| |
|

This overlay will guide you through the buttons:

अथत्रिंशोऽध्यायः.
अथ त्रिंशः अध्यायः।
atha triṃśaḥ adhyāyaḥ.
प्रायश्चित्तम्अथवक्ष्ये विशेषेण तन्त्रसंकरनिष्कृतिं । वैष्णवस्यान्यतन्त्रेण संकरे दोषमादिशेथ् ॥ ३०.१ ॥
प्रायश्चित्तम् अथ वक्ष्ये विशेषेण तन्त्र-संकर-निष्कृतिम् । वैष्णवस्य अन्य-तन्त्रेण संकरे दोषम् आदिशेथ् ॥ ३०।१ ॥
prāyaścittam atha vakṣye viśeṣeṇa tantra-saṃkara-niṣkṛtim . vaiṣṇavasya anya-tantreṇa saṃkare doṣam ādiśeth .. 30.1 ..
ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य संक्षयः । तद्दोषशमनायैव सांकर्यमपहाय च ॥ ३०.२ ॥
ग्रामस्य यजमानस्य राज्ञः राष्ट्रस्य संक्षयः । तद्-दोष-शमनाय एव सांकर्यम् अपहाय च ॥ ३०।२ ॥
grāmasya yajamānasya rājñaḥ rāṣṭrasya saṃkṣayaḥ . tad-doṣa-śamanāya eva sāṃkaryam apahāya ca .. 30.2 ..
पद्मावले वैष्णवं च विष्णुसूक्तं च पौरुषं । पारमात्मिकमीङ्कारा द्यष्टाशीतिं विशेषतः ॥ ३०.३ ॥
पद्मावले वैष्णवम् च विष्णुसूक्तम् च पौरुषम् । पारमात्मिकम् ईङ्काराः दि अष्टाशीतिम् विशेषतः ॥ ३०।३ ॥
padmāvale vaiṣṇavam ca viṣṇusūktam ca pauruṣam . pāramātmikam īṅkārāḥ di aṣṭāśītim viśeṣataḥ .. 30.3 ..
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । दोषगौरवमुद्दिश्य हुत्वा पूर्ववदाचरेथ् ॥ ३०.४ ॥
अष्टोत्तरसहस्रम् वा शतम् अष्ट-उत्तरम् तु वा । दोष-गौरवम् उद्दिश्य हुत्वा पूर्ववत् आचरेथ् ॥ ३०।४ ॥
aṣṭottarasahasram vā śatam aṣṭa-uttaram tu vā . doṣa-gauravam uddiśya hutvā pūrvavat ācareth .. 30.4 ..
वैष्णवं द्विविधं शास्त्रं मुनिभिः परिकीर्तितं । वैखानसं पञ्चरात्रं वैदिकं तान्त्रिकं क्रमाथ् ॥ ३०.५ ॥
वैष्णवम् द्विविधम् शास्त्रम् मुनिभिः परिकीर्तितम् । वैखानसम् पञ्चरात्रम् वैदिकम् तान्त्रिकम् ॥ ३०।५ ॥
vaiṣṇavam dvividham śāstram munibhiḥ parikīrtitam . vaikhānasam pañcarātram vaidikam tāntrikam .. 30.5 ..
वैखानसं वैदिकं स्याद्वैदिकैरर्चितं द्विजैः । ऐहिकामुष्मिकफलप्रदं स्ॐयं प्रकीर्तितं ॥ ३०.६ ॥
वैखानसम् वैदिकम् स्यात् वैदिकैः अर्चितम् द्विजैः । ऐहिक-आमुष्मिक-फल-प्रदम् सोंयम् प्रकीर्तितम् ॥ ३०।६ ॥
vaikhānasam vaidikam syāt vaidikaiḥ arcitam dvijaiḥ . aihika-āmuṣmika-phala-pradam soṃyam prakīrtitam .. 30.6 ..
पञ्चरात्रमथाग्नेयमवैदिकमतात्त्विकं । तापादिपञ्चसंस्कारदीक्षावद्भिस्समर्चितं ॥ ३०.७ ॥
पञ्चरात्रम् अथ आग्नेयम् अ वैदिकम् अ तात्त्विकम् । ताप-आदि-पञ्च-संस्कार-दीक्षावद्भिः समर्चितम् ॥ ३०।७ ॥
pañcarātram atha āgneyam a vaidikam a tāttvikam . tāpa-ādi-pañca-saṃskāra-dīkṣāvadbhiḥ samarcitam .. 30.7 ..
अश्रीकरमथ प्रोक्तङ्केवलामुष्मिकप्रदं । स्ॐयं सर्वत्र संपूज्यं ग्रामादिषु विशेषतः ॥ ३०.८ ॥
अश्रीकरम् अथ प्रोक्तम् केवल-आमुष्मिक-प्रदम् । सोंयम् सर्वत्र संपूज्यम् ग्राम-आदिषु विशेषतः ॥ ३०।८ ॥
aśrīkaram atha proktam kevala-āmuṣmika-pradam . soṃyam sarvatra saṃpūjyam grāma-ādiṣu viśeṣataḥ .. 30.8 ..
ब्राह्मणानां च गेहेषु स्ॐये नै वार्चयेद्धरिं । आग्नेयमर्चयेत्तद्वदवास्त्वङ्गालये तथा ॥ ३०.९ ॥
ब्राह्मणानाम् च गेहेषु वा अर्चयेत् हरिम् । आग्नेयम् अर्चयेत् तद्वत् अवास्तु-अङ्ग-आलये तथा ॥ ३०।९ ॥
brāhmaṇānām ca geheṣu vā arcayet harim . āgneyam arcayet tadvat avāstu-aṅga-ālaye tathā .. 30.9 ..
पर्वतादिष्वरण्येषु विविक्तेषु स्थलेषुच । विप्रावासे जनावासे नैव कुर्यादनेन तु ॥ ३०.१० ॥
पर्वत-आदिषु अरण्येषु विविक्तेषु स्थलेषु च । विप्र-आवासे जन-आवासे ना एव कुर्यात् अनेन तु ॥ ३०।१० ॥
parvata-ādiṣu araṇyeṣu vivikteṣu sthaleṣu ca . vipra-āvāse jana-āvāse nā eva kuryāt anena tu .. 30.10 ..
स्ॐये वैखानसे मार्गे यद्याग्ने येन संकरः । पञ्चरात्रेण संप्राप्तो राजा राष्ट्रं विनश्यति ॥ ३०.११ ॥
सोंये वैखानसे मार्गे यदि आग्ने येन संकरः । पञ्च-रात्रेण संप्राप्तः राजा राष्ट्रम् विनश्यति ॥ ३०।११ ॥
soṃye vaikhānase mārge yadi āgne yena saṃkaraḥ . pañca-rātreṇa saṃprāptaḥ rājā rāṣṭram vinaśyati .. 30.11 ..
तद्दोषशमानायैव पद्माग्नौ जुहुयात्क्रमाथ् । महाशान्तिं विधानेन सप्ताहं वा त्षहन्तु वा ॥ ३०.१२ ॥
तद्-दोष-शमानाय एव पद्म-अग्नौ जुहुयात् क्रमाथ् । महाशान्तिम् विधानेन सप्त-अहम् वा वा ॥ ३०।१२ ॥
tad-doṣa-śamānāya eva padma-agnau juhuyāt kramāth . mahāśāntim vidhānena sapta-aham vā vā .. 30.12 ..
अष्टाधिकशदैश्चैव संस्नाप्य कलशैस्ततः । अभ्यर्च्य देवदेवेशं संपूज्यैव तु वैष्णवान् ॥ ३०.१३ ॥
अष्ट-अधिक-शदैः च एव संस्नाप्य कलशैः ततस् । अभ्यर्च्य देवदेवेशम् संपूज्य एव तु वैष्णवान् ॥ ३०।१३ ॥
aṣṭa-adhika-śadaiḥ ca eva saṃsnāpya kalaśaiḥ tatas . abhyarcya devadeveśam saṃpūjya eva tu vaiṣṇavān .. 30.13 ..
भोजयित्वा ब्राह्मणांस्तु कारयेत्पूर्ववर्त्मना । पञ्चरात्रविधानेन प्रतिष्ठाप्यार्चनेकृते ॥ ३०.१४ ॥
भोजयित्वा ब्राह्मणान् तु कारयेत् पूर्व-वर्त्मना । पञ्च-रात्र-विधानेन प्रतिष्ठाप्य अर्चने कृते ॥ ३०।१४ ॥
bhojayitvā brāhmaṇān tu kārayet pūrva-vartmanā . pañca-rātra-vidhānena pratiṣṭhāpya arcane kṛte .. 30.14 ..
कालेनान्तरिते तस्मिन्कुर्यात्स्ॐय प्रवेशनं । स्ॐयत्वाद्राजराष्ट्राणां तत्स मृद्धिकरं भवेथ् ॥ ३०.१५ ॥
कालेन अन्तरिते तस्मिन् कुर्यात् प्रवेशनम् । सोंय-त्वात् राजराष्ट्राणाम् तत् स मृद्धि-करम् ॥ ३०।१५ ॥
kālena antarite tasmin kuryāt praveśanam . soṃya-tvāt rājarāṣṭrāṇām tat sa mṛddhi-karam .. 30.15 ..
पद्मानले महाशान्तिं हुत्वादौ च ततःक्रमाथ् । वैखानसेन विधिनाविमानं बिंबमेव च ॥ ३०.१६ ॥
पद्मानले महाशान्तिम् हुत्वा आदौ च । वैखानसेन विधिना अ विमानम् बिंबम् एव च ॥ ३०।१६ ॥
padmānale mahāśāntim hutvā ādau ca . vaikhānasena vidhinā a vimānam biṃbam eva ca .. 30.16 ..
संस्कृत्य चोचितैस्सर्वैस्कंस्कारैः कर्षणादिभिः । प्रतिष्ठाप्य तदारभ्य सर्वं तेनैव चाचरेथ् ॥ ३०.१७ ॥
संस्कृत्य च उचितैः सर्वैः कंस्कारैः कर्षण-आदिभिः । प्रतिष्ठाप्य तत् आरभ्य सर्वम् तेन एव च आचरेथ् ॥ ३०।१७ ॥
saṃskṛtya ca ucitaiḥ sarvaiḥ kaṃskāraiḥ karṣaṇa-ādibhiḥ . pratiṣṭhāpya tat ārabhya sarvam tena eva ca ācareth .. 30.17 ..
आलयाश्रितदेवानां परिवारस्य पर्षदां । पूजायामप्यमुख्यायां संकरो नैव सम्मतः ॥ ३०.१८ ॥
आलय-आश्रित-देवानाम् परिवारस्य पर्षदाम् । पूजायाम् अपि अमुख्यायाम् संकरः ना एव सम्मतः ॥ ३०।१८ ॥
ālaya-āśrita-devānām parivārasya parṣadām . pūjāyām api amukhyāyām saṃkaraḥ nā eva sammataḥ .. 30.18 ..
महात्म्यं किमुवक्ष्यामि शास्त्रस्य महतोऽस्य वै । नालं देवास्त्रयस्सेन्द्रा अनन्तोऽप्युपवर्णितुं ॥ ३०.१९ ॥
महात्म्यम् किम् उवक्ष्यामि शास्त्रस्य महतः अस्य वै । न अलम् देवाः त्रयः स इन्द्राः अनन्तः अपि उपवर्णितुम् ॥ ३०।१९ ॥
mahātmyam kim uvakṣyāmi śāstrasya mahataḥ asya vai . na alam devāḥ trayaḥ sa indrāḥ anantaḥ api upavarṇitum .. 30.19 ..
श्रुणन्तु मुनयस्सर्वे शास्त्रमाहात्म्यमुत्तमं । यावच्छक्ति प्रवक्ष्यामि ज्ञातं गुरुकृपाबलाथ् ॥ ३०.२० ॥
श्रुणन्तु मुनयः सर्वे शास्त्र-माहात्म्यम् उत्तमम् । यावच्छक्ति प्रवक्ष्यामि ज्ञातम् ॥ ३०।२० ॥
śruṇantu munayaḥ sarve śāstra-māhātmyam uttamam . yāvacchakti pravakṣyāmi jñātam .. 30.20 ..
पुरा चतुर्मुखो ब्रह्मासिसृक्षुरखिलं जगथ् । सुप्तोद्थितश्चिरं कालं प्राक्रामीत्सर्गकर्मणि ॥ ३०.२१ ॥
पुरा चतुर्मुखः ब्रह्मा असिसृक्षुः अखिलम् । सुप्त-उद्थितः चिरम् कालम् प्राक्रामीत् सर्ग-कर्मणि ॥ ३०।२१ ॥
purā caturmukhaḥ brahmā asisṛkṣuḥ akhilam . supta-udthitaḥ ciram kālam prākrāmīt sarga-karmaṇi .. 30.21 ..
विसस्मार यदा धाता निद्रयाक्रान्तमानसः । वेदान्त्सर्गप्रधानांस्तु सृष्टिर्नैवप्रवर्तते ॥ ३०.२२ ॥
विसस्मार यदा धाता निद्रया आक्रान्त-मानसः । वेदान् सर्ग-प्रधानान् तु सृष्टिः न एव प्रवर्तते ॥ ३०।२२ ॥
visasmāra yadā dhātā nidrayā ākrānta-mānasaḥ . vedān sarga-pradhānān tu sṛṣṭiḥ na eva pravartate .. 30.22 ..
चिन्तातुर स्तदा ब्रह्मा मूढः कर्तव्यकर्मणि । बहुधा ध्यायमानस्तुन लेभे कारणं स्वतः ॥ ३०.२३ ॥
चिन्ता-आतुरः तदा ब्रह्मा मूढः कर्तव्य-कर्मणि । बहुधा लेभे कारणम् स्वतः ॥ ३०।२३ ॥
cintā-āturaḥ tadā brahmā mūḍhaḥ kartavya-karmaṇi . bahudhā lebhe kāraṇam svataḥ .. 30.23 ..
स्वशक्त्या यद्विधेयं स्यात्सर्वं चक्रे विमूढधीः । न हि तत्कारणं लेभे वेदविस्मरणं तु यथ् ॥ ३०.२४ ॥
स्व-शक्त्या यत् विधेयम् स्यात् सर्वम् चक्रे विमूढ-धीः । न हि तद्-कारणम् लेभे वेद-विस्मरणम् तु यथा ॥ ३०।२४ ॥
sva-śaktyā yat vidheyam syāt sarvam cakre vimūḍha-dhīḥ . na hi tad-kāraṇam lebhe veda-vismaraṇam tu yathā .. 30.24 ..
चिराच्छिन्तां तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना ॥ ३०.२५ ॥
चिरात् शिन्ताम् तु ताम् त्यक्त्वा स्वस्थ-चित्तः प्रजापतिः । हृद्-पद्म-मध्ये पुरुषम् परमेण समाधिना ॥ ३०।२५ ॥
cirāt śintām tu tām tyaktvā svastha-cittaḥ prajāpatiḥ . hṛd-padma-madhye puruṣam parameṇa samādhinā .. 30.25 ..
चिन्तयामास वै विष्णुमृग्यजुस्सामरूपिणं । तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः ॥ ३०.२६ ॥
चिन्तयामास वै विष्णुम् ऋक्-यजुः-साम-रूपिणम् । तुष्टाव च तदा ब्रह्मा हरि-प्रवण-मानसः ॥ ३०।२६ ॥
cintayāmāsa vai viṣṇum ṛk-yajuḥ-sāma-rūpiṇam . tuṣṭāva ca tadā brahmā hari-pravaṇa-mānasaḥ .. 30.26 ..
ननाम च तदा विष्णुं शङ्खचक्रगद्धरं । अर्चयामास देवेशं पाद्याद्यैर्विग्रहैस्समैः ॥ ३०.२७ ॥
ननाम च तदा विष्णुम् शङ्ख-चक्र-गत्-हरम् । अर्चयामास देवेशम् पाद्य-आद्यैः विग्रहैः समैः ॥ ३०।२७ ॥
nanāma ca tadā viṣṇum śaṅkha-cakra-gat-haram . arcayāmāsa deveśam pādya-ādyaiḥ vigrahaiḥ samaiḥ .. 30.27 ..
मुहुर्मुहुः प्रणम्याथमूर्थ्ना देवं जगत्पतिं । निर्व्याजकरुणालेशाद्देवस्य विमलान्तरः ॥ ३०.२८ ॥
मुहुर् मुहुर् प्रणम्य अथ मूर्थ्ना देवम् जगत्पतिम् । निर्व्याज-करुणा-लेशात् देवस्य विमल-अन्तरः ॥ ३०।२८ ॥
muhur muhur praṇamya atha mūrthnā devam jagatpatim . nirvyāja-karuṇā-leśāt devasya vimala-antaraḥ .. 30.28 ..
तुष्टावजगदीशानं नारायणमजं विधिः । जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३०.२९ ॥
तुष्टाव अजगत्-ईशानम् नारायणम् अजम् विधिः । जित-अन्ते पुण्डरीकाक्ष नमः ते विश्वभावन ॥ ३०।२९ ॥
tuṣṭāva ajagat-īśānam nārāyaṇam ajam vidhiḥ . jita-ante puṇḍarīkākṣa namaḥ te viśvabhāvana .. 30.29 ..
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज । देशकालपरिच्छेदरहितानन्त चिन्मय ॥ ३०.३० ॥
नमः ते अस्तु हृषीकेश महापुरुष पूर्वज । देश-काल-परिच्छेद-रहित-अनन्त चित्-मय ॥ ३०।३० ॥
namaḥ te astu hṛṣīkeśa mahāpuruṣa pūrvaja . deśa-kāla-pariccheda-rahita-ananta cit-maya .. 30.30 ..
सत्यज्ञानसुखानन्दस्वरूप परमेश्वर । पञ्चव्यूह चतुर्व्यूहान न्तव्यूहात्मविग्रह ॥ ३०.३१ ॥
सत्य-ज्ञान-सुख-आनन्द-स्वरूप परमेश्वर । पञ्चव्यूह चतुर्-व्यूह-अन न्त-व्यूह-आत्म-विग्रह ॥ ३०।३१ ॥
satya-jñāna-sukha-ānanda-svarūpa parameśvara . pañcavyūha catur-vyūha-ana nta-vyūha-ātma-vigraha .. 30.31 ..
विष्णो पुरुष सत्याच्युतानिरुद्ध जगत्पते । नित्यमुक्तजनावासपरमव्योमनायक ॥ ३०.३२ ॥
विष्णो पुरुष सत्य-अच्युत-अनिरुद्ध जगत्पते । ॥ ३०।३२ ॥
viṣṇo puruṣa satya-acyuta-aniruddha jagatpate . .. 30.32 ..
श्रीभूनीलादिसंसेव्य दिव्यमङ्गलविग्रह । शङ्खचक्रगदावाणे भक्ताभयवरप्रद ॥ ३०.३३ ॥
श्री-भू-नील-आदि-संसेव्य दिव्य-मङ्गल-विग्रह । शङ्ख-चक्र-गदा-वाणे भक्त-अभय-वर-प्रद ॥ ३०।३३ ॥
śrī-bhū-nīla-ādi-saṃsevya divya-maṅgala-vigraha . śaṅkha-cakra-gadā-vāṇe bhakta-abhaya-vara-prada .. 30.33 ..
कीरीट हार केयूर कटकाङ्गदभूषित । ग्रैवेयकपरिष्कार कटीसूत्रविराजित ॥ ३०.३४ ॥
कीरीट हार केयूर कटक-अङ्गद-भूषित । ग्रैवेयक-परिष्कार कटी-सूत्र-विराजित ॥ ३०।३४ ॥
kīrīṭa hāra keyūra kaṭaka-aṅgada-bhūṣita . graiveyaka-pariṣkāra kaṭī-sūtra-virājita .. 30.34 ..
तुलसीमालिकाराजद्विशालोरस्थ्सलांचित । प्रलंबयज्ञसूत्राढ्य कौस्तुभाभरणोज्ज्वल ॥ ३०.३५ ॥
तुलसी-मालिका-राज-द्वि-शाला-उरस्थ्सलांचित । प्रलंब-यज्ञसूत्र-आढ्य कौस्तुभ-आभरण-उज्ज्वल ॥ ३०।३५ ॥
tulasī-mālikā-rāja-dvi-śālā-urasthsalāṃcita . pralaṃba-yajñasūtra-āḍhya kaustubha-ābharaṇa-ujjvala .. 30.35 ..
सर्वलोकेश्वराचिन्त्य श्रीवत्सकृतलक्षण । दिव्यायुधसमासेव्य पीतांबरसुशोभित ॥ ३०.३६ ॥
सर्व-लोक-ईश्वर अचिन्त्य श्रीवत्स-कृत-लक्षण । दिव्य-आयुध-समासेव्य पीत-अंबर-सु शोभित ॥ ३०।३६ ॥
sarva-loka-īśvara acintya śrīvatsa-kṛta-lakṣaṇa . divya-āyudha-samāsevya pīta-aṃbara-su śobhita .. 30.36 ..
नित्यनिर्यत्ननिरन्ध्रविसारिकरुणारस । मन्दस्नितमुखांभोज मधुराधरपल्लव ॥ ३०.३७ ॥
। मन्द-स्नित-मुख-अंभोज मधुर-अधर-पल्लव ॥ ३०।३७ ॥
. manda-snita-mukha-aṃbhoja madhura-adhara-pallava .. 30.37 ..
रुक्माभ रक्तनेत्रास्यपाणिपाद सुखोद्वह । सुभ्रूललाटसुभग सुनस स्वायतेक्षण ॥ ३०.३८ ॥
रुक्म-आभ रक्त-नेत्र-आस्य-पाणि-पाद सुख-उद्वह । सु भ्रू-ललाट-सुभग सु नस सु आयत-ईक्षण ॥ ३०।३८ ॥
rukma-ābha rakta-netra-āsya-pāṇi-pāda sukha-udvaha . su bhrū-lalāṭa-subhaga su nasa su āyata-īkṣaṇa .. 30.38 ..
वृत्तपीनायतभुज तनुमध्य महाहनो । विलासविक्रमाक्रान्त त्रैलोक्यचरणांबुज ॥ ३०.३९ ॥
वृत्त-पीन-आयत-भुज तनु-मध्य महा-हनो । विलास-विक्रम-आक्रान्त त्रैलोक्य-चरण-अंबुज ॥ ३०।३९ ॥
vṛtta-pīna-āyata-bhuja tanu-madhya mahā-hano . vilāsa-vikrama-ākrānta trailokya-caraṇa-aṃbuja .. 30.39 ..
ज्ञानशक्ति बलैश्वर्यवीर्य तेजोविधेऽनघ । नमस्ते विष्णवे तुभ्यं पुरुषाय नमो नमः ॥ ३०.४० ॥
ज्ञान-शक्ति बल-ऐश्वर्य-वीर्य तेजः-विधे अनघ । नमः ते विष्णवे तुभ्यम् पुरुषाय नमः नमः ॥ ३०।४० ॥
jñāna-śakti bala-aiśvarya-vīrya tejaḥ-vidhe anagha . namaḥ te viṣṇave tubhyam puruṣāya namaḥ namaḥ .. 30.40 ..
समस्सत्यस्वरूपाय अच्युताय नमो नमः । नमोऽनिरुद्धरूपाय वासुदेवाय शार्ङ्गिणे ॥ ३०.४१ ॥
समः सत्य-स्वरूपाय अच्युताय नमः नमः । नमः अनिरुद्ध-रूपाय वासुदेवाय शार्ङ्गिणे ॥ ३०।४१ ॥
samaḥ satya-svarūpāya acyutāya namaḥ namaḥ . namaḥ aniruddha-rūpāya vāsudevāya śārṅgiṇe .. 30.41 ..
नमश्चिदात्मनेऽनन्त शान्तरूपाय धन्विने । शासते निरपेक्षाय स्वतन्त्रायाधिकारिणे ॥ ३०.४२ ॥
नमः चित्-आत्मने अनन्त शान्त-रूपाय धन्विने । शासते निरपेक्षाय स्वतन्त्राय अधिकारिणे ॥ ३०।४२ ॥
namaḥ cit-ātmane ananta śānta-rūpāya dhanvine . śāsate nirapekṣāya svatantrāya adhikāriṇe .. 30.42 ..
अच्युतायाविकाराय तेजसां निधये नमः । प्रधान पुरुषेशाय वेदवेद्याय वेदिने ॥ ३०.४३ ॥
अच्युताय अविकाराय तेजसाम् निधये नमः । प्रधान-पुरुष-ईशाय वेद-वेद्याय वेदिने ॥ ३०।४३ ॥
acyutāya avikārāya tejasām nidhaye namaḥ . pradhāna-puruṣa-īśāya veda-vedyāya vedine .. 30.43 ..
नमः पर व्यूहरूप नमो विभवविग्रह । अन्तर्यामिन्नमस्तेऽस्तु नमोर्ऽचारूप शाश्वत ॥ ३०.४४ ॥
नमः पर व्यूह-रूप नमः विभव-विग्रह । अन्तर्यामिन् नमः ते अस्तु नमः ऊर्जा-रूप शाश्वत ॥ ३०।४४ ॥
namaḥ para vyūha-rūpa namaḥ vibhava-vigraha . antaryāmin namaḥ te astu namaḥ ūrjā-rūpa śāśvata .. 30.44 ..
सहस्रशीर्षं पुरुषं सहस्राक्षं निरञ्जनं । सहस्रपादं त्रातारं शरणं त्वाङ्गतोऽस्म्यहं ॥ ३०.४५ ॥
सहस्र-शीर्षम् पुरुषम् सहस्र-अक्षम् निरञ्जनम् । सहस्रपादम् त्रातारम् शरणम् त्वा अङ्गतः अस्मि अहम् ॥ ३०।४५ ॥
sahasra-śīrṣam puruṣam sahasra-akṣam nirañjanam . sahasrapādam trātāram śaraṇam tvā aṅgataḥ asmi aham .. 30.45 ..
माता त्वं मे पिता त्वं मे भ्राता त्वं मे सखामम । सर्वं त्वमसि विश्वात्मंस्त्वयि सर्वं प्रतिष्ठितं ॥ ३०.४६ ॥
माता त्वम् मे पिता त्वम् मे भ्राता त्वम् मे सखा अमम । सर्वम् त्वम् असि विश्वात्मन् त्वयि सर्वम् प्रतिष्ठितम् ॥ ३०।४६ ॥
mātā tvam me pitā tvam me bhrātā tvam me sakhā amama . sarvam tvam asi viśvātman tvayi sarvam pratiṣṭhitam .. 30.46 ..
संसारसागरं घोरमनन्तं क्लेशभाजनं । त्वामेव शरणं पाप्य निस्तरन्ति मनीषिणः ॥ ३०.४७ ॥
संसार-सागरम् घोरम् अनन्तम् क्लेश-भाजनम् । त्वाम् एव शरणम् पाप्य निस्तरन्ति मनीषिणः ॥ ३०।४७ ॥
saṃsāra-sāgaram ghoram anantam kleśa-bhājanam . tvām eva śaraṇam pāpya nistaranti manīṣiṇaḥ .. 30.47 ..
न हि ते गोप्य ते किञ्चिन्न ह्यन्त्यविदितं तव । त्वं साक्षी देहिनामेकस्सर्वं व्याप्य त्वमेधसे ॥ ३०.४८ ॥
न हि ते गोप्य ते किञ्चिद् न हि अन्त्य-विदितम् तव । त्वम् साक्षी देहिनाम् एकः सर्वम् व्याप्य त्वम् एधसे ॥ ३०।४८ ॥
na hi te gopya te kiñcid na hi antya-viditam tava . tvam sākṣī dehinām ekaḥ sarvam vyāpya tvam edhase .. 30.48 ..
न ते रूपं न करणं कारणं नास्ति तेऽनघ । त्वं शास्ता सर्वलोकानां स्रष्टापाता हरन्हरे ॥ ३०.४९ ॥
न ते रूपम् न करणम् कारणम् न अस्ति ते अनघ । त्वम् शास्ता सर्व-लोकानाम् स्रष्टा आपाता हरन् हरे ॥ ३०।४९ ॥
na te rūpam na karaṇam kāraṇam na asti te anagha . tvam śāstā sarva-lokānām sraṣṭā āpātā haran hare .. 30.49 ..
अहं भवश्च ते ब्रह्मन्प्रसादक्रोधजावुभौ । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितं ॥ ३०.५० ॥
अहम् भवः च ते ब्रह्मन् प्रसाद-क्रोध-जौ उभौ । त्वत्तः मे मानसम् जन्म प्रथमम् द्विज-पूजितम् ॥ ३०।५० ॥
aham bhavaḥ ca te brahman prasāda-krodha-jau ubhau . tvattaḥ me mānasam janma prathamam dvija-pūjitam .. 30.50 ..
विज्ञानं तदिदं प्राप्तं ब्रह्मत्वं च यदार्जितं । सर्वं तव कटाक्षस्य लेशोऽयं मधुसूदन ॥ ३०.५१ ॥
विज्ञानम् तत् इदम् प्राप्तम् ब्रह्म-त्वम् च यदा अर्जितम् । सर्वम् तव कटाक्षस्य लेशः अयम् मधुसूदन ॥ ३०।५१ ॥
vijñānam tat idam prāptam brahma-tvam ca yadā arjitam . sarvam tava kaṭākṣasya leśaḥ ayam madhusūdana .. 30.51 ..
तमसाक्रान्तचित्तस्य विस्मृता निगमा मम । अवेदविहितस्सर्गो मया कर्तुं न शक्यते ॥ ३०.५२ ॥
तमसा आक्रान्त-चित्तस्य विस्मृताः निगमाः मम । अ वेद-विहितः सर्गः मया कर्तुम् न शक्यते ॥ ३०।५२ ॥
tamasā ākrānta-cittasya vismṛtāḥ nigamāḥ mama . a veda-vihitaḥ sargaḥ mayā kartum na śakyate .. 30.52 ..
प्रसीद परमेशान वेदभिक्षां प्रयच्छ मे । इति चिन्तयतस्तस्य बभूवावाविलं मनः ॥ ३०.५३ ॥
प्रसीद परमेशान वेद-भिक्षाम् प्रयच्छ मे । इति चिन्तयतः तस्य बभूव अवाविलम् मनः ॥ ३०।५३ ॥
prasīda parameśāna veda-bhikṣām prayaccha me . iti cintayataḥ tasya babhūva avāvilam manaḥ .. 30.53 ..
ततस्तुभगवान्ब्रह्मा वेदराशिमवाप्तवान् । सस्मार निखिलान्वेदान्सांगानुपनिषद्गणं ॥ ३०.५४ ॥
ततस् तु भगवान् ब्रह्मा वेदराशिम् अवाप्तवान् । सस्मार निखिलान् वेदान् स अंगान् उपनिषद्-गणम् ॥ ३०।५४ ॥
tatas tu bhagavān brahmā vedarāśim avāptavān . sasmāra nikhilān vedān sa aṃgān upaniṣad-gaṇam .. 30.54 ..
पुराणन्यायमीमांसाधर्मशास्त्राणि सर्वशः । चतुष्षष्टिकलाश्चैव विद्यास्थानानि यानि च ॥ ३०.५५ ॥
पुराण-न्याय-मीमांसा-धर्म-शास्त्राणि सर्वशस् । चतुःषष्टि-कलाः च एव विद्या-स्थानानि यानि च ॥ ३०।५५ ॥
purāṇa-nyāya-mīmāṃsā-dharma-śāstrāṇi sarvaśas . catuḥṣaṣṭi-kalāḥ ca eva vidyā-sthānāni yāni ca .. 30.55 ..
अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते ब्रह्मा विखना ब्रह्मवादिभिः ॥ ३०.५६ ॥
अन्तर्हितानाम् खननात् वेदानाम् तु विशेषतः । स विभुः प्रोच्यते ब्रह्मा विखनाः ब्रह्म-वादिभिः ॥ ३०।५६ ॥
antarhitānām khananāt vedānām tu viśeṣataḥ . sa vibhuḥ procyate brahmā vikhanāḥ brahma-vādibhiḥ .. 30.56 ..
वैखानसश्च भगवान्प्रोच्यते स पितामहः । जगत्सर्वमशेषेण वेददृष्टेन वर्त्मना ॥ ३०.५७ ॥
वैखानसः च भगवान् प्रोच्यते स पितामहः । जगत् सर्वम् अशेषेण वेद-दृष्टेन वर्त्मना ॥ ३०।५७ ॥
vaikhānasaḥ ca bhagavān procyate sa pitāmahaḥ . jagat sarvam aśeṣeṇa veda-dṛṣṭena vartmanā .. 30.57 ..
प्राणाच्च चक्षुषस्तद्वदभिमानाच्च मर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्व्यानतस्ततः ॥ ३०.५८ ॥
प्राणात् च चक्षुषः तद्वत् अभिमानात् च मर्मणः । हृदयात् शिरसः श्रोत्रात् उदानात् व्यानतः ततस् ॥ ३०।५८ ॥
prāṇāt ca cakṣuṣaḥ tadvat abhimānāt ca marmaṇaḥ . hṛdayāt śirasaḥ śrotrāt udānāt vyānataḥ tatas .. 30.58 ..
समानाच्च तथापानादृषिश्रेष्ठानिमान्दश । दक्षं मरीचिनं नीललोहितं भृगुमेन च ॥ ३०.५९ ॥
समानात् च तथा अपानात् ऋषि-श्रेष्ठान् इमान् दश । दक्षम् मरीचिनम् नीललोहितम् भृगुमेन च ॥ ३०।५९ ॥
samānāt ca tathā apānāt ṛṣi-śreṣṭhān imān daśa . dakṣam marīcinam nīlalohitam bhṛgumena ca .. 30.59 ..
तथांगिरसमत्रिञ्च पुलस्त्यं पुलहं तथा । वसिष्ठं चक्रतुं चैव क्रमादसृजदब्जभूः ॥ ३०.६० ॥
तथा अंगिरसम् अत्रिन् च पुलस्त्यम् पुलहम् तथा । वसिष्ठम् चक्रतुम् च एव क्रमात् असृजत् अब्जभूः ॥ ३०।६० ॥
tathā aṃgirasam atrin ca pulastyam pulaham tathā . vasiṣṭham cakratum ca eva kramāt asṛjat abjabhūḥ .. 30.60 ..
नव ब्रह्माण एवै ते विनास्युर्नीललोहितं । वेदानां व्यसनादर्पाक्प्राग्रूपं मिलितं तु यथ् ॥ ३०.६१ ॥
नव ब्रह्माणः एवै ते विना अस्युः नीललोहितम् । वेदानाम् व्यसनात् अर्पाक् प्राग्रूपम् मिलितम् तु यथा ॥ ३०।६१ ॥
nava brahmāṇaḥ evai te vinā asyuḥ nīlalohitam . vedānām vyasanāt arpāk prāgrūpam militam tu yathā .. 30.61 ..
तान्तु वैखानसीं शाखायेतानध्यापयन्मुनिः । नाम्ना विखनसं प्राहुर्यं च शातातपं तथा ॥ ३०.६२ ॥
ताम् तु वैखानसीम् शाखायेत अन् अध्यापयन् मुनिः । नाम्ना विखनसम् प्राहुः यम् च शातातपम् तथा ॥ ३०।६२ ॥
tām tu vaikhānasīm śākhāyeta an adhyāpayan muniḥ . nāmnā vikhanasam prāhuḥ yam ca śātātapam tathā .. 30.62 ..
भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाःक्रतुः । तथा वसिष्ठोदक्षश्च नव ब्रह्माणरिरिता ॥ ३०.६३ ॥
भृगु-अङ्गिरः-मरीचि-अत्रि-पुलस्त्य-पुलहाः क्रतुः । तथा वसिष्ठः उदक्षः च नव ॥ ३०।६३ ॥
bhṛgu-aṅgiraḥ-marīci-atri-pulastya-pulahāḥ kratuḥ . tathā vasiṣṭhaḥ udakṣaḥ ca nava .. 30.63 ..
(नव ब्राह्माण एवैते विन्यान्ये नीललोहितम्) ।
(नव ब्राह्माणः एव एते विन्यान्ये नील-लोहितम् ।
(nava brāhmāṇaḥ eva ete vinyānye nīla-lohitam .
एते विखनसश्सिष्याश्श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मानो मुनयस्तत्त्वदर्शिनः ॥ ३०.६४ ॥
एते विखनसः सिष्याः श्रुति-स्मृति-विधानतः । तद्-शिष्याः तु महात्मानः मुनयः तत्त्व-दर्शिनः ॥ ३०।६४ ॥
ete vikhanasaḥ siṣyāḥ śruti-smṛti-vidhānataḥ . tad-śiṣyāḥ tu mahātmānaḥ munayaḥ tattva-darśinaḥ .. 30.64 ..
वेदानुगानि शास्त्राणि चक्रुर्लोकहितैषिणः । के चिद्गृह्याणि वै चक्रुर्गृह्यश्रौतात्मकानि तु ॥ ३०.६५ ॥
वेद-अनुगानि शास्त्राणि चक्रुः लोक-हित-एषिणः । के चित् गृह्याणि वै चक्रुः गृह्य-श्रौत-आत्मकानि तु ॥ ३०।६५ ॥
veda-anugāni śāstrāṇi cakruḥ loka-hita-eṣiṇaḥ . ke cit gṛhyāṇi vai cakruḥ gṛhya-śrauta-ātmakāni tu .. 30.65 ..
धर्मशास्त्राणि केचित्तु पुराणानि च के चन । इतिहासांस्तथाकल्पान्प्रोचुरन्ये महर्षय? ॥ ३०.६६ ॥
धर्म-शास्त्राणि केचिद् तु पुराणानि च के चन । इतिहासान् तथा आकल्पान् प्रोचुः अन्ये महा-ऋषयः? ॥ ३०।६६ ॥
dharma-śāstrāṇi kecid tu purāṇāni ca ke cana . itihāsān tathā ākalpān procuḥ anye mahā-ṛṣayaḥ? .. 30.66 ..
के चिद्व्याकरणं केचिन्न्यायमन्ये तथेतरथ् । वाङ्मयं सकलं सर्वं शास्त्रबद्धं प्रचक्रिरे ॥ ३०.६७ ॥
के चित् व्याकरणम् केचिद् न्यायम् अन्ये तथा इतरथा । वाच्-मयम् सकलम् सर्वम् शास्त्र-बद्धम् प्रचक्रिरे ॥ ३०।६७ ॥
ke cit vyākaraṇam kecid nyāyam anye tathā itarathā . vāc-mayam sakalam sarvam śāstra-baddham pracakrire .. 30.67 ..
तान्तुवाखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूःपरमो धाता तस्मिन्नाराधनत्रयं ॥ ३०.६८ ॥
तान्तुवाखानसीम् शाखाम् स्व-सूत्रे विनियुक्तवान् । पद्मभूः परमः धाता तस्मिन् आराधन-त्रयम् ॥ ३०।६८ ॥
tāntuvākhānasīm śākhām sva-sūtre viniyuktavān . padmabhūḥ paramaḥ dhātā tasmin ārādhana-trayam .. 30.68 ..
तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक्पृथक् ॥ ३०.६९ ॥
ताम् तु वैखानसीम् शाखाम् स्व-सूत्रे विनियुक्तवान् । चक्रे ऋक्-आदि-भेदैः तु व्यसित्वा तु पृथक् पृथक् ॥ ३०।६९ ॥
tām tu vaikhānasīm śākhām sva-sūtre viniyuktavān . cakre ṛk-ādi-bhedaiḥ tu vyasitvā tu pṛthak pṛthak .. 30.69 ..
आदिकाले तु भगवान्ब्रह्मातु विखना मुनिः । यजुश्शाखानुसारेण चक्रेसूत्रं महत्तरं ॥ ३०.७० ॥
आदि-काले तु विखनाः मुनिः । यजुः-शाखा-अनुसारेण चक्रे सूत्रम् महत्तरम् ॥ ३०।७० ॥
ādi-kāle tu vikhanāḥ muniḥ . yajuḥ-śākhā-anusāreṇa cakre sūtram mahattaram .. 30.70 ..
वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं । यत्सूत्राद्यन्तमध्येषु भगवान्विष्णुरव्ययः ॥ ३०.७१ ॥
वर्ण-आश्रम-आचार-युतम् श्रौत-स्मार्त-समन्वितम् । यद्-सूत्र-आदि-अन्त-मध्येषु भगवान् विष्णुः अव्ययः ॥ ३०।७१ ॥
varṇa-āśrama-ācāra-yutam śrauta-smārta-samanvitam . yad-sūtra-ādi-anta-madhyeṣu bhagavān viṣṇuḥ avyayaḥ .. 30.71 ..
यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तथ् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ ३०.७२ ॥
यष्टव्यः गीयते यस्मात् सर्व-सूत्र-उत्तमम् तु । वेदे वैखानसे सूत्रे यः धर्मः परिकीर्तितः ॥ ३०।७२ ॥
yaṣṭavyaḥ gīyate yasmāt sarva-sūtra-uttamam tu . vede vaikhānase sūtre yaḥ dharmaḥ parikīrtitaḥ .. 30.72 ..
सर्वैस्सधर्मोनुष्ठेयो नात्र कार्याविचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रसमाश्रयाथ् ॥ ३०.७३ ॥
सर्वैः सधर्मः नुष्ठेयः न अत्र कार्या अविचारणा । स्व-सूत्रस्य परित्यागात् अन्य-सूत्र-समाश्रयाः ॥ ३०।७३ ॥
sarvaiḥ sadharmaḥ nuṣṭheyaḥ na atra kāryā avicāraṇā . sva-sūtrasya parityāgāt anya-sūtra-samāśrayāḥ .. 30.73 ..
सद्यःपतति वै विप्रोन वेदस्य समाश्रये । सूत्रं वैखानसं यत्तु वेदस्संप्रतिपद्यते ॥ ३०.७४ ॥
सद्यस् पतति वै विप्रः न वेदस्य समाश्रये । सूत्रम् वैखानसम् यत् तु वेदः संप्रतिपद्यते ॥ ३०।७४ ॥
sadyas patati vai vipraḥ na vedasya samāśraye . sūtram vaikhānasam yat tu vedaḥ saṃpratipadyate .. 30.74 ..
एतद्वैखानसं सूत्रमन्यसूत्रानपेक्षितं । एतद्वैखानसं सूत्रं सर्ववेदार्थसंग्रहः ॥ ३०.७५ ॥
एतत् वैखानसम् सूत्रम् अन्य-सूत्र-अन् अपेक्षितम् । एतत् वैखानसम् सूत्रम् सर्व-वेद-अर्थ-संग्रहः ॥ ३०।७५ ॥
etat vaikhānasam sūtram anya-sūtra-an apekṣitam . etat vaikhānasam sūtram sarva-veda-artha-saṃgrahaḥ .. 30.75 ..
वैष्णवं सर्वविप्राणां साम्न्यमभिधीयते । वैखानसस्य सूत्रस्य चाग्नेश्श्रामणकस्य च ॥ ३०.७६ ॥
वैष्णवम् सर्व-विप्राणाम् साम्न्यम् अभिधीयते । वैखानसस्य सूत्रस्य च अग्नेः श्रामणकस्य च ॥ ३०।७६ ॥
vaiṣṇavam sarva-viprāṇām sāmnyam abhidhīyate . vaikhānasasya sūtrasya ca agneḥ śrāmaṇakasya ca .. 30.76 ..
नारायणस्य देवस्य माहात्म्यं नावबुध्यते । यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ॥ ३०.७७ ॥
नारायणस्य देवस्य माहात्म्यम् न अवबुध्यते । यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते ॥ ३०।७७ ॥
nārāyaṇasya devasya māhātmyam na avabudhyate . yathā vedeṣu sarveṣu sāmavedaḥ praśasyate .. 30.77 ..
तथा सर्वेषु सूत्रेषु सूत्रमेतत्प्रशस्यते । अग्निर्वैखानसं शास्त्रं विष्णुर्वेदाश्चशाश्वताः ॥ ३०.७८ ॥
तथा सर्वेषु सूत्रेषु सूत्रम् एतत् प्रशस्यते । अग्निः वैखानसम् शास्त्रम् विष्णुः वेदाः च शाश्वताः ॥ ३०।७८ ॥
tathā sarveṣu sūtreṣu sūtram etat praśasyate . agniḥ vaikhānasam śāstram viṣṇuḥ vedāḥ ca śāśvatāḥ .. 30.78 ..
गायत्री वैष्णवा विप्रास्सप्तैते बहुपावनाः । अधीतेषु च वेदेषु सांगेषु लभते फलं ॥ ३०.७९ ॥
गायत्री वैष्णवाः विप्राः सप्त एते बहु-पावनाः । अधीतेषु च वेदेषु स अंगेषु लभते फलम् ॥ ३०।७९ ॥
gāyatrī vaiṣṇavāḥ viprāḥ sapta ete bahu-pāvanāḥ . adhīteṣu ca vedeṣu sa aṃgeṣu labhate phalam .. 30.79 ..
तत्फलं लभते सद्यस्सूत्रमेतत्पठन्द्विजः । अग्नीषोमादयो देवा ये यज्ञांशहविर्भुजः ॥ ३०.८० ॥
तत् फलम् लभते सद्यस् सूत्रम् एतत् पठन् द्विजः । अग्नीषोम-आदयः देवाः ये यज्ञ-अंश-हविर्भुजः ॥ ३०।८० ॥
tat phalam labhate sadyas sūtram etat paṭhan dvijaḥ . agnīṣoma-ādayaḥ devāḥ ye yajña-aṃśa-havirbhujaḥ .. 30.80 ..
ते सर्वे सूत्रमाश्रित्य चैनं गच्छन्ति माधवं । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च ॥ ३०.८१ ॥
ते सर्वे सूत्रम् आश्रित्य च एनम् गच्छन्ति माधवम् । शारीराणि अन्य-सूत्राणि तथा स्वर्ग-फलानि च ॥ ३०।८१ ॥
te sarve sūtram āśritya ca enam gacchanti mādhavam . śārīrāṇi anya-sūtrāṇi tathā svarga-phalāni ca .. 30.81 ..
वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परं । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाद्विशेषतः ॥ ३०.८२ ॥
वैष्णवम् सूत्रम् एतत् हि सर्व-सिद्धि-करम् परम् । आद्य-त्वात् सर्व-सूत्राणाम् वैष्णव-त्वात् विशेषतः ॥ ३०।८२ ॥
vaiṣṇavam sūtram etat hi sarva-siddhi-karam param . ādya-tvāt sarva-sūtrāṇām vaiṣṇava-tvāt viśeṣataḥ .. 30.82 ..
मयानुवर्तितं तद्वत्काश्यपात्रिमरीचिभिः । यस्मिन्नेव तु संप्रोक्ते सूत्रे विखनसा पुरा ॥ ३०.८३ ॥
मया अनुवर्तितम् तद्वत् काश्यप-अत्रि-मरीचिभिः । यस्मिन् एव तु संप्रोक्ते सूत्रे विखनसा पुरा ॥ ३०।८३ ॥
mayā anuvartitam tadvat kāśyapa-atri-marīcibhiḥ . yasmin eva tu saṃprokte sūtre vikhanasā purā .. 30.83 ..
वनस्थानां तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्थास्ततस्स्वर्वे येद्विजाश्चान्यसूत्रिणः ॥ ३०.८४ ॥
वनस्थानाम् तु सर्वेषाम् विधिः श्रामणक-अभिधः । वानप्रस्थाः ततस् स्वर्वे ये द्विजाः च अन्य-सूत्रिणः ॥ ३०।८४ ॥
vanasthānām tu sarveṣām vidhiḥ śrāmaṇaka-abhidhaḥ . vānaprasthāḥ tatas svarve ye dvijāḥ ca anya-sūtriṇaḥ .. 30.84 ..
तत्सूत्रविध्यमष्ठानात्स्मृता वैखानसा अमी । किं बहूक्तेन विधिना सर्वं वैखानसं जगथ् ॥ ३०.८५ ॥
तद्-सूत्र-विधि-अमष्ठानात् स्मृताः वैखानसाः अमी । किम् बहु-उक्तेन विधिना सर्वम् वैखानसम् ॥ ३०।८५ ॥
tad-sūtra-vidhi-amaṣṭhānāt smṛtāḥ vaikhānasāḥ amī . kim bahu-uktena vidhinā sarvam vaikhānasam .. 30.85 ..
परस्मिन्व्योम्नि यच्चार्ऽके यत्तेजस्तुत्रयीमयं । तद्वैखानः परं ब्रह्म इति वेदादधीमहि ॥ ३०.८६ ॥
परस्मिन् व्योम्नि यत् च आर्ऽके यत् तेजः तु त्रयी-मयम् । तत् वैखानः परम् ब्रह्म इति वेद-आदधीमहि ॥ ३०।८६ ॥
parasmin vyomni yat ca ār'ke yat tejaḥ tu trayī-mayam . tat vaikhānaḥ param brahma iti veda-ādadhīmahi .. 30.86 ..
शास्त्रमेतच्च सूत्रं च सर्वेषामपि जीवनं । ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः ॥ ३०.८७ ॥
शास्त्रम् एतत् च सूत्रम् च सर्वेषाम् अपि जीवनम् । ये वैखानस-सूत्रेण संस्कृताः तु द्विजातयः ॥ ३०।८७ ॥
śāstram etat ca sūtram ca sarveṣām api jīvanam . ye vaikhānasa-sūtreṇa saṃskṛtāḥ tu dvijātayaḥ .. 30.87 ..
ते विष्णुसदृशा ज्ञेयास्सर्वेषामुत्तमोत्तमाः । वैखानसानां सर्वेषां गर्भवैष्णवजन्मनां ॥ ३०.८८ ॥
ते विष्णु-सदृशाः ज्ञेयाः सर्वेषाम् उत्तमोत्तमाः । वैखानसानाम् सर्वेषाम् गर्भ-वैष्णव-जन्मनाम् ॥ ३०।८८ ॥
te viṣṇu-sadṛśāḥ jñeyāḥ sarveṣām uttamottamāḥ . vaikhānasānām sarveṣām garbha-vaiṣṇava-janmanām .. 30.88 ..
नारायणस्स्वयं गर्भेमुद्रां धारयिते निजां । विप्रा वैखानसाख्याये तेभक्तास्तत्त्वमुच्यते ॥ ३०.८९ ॥
नारायणः स्वयम् गर्भे मुद्राम् धारयिते निजाम् । विप्राः वैखानस-आख्याये ते भक्ताः तत्त्वम् उच्यते ॥ ३०।८९ ॥
nārāyaṇaḥ svayam garbhe mudrām dhārayite nijām . viprāḥ vaikhānasa-ākhyāye te bhaktāḥ tattvam ucyate .. 30.89 ..
एकान्तिनस्सुसत्त्वस्था देहान्तं नान्ययाजीनः । विष्णोःप्रियतमा लोके चत्वारः परिकीर्तिताः ॥ ३०.९० ॥
एकान्तिनः सु सत्त्व-स्थाः देहान्तम् न अन्य-याजीनः । विष्णोः प्रियतमाः लोके चत्वारः परिकीर्तिताः ॥ ३०।९० ॥
ekāntinaḥ su sattva-sthāḥ dehāntam na anya-yājīnaḥ . viṣṇoḥ priyatamāḥ loke catvāraḥ parikīrtitāḥ .. 30.90 ..
अश्वद्थःकपिला गावस्तुलसी वैष्णवा द्विजाः । द्विजेषु ब्राह्माणाश्श्रेष्ठा ब्राह्मणेषु च चैष्णवाः ॥ ३०.९१ ॥
अश्वद्थः कपिलाः गावः तुलसी वैष्णवाः द्विजाः । द्विजेषु ब्राह्माणाः श्रेष्ठाः ब्राह्मणेषु च चैष्णवाः ॥ ३०।९१ ॥
aśvadthaḥ kapilāḥ gāvaḥ tulasī vaiṣṇavāḥ dvijāḥ . dvijeṣu brāhmāṇāḥ śreṣṭhāḥ brāhmaṇeṣu ca caiṣṇavāḥ .. 30.91 ..
वैष्णवेषु परं श्रेष्ठा ये वैखानससूत्रिणः । वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा ॥ ३०.९२ ॥
वैष्णवेषु परम् श्रेष्ठाः ये वैखानस-सूत्रिणः । वैष्णवीम् प्रतिमाम् लोके विप्रम् वैखानसम् तथा ॥ ३०।९२ ॥
vaiṣṇaveṣu param śreṣṭhāḥ ye vaikhānasa-sūtriṇaḥ . vaiṣṇavīm pratimām loke vipram vaikhānasam tathā .. 30.92 ..
गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते मूलमस्यापि शास्त्रस्य । सार्धकोटिप्रमाणतः उपादिशत्स भगवानस्मभ्यं नैमिशे वने ॥ ३०.९३ ॥
गङ्गाम् विष्णुपदीम् दृष्ट्वा सर्व-पापैः प्रमुच्यते मूलम् अस्य अपि शास्त्रस्य । सार्ध-कोटि-प्रमाणतः उपादिशत् स भगवान् अस्मभ्यम् नैमिशे वने ॥ ३०।९३ ॥
gaṅgām viṣṇupadīm dṛṣṭvā sarva-pāpaiḥ pramucyate mūlam asya api śāstrasya . sārdha-koṭi-pramāṇataḥ upādiśat sa bhagavān asmabhyam naimiśe vane .. 30.93 ..
इति संक्षेपतः प्रोक्तं महत्त्वं सूत्रशास्त्रयोः । तस्माद्वैखानसा विप्रास्संपूज्या भगवत्प्रियाः ॥ ३०.९४ ॥
इति संक्षेपतः प्रोक्तम् महत्-त्वम् सूत्र-शास्त्रयोः । तस्मात् वैखानसाः विप्राः संपूज्याः भगवत्-प्रियाः ॥ ३०।९४ ॥
iti saṃkṣepataḥ proktam mahat-tvam sūtra-śāstrayoḥ . tasmāt vaikhānasāḥ viprāḥ saṃpūjyāḥ bhagavat-priyāḥ .. 30.94 ..
पूजान्ते स्नपनान्ते च तथान्ते चोत्सवस्य च । आचार्यमर्चकं चापि सर्वान्वैखानसांस्तथा ॥ ३०.९५ ॥
पूजा-अन्ते स्नपन-अन्ते च तथा अन्ते च उत्सवस्य च । आचार्यम् अर्चकम् च अपि सर्वान् वैखानसान् तथा ॥ ३०।९५ ॥
pūjā-ante snapana-ante ca tathā ante ca utsavasya ca . ācāryam arcakam ca api sarvān vaikhānasān tathā .. 30.95 ..
प्रथमं पूजयित्वैव पश्चात्कार्यं समाचरेथ् । यःपूजकमनादृत्य विप्रं वैखानसं हठाथ् ॥ ३०.९६ ॥
प्रथमम् पूजयित्वा एव पश्चात् कार्यम् समाचरेथ् । यः पूजकम् अन् आदृत्य विप्रम् वैखानसम् ॥ ३०।९६ ॥
prathamam pūjayitvā eva paścāt kāryam samācareth . yaḥ pūjakam an ādṛtya vipram vaikhānasam .. 30.96 ..
तीर्थं गृहीतुं प्रथम्च्छेत्स पतति ध्रुवं यः । पूजकमनादृत्य विप्रं वैखानसं पुनः ॥ ३०.९७ ॥
तीर्थम् गृहीतुम् स पतति ध्रुवम् यः । पूजकम् अन् आदृत्य विप्रम् वैखानसम् पुनर् ॥ ३०।९७ ॥
tīrtham gṛhītum sa patati dhruvam yaḥ . pūjakam an ādṛtya vipram vaikhānasam punar .. 30.97 ..
प्रसादं देवदेवस्य प्रथमं तु जिघृक्षति । ब्रह्महत्यामवाप्नोति तत्बूजा निष्पला भवेथ् ॥ ३०.९८ ॥
प्रसादम् देवदेवस्य प्रथमम् तु जिघृक्षति । ब्रह्महत्याम् अवाप्नोति तद्-बूजा निष्पला ॥ ३०।९८ ॥
prasādam devadevasya prathamam tu jighṛkṣati . brahmahatyām avāpnoti tad-būjā niṣpalā .. 30.98 ..
यः पूजकमनादृत्य विप्रं वैखानसं पुनः । यादृशीमपि देवाग्रे वाञ्छत्यपचितिं जनः ॥ ३०.९९ ॥
यः पूजकम् अन् आदृत्य विप्रम् वैखानसम् पुनर् । यादृशीम् अपि देव-अग्रे वाञ्छति अपचितिम् जनः ॥ ३०।९९ ॥
yaḥ pūjakam an ādṛtya vipram vaikhānasam punar . yādṛśīm api deva-agre vāñchati apacitim janaḥ .. 30.99 ..
चतुर्वेद्यपि सो विप्रस्सद्यश्चण्डालतां व्रजेथ् । तत्पूजा निष्फला च स्याद्राजराष्ट्रं विनश्यति ॥ ३०.१०० ॥
चतुर्-वेदी अपि सः विप्रः सद्यस् चण्डाल-ताम् । तद्-पूजा निष्फला च स्यात् राज-राष्ट्रम् विनश्यति ॥ ३०।१०० ॥
catur-vedī api saḥ vipraḥ sadyas caṇḍāla-tām . tad-pūjā niṣphalā ca syāt rāja-rāṣṭram vinaśyati .. 30.100 ..
षट्कालं वा त्रिकालं वा द्विकालं कालमेव वा । आलये भगवत्पूजा स्ॐयेन विधिना कृता ॥ ३०.१०१ ॥
षष्-कालम् वा त्रि-कालम् वा द्वि-कालम् कालम् एव वा । आलये भगवत्-पूजा सों येन विधिना कृता ॥ ३०।१०१ ॥
ṣaṣ-kālam vā tri-kālam vā dvi-kālam kālam eva vā . ālaye bhagavat-pūjā soṃ yena vidhinā kṛtā .. 30.101 ..
सर्वसंपत्करी सा स्याज्जगतामिति शासनं । तत्रार्चने तु शुद्धात्मा पूजकः परितोषितः ॥ ३०.१०२ ॥
सर्व-संपत्-करी सा स्यात् जगताम् इति शासनम् । तत्र अर्चने तु शुद्ध-आत्मा पूजकः परितोषितः ॥ ३०।१०२ ॥
sarva-saṃpat-karī sā syāt jagatām iti śāsanam . tatra arcane tu śuddha-ātmā pūjakaḥ paritoṣitaḥ .. 30.102 ..
तेन राजा च राज्यं च यजमानश्च नान्वयः । सर्वलोकश्च संतुष्टो वर्धते ब्रह्मतेजसा ॥ ३०.१०३ ॥
तेन राजा च राज्यम् च यजमानः च न अन्वयः । सर्व-लोकः च संतुष्टः वर्धते ब्रह्म-तेजसा ॥ ३०।१०३ ॥
tena rājā ca rājyam ca yajamānaḥ ca na anvayaḥ . sarva-lokaḥ ca saṃtuṣṭaḥ vardhate brahma-tejasā .. 30.103 ..
अग्रं वृक्षस्य राजानोमूलं वृक्षस्य पूजकाः । तस्मान्मूलं न हिंसीयान्मूलादग्रं प्ररोहति ॥ ३०.१०४ ॥
अग्रम् वृक्षस्य राजानः मूलम् वृक्षस्य पूजकाः । तस्मात् मूलम् न हिंसीयात् मूलात् अग्रम् प्ररोहति ॥ ३०।१०४ ॥
agram vṛkṣasya rājānaḥ mūlam vṛkṣasya pūjakāḥ . tasmāt mūlam na hiṃsīyāt mūlāt agram prarohati .. 30.104 ..
फलं वृक्षस्य राजानः पुष्पं वृक्षस्य पूजकाः । तस्मात्पुष्पं न हिंसीयात्पुष्पात्संजायते फलं ॥ ३०.१०५ ॥
फलम् वृक्षस्य राजानः पुष्पम् वृक्षस्य पूजकाः । तस्मात् पुष्पम् न हिंसीयात् पुष्पात् संजायते फलम् ॥ ३०।१०५ ॥
phalam vṛkṣasya rājānaḥ puṣpam vṛkṣasya pūjakāḥ . tasmāt puṣpam na hiṃsīyāt puṣpāt saṃjāyate phalam .. 30.105 ..
देवस्यं ब्राह्मणस्वं च सन्मानं पूजकस्य च । यस्तु न त्रायते राजा तमाहुर्ब्रह्मघातुकं ॥ ३०.१०६ ॥
देवस्यम् ब्राह्मण-स्वम् च सत्-मानम् पूजकस्य च । यः तु न त्रायते राजा तम् आहुः ब्रह्मघातुकम् ॥ ३०।१०६ ॥
devasyam brāhmaṇa-svam ca sat-mānam pūjakasya ca . yaḥ tu na trāyate rājā tam āhuḥ brahmaghātukam .. 30.106 ..
दुर्बलानामनाथानां बालवृद्धतपस्विनां । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ३०.१०७ ॥
दुर्बलानाम् अनाथानाम् बाल-वृद्ध-तपस्विनाम् । अन्यायैः परिभूतानाम् सर्वेषाम् पार्थिवः गतिः ॥ ३०।१०७ ॥
durbalānām anāthānām bāla-vṛddha-tapasvinām . anyāyaiḥ paribhūtānām sarveṣām pārthivaḥ gatiḥ .. 30.107 ..
राजा पिता च माता च राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥ ३०.१०८ ॥
राजा पिता च माता च राजा च परमः गुरुः । राजा च सर्व-भूतानाम् परित्राता गुरुः मतः ॥ ३०।१०८ ॥
rājā pitā ca mātā ca rājā ca paramaḥ guruḥ . rājā ca sarva-bhūtānām paritrātā guruḥ mataḥ .. 30.108 ..
दावाग्निदवदग्धानां राजा पूर्णमिवांभसा । समुद्रमिव तृप्यन्ति ब्राह्मणा वेदवादिनः ॥ ३०.१०९ ॥
दाव-अग्नि-दव-दग्धानाम् राजा पूर्णम् इव अंभसा । समुद्रम् इव तृप्यन्ति ब्राह्मणाः वेद-वादिनः ॥ ३०।१०९ ॥
dāva-agni-dava-dagdhānām rājā pūrṇam iva aṃbhasā . samudram iva tṛpyanti brāhmaṇāḥ veda-vādinaḥ .. 30.109 ..
दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिभिः । राजा दहति दिडेन विप्रो दहति मन्युवा ॥ ३०.११० ॥
दहति अग्निः तेजसा च सूर्यः दहति रश्मिभिः । राजा दहति दिडेन विप्रः दहति मन्युवा ॥ ३०।११० ॥
dahati agniḥ tejasā ca sūryaḥ dahati raśmibhiḥ . rājā dahati diḍena vipraḥ dahati manyuvā .. 30.110 ..
मन्युप्रहरणा विप्राश्चक्र प्रहरणो हरिः । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रान्न कोपयेथ् ॥ ३०.१११ ॥
मन्यु-प्रहरणाः विप्राः चक्र प्रहरणः हरिः । चक्रात् तीक्ष्णतरः मन्युः तस्मात् विप्रान् न कोपयेथ् ॥ ३०।१११ ॥
manyu-praharaṇāḥ viprāḥ cakra praharaṇaḥ hariḥ . cakrāt tīkṣṇataraḥ manyuḥ tasmāt viprān na kopayeth .. 30.111 ..
अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यस्तु संप्ररोहेत ब्रह्मशापहतो हतः ॥ ३०.११२ ॥
अग्नि-दग्धम् प्ररोहेत सूर्य-दग्धम् तथा एव च । दण्ड्यः तु संप्ररोहेत ब्रह्म-शाप-हतः हतः ॥ ३०।११२ ॥
agni-dagdham praroheta sūrya-dagdham tathā eva ca . daṇḍyaḥ tu saṃpraroheta brahma-śāpa-hataḥ hataḥ .. 30.112 ..
आपद्यपि च कष्टायां नावमान्यो हि पूजकः । अर्चकेन तु तुष्टेन यदुक्तं देवसन्निधौ ॥ ३०.११३ ॥
आपदि अपि च कष्टायाम् ना अवमान्यः हि पूजकः । अर्चकेन तु तुष्टेन यत् उक्तम् देव-सन्निधौ ॥ ३०।११३ ॥
āpadi api ca kaṣṭāyām nā avamānyaḥ hi pūjakaḥ . arcakena tu tuṣṭena yat uktam deva-sannidhau .. 30.113 ..
तद्वाक्यं तु ह रेर्वाक्यं नावमान्यो हि पूजकः । अर्चकं कोपयेद्यस्तु स हि देवस्य कोपकृथ् ॥ ३०.११४ ॥
तत् वाक्यम् तु ह रेः वाक्यम् न अवमान्यः हि पूजकः । अर्चकम् कोपयेत् यः तु स हि देवस्य ॥ ३०।११४ ॥
tat vākyam tu ha reḥ vākyam na avamānyaḥ hi pūjakaḥ . arcakam kopayet yaḥ tu sa hi devasya .. 30.114 ..
देवेशं तोषयेद्यस्तु स हि पूजकतोषकृथ् । गन्धं पुष्पं तथा माल्यं तांबूलं चाक्षतादिकं ॥ ३०.११५ ॥
देवेशम् तोषयेत् यः तु स हि । गन्धम् पुष्पम् तथा माल्यम् तांबूलम् च अक्षत-आदिकम् ॥ ३०।११५ ॥
deveśam toṣayet yaḥ tu sa hi . gandham puṣpam tathā mālyam tāṃbūlam ca akṣata-ādikam .. 30.115 ..
प्रसादं चापि देवस्य प्रथमं पूजकोर्ऽहति । षडङ्गविदुषां चैव क्रतुप्रवरयाजिनां ॥ ३०.११६ ॥
प्रसादम् च अपि देवस्य प्रथमम् पूजकः ऋहति । षडङ्ग-विदुषाम् च एव क्रतु-प्रवर-याजिनाम् ॥ ३०।११६ ॥
prasādam ca api devasya prathamam pūjakaḥ ṛhati . ṣaḍaṅga-viduṣām ca eva kratu-pravara-yājinām .. 30.116 ..
वैखानसः पुनात्यग्रे गोष्ठीं विप्रशतस्य तु । फलाभिसंधिरहितं सर्वं कर्माखिलं कृतं ॥ ३०.११७ ॥
वैखानसः पुनाति अग्रे गोष्ठीम् विप्र-शतस्य तु । फल-अभिसंधिः अहितम् सर्वम् कर्म अखिलम् कृतम् ॥ ३०।११७ ॥
vaikhānasaḥ punāti agre goṣṭhīm vipra-śatasya tu . phala-abhisaṃdhiḥ ahitam sarvam karma akhilam kṛtam .. 30.117 ..
ब्रह्मार्पणधिया कुर्यात्स भवेद्वैष्णवोत्तमः । नान्यं देवं नमस्कुर्यान्नान्यं देवं प्रपूजयेथ् ॥ ३०.११८ ॥
ब्रह्म-अर्पण-धिया कुर्यात् स भवेत् वैष्णव-उत्तमः । न अन्यम् देवम् नमस्कुर्यात् न अन्यम् देवम् प्रपूजयेथ् ॥ ३०।११८ ॥
brahma-arpaṇa-dhiyā kuryāt sa bhavet vaiṣṇava-uttamaḥ . na anyam devam namaskuryāt na anyam devam prapūjayeth .. 30.118 ..
अर्चयेत्सततं ध्यायेन्नारायणमनायं । कायेन मनसा वाचा स तु वैष्णव उच्यते ॥ ३०.११९ ॥
अर्चयेत् सततम् ध्यायेत् नारायणम् अनायम् । कायेन मनसा वाचा स तु वैष्णवः उच्यते ॥ ३०।११९ ॥
arcayet satatam dhyāyet nārāyaṇam anāyam . kāyena manasā vācā sa tu vaiṣṇavaḥ ucyate .. 30.119 ..
तिर्यक्पुण्ड्रधरं चैव पाषण्डिनमवैष्णवं । देवाग्रे पूजयेऽन्नैव तद्वैष्णवविमानना ॥ ३०.१२० ॥
तिर्यक्-पुण्ड्र-धरम् च एव पाषण्डिनम् अवैष्णवम् । देव-अग्रे तद्-वैष्णव-विमानना ॥ ३०।१२० ॥
tiryak-puṇḍra-dharam ca eva pāṣaṇḍinam avaiṣṇavam . deva-agre tad-vaiṣṇava-vimānanā .. 30.120 ..
अभ्यर्च्या विष्णुभक्ता हि वैष्णवा भगवत्प्रियाः । अवैष्णवस्य पूजा तु तेषामग्रे सुदारुणा ॥ ३०.१२१ ॥
अभ्यर्च्याः विष्णु-भक्ताः हि वैष्णवाः भगवत्-प्रियाः । अवैष्णवस्य पूजा तु तेषाम् अग्रे सु दारुणा ॥ ३०।१२१ ॥
abhyarcyāḥ viṣṇu-bhaktāḥ hi vaiṣṇavāḥ bhagavat-priyāḥ . avaiṣṇavasya pūjā tu teṣām agre su dāruṇā .. 30.121 ..
तस्मात्सर्वप्रयत्नेन त्यजेद्दूरादवैष्णवं । येतु सामान्यभावेन मन्यन्ते पुरुषोत्तमं ॥ ३०.१२२ ॥
तस्मात् सर्व-प्रयत्नेन त्यजेत् दूरात् अवैष्णवम् । ये तु सामान्य-भावेन मन्यन्ते पुरुषोत्तमम् ॥ ३०।१२२ ॥
tasmāt sarva-prayatnena tyajet dūrāt avaiṣṇavam . ye tu sāmānya-bhāvena manyante puruṣottamam .. 30.122 ..
रुद्रादिभिस्सहाज्ञा नात्तेऽपि ज्ञेया अवैष्णवाः । नरेषु ब्राह्मणाश्श्रेष्ठा ब्राह्मणेषु विपश्चितः ॥ ३०.१२३ ॥
रुद्र-आदिभिः सह आज्ञा न आत् ते अपि ज्ञेयाः अवैष्णवाः । नरेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु विपश्चितः ॥ ३०।१२३ ॥
rudra-ādibhiḥ saha ājñā na āt te api jñeyāḥ avaiṣṇavāḥ . nareṣu brāhmaṇāḥ śreṣṭhāḥ brāhmaṇeṣu vipaścitaḥ .. 30.123 ..
विपश्चित्सु कृतधियस्तेषु कर्तार एव च । कर्तृषु ब्रह्मविदुषो ये हि भक्ताजनाक्दने ॥ ३०.१२४ ॥
विपश्चित्सु कृत-धियः तेषु कर्तारः एव च । कर्तृषु ब्रह्म-विदुषः ये हि ॥ ३०।१२४ ॥
vipaścitsu kṛta-dhiyaḥ teṣu kartāraḥ eva ca . kartṛṣu brahma-viduṣaḥ ye hi .. 30.124 ..
विष्णुभक्तेषु सर्वत्र श्रेष्ठा वैखानसास्स्मृताः । तस्मात्संपूज्य सर्वादौ भक्त्या वैखानसं द्विजं ॥ ३०.१२५ ॥
विष्णु-भक्तेषु सर्वत्र श्रेष्ठाः वैखानसाः स्मृताः । तस्मात् संपूज्य सर्व-आदौ भक्त्या वैखानसम् द्विजम् ॥ ३०।१२५ ॥
viṣṇu-bhakteṣu sarvatra śreṣṭhāḥ vaikhānasāḥ smṛtāḥ . tasmāt saṃpūjya sarva-ādau bhaktyā vaikhānasam dvijam .. 30.125 ..
विष्णुभक्तं ततः पूज्य यथावर्णानुपूर्व्यशः । गोष्ठीं समर्चयेत्काले भोज्याश्चान्ये द्विजातयः ॥ ३०.१२६ ॥
विष्णु-भक्तम् ततस् पूज्य यथावर्ण-आनुपूर्व्यशः । गोष्ठीम् समर्चयेत् काले भोज्याः च अन्ये द्विजातयः ॥ ३०।१२६ ॥
viṣṇu-bhaktam tatas pūjya yathāvarṇa-ānupūrvyaśaḥ . goṣṭhīm samarcayet kāle bhojyāḥ ca anye dvijātayaḥ .. 30.126 ..
स्त्रीयः पूज्या विधानेन वैष्णप्यो वैष्णवाश्रयाः । न हि साधारणि सृष्यिर्वैष्णवीति विचिन्तयेथ् ॥ ३०.१२७ ॥
स्त्री इयः पूज्याः विधानेन वैष्णप्यः वैष्णव-आश्रयाः । न हि साधारणि सृष्यिः वैष्णवी इति ॥ ३०।१२७ ॥
strī iyaḥ pūjyāḥ vidhānena vaiṣṇapyaḥ vaiṣṇava-āśrayāḥ . na hi sādhāraṇi sṛṣyiḥ vaiṣṇavī iti .. 30.127 ..
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ ३०.१२८ ॥
जन्म-अन्तर-सहस्रेषु तपः-ध्यान-समाधिभिः । नराणाम् क्षीण-पापानाम् कृष्णे भक्तिः प्रजायते ॥ ३०।१२८ ॥
janma-antara-sahasreṣu tapaḥ-dhyāna-samādhibhiḥ . narāṇām kṣīṇa-pāpānām kṛṣṇe bhaktiḥ prajāyate .. 30.128 ..
न ह्यभागवतैर्विष्णुर्ज्ञ्रातुं स्तोतुं च तत्त्वतः । द्रष्टुं वा शक्यते मूढाः प्रवेष्टुं कुत एव हि ॥ ३०.१२९ ॥
न हि अभागवतैः विष्णुः ज्ञ्रातुम् स्तोतुम् च तत्त्वतः । द्रष्टुम् वा शक्यते मूढाः प्रवेष्टुम् कुतस् एव हि ॥ ३०।१२९ ॥
na hi abhāgavataiḥ viṣṇuḥ jñrātum stotum ca tattvataḥ . draṣṭum vā śakyate mūḍhāḥ praveṣṭum kutas eva hi .. 30.129 ..
तद्भक्तिभाविताः पूता नरास्तद्गतचेतसः । भवन्तिवै भागवतास्ते विष्णुं प्रविशन्ति च ॥ ३०.१३० ॥
तद्-भक्ति-भाविताः पूताः नराः तद्-गत-चेतसः । भवन्ति वै भागवताः ते विष्णुम् प्रविशन्ति च ॥ ३०।१३० ॥
tad-bhakti-bhāvitāḥ pūtāḥ narāḥ tad-gata-cetasaḥ . bhavanti vai bhāgavatāḥ te viṣṇum praviśanti ca .. 30.130 ..
अनेक जन्मसंसारचिते पापसमुच्चये । वार्षिणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ ३०.१३१ ॥
अनेक-जन्म-संसार-चिते पाप-समुच्चये । वार्षिणे जायते पुंसाम् गोविन्द-अभिमुखी मतिः ॥ ३०।१३१ ॥
aneka-janma-saṃsāra-cite pāpa-samuccaye . vārṣiṇe jāyate puṃsām govinda-abhimukhī matiḥ .. 30.131 ..
प्रद्वेषं याति गोविन्दे द्विजान्वेदांश्च निन्दति । यो नरस्तं विजानीयादासुरांशसमुद्भवं ॥ ३०.१३२ ॥
प्रद्वेषम् याति गोविन्दे द्विजान् वेदान् च निन्दति । यः नरः तम् विजानीयात् आसुर-अंश-समुद्भवम् ॥ ३०।१३२ ॥
pradveṣam yāti govinde dvijān vedān ca nindati . yaḥ naraḥ tam vijānīyāt āsura-aṃśa-samudbhavam .. 30.132 ..
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता । जायते विष्णुमायातः पतितानां दुरात्मनां ॥ ३०.१३३ ॥
पाषण्डेषु रतिः पुंसाम् हेतुवाद-अनुकूल-ता । जायते विष्णुम् आयातः पतितानाम् दुरात्मनाम् ॥ ३०।१३३ ॥
pāṣaṇḍeṣu ratiḥ puṃsām hetuvāda-anukūla-tā . jāyate viṣṇum āyātaḥ patitānām durātmanām .. 30.133 ..
यदा पापक्षयः पुंसां तदा देवद्विजातिषु । विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ॥ ३०.१३४ ॥
यदा पाप-क्षयः पुंसाम् तदा देव-द्विजातिषु । विष्टौ च यज्ञपुरुषे श्रद्धा भवति निश्चला ॥ ३०।१३४ ॥
yadā pāpa-kṣayaḥ puṃsām tadā deva-dvijātiṣu . viṣṭau ca yajñapuruṣe śraddhā bhavati niścalā .. 30.134 ..
यथा स्वल्पान शेषस्तु नराणां पापसंचयः । भवन्ति ते भागवता निश्श्रेयशपरा नराः ॥ ३०.१३५ ॥
यथा शेषः तु नराणाम् पाप-संचयः । भवन्ति ते भागवताः निश्श्रेयश-पराः नराः ॥ ३०।१३५ ॥
yathā śeṣaḥ tu narāṇām pāpa-saṃcayaḥ . bhavanti te bhāgavatāḥ niśśreyaśa-parāḥ narāḥ .. 30.135 ..
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे । हस्तावलंबनो ह्येको भक्तिक्रीतो जनार्दनः ॥ ३०.१३६ ॥
भ्राम्यताम् अत्र संसारे नराणाम् कर्म-दुर्गमे । हस्त-अवलंबनः हि एकः भक्ति-क्रीतः जनार्दनः ॥ ३०।१३६ ॥
bhrāmyatām atra saṃsāre narāṇām karma-durgame . hasta-avalaṃbanaḥ hi ekaḥ bhakti-krītaḥ janārdanaḥ .. 30.136 ..
कर्मणा मनसा वाचा प्राणिनां योऽनसूयकः । भावसक्तश्च गोविन्दे विष्णौ भागवतो हि सः ॥ ३०.१३७ ॥
कर्मणा मनसा वाचा प्राणिनाम् यः अनसूयकः । भाव-सक्तः च गोविन्दे विष्णौ भागवतः हि सः ॥ ३०।१३७ ॥
karmaṇā manasā vācā prāṇinām yaḥ anasūyakaḥ . bhāva-saktaḥ ca govinde viṣṇau bhāgavataḥ hi saḥ .. 30.137 ..
यो ब्राह्मणांश्च वेदांश्च नित्यमेव नमस्यति । न द्रोग्धा परवित्तादेः सहि भागवतः स्मृतः ॥ ३०.१३८ ॥
यः ब्राह्मणान् च वेदान् च नित्यम् एव नमस्यति । न द्रोग्धा पर-वित्त-आदेः सहि भागवतः स्मृतः ॥ ३०।१३८ ॥
yaḥ brāhmaṇān ca vedān ca nityam eva namasyati . na drogdhā para-vitta-ādeḥ sahi bhāgavataḥ smṛtaḥ .. 30.138 ..
सर्वान्देवान्हरिं वेत्ति सर्वान्लोकांश्च केशवं । तेभ्यश्च नास्यमात्मावं स हि भागवतस्स्मृतः ॥ ३०.१३९ ॥
सर्वान् देवान् हरिम् वेत्ति सर्वान् लोकान् च केशवम् । तेभ्यः च स हि भागवतः स्मृतः ॥ ३०।१३९ ॥
sarvān devān harim vetti sarvān lokān ca keśavam . tebhyaḥ ca sa hi bhāgavataḥ smṛtaḥ .. 30.139 ..
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः । तरुपाषाणकाष्ठादीन्भूम्यंभोगगनं दिशः ॥ ३०.१४० ॥
देवम् मनुष्यम् अन्यम् वा पशु-पक्षि-पिपीलिकाः । तरु-पाषाण-काष्ठ-आदीन् भूमि-अंभः-गगनम् दिशः ॥ ३०।१४० ॥
devam manuṣyam anyam vā paśu-pakṣi-pipīlikāḥ . taru-pāṣāṇa-kāṣṭha-ādīn bhūmi-aṃbhaḥ-gaganam diśaḥ .. 30.140 ..
आत्मानं चापि देवेशाद्व्यतिरिक्तं जनार्दनाथ् । यो न जानाति पुण्यात्मा स हि भागवतस्स्मृतः ॥ ३०.१४१ ॥
आत्मानम् च अपि देवेशात् व्यतिरिक्तम् जनार्दनाथ् अथ् । यः न जानाति पुण्य-आत्मा स हि भागवतः स्मृतः ॥ ३०।१४१ ॥
ātmānam ca api deveśāt vyatiriktam janārdanāth ath . yaḥ na jānāti puṇya-ātmā sa hi bhāgavataḥ smṛtaḥ .. 30.141 ..
सर्वं भगवतो भागो यद्भूतं भव्यसंस्थितं । इति यो वै विजानाति स हि भागवतस्स्मृतः ॥ ३०.१४२ ॥
सर्वम् भगवतः भागः यत् भूतम् भव्य-संस्थितम् । इति यः वै विजानाति स हि भागवतः स्मृतः ॥ ३०।१४२ ॥
sarvam bhagavataḥ bhāgaḥ yat bhūtam bhavya-saṃsthitam . iti yaḥ vai vijānāti sa hi bhāgavataḥ smṛtaḥ .. 30.142 ..
भवभीतिं हरत्येष भक्तिभावेन भावितः । भगवानिति यद्भावस्स तु भागवतस्स्मृतः ॥ ३०.१४३ ॥
भव-भीतिम् हरति एष भक्ति-भावेन भावितः । भगवान् इति यद्-भावः स तु भागवतः स्मृतः ॥ ३०।१४३ ॥
bhava-bhītim harati eṣa bhakti-bhāvena bhāvitaḥ . bhagavān iti yad-bhāvaḥ sa tu bhāgavataḥ smṛtaḥ .. 30.143 ..
भावं न कुरुते यस्तु सर्वभूतेषु पापकं । कर्मणा मनसा वाचा स तु भागवतस्स्मृतः ॥ ३०.१४४ ॥
भावम् न कुरुते यः तु सर्व-भूतेषु पापकम् । कर्मणा मनसा वाचा स तु भागवतः स्मृतः ॥ ३०।१४४ ॥
bhāvam na kurute yaḥ tu sarva-bhūteṣu pāpakam . karmaṇā manasā vācā sa tu bhāgavataḥ smṛtaḥ .. 30.144 ..
बाह्यार्थनिरपेक्षो यो भक्त्या भगवतः क्रियां । भावेन निष्पादयति ज्ञेयो भागवतो हि सः ॥ ३०.१४५ ॥
बाह्य-अर्थ-निरपेक्षः यः भक्त्या भगवतः क्रियाम् । भावेन निष्पादयति ज्ञेयः भागवतः हि सः ॥ ३०।१४५ ॥
bāhya-artha-nirapekṣaḥ yaḥ bhaktyā bhagavataḥ kriyām . bhāvena niṣpādayati jñeyaḥ bhāgavataḥ hi saḥ .. 30.145 ..
नारयो यस्य सुस्निग्धा न चोदासीनवृत्तयः । पश्यतस्सर्वमेवेदं विष्णुं भागवतस्स हि ॥ ३०.१४६ ॥
न अरयः यस्य सु स्निग्धाः न च उदासीन-वृत्तयः । पश्यतः सर्वम् एव इदम् विष्णुम् भागवतः स हि ॥ ३०।१४६ ॥
na arayaḥ yasya su snigdhāḥ na ca udāsīna-vṛttayaḥ . paśyataḥ sarvam eva idam viṣṇum bhāgavataḥ sa hi .. 30.146 ..
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः । तां गतिं न नरायान्ति यां तु भागवता नराः ॥ ३०.१४७ ॥
सु तप्तेन इह तपसा यज्ञैः वा बहु-दक्षिणैः । ताम् गतिम् न नर आयान्ति याम् तु भागवताः नराः ॥ ३०।१४७ ॥
su taptena iha tapasā yajñaiḥ vā bahu-dakṣiṇaiḥ . tām gatim na nara āyānti yām tu bhāgavatāḥ narāḥ .. 30.147 ..
योगच्युतैर्भागवतैद्देवराजश्शतक्रतुः । अवाङ्निरीक्ष्यते नज्रीकिमु ये योगपारगाः ॥ ३०.१४८ ॥
योग-च्युतैः भागवतैः देवराजः शतक्रतुः । अवाक् निरीक्ष्यते ये योग-पारगाः ॥ ३०।१४८ ॥
yoga-cyutaiḥ bhāgavataiḥ devarājaḥ śatakratuḥ . avāk nirīkṣyate ye yoga-pāragāḥ .. 30.148 ..
यज्ञनिष्पत्तये वेदा देवा यज्ञपतेः कृते । तत्तोषणाय यतते स हि भागवतस्स्मृतः ॥ ३०.१४९ ॥
यज्ञ-निष्पत्तये वेदाः देवाः यज्ञपतेः कृते । तद्-तोषणाय यतते स हि भागवतः स्मृतः ॥ ३०।१४९ ॥
yajña-niṣpattaye vedāḥ devāḥ yajñapateḥ kṛte . tad-toṣaṇāya yatate sa hi bhāgavataḥ smṛtaḥ .. 30.149 ..
येन सर्वात्मना भक्त्या विष्णौ भावो निवेशितः । युक्तत्वात्कृतकृत्यत्वात्स हि भागवतस्स्मृतः ॥ ३०.१५० ॥
येन सर्व-आत्मना भक्त्या विष्णौ भावः निवेशितः । युक्त-त्वात् कृतकृत्य-त्वात् स हि भागवतः स्मृतः ॥ ३०।१५० ॥
yena sarva-ātmanā bhaktyā viṣṇau bhāvaḥ niveśitaḥ . yukta-tvāt kṛtakṛtya-tvāt sa hi bhāgavataḥ smṛtaḥ .. 30.150 ..
व्रतिनां यज्ञपुरुषः पूज्यो विष्णुरसंशयः । स्त्रीयश्च स्वं च भर्तारमृते पूज्यन्न दैवतं ॥ ३०.१५१ ॥
व्रतिनाम् यज्ञपुरुषः पूज्यः विष्णुः असंशयः । स्त्रीयः च स्वम् च भर्तारम् ऋते पूज्यन् न दैवतम् ॥ ३०।१५१ ॥
vratinām yajñapuruṣaḥ pūjyaḥ viṣṇuḥ asaṃśayaḥ . strīyaḥ ca svam ca bhartāram ṛte pūjyan na daivatam .. 30.151 ..
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः । वैखानसानामाराध्यस्तपोभिर्मधुसूदनः ॥ ३०.१५२ ॥
भर्तुः गृहस्थस्य सतः पूज्यः यज्ञपतिः हरिः । वैखानसानाम् आराध्यः तपोभिः मधुसूदनः ॥ ३०।१५२ ॥
bhartuḥ gṛhasthasya sataḥ pūjyaḥ yajñapatiḥ hariḥ . vaikhānasānām ārādhyaḥ tapobhiḥ madhusūdanaḥ .. 30.152 ..
ध्येयः परिव्राजकानां वासुदेवो महात्मनां । एवमाश्रमिणां विष्णुस्सर्वेषां च परायणं ॥ ३०.१५३ ॥
ध्येयः परिव्राजकानाम् वासुदेवः महात्मनाम् । एवम् आश्रमिणाम् विष्णुः सर्वेषाम् च परायणम् ॥ ३०।१५३ ॥
dhyeyaḥ parivrājakānām vāsudevaḥ mahātmanām . evam āśramiṇām viṣṇuḥ sarveṣām ca parāyaṇam .. 30.153 ..
न दानैर्नतपोभिश्च प्रीयते भगवान्हरिः । वर्णाश्रमाचारवता यथा स परितुष्यति ॥ ३०.१५४ ॥
न दानैः न तपोभिः च प्रीयते भगवान् हरिः । वर्ण-आश्रम-आचारवता यथा स परितुष्यति ॥ ३०।१५४ ॥
na dānaiḥ na tapobhiḥ ca prīyate bhagavān hariḥ . varṇa-āśrama-ācāravatā yathā sa parituṣyati .. 30.154 ..
वर्णाश्रमाचारवता पुरुषेण परःपुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ३०.१५५ ॥
वर्ण-आश्रम-आचारवता पुरुषेण परः पुमान् । विष्णुः आराध्यते पन्थाः ना अन्यः तद्-तोष-कारकः ॥ ३०।१५५ ॥
varṇa-āśrama-ācāravatā puruṣeṇa paraḥ pumān . viṣṇuḥ ārādhyate panthāḥ nā anyaḥ tad-toṣa-kārakaḥ .. 30.155 ..
अत्रानुक्तेषु दोषेषु प्रायश्चित्तं प्रवक्ष्यते । पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं ॥ ३०.१५६ ॥
अत्र अनुक्तेषु दोषेषु प्रायश्चित्तम् प्रवक्ष्यते । पैण्डरीक-अग्निम् आसाद्य परिषिच्य च पावकम् ॥ ३०।१५६ ॥
atra anukteṣu doṣeṣu prāyaścittam pravakṣyate . paiṇḍarīka-agnim āsādya pariṣicya ca pāvakam .. 30.156 ..
षट्कृत्वो वैष्णवं तद्वच्चतुष्कृत्वश्च व्याहृतीः । अष्टाक्षरं चाष्टकृत्वस्तथा च द्वादशाक्षरं ॥ ३०.१५७ ॥
षष्-कृत्वस् वैष्णवम् तद्वत् चतुर्-कृत्वस् च व्याहृतीः । अष्ट-अक्षरम् च अष्ट-कृत्वस् तथा च द्वादश-अक्षरम् ॥ ३०।१५७ ॥
ṣaṣ-kṛtvas vaiṣṇavam tadvat catur-kṛtvas ca vyāhṛtīḥ . aṣṭa-akṣaram ca aṣṭa-kṛtvas tathā ca dvādaśa-akṣaram .. 30.157 ..
हुत्वा द्वादशकृत्वस्तु विष्णुसूक्तं च पौरुषं । एकाक्षरादिसूक्तं च श्रीभूसूक्तद्वयं हुनेथ् ॥ ३०.१५८ ॥
हुत्वा द्वादश-कृत्वस् तु विष्णुसूक्तम् च पौरुषम् । एकाक्षर-आदि-सूक्तम् च श्री-भू-सूक्त-द्वयम् ॥ ३०।१५८ ॥
hutvā dvādaśa-kṛtvas tu viṣṇusūktam ca pauruṣam . ekākṣara-ādi-sūktam ca śrī-bhū-sūkta-dvayam .. 30.158 ..
देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेत्, । अनेन विधिना तत्र शान्तिर्भवति शोभना ॥ ३०.१५९ ॥
देवम् संस्नाप्य च अभ्यर्च्य हविः सम्यक् नि वेदयेत्, । अनेन विधिना तत्र शान्तिः भवति शोभना ॥ ३०।१५९ ॥
devam saṃsnāpya ca abhyarcya haviḥ samyak ni vedayet, . anena vidhinā tatra śāntiḥ bhavati śobhanā .. 30.159 ..
हादोषेषु च पुनरुक्तहोमैस्सहैव तु । पारमात्मिकमीङ्काराद्यष्टाशीतिं विशेषतः ॥ ३०.१६० ॥
हा दोषेषु च पुनर् उक्त-होमैः सह एव तु । पारमात्मिक-मीङ्कार-आदि-अष्टाशीतिम् विशेषतः ॥ ३०।१६० ॥
hā doṣeṣu ca punar ukta-homaiḥ saha eva tu . pāramātmika-mīṅkāra-ādi-aṣṭāśītim viśeṣataḥ .. 30.160 ..
हुत्वा च सर्वदैवत्यमष्टाभिश्च शतैर्घटैः । देवं संस्नाप्य चाभ्यर्च्य हविस्सम्यङ्नि वेदयेथ् ॥ ३०.१६१ ॥
हुत्वा च सर्व-दैवत्यम् अष्टाभिः च शतैः घटैः । देवम् संस्नाप्य च अभ्यर्च्य हविः सम्यक् नि वेदयेथ् ॥ ३०।१६१ ॥
hutvā ca sarva-daivatyam aṣṭābhiḥ ca śataiḥ ghaṭaiḥ . devam saṃsnāpya ca abhyarcya haviḥ samyak ni vedayeth .. 30.161 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे त्रिंशोऽध्यायः.
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे त्रिंशः अध्यायः।
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre triṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In