| |
|

This overlay will guide you through the buttons:

अथ तृतीयोऽध्यायः
अथ तृतीयः अध्यायः
atha tṛtīyaḥ adhyāyaḥ
अथविन्यासरूपाणि प्रवक्षन्तेयथाक्रमं । श्रीवत्संप्रथमंप्रोक्तं नन्द्यावर्तन्द्वितीयकं ॥ ३.१ ॥
अथ विन्यास-रूपाणि । श्रीवत्सम् प्रथमम् प्रोक्तम् नन्दी आवर्तन् द्वितीयकम् ॥ ३।१ ॥
atha vinyāsa-rūpāṇi . śrīvatsam prathamam proktam nandī āvartan dvitīyakam .. 3.1 ..
तृतीयंस्वस्तिकंविन्द्याच्चतुर्थंभद्रकंस्मृतं । दण्डकंपञ्चमन्त्वाहुर्वेदिकंषष्ठमुच्यते ॥ ३.२ ॥
तृतीयम् स्वस्तिकम् विन्द्यात् चतुर्थम् भद्रकम् स्मृतम् । दण्डकम् पञ्चमन्तु तु आहुः वेदिकम् षष्ठम् उच्यते ॥ ३।२ ॥
tṛtīyam svastikam vindyāt caturtham bhadrakam smṛtam . daṇḍakam pañcamantu tu āhuḥ vedikam ṣaṣṭham ucyate .. 3.2 ..
कुंभकंसप्तमंविन्द्या दष्टमंपद्मकन्तथा । नवमंस्याद्रथपदं दशमन्तुप्रकीर्णकं ॥ ३.३ ॥
कुंभकम् सप्तमम् विन्द्याः दष्टमम् पद्मकम् तथा । नवमम् स्यात् रथपदम् ॥ ३।३ ॥
kuṃbhakam saptamam vindyāḥ daṣṭamam padmakam tathā . navamam syāt rathapadam .. 3.3 ..
एतेषामाकृतिंवक्ष्ये यथावदनुपूर्वशः । न्यत्रदण्डकात्सर्वं बहिर्वीधीसमन्वितं ॥ ३.४ ॥
एतेषाम् आकृतिम् वक्ष्ये यथावत् अनुपूर्वशस् । न्यत्र दण्डकात् सर्वम् बहिस् वीधी-समन्वितम् ॥ ३।४ ॥
eteṣām ākṛtim vakṣye yathāvat anupūrvaśas . nyatra daṇḍakāt sarvam bahis vīdhī-samanvitam .. 3.4 ..
तस्यचास्तगन्तैश्चिह्नैश्श्रीवत्साद्यंविधीयते । एकप्राचीनवीधीक मुदीचीनान्यवीथिकं ॥ ३.५ ॥
तस्य च अस्त-गन्तैः चिह्नैः श्रीवत्स-आद्यम् विधीयते । एक-प्राचीन-वीधीक उदीचीन-अन्य-वीथिकम् ॥ ३।५ ॥
tasya ca asta-gantaiḥ cihnaiḥ śrīvatsa-ādyam vidhīyate . eka-prācīna-vīdhīka udīcīna-anya-vīthikam .. 3.5 ..
श्रीवत्समितिविज्ञेयं सर्वविद्यासमंमतं । मध्येकोणं चतुर्द्वारं प्रागीशादिप्रदक्षिणं ॥ ३.६ ॥
श्रीवत्स-मिति विज्ञेयम् सर्व-विद्या-समंमतम् । मध्ये कोणम् चतुर्-द्वारम् प्राच्-ईश-आदि-प्रदक्षिणम् ॥ ३।६ ॥
śrīvatsa-miti vijñeyam sarva-vidyā-samaṃmatam . madhye koṇam catur-dvāram prāc-īśa-ādi-pradakṣiṇam .. 3.6 ..
तन्निगन्तोजवीथीकं नन्द्यावर्तमितिस्मृतं । स्वस्तिकन्त्वोजवीथ्यन्तं भद्रंमध्यप्रतोलिकं ॥ ३.७ ॥
नन्द्यावर्तम् इति स्मृतम् । स्वस्ति-कन्तु-ओज-वीथि-अन्तम् भद्रम् मध्य-प्रतोलिकम् ॥ ३।७ ॥
nandyāvartam iti smṛtam . svasti-kantu-oja-vīthi-antam bhadram madhya-pratolikam .. 3.7 ..
एकप्राचीनकन्दण्डं चतुरश्रन्तुवेदिकं । वृत्तङ्कुंभकमुद्दिष्टं पद्मकंस्याद्द्विवेदिकं ॥ ३.८ ॥
एक-प्राचीन-कन्दण्डम् चतुर्-अश्रन्तु-वेदिकम् । वृत्तङ्कुंभकम् उद्दिष्टम् पद्मकम् स्यात् द्वि-वेदिकम् ॥ ३।८ ॥
eka-prācīna-kandaṇḍam catur-aśrantu-vedikam . vṛttaṅkuṃbhakam uddiṣṭam padmakam syāt dvi-vedikam .. 3.8 ..
ब्रह्मकोशाष्टकद्वारवीथीरथपदाकृतिः । प्रागुदक्प्रवणञ्चैव प्रकीर्णकमुदाहृतं ॥ ३.९ ॥
। प्राच्-उदक्-प्रवणम् च एव प्रकीर्णकम् उदाहृतम् ॥ ३।९ ॥
. prāc-udak-pravaṇam ca eva prakīrṇakam udāhṛtam .. 3.9 ..
द्विद्वारंवाचतुद्वान्रं मनस्तोयुक्तितोभवेथ् । अयुक्तद्वारदेवस्य भजनंनाभिधीयते ॥ ३.१० ॥
मनस्-तः युक्ति-तः भवेथ् । अयुक्त-द्वार-देवस्य भजनम् न अभिधीयते ॥ ३।१० ॥
manas-taḥ yukti-taḥ bhaveth . ayukta-dvāra-devasya bhajanam na abhidhīyate .. 3.10 ..
दण्डकस्तेनमानेन योनिग्रहणमुच्यते । शरीरमङ्गंप्रत्यङ्गं ज्ञात्वायोनिंप्रकल्पयेथ् ॥ ३.११ ॥
दण्डकः तेन-मानेन योनि-ग्रहणम् उच्यते । शरीरम् अङ्गम् प्रत्यङ्गम् ज्ञात्वा योनिम् प्रकल्पयेथ् ॥ ३।११ ॥
daṇḍakaḥ tena-mānena yoni-grahaṇam ucyate . śarīram aṅgam pratyaṅgam jñātvā yonim prakalpayeth .. 3.11 ..
ग्रामंशरीरमङ्गंस्स्याद्देवद्विजपरिग्रहं । प्रत्यङ्गमङ्गंसंवृत्तं विमानभवनादिकं ॥ ३.१२ ॥
ग्रामम् शरीरम् अङ्गम् स्यात् देव-द्विज-परिग्रहम् । प्रत्यङ्गम् अङ्गम् संवृत्तम् विमान-भवन-आदिकम् ॥ ३।१२ ॥
grāmam śarīram aṅgam syāt deva-dvija-parigraham . pratyaṅgam aṅgam saṃvṛttam vimāna-bhavana-ādikam .. 3.12 ..
दण्डेनपूर्वयोर्वादं हस्तेनान्यत्रधीयते । दण्डेविस्तारमायाम मेकैकङ्गुणयेत्त्रिभिः ॥ ३.१३ ॥
दण्डेन पूर्वयोः वादम् हस्तेन अन्यत्र धीयते । दण्डे विस्तारम् आयामम् एकैकम् गुणयेत् त्रिभिः ॥ ३।१३ ॥
daṇḍena pūrvayoḥ vādam hastena anyatra dhīyate . daṇḍe vistāram āyāmam ekaikam guṇayet tribhiḥ .. 3.13 ..
एकैकंषष्टिभिहिन्त्वा शिष्टंयोनिंसमादिशेथ् । हस्तेनद्वयसंसर्गे त्रिगुणंवसुभिहन्रेथ् ॥ ३.१४ ॥
एकैकम् षष्टिभिः हिन्त्वा शिष्टम् योनिम् समादिशेथ् । हस्तेन द्वय-संसर्गे त्रिगुणम् वसुभिः हन्-रेथ् ॥ ३।१४ ॥
ekaikam ṣaṣṭibhiḥ hintvā śiṣṭam yonim samādiśeth . hastena dvaya-saṃsarge triguṇam vasubhiḥ han-reth .. 3.14 ..
शेषंयोनिंविजानियाद्ध्वजधूमादिकङ्क्रमाथ् । सर्वत्रकल्पयेद्योनिं तयोर्वर्गफलेनवा ॥ ३.१५ ॥
शेषम् योनिम् विजानियात् ध्वज-धूम-आदि-कङ्क्रमाथ् । सर्वत्र कल्पयेत् योनिम् तयोः वर्ग-फलेन वा ॥ ३।१५ ॥
śeṣam yonim vijāniyāt dhvaja-dhūma-ādi-kaṅkramāth . sarvatra kalpayet yonim tayoḥ varga-phalena vā .. 3.15 ..
योनेर्महादिशाश्रेष्ठा दिविसप्तत्रिगहिन्ता । प्रवीणञ्चतुरश्रंस्याच्चेषाणामायतंविदुः ॥ ३.१६ ॥
योनेः महा-दिशा-श्रेष्ठा । प्रवीणन् चतुर्-अश्रंस्यात् चेषाणाम् आयतम् विदुः ॥ ३।१६ ॥
yoneḥ mahā-diśā-śreṣṭhā . pravīṇan catur-aśraṃsyāt ceṣāṇām āyatam viduḥ .. 3.16 ..
अष्टषट्चतुरंशास्स्यु रितरेषांयथाक्रमं । एवमायामयोगस्तु प्रत्यङ्गस्यैवकल्पयेथ् ॥ ३.१७ ॥
अष्ट-षष्-चतुर्-अंशाः स्युः इतरेषाम् यथाक्रमम् । एवम् आयाम-योगः तु ॥ ३।१७ ॥
aṣṭa-ṣaṣ-catur-aṃśāḥ syuḥ itareṣām yathākramam . evam āyāma-yogaḥ tu .. 3.17 ..
अङ्गेद्विगुणमायामं पादन्यूनमधाधिकं । अर्धंनवाहयेन्न्यून मधिकन्तुविधीयते ॥ ३.१८ ॥
अङ्गेत् विगुणम् आयामम् पाद-न्यूनम् अध अधिकम् । अर्धम् न वाहयेत् न्यूनम् मधिकम् तु विधीयते ॥ ३।१८ ॥
aṅget viguṇam āyāmam pāda-nyūnam adha adhikam . ardham na vāhayet nyūnam madhikam tu vidhīyate .. 3.18 ..
आत्मावास्तुशरीरस्य विस्तारादधिकंविदुः । पादायामशिखावापि द्विगुणंवाविशेषतः ॥ ३.१९ ॥
आत्मा वास्तुशरीरस्य विस्तारात् अधिकम् विदुः । द्विगुणम् वा अविशेषतः ॥ ३।१९ ॥
ātmā vāstuśarīrasya vistārāt adhikam viduḥ . dviguṇam vā aviśeṣataḥ .. 3.19 ..
समंवासर्वतःकुर्याच्चरीरन्दण्डकादृते । वर्धयेदधिकायामं दण्डषोडशकेनवा ॥ ३.२० ॥
समम् वा सर्वतस् कुर्यात् चरीरन् दण्डकात् ऋते । वर्धयेत् अधिक-आयामम् दण्ड-षोडशकेन वा ॥ ३।२० ॥
samam vā sarvatas kuryāt carīran daṇḍakāt ṛte . vardhayet adhika-āyāmam daṇḍa-ṣoḍaśakena vā .. 3.20 ..
दण्डे अष्टगुणङ्कुर्या दायामंयुक्तितोऽथवा । अङ्गमागमविस्तारो दण्डभेदोऽपियोज्यते ॥ ३.२१ ॥
दण्डे अष्टगुणम् कुर्याः दायामम् युक्तितः अथवा । अङ्गम् आगम-विस्तारः दण्ड-भेदः अपि योज्यते ॥ ३।२१ ॥
daṇḍe aṣṭaguṇam kuryāḥ dāyāmam yuktitaḥ athavā . aṅgam āgama-vistāraḥ daṇḍa-bhedaḥ api yojyate .. 3.21 ..
अन्यत्रदण्डनेछिन्द्याच्चरेषुतुविशेषतः । पातंविस्तारसूत्रेषु विदुस्सूत्रद्वयेऽपिवा ॥ ३.२२ ॥
अन्यत्र दण्डने छिन्द्यात् चरेषु तु विशेषतः । पातम् विस्तार-सूत्रेषु विदुः सूत्र-द्वये अपि वा ॥ ३।२२ ॥
anyatra daṇḍane chindyāt careṣu tu viśeṣataḥ . pātam vistāra-sūtreṣu viduḥ sūtra-dvaye api vā .. 3.22 ..
कण्ठसूत्रद्वयेवापि प्रत्यङ्गेनैव कारयेथ् । विधिभेदन्तुकर्तव्यं ब्रह्मभागेविशेषतः ॥ ३.२३ ॥
प्रत्यङ्गेन एव । विधि-भेदः तु कर्तव्यम् ॥ ३।२३ ॥
pratyaṅgena eva . vidhi-bhedaḥ tu kartavyam .. 3.23 ..
एवङ्क्रमेण शास्त्रज्ञश्शरीरं संप्रकल्पयेथ् ॥ ३.२४ ॥
एवङ्क्रमेण शास्त्र-ज्ञः शरीरम् ॥ ३।२४ ॥
evaṅkrameṇa śāstra-jñaḥ śarīram .. 3.24 ..
सहस्रभूसुरादूर्ध्वे ब्रह्मांशेवायुदेशके । पञ्चमूर्तिविधानेन स्थापयित्वा जनार्धनं ॥ ३.२५ ॥
सहस्रभूसुरात् ऊर्ध्वे ब्रह्मांशा इव आयु-देशके । पञ्चमूर्ति-विधानेन स्थापयित्वा जनार्धनम् ॥ ३।२५ ॥
sahasrabhūsurāt ūrdhve brahmāṃśā iva āyu-deśake . pañcamūrti-vidhānena sthāpayitvā janārdhanam .. 3.25 ..
वैखानसै महाभागैर्वैदिकार्चनतत्परैः । वेदान्तवेदिभिर्विप्रैरञ्चयेत्पुरुषोत्तमं ॥ ३.२६ ॥
वैखानसैः महाभागैः वैदिक-अर्चन-तत्परैः । वेदान्त-वेदिभिः विप्रैः अञ्चयेत् पुरुषोत्तमम् ॥ ३।२६ ॥
vaikhānasaiḥ mahābhāgaiḥ vaidika-arcana-tatparaiḥ . vedānta-vedibhiḥ vipraiḥ añcayet puruṣottamam .. 3.26 ..
शङ्करादि स्थापनं ईशान ईश्वरञ्चैव सोमेशानावथापिवा । पश्चिमेकेशवस्थान मैशान्यांशङ्करालयं ॥ ३.२७ ॥
शङ्कर-आदि स्थापनम् ईशानः ईश्वरम् च एव सोम-ईशानौ अथ अपि वा । पश्चिमे केशव-स्थानम् ऐशान्य-अंशङ्कर-आलयम् ॥ ३।२७ ॥
śaṅkara-ādi sthāpanam īśānaḥ īśvaram ca eva soma-īśānau atha api vā . paścime keśava-sthānam aiśānya-aṃśaṅkara-ālayam .. 3.27 ..
अनुकल्पंविकल्पञ्च कल्पञ्चैवत्रिधाभवेथ् । भूपरीक्षादियत्कर्म अनुकल्पमितिस्मृतं ॥ ३.२८ ॥
अनुकल्पम् विकल्पम् च कल्पम् च एव त्रिधा । भू-परीक्षा-आदियत् कर्म अनुकल्पम् इति स्मृतम् ॥ ३।२८ ॥
anukalpam vikalpam ca kalpam ca eva tridhā . bhū-parīkṣā-ādiyat karma anukalpam iti smṛtam .. 3.28 ..
देवादीनांमुनीनाञ्च कल्पयेत्तुविकल्पकं । गभेन्मृदालयेयत्र प्रतिष्ठायान्तुकल्पकं ॥ ३.२९ ॥
देव-आदीनाम् मुनीनाम् च कल्पयेत् तु विकल्पकम् । प्रतिष्ठा-यान्तु-कल्पकम् ॥ ३।२९ ॥
deva-ādīnām munīnām ca kalpayet tu vikalpakam . pratiṣṭhā-yāntu-kalpakam .. 3.29 ..
एवन्देशंविनिश्चित्य मूलस्थानञ्चनिर्दिशेथ् । निर्मितेऽत्रविमानस्यचो त्सेधार्थंसमन्तुवा ॥ ३.३० ॥
एवम् देशम् विनिश्चित्य मूलस्थानम् च निर्दिशेथ् । निर्मिते अत्र विमानस्य च उ त्सेध-अर्थम् समन्तु-वा ॥ ३।३० ॥
evam deśam viniścitya mūlasthānam ca nirdiśeth . nirmite atra vimānasya ca u tsedha-artham samantu-vā .. 3.30 ..
जलास्तंवाशिलान्तं वाखानयेदुचितंसुधीः । विस्तारायामसीमान्ताद्बाह्येखात्वादृढायच ॥ ३.३१ ॥
वा आखानयेत् उचितम् सुधीः । विस्तार-आयाम-सीमान्तात् बाह्य-इखा-त्वात् दृढाय च ॥ ३।३१ ॥
vā ākhānayet ucitam sudhīḥ . vistāra-āyāma-sīmāntāt bāhya-ikhā-tvāt dṛḍhāya ca .. 3.31 ..
एकहस्तन्द्विहस्तंवा त्रिहस्तंवाधिकङ्क्रमाथ् । वालुकैर्विश्वतःपूर्य दृढीकरणमादिशेथ् ॥ ३.३२ ॥
एक-हस्तम् द्वि-हस्तम् वा त्रि-हस्तम् वा अधिकङ्क्रमाथ् । वालुकैः विश्वतस् पूर्य दृढीकरणम् आदिशेथ् ॥ ३।३२ ॥
eka-hastam dvi-hastam vā tri-hastam vā adhikaṅkramāth . vālukaiḥ viśvatas pūrya dṛḍhīkaraṇam ādiśeth .. 3.32 ..
बालालयन्तुशक्तानामशक्तानांविनाभवेथ् । ध्रुवार्चायाःप्रतिष्ठाचे द्बालागारंनकल्पयेथ् ॥ ३.३३ ॥
बालालयन्तु शक्तानाम् अशक्तानाम् विना भवेथ् । ध्रुव-अर्चायाः प्रतिष्ठा चेद् बाल-आगारम् न कल्पयेथ् ॥ ३।३३ ॥
bālālayantu śaktānām aśaktānām vinā bhaveth . dhruva-arcāyāḥ pratiṣṭhā ced bāla-āgāram na kalpayeth .. 3.33 ..
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे तृतीयोऽध्यायः
इति श्री-वैखानसे भगवत्-शास्त्रे भृगु-प्रोक्तायाम् संहितायाम् प्रकीर्ण-अधिकारे तृतीयः अध्यायः
iti śrī-vaikhānase bhagavat-śāstre bhṛgu-proktāyām saṃhitāyām prakīrṇa-adhikāre tṛtīyaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In