक्षैः कारयेत् अत्र शासनम् । षष्-अङ्गुल-आयत-विस्ताराम् फलकाम् ॥ २३।२५ ॥
yājñikaiḥ atha vā vṛkṣaiḥ kārayet atra śāsanam . ṣaṣ-aṅgula-āyata-vistārām phalakām .. 23.25 ..
वृत्तं वा चतुरश्रं वा लंबदामसमायुतं । त्रियङ्गुलसमुत्सेधं संधयेत्तरिकोपरि ॥ २३.२६ ॥
वृत्तम् वा चतुरश्रम् वा लंब-दाम-समायुतम् । त्रियङ्गुल-समुत्सेधम् संधयेत् तरिका-उपरि ॥ २३।२६ ॥
vṛttam vā caturaśram vā laṃba-dāma-samāyutam . triyaṅgula-samutsedham saṃdhayet tarikā-upari .. 23.26 ..
तदधस्तात्तु ताटिं च कुंभलंबकसंयुतं । अष्टांगुलसमुत्सेथं कारयेदिति शासनं ॥ २३.२७ ॥
तद्-अधस्तात् तु ताटिम् च कुंभ-लंबक-संयुतम् । अष्ट-अंगुल-समुत्सेथम् कारयेत् इति शासनम् ॥ २३।२७ ॥
tad-adhastāt tu tāṭim ca kuṃbha-laṃbaka-saṃyutam . aṣṭa-aṃgula-samutsetham kārayet iti śāsanam .. 23.27 ..
अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा । कूरदण्डेन संयोज्य फलकोफलपद्मकं ॥ २३.२८ ॥
अन्तर् सुषिरसम् कृत्वा?दण्ड-अग्रे च अधस् एव वा । कूर-दण्डेन संयोज्य ॥ २३।२८ ॥
antar suṣirasam kṛtvā?daṇḍa-agre ca adhas eva vā . kūra-daṇḍena saṃyojya .. 23.28 ..
लता प्रस्थतरं वापि कारयेदिति शासनं । पद्मं तु त्षङ्गुनायामं विस्तारमधिकांगुलं ॥ २३.२९ ॥
लता प्रस्थतरम् वा अपि कारयेत् इति शासनम् । पद्मम् तु त्षङ्गुना आयामम् विस्तारम् अधिक-अङ्गुलम् ॥ २३।२९ ॥
latā prasthataram vā api kārayet iti śāsanam . padmam tu tṣaṅgunā āyāmam vistāram adhika-aṅgulam .. 23.29 ..
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेथ् । चक्रं संवहमानौ तौ यावत्तत्र च कालयेथ् ॥ २३.३० ॥
पालिका-उपरि सिंहौ द्वौ उभयोः पार्श्वयोः । चक्रम् संवहमानौ तौ यावत् तत्र च ॥ २३।३० ॥
pālikā-upari siṃhau dvau ubhayoḥ pārśvayoḥ . cakram saṃvahamānau tau yāvat tatra ca .. 23.30 ..
तयोर्मानं समुद्दिष्टं पञ्चांगुलमिति स्मृतं । दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलं ॥ २३.३१ ॥
तयोः मानम् समुद्दिष्टम् पञ्च-अंगुलम् इति स्मृतम् । दण्ड-मध्येन कुर्यात् तद्-दण्ड-मूले षष्-अङ्गुलम् ॥ २३।३१ ॥
tayoḥ mānam samuddiṣṭam pañca-aṃgulam iti smṛtam . daṇḍa-madhyena kuryāt tad-daṇḍa-mūle ṣaṣ-aṅgulam .. 23.31 ..
पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा । वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ॥ २३.३२ ॥
पीठम् षष्-अङ्गुल-उत्सेधम् चतुर्-अङ्गुलम् एव वा । वृत्तम् वा चतुरश्रम् वा सरोज-दल-कर्ण-युज् ॥ २३।३२ ॥
pīṭham ṣaṣ-aṅgula-utsedham catur-aṅgulam eva vā . vṛttam vā caturaśram vā saroja-dala-karṇa-yuj .. 23.32 ..
षाढशांगुलमायामं विस्तारं संप्रकीर्तितं । कर्णिकामध्यमे नालमष्टांगुल समायुतं ॥ २३.३३ ॥
षाढश-अंगुलम् आयामम् विस्तारम् संप्रकीर्तितम् । कर्णिका-मध्यमे नालम् अष्ट-अङ्गुल-समायुतम् ॥ २३।३३ ॥
ṣāḍhaśa-aṃgulam āyāmam vistāram saṃprakīrtitam . karṇikā-madhyame nālam aṣṭa-aṅgula-samāyutam .. 23.33 ..
नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः । हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतं ॥ २३.३४ ॥
नाल-दण्डेन संयोज्य बन्धयेत् अष्ट-बन्धनैः । हार-वत् सु दृढम् कुर्यात् अवक्रम् ऋजु-संयुतम् ॥ २३।३४ ॥
nāla-daṇḍena saṃyojya bandhayet aṣṭa-bandhanaiḥ . hāra-vat su dṛḍham kuryāt avakram ṛju-saṃyutam .. 23.34 ..
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेथ् । सहस्रविकचं चक्रं पुरुषाकारमाचरेथ् ॥ २३.३५ ॥
एवम् कृत्वा यथामार्गम् स्थापनम् सम्यक् आचरेथ् । सहस्र-विकचम् चक्रम् पुरुष-आकारम् आचरेथ् ॥ २३।३५ ॥
evam kṛtvā yathāmārgam sthāpanam samyak ācareth . sahasra-vikacam cakram puruṣa-ākāram ācareth .. 23.35 ..
रक्ताभं नीलवर्णं च नवतालेन मानतः । द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेथ् ॥ २३.३६ ॥
रक्त-आभम् नील-वर्णम् च नव-तालेन मानतः । द्वि-भुजम् मुकुट-उद्बन्धम् चक्रचूलिनम् आचरेथ् ॥ २३।३६ ॥
rakta-ābham nīla-varṇam ca nava-tālena mānataḥ . dvi-bhujam mukuṭa-udbandham cakracūlinam ācareth .. 23.36 ..
सुदर्शनं तथा चक्रं सहस्रविकचं तथा । अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेथ् ॥ २३.३७ ॥
सुदर्शनम् तथा चक्रम् सहस्रविकचम् तथा । अनपायिनम् इति एवम् मूर्ति-मन्त्रैः समर्चयेथ् ॥ २३।३७ ॥
sudarśanam tathā cakram sahasravikacam tathā . anapāyinam iti evam mūrti-mantraiḥ samarcayeth .. 23.37 ..
शतधारं कालचक्रं सर्वासुरविमर्दनं । सर्वविघ्नहरं चेति कालचक्रं समर्चयेथ् ॥ २३.३८ ॥
शत-धारम् कालचक्रम् सर्व-असुर-विमर्दनम् । सर्व-विघ्न-हरम् च इति कालचक्रम् ॥ २३।३८ ॥
śata-dhāram kālacakram sarva-asura-vimardanam . sarva-vighna-haram ca iti kālacakram .. 23.38 ..
कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनं । षट्ट्रिंशदङ्गुलं वापि षट्पञ्चाशच्छताष्टकं ॥ २३.३९ ॥
कालचक्रम् प्रवक्ष्यामि सर्व-असुर-विनाशनम् । षट्ट्रिंशत्-अङ्गुलम् वा अपि षट्पञ्चाशत्-शत-अष्टकम् ॥ २३।३९ ॥
kālacakram pravakṣyāmi sarva-asura-vināśanam . ṣaṭṭriṃśat-aṅgulam vā api ṣaṭpañcāśat-śata-aṣṭakam .. 23.39 ..
विस्तारायामतोमानमुत्तमाधममध्यमं । मानांगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेथ् ॥ २३.४० ॥
विस्तार-आयाम-तोमानम् उत्तम-अधम-मध्यमम् । मान-अंगुलेन तत् ग्राह्यम् तक्षकम् वर्तुलम् ॥ २३।४० ॥
vistāra-āyāma-tomānam uttama-adhama-madhyamam . māna-aṃgulena tat grāhyam takṣakam vartulam .. 23.40 ..
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा । अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ॥ २३.४१ ॥
सहस्रारौ अष्टशतम् त्रिशतम् षष्टिम् एव वा । अराः क्रमेण संयुक्ताः उत्तम-अधम-मध्यमाः ॥ २३।४१ ॥
sahasrārau aṣṭaśatam triśatam ṣaṣṭim eva vā . arāḥ krameṇa saṃyuktāḥ uttama-adhama-madhyamāḥ .. 23.41 ..
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा । दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतं ॥ २३.४२ ॥
चतुर्विंशत् तथा ज्वालाः षोडश द्वादशा अथ वा । दश-सप्त-अङ्गुलम् पञ्च वृत्तम् पट्टस्य संयुतम् ॥ २३।४२ ॥
caturviṃśat tathā jvālāḥ ṣoḍaśa dvādaśā atha vā . daśa-sapta-aṅgulam pañca vṛttam paṭṭasya saṃyutam .. 23.42 ..
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेथ् । दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेथ् ॥ २३.४३ ॥
भागम् पीठम् पद्मकम् आचरेथ् । दण्ड-आदीनि विना तस्य पद्मम् पीठस्य अयोजयेथ् ॥ २३।४३ ॥
bhāgam pīṭham padmakam ācareth . daṇḍa-ādīni vinā tasya padmam pīṭhasya ayojayeth .. 23.43 ..
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनं । चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ॥ २३.४४ ॥
एतत् उक्तम् महत् चक्रम् सर्व-अरिष्ट-विनाशनम् । चक्रस्य स्थापनम् मार्गम् प्रवक्ष्यामि तपोधनाः ॥ २३।४४ ॥
etat uktam mahat cakram sarva-ariṣṭa-vināśanam . cakrasya sthāpanam mārgam pravakṣyāmi tapodhanāḥ .. 23.44 ..
अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनं । तथाधिवासनं कृत्वा गव्यानामधिवासनं ॥ २३.४५ ॥
अङ्कुरान् अर्पयित्वा तु कारयेत् अक्षि-मोचनम् । तथा अधिवासनम् कृत्वा गव्यानाम् अधिवासनम् ॥ २३।४५ ॥
aṅkurān arpayitvā tu kārayet akṣi-mocanam . tathā adhivāsanam kṛtvā gavyānām adhivāsanam .. 23.45 ..
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितं । शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतं ॥ २३.४६ ॥
याग-शालाम् तथा कृत्वा भूषयेत् तोरण-अन्वितम् । शय्या-वेदिम् च तद्-मध्ये च अध्यर्ध-आयाम-विस्तृतम् ॥ २३।४६ ॥
yāga-śālām tathā kṛtvā bhūṣayet toraṇa-anvitam . śayyā-vedim ca tad-madhye ca adhyardha-āyāma-vistṛtam .. 23.46 ..
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकं । प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवथ् ॥ २३.४७ ॥
तद्-तुर्य-अंश-उदयाम् वेदिम् कृत्वा ताम् चतुरश्रकम् । प्राच्याम् आहवनीयम् च कुण्डम् औपासन-अग्नि-वथ् ॥ २३।४७ ॥
tad-turya-aṃśa-udayām vedim kṛtvā tām caturaśrakam . prācyām āhavanīyam ca kuṇḍam aupāsana-agni-vath .. 23.47 ..
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः । अथाधिवासितं चक्रमादायेवाभिषिच्य च ॥ २३.४८ ॥
प्राच्याम् तु स्नान-वेदिम् च विचक्षणः । अथ अधिवासितम् चक्रम् आदाय इव अभिषिच्य च ॥ २३।४८ ॥
prācyām tu snāna-vedim ca vicakṣaṇaḥ . atha adhivāsitam cakram ādāya iva abhiṣicya ca .. 23.48 ..
अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः । चक्रस्याभिमुखे कुंभं धान्यपीठोपरिक्रमाथ् ॥ २३.४९ ॥
अग्निम् संसाध्य पूर्व-उक्तम् कुंभम् संसाथयेत् पुनर् । चक्रस्य अभिमुखे कुंभम् ॥ २३।४९ ॥
agnim saṃsādhya pūrva-uktam kuṃbham saṃsāthayet punar . cakrasya abhimukhe kuṃbham .. 23.49 ..
सन्न्यस्य तु गुरुर्धीमान्यदितं भावयेत्तथा । ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ॥ २३.५० ॥
सन्न्यस्य तु गुरुः धीमान् यत् इतम् भावयेत् तथा । ग्रामम् प्रदक्षिणम् कृत्वा शालायाम् स्थापयेत् तथा ॥ २३।५० ॥
sannyasya tu guruḥ dhīmān yat itam bhāvayet tathā . grāmam pradakṣiṇam kṛtvā śālāyām sthāpayet tathā .. 23.50 ..
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांजलीकृतं । रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक्प्रपूर्य च ॥ २३.५१ ॥
हृद्-पद्म-मध्ये चक्र-ईशम् द्वि-भुजम् प्रांजलीकृतम् । रक्त-आभम् कृत-वस्त्र-आभम् ध्यात्वा सम्यक् प्रपूर्य च ॥ २३।५१ ॥
hṛd-padma-madhye cakra-īśam dvi-bhujam prāṃjalīkṛtam . rakta-ābham kṛta-vastra-ābham dhyātvā samyak prapūrya ca .. 23.51 ..
तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च । वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ॥ २३.५२ ॥
तस्मात् कुंभे समावाह्य पूर्व-उक्तम् अभिपूज्य च । वेद्याम् संस्नाप्य तत् चक्रम् कलशैः स्नापयेत् तदा ॥ २३।५२ ॥
tasmāt kuṃbhe samāvāhya pūrva-uktam abhipūjya ca . vedyām saṃsnāpya tat cakram kalaśaiḥ snāpayet tadā .. 23.52 ..
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमाथ् । सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः ॥ २३.५३ ॥
स मल वक्त्र-आद्यैः धान्य-पीठ-उपरि क्रमाथ् । सन्न्यस्य कुंभम् संयुक्तम् बद्ध्वा प्रतिसरम् ततस् ॥ २३।५३ ॥
sa mala vaktra-ādyaiḥ dhānya-pīṭha-upari kramāth . sannyasya kuṃbham saṃyuktam baddhvā pratisaram tatas .. 23.53 ..
शाययित्वा तथा चक्रं हौत्रं सम्यक्प्रशंस्य च । चक्राङ्गान्यायधांगानि मूर्तिमन्त्रान्प्रचक्षते ॥ २३.५४ ॥
शाययित्वा तथा चक्रम् हौत्रम् सम्यक् प्रशंस्य च । मूर्ति-मन्त्रान् प्रचक्षते ॥ २३।५४ ॥
śāyayitvā tathā cakram hautram samyak praśaṃsya ca . mūrti-mantrān pracakṣate .. 23.54 ..
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः । भूमाननोऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतं ॥ २३.५५ ॥
पश्चात् अग्निम् परिस्तीर्य वैष्णवैः मन्त्र-संयुतैः । भूम-आननः अग्रे गायत्रि-संयुतम् ॥ २३।५५ ॥
paścāt agnim paristīrya vaiṣṇavaiḥ mantra-saṃyutaiḥ . bhūma-ānanaḥ agre gāyatri-saṃyutam .. 23.55 ..
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च । स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववथ् ॥ २३.५६ ॥
शतम् अष्ट-उत्तरम् हुत्वा रात्रि-शेषम् व्यपोह्य च । स्नात्वा प्रभाते पूर्व-उक्तम् चक्रम् आदाय ॥ २३।५६ ॥
śatam aṣṭa-uttaram hutvā rātri-śeṣam vyapohya ca . snātvā prabhāte pūrva-uktam cakram ādāya .. 23.56 ..
ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा । मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ॥ २३.५७ ॥
ग्रामम् प्रदक्षिणम् कृत्वा कुंभेन आसादयेत् तथा । मण्डपे दक्षिणे पार्श्वे कृत-पीठे विशेषतः ॥ २३।५७ ॥
grāmam pradakṣiṇam kṛtvā kuṃbhena āsādayet tathā . maṇḍape dakṣiṇe pārśve kṛta-pīṭhe viśeṣataḥ .. 23.57 ..
रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा । चक्रमन्त्रौ सुसन्न्यस्य बीजान्सन्न्यस्य पूर्ववथ् ॥ २३.५८ ॥
रत्नम् निक्षिप्य पूर्व-उक्त-मन्त्रेण स्थापयेत् तदा । चक्र-मन्त्रौ सु सन्न्यस्य बीजान् सन्न्यस्य ॥ २३।५८ ॥
ratnam nikṣipya pūrva-ukta-mantreṇa sthāpayet tadā . cakra-mantrau su sannyasya bījān sannyasya .. 23.58 ..
कुंभाच्छक्तिं तथावाह्य पूजयेदासनादिभिः । पायसाद्यैर्नि वैद्याथ गुरुं सम्यक्प्रपूजयेथ् ॥ २३.५९ ॥
कुंभात् शक्तिम् तथा आवाह्य पूजयेत् आसन-आदिभिः । पायस-आद्यैः नि वैद्य-अथ गुरुम् सम्यक् प्रपूजयेथ् ॥ २३।५९ ॥
kuṃbhāt śaktim tathā āvāhya pūjayet āsana-ādibhiḥ . pāyasa-ādyaiḥ ni vaidya-atha gurum samyak prapūjayeth .. 23.59 ..
इति श्रीवैखानसे
इति श्री-वैखानसे
iti śrī-vaikhānase
इति श्रीवैखानसेभगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
इति श्री-वैखानसे भगवच्छास्त्रे भृसु-प्रोक्तायाम् संहितायाम्
iti śrī-vaikhānase bhagavacchāstre bhṛsu-proktāyām saṃhitāyām
भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रयोविंशोऽध्यायः.
भगवत्-शास्त्रे भृसु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे त्रयोविंशः अध्यायः।
bhagavat-śāstre bhṛsu-proktāyām saṃhitāyām prakīrṇa-adhikāre trayoviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In