| |
|

This overlay will guide you through the buttons:

अथत्रयोविंशोऽध्यायः.
athatrayoviṃśo'dhyāyaḥ.
उत्सवचक्रम्
अतःपरं प्रवक्ष्यामि पूर्वोद्दिष्टं सुदर्शनं । सुदर्शनस्य चोद्दिष्टं प्रमाणं च विशेषुः ॥ २३.१ ॥
ataḥparaṃ pravakṣyāmi pūrvoddiṣṭaṃ sudarśanaṃ . sudarśanasya coddiṣṭaṃ pramāṇaṃ ca viśeṣuḥ .. 23.1 ..
महाबेरस्य मानेन नवाङ्गुलमिति स्मृतं । तस्य वृत्तं समुद्दिष्टमराश्चैव तु त्षङ्गुलं ॥ २३.२ ॥
mahāberasya mānena navāṅgulamiti smṛtaṃ . tasya vṛttaṃ samuddiṣṭamarāścaiva tu tṣaṅgulaṃ .. 23.2 ..
वृत्तं पट्टस्य विस्तारमेकाङ्गुलमुदाहृतं । तन्मध्ये चारकूटं स्यादेकांगुलमुदाहृतं ॥ २३.३ ॥
vṛttaṃ paṭṭasya vistāramekāṅgulamudāhṛtaṃ . tanmadhye cārakūṭaṃ syādekāṃgulamudāhṛtaṃ .. 23.3 ..
अरा द्वादश उद्दिष्टा एतच्चक्रस्य वै तथा । अधमं मार्गमालोक्य प्रोक्तमेतत्प्रमाणकं ॥ २३.४ ॥
arā dvādaśa uddiṣṭā etaccakrasya vai tathā . adhamaṃ mārgamālokya proktametatpramāṇakaṃ .. 23.4 ..
तत्र मध्यं प्रमाणन्तु वक्ष्यामि श्रुणुतादराथ् । महाबेरस्य हस्तेन द्वादशांगुलमुच्यते ॥ २३.५ ॥
tatra madhyaṃ pramāṇantu vakṣyāmi śruṇutādarāth . mahāberasya hastena dvādaśāṃgulamucyate .. 23.5 ..
तद्वृत्तं तस्य हस्तेन द्वादशांगुलमुच्यते । वृत्तं तस्य समुद्दिष्टमारकूटं द्वियङ्गुलं ॥ २३.६ ॥
tadvṛttaṃ tasya hastena dvādaśāṃgulamucyate . vṛttaṃ tasya samuddiṣṭamārakūṭaṃ dviyaṅgulaṃ .. 23.6 ..
वृत्तपट्टस्य विस्तारमेकांगुलमुदाहृतं । अष्टौ च चतुरङ्गुल्या? दुद्दिष्टाश्च समासतः ॥ २३.७ ॥
vṛttapaṭṭasya vistāramekāṃgulamudāhṛtaṃ . aṣṭau ca caturaṅgulyā? duddiṣṭāśca samāsataḥ .. 23.7 ..
अराष्षोडश उद्दिष्टाश्चक्रस्यैव तु मध्यमे । कूर्मं वाप्यथ सिंहं वा पद्मं वाप्यथ कालयेथ् ॥ २३.८ ॥
arāṣṣoḍaśa uddiṣṭāścakrasyaiva tu madhyame . kūrmaṃ vāpyatha siṃhaṃ vā padmaṃ vāpyatha kālayeth .. 23.8 ..
अधस्ताद्योगदण्डं च एकाङ्गुलमुदाहृतं । उभयोः पादयोश्चैव सिंहेनैव तु कारयेथ् ॥ २३.९ ॥
adhastādyogadaṇḍaṃ ca ekāṅgulamudāhṛtaṃ . ubhayoḥ pādayoścaiva siṃhenaiva tu kārayeth .. 23.9 ..
आयसेनैव वा कुर्याद्दारुणा वा तथैव च । सर्वत्र सुंदरं कुर्यात्सजानन? विधीयते ॥ २३.१० ॥
āyasenaiva vā kuryāddāruṇā vā tathaiva ca . sarvatra suṃdaraṃ kuryātsajānana? vidhīyate .. 23.10 ..
एतल्लक्षणमुद्गिष्टं चक्रस्यैव प्रमाणतः । मधूच्छिष्टेन विधिना कुर्याद्वै तत्र तत्र तु ॥ २३.११ ॥
etallakṣaṇamudgiṣṭaṃ cakrasyaiva pramāṇataḥ . madhūcchiṣṭena vidhinā kuryādvai tatra tatra tu .. 23.11 ..
विदध्याद्देव देवस्य हेति प्रवरमुत्तमं । प्रमाणं च तु सर्वत्र तत्त्रिभागं विशेषतः ॥ २३.१२ ॥
vidadhyāddeva devasya heti pravaramuttamaṃ . pramāṇaṃ ca tu sarvatra tattribhāgaṃ viśeṣataḥ .. 23.12 ..
स्थापनां मूर्तिमन्त्रं च चक्रस्य श्रुणुतर्षयः । अथातस्संप्रवक्ष्यामि वैष्णवं चक्रमुत्तमं ॥ २३.१३ ॥
sthāpanāṃ mūrtimantraṃ ca cakrasya śruṇutarṣayaḥ . athātassaṃpravakṣyāmi vaiṣṇavaṃ cakramuttamaṃ .. 23.13 ..
त्रिविधं चक्रमुद्दिष्टं ब्रह्मणा परमेषिना । कालचक्रं वीरचक्रं सहस्रविकचं क्रमाथ् ॥ २३.१४ ॥
trividhaṃ cakramuddiṣṭaṃ brahmaṇā parameṣinā . kālacakraṃ vīracakraṃ sahasravikacaṃ kramāth .. 23.14 ..
करोद्धृतं वीरचक्रं देवस्य मुखमानतः । सर्वाजिनां समूहन्त बजं खत्रयमन्ततः? ॥ २३.१५ ॥
karoddhṛtaṃ vīracakraṃ devasya mukhamānataḥ . sarvājināṃ samūhanta bajaṃ khatrayamantataḥ? .. 23.15 ..
देवस्य मुखमानं स्याद्द्वादशाष्टारचिह्नितं । ज्वालापञ्चकसंयुक्तं कराग्रे दक्षिणे चरेथ् ॥ २३.१६ ॥
devasya mukhamānaṃ syāddvādaśāṣṭāracihnitaṃ . jvālāpañcakasaṃyuktaṃ karāgre dakṣiṇe careth .. 23.16 ..
मयं महीमयं दिव्यमष्टारं द्वादशारकं । एभिर्मन्त्रैस्समभ्यर्च्य रक्षार्थं मोक्षशान्तये ॥ २३.१७ ॥
mayaṃ mahīmayaṃ divyamaṣṭāraṃ dvādaśārakaṃ . ebhirmantraissamabhyarcya rakṣārthaṃ mokṣaśāntaye .. 23.17 ..
कालचक्रं प्रवक्ष्यामि औत्सवं सर्वशान्तिदं । ध्रुवबेरमुखायामं द्विगुणायामविस्तृतं ॥ २३.१८ ॥
kālacakraṃ pravakṣyāmi autsavaṃ sarvaśāntidaṃ . dhruvaberamukhāyāmaṃ dviguṇāyāmavistṛtaṃ .. 23.18 ..
वृत्तं च षड्गुणं प्रोक्तं क्षतान्तं तत्सुवृत्तकं । वृत्तस्य पट्टविस्तारं त्रियङ्गुलमिति स्मृतं ॥ २३.१९ ॥
vṛttaṃ ca ṣaḍguṇaṃ proktaṃ kṣatāntaṃ tatsuvṛttakaṃ . vṛttasya paṭṭavistāraṃ triyaṅgulamiti smṛtaṃ .. 23.19 ..
षडङ्गुलसमायाममारकूटं तु त्षङ्गुलं । यवा कारकरा ज्ञेया उभयत्र प्रवेशता ॥ २३.२० ॥
ṣaḍaṅgulasamāyāmamārakūṭaṃ tu tṣaṅgulaṃ . yavā kārakarā jñeyā ubhayatra praveśatā .. 23.20 ..
अरकूटेऽथ सिंहं वा मकरं वाथ पद्मकं । ज्वालात्रिकं वा कर्तव्यं ज्वालापञ्जकमेव वा ॥ २३.२१ ॥
arakūṭe'tha siṃhaṃ vā makaraṃ vātha padmakaṃ . jvālātrikaṃ vā kartavyaṃ jvālāpañjakameva vā .. 23.21 ..
शताष्टारं निंशतिं वा उत्तमे सम्यगाचरेथ् । चतुष्पञ्चद्विपञ्चाशन्मध्यमे समुदाहृतं ॥ २३.२२ ॥
śatāṣṭāraṃ niṃśatiṃ vā uttame samyagācareth . catuṣpañcadvipañcāśanmadhyame samudāhṛtaṃ .. 23.22 ..
द्वात्रिंशद्वा चतुर्विंशदधमे संप्रयोजयेथ् । एवं स्यात्कालचक्रन्तु उत्सवार्थं प्रकल्पयेथ् ॥ २३.२३ ॥
dvātriṃśadvā caturviṃśadadhame saṃprayojayeth . evaṃ syātkālacakrantu utsavārthaṃ prakalpayeth .. 23.23 ..
चक्राधस्तात्तथा नालं द्वादशांगुलमाचरेथ् । चक्रद्विगुणदण्डन्तु खदिरं चासनं भवेथ् ॥ २३.२४ ॥
cakrādhastāttathā nālaṃ dvādaśāṃgulamācareth . cakradviguṇadaṇḍantu khadiraṃ cāsanaṃ bhaveth .. 23.24 ..
याज्ञिकैरथ वा वृक्षैः कारयेदत्र शासनं । षडङ्गुलायतविस्तारां फलकां संप्रकल्पयेथ् ॥ २३.२५ ॥
yājñikairatha vā vṛkṣaiḥ kārayedatra śāsanaṃ . ṣaḍaṅgulāyatavistārāṃ phalakāṃ saṃprakalpayeth .. 23.25 ..
वृत्तं वा चतुरश्रं वा लंबदामसमायुतं । त्रियङ्गुलसमुत्सेधं संधयेत्तरिकोपरि ॥ २३.२६ ॥
vṛttaṃ vā caturaśraṃ vā laṃbadāmasamāyutaṃ . triyaṅgulasamutsedhaṃ saṃdhayettarikopari .. 23.26 ..
तदधस्तात्तु ताटिं च कुंभलंबकसंयुतं । अष्टांगुलसमुत्सेथं कारयेदिति शासनं ॥ २३.२७ ॥
tadadhastāttu tāṭiṃ ca kuṃbhalaṃbakasaṃyutaṃ . aṣṭāṃgulasamutsethaṃ kārayediti śāsanaṃ .. 23.27 ..
अन्तस्सुषिरसं कृत्वा?दण्डाग्रे चाध एव वा । कूरदण्डेन संयोज्य फलकोफलपद्मकं ॥ २३.२८ ॥
antassuṣirasaṃ kṛtvā?daṇḍāgre cādha eva vā . kūradaṇḍena saṃyojya phalakophalapadmakaṃ .. 23.28 ..
लता प्रस्थतरं वापि कारयेदिति शासनं । पद्मं तु त्षङ्गुनायामं विस्तारमधिकांगुलं ॥ २३.२९ ॥
latā prasthataraṃ vāpi kārayediti śāsanaṃ . padmaṃ tu tṣaṅgunāyāmaṃ vistāramadhikāṃgulaṃ .. 23.29 ..
पालिकोपरि सिंहौ द्वावुभयोः पार्श्वयोश्चरेथ् । चक्रं संवहमानौ तौ यावत्तत्र च कालयेथ् ॥ २३.३० ॥
pālikopari siṃhau dvāvubhayoḥ pārśvayoścareth . cakraṃ saṃvahamānau tau yāvattatra ca kālayeth .. 23.30 ..
तयोर्मानं समुद्दिष्टं पञ्चांगुलमिति स्मृतं । दण्डमध्येन कुर्यात्तद्दण्डमूले षडङ्गुलं ॥ २३.३१ ॥
tayormānaṃ samuddiṣṭaṃ pañcāṃgulamiti smṛtaṃ . daṇḍamadhyena kuryāttaddaṇḍamūle ṣaḍaṅgulaṃ .. 23.31 ..
पीठं षडङ्गुलोत्सेधं चतुरङ्गुलमेव वा । वृत्तं वा चतुरश्रं वा सरोजदलकर्णयुक् ॥ २३.३२ ॥
pīṭhaṃ ṣaḍaṅgulotsedhaṃ caturaṅgulameva vā . vṛttaṃ vā caturaśraṃ vā sarojadalakarṇayuk .. 23.32 ..
षाढशांगुलमायामं विस्तारं संप्रकीर्तितं । कर्णिकामध्यमे नालमष्टांगुल समायुतं ॥ २३.३३ ॥
ṣāḍhaśāṃgulamāyāmaṃ vistāraṃ saṃprakīrtitaṃ . karṇikāmadhyame nālamaṣṭāṃgula samāyutaṃ .. 23.33 ..
नालदण्डेन संयोज्य बन्धयेदष्टबन्धनैः । हारवत्सुदृढं कुर्यादवक्रमृजुसंयुतं ॥ २३.३४ ॥
nāladaṇḍena saṃyojya bandhayedaṣṭabandhanaiḥ . hāravatsudṛḍhaṃ kuryādavakramṛjusaṃyutaṃ .. 23.34 ..
एवं कृत्वा यथामार्गं स्थापनं सम्यगाचरेथ् । सहस्रविकचं चक्रं पुरुषाकारमाचरेथ् ॥ २३.३५ ॥
evaṃ kṛtvā yathāmārgaṃ sthāpanaṃ samyagācareth . sahasravikacaṃ cakraṃ puruṣākāramācareth .. 23.35 ..
रक्ताभं नीलवर्णं च नवतालेन मानतः । द्विभुजं मुकुटोद्बन्धं चक्रचूलिनमाचरेथ् ॥ २३.३६ ॥
raktābhaṃ nīlavarṇaṃ ca navatālena mānataḥ . dvibhujaṃ mukuṭodbandhaṃ cakracūlinamācareth .. 23.36 ..
सुदर्शनं तथा चक्रं सहस्रविकचं तथा । अनपायिनमित्येवं मूर्तिमन्त्रैस्समर्चयेथ् ॥ २३.३७ ॥
sudarśanaṃ tathā cakraṃ sahasravikacaṃ tathā . anapāyinamityevaṃ mūrtimantraissamarcayeth .. 23.37 ..
शतधारं कालचक्रं सर्वासुरविमर्दनं । सर्वविघ्नहरं चेति कालचक्रं समर्चयेथ् ॥ २३.३८ ॥
śatadhāraṃ kālacakraṃ sarvāsuravimardanaṃ . sarvavighnaharaṃ ceti kālacakraṃ samarcayeth .. 23.38 ..
कालचक्रं प्रवक्ष्यामि सर्वासुरविनाशनं । षट्ट्रिंशदङ्गुलं वापि षट्पञ्चाशच्छताष्टकं ॥ २३.३९ ॥
kālacakraṃ pravakṣyāmi sarvāsuravināśanaṃ . ṣaṭṭriṃśadaṅgulaṃ vāpi ṣaṭpañcāśacchatāṣṭakaṃ .. 23.39 ..
विस्तारायामतोमानमुत्तमाधममध्यमं । मानांगुलेन तद्ग्राह्यं तक्षकं वर्तुलं भवेथ् ॥ २३.४० ॥
vistārāyāmatomānamuttamādhamamadhyamaṃ . mānāṃgulena tadgrāhyaṃ takṣakaṃ vartulaṃ bhaveth .. 23.40 ..
सहस्रारा अष्टशतं त्रिशतं षष्टिमेव वा । अराःक्रमेण संयुक्ता उत्तमाधममध्यमाः ॥ २३.४१ ॥
sahasrārā aṣṭaśataṃ triśataṃ ṣaṣṭimeva vā . arāḥkrameṇa saṃyuktā uttamādhamamadhyamāḥ .. 23.41 ..
चतुर्विंशत्तथा ज्वालाष्षोडश द्वादशाथ वा । दशसप्ताङ्गुलं पञ्च वृत्तं पट्टस्य संयुतं ॥ २३.४२ ॥
caturviṃśattathā jvālāṣṣoḍaśa dvādaśātha vā . daśasaptāṅgulaṃ pañca vṛttaṃ paṭṭasya saṃyutaṃ .. 23.42 ..
चक्रप्रभेहकं भागं पीठं पद्मकमाचरेथ् । दण्डादीनि विना तस्य पद्मं पीठस्ययोजयेथ् ॥ २३.४३ ॥
cakraprabhehakaṃ bhāgaṃ pīṭhaṃ padmakamācareth . daṇḍādīni vinā tasya padmaṃ pīṭhasyayojayeth .. 23.43 ..
एतदुक्तं महच्चक्रं सर्वारिष्टविनाशनं । चक्रस्य स्थापनं मार्गं प्रवक्ष्यामि तपोधनाः ॥ २३.४४ ॥
etaduktaṃ mahaccakraṃ sarvāriṣṭavināśanaṃ . cakrasya sthāpanaṃ mārgaṃ pravakṣyāmi tapodhanāḥ .. 23.44 ..
अङ्कुरानर्पयित्वातु कारयेदक्षिमोचनं । तथाधिवासनं कृत्वा गव्यानामधिवासनं ॥ २३.४५ ॥
aṅkurānarpayitvātu kārayedakṣimocanaṃ . tathādhivāsanaṃ kṛtvā gavyānāmadhivāsanaṃ .. 23.45 ..
यागशालां तथा कृत्वा भूषयेत्तोरणान्वितं । शय्यावेदिं च तन्मध्ये चाध्यर्धायामविस्तृतं ॥ २३.४६ ॥
yāgaśālāṃ tathā kṛtvā bhūṣayettoraṇānvitaṃ . śayyāvediṃ ca tanmadhye cādhyardhāyāmavistṛtaṃ .. 23.46 ..
तत्तुर्यांशोदयां वेदिं कृत्वा तां चतुरश्रकं । प्राच्यामाहवनीयं च कुण्डमौपासनाग्निवथ् ॥ २३.४७ ॥
tatturyāṃśodayāṃ vediṃ kṛtvā tāṃ caturaśrakaṃ . prācyāmāhavanīyaṃ ca kuṇḍamaupāsanāgnivath .. 23.47 ..
प्राच्यां तु स्नानवेदिं च कृत्वाचैव विचक्षणः । अथाधिवासितं चक्रमादायेवाभिषिच्य च ॥ २३.४८ ॥
prācyāṃ tu snānavediṃ ca kṛtvācaiva vicakṣaṇaḥ . athādhivāsitaṃ cakramādāyevābhiṣicya ca .. 23.48 ..
अग्निं संसाध्य पूर्वोक्तं कुंभं संसाथयेत्पुनः । चक्रस्याभिमुखे कुंभं धान्यपीठोपरिक्रमाथ् ॥ २३.४९ ॥
agniṃ saṃsādhya pūrvoktaṃ kuṃbhaṃ saṃsāthayetpunaḥ . cakrasyābhimukhe kuṃbhaṃ dhānyapīṭhoparikramāth .. 23.49 ..
सन्न्यस्य तु गुरुर्धीमान्यदितं भावयेत्तथा । ग्रामं प्रदक्षिणं कृत्वा शालायां स्थापयेत्तथा ॥ २३.५० ॥
sannyasya tu gururdhīmānyaditaṃ bhāvayettathā . grāmaṃ pradakṣiṇaṃ kṛtvā śālāyāṃ sthāpayettathā .. 23.50 ..
हृत्पद्ममध्ये चक्रेशं द्विभुजं प्रांजलीकृतं । रक्ताभं कृतवस्त्राभं ध्यात्वासम्यक्प्रपूर्य च ॥ २३.५१ ॥
hṛtpadmamadhye cakreśaṃ dvibhujaṃ prāṃjalīkṛtaṃ . raktābhaṃ kṛtavastrābhaṃ dhyātvāsamyakprapūrya ca .. 23.51 ..
तस्मात्कुंभे समावाह्य पूर्वोक्तमभिपूज्य च । वेद्यां संस्नाप्य तच्चक्रं कलशैस्नापयेत्तदा ॥ २३.५२ ॥
tasmātkuṃbhe samāvāhya pūrvoktamabhipūjya ca . vedyāṃ saṃsnāpya taccakraṃ kalaśaisnāpayettadā .. 23.52 ..
समल कृत्य वक्त्राद्यैर्धान्यपीठोपरिक्रमाथ् । सन्न्यस्य कुंभं संयुक्तं बद्ध्वा प्रतिसरं ततः ॥ २३.५३ ॥
samala kṛtya vaktrādyairdhānyapīṭhoparikramāth . sannyasya kuṃbhaṃ saṃyuktaṃ baddhvā pratisaraṃ tataḥ .. 23.53 ..
शाययित्वा तथा चक्रं हौत्रं सम्यक्प्रशंस्य च । चक्राङ्गान्यायधांगानि मूर्तिमन्त्रान्प्रचक्षते ॥ २३.५४ ॥
śāyayitvā tathā cakraṃ hautraṃ samyakpraśaṃsya ca . cakrāṅgānyāyadhāṃgāni mūrtimantrānpracakṣate .. 23.54 ..
पश्चादग्निं परिस्तीर्य वैष्णवैर्मन्त्र संयुतैः । भूमाननोऽग्रे वन्द्यानऽहुत्वा गायत्रिसंयुतं ॥ २३.५५ ॥
paścādagniṃ paristīrya vaiṣṇavairmantra saṃyutaiḥ . bhūmānano'gre vandyāna'hutvā gāyatrisaṃyutaṃ .. 23.55 ..
शतमष्टोत्तरं हुत्वा रात्रिशेषं व्यपोह्य च । स्नात्वा प्रभाते पूर्वोक्तं चक्रमादाय पूर्ववथ् ॥ २३.५६ ॥
śatamaṣṭottaraṃ hutvā rātriśeṣaṃ vyapohya ca . snātvā prabhāte pūrvoktaṃ cakramādāya pūrvavath .. 23.56 ..
ग्रामं प्रदक्षिणं कृत्वा कुंभेनासादयेत्तथा । मण्डपे दक्षिणे पार्श्वे कृतपीठे विशेषतः ॥ २३.५७ ॥
grāmaṃ pradakṣiṇaṃ kṛtvā kuṃbhenāsādayettathā . maṇḍape dakṣiṇe pārśve kṛtapīṭhe viśeṣataḥ .. 23.57 ..
रत्नं निक्षिप्य पूर्वोक्तमन्त्रेण स्थापयेत्तदा । चक्रमन्त्रौ सुसन्न्यस्य बीजान्सन्न्यस्य पूर्ववथ् ॥ २३.५८ ॥
ratnaṃ nikṣipya pūrvoktamantreṇa sthāpayettadā . cakramantrau susannyasya bījānsannyasya pūrvavath .. 23.58 ..
कुंभाच्छक्तिं तथावाह्य पूजयेदासनादिभिः । पायसाद्यैर्नि वैद्याथ गुरुं सम्यक्प्रपूजयेथ् ॥ २३.५९ ॥
kuṃbhācchaktiṃ tathāvāhya pūjayedāsanādibhiḥ . pāyasādyairni vaidyātha guruṃ samyakprapūjayeth .. 23.59 ..
इति श्रीवैखानसे
iti śrīvaikhānase
इति श्रीवैखानसेभगवच्छास्त्रे भृसुप्रोक्तायां संहितायां
iti śrīvaikhānasebhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ
भगवच्छास्त्रे भृसुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रयोविंशोऽध्यायः.
bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre trayoviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In