| |
|

This overlay will guide you through the buttons:

समाहर्तृ-प्रणिधौ जन-पद-रक्षणं उक्तं ॥ ०४.४.०१ ॥
samāhartṛ-praṇidhau jana-pada-rakṣaṇaṃ uktaṃ .. 04.4.01 ..
तस्य कण्टक-शोधनं वक्ष्यामः ॥ ०४.४.०२ ॥
tasya kaṇṭaka-śodhanaṃ vakṣyāmaḥ .. 04.4.02 ..
समाहर्ता जन-पदे सिद्ध-तापस-प्रव्रजित-चक्र-चर-चारण-कुहक-प्रच्छन्दक-कार्तान्तिक-नैमित्तिक-मौहूर्तिक-चिकित्सक-उन्मत्त-मूक-बधिर-जड-अन्ध-वैदेहक-कारु-शिल्पि-कुशीलव-वेश-शौण्डिक-आपूपिक-पाक्व-मांसिक-औदनिक-व्यञ्जनान्प्रणिदध्यात् ॥ ०४.४.०३ ॥
samāhartā jana-pade siddha-tāpasa-pravrajita-cakra-cara-cāraṇa-kuhaka-pracchandaka-kārtāntika-naimittika-mauhūrtika-cikitsaka-unmatta-mūka-badhira-jaḍa-andha-vaidehaka-kāru-śilpi-kuśīlava-veśa-śauṇḍika-āpūpika-pākva-māṃsika-audanika-vyañjanānpraṇidadhyāt .. 04.4.03 ..
ते ग्रामाणां अध्यक्षाणां च शौच-आशौचं विद्युः ॥ ०४.४.०४ ॥
te grāmāṇāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ .. 04.4.04 ..
यं चात्र गूढ-आजीविनं शङ्केत तं सत्त्रिणाअपसर्पयेत् ॥ ०४.४.०५ ॥
yaṃ cātra gūḍha-ājīvinaṃ śaṅketa taṃ sattriṇāapasarpayet .. 04.4.05 ..
धर्मस्थं विश्वास-उपगतं सत्त्री ब्रूयात् "असौ मे बन्धुरभियुक्तः । तस्यायं अनर्थः प्रतिक्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४.४.०६ ॥
dharmasthaṃ viśvāsa-upagataṃ sattrī brūyāt "asau me bandhurabhiyuktaḥ . tasyāyaṃ anarthaḥ pratikriyatām . ayaṃ cārthaḥ pratigṛhyatām" iti .. 04.4.06 ..
स चेत्तथा कुर्यादुपदा-ग्राहक इति प्रवास्येत ॥ ०४.४.०७ ॥
sa cettathā kuryādupadā-grāhaka iti pravāsyeta .. 04.4.07 ..
तेन प्रदेष्टारो व्याख्याताः ॥ ०४.४.०८ ॥
tena pradeṣṭāro vyākhyātāḥ .. 04.4.08 ..
ग्राम-कूटं अध्यक्षं वा सत्त्री ब्रूयात् "असौ जाल्मः प्रभूत-द्रव्यः । तस्यायं अनर्थः । तेनएनं आहारयस्व" इति ॥ ०४.४.०९ ॥
grāma-kūṭaṃ adhyakṣaṃ vā sattrī brūyāt "asau jālmaḥ prabhūta-dravyaḥ . tasyāyaṃ anarthaḥ . tenaenaṃ āhārayasva" iti .. 04.4.09 ..
स चेत्तथा कुर्यादुत्कोचक इति प्रवास्येत ॥ ०४.४.१० ॥
sa cettathā kuryādutkocaka iti pravāsyeta .. 04.4.10 ..
कृतक-अभियुक्तो वा कूट-साक्षिणोअभिज्ञात-अनर्थ-वैपुल्येनऽरभेत ॥ ०४.४.११ ॥
kṛtaka-abhiyukto vā kūṭa-sākṣiṇoabhijñāta-anartha-vaipulyena'rabheta .. 04.4.11 ..
ते चेत्तथा कुर्युः कूट-साक्षिण इति प्रवास्येरन् ॥ ०४.४.१२ ॥
te cettathā kuryuḥ kūṭa-sākṣiṇa iti pravāsyeran .. 04.4.12 ..
तेन कूट-श्रावण-कारका व्याख्याताः ॥ ०४.४.१३ ॥
tena kūṭa-śrāvaṇa-kārakā vyākhyātāḥ .. 04.4.13 ..
यं वा मन्त्र-योग-मूल-कर्मभिः श्माशानिकैर्वा संवदन-करकं मन्येत तं सत्त्री ब्रूयात् "अमुष्य भार्यां स्नुषां दुहितरं वा कामये । सा मां प्रतिकामयताम् । अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४.४.१४ ॥
yaṃ vā mantra-yoga-mūla-karmabhiḥ śmāśānikairvā saṃvadana-karakaṃ manyeta taṃ sattrī brūyāt "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye . sā māṃ pratikāmayatām . ayaṃ cārthaḥ pratigṛhyatām" iti .. 04.4.14 ..
स चेत्तथा कुर्यात्संवदन-कारक इति प्रवास्येत ॥ ०४.४.१५ ॥
sa cettathā kuryātsaṃvadana-kāraka iti pravāsyeta .. 04.4.15 ..
तेन कृत्य-अभिचार-शीलौ व्याख्यातौ ॥ ०४.४.१६ ॥
tena kṛtya-abhicāra-śīlau vyākhyātau .. 04.4.16 ..
यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य-आहार-व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् "असौ मे शत्रुः । तस्यौपघातः क्रियताम् । अयं चार्थः प्रतिगृह्यताम्" इति ॥ ०४.४.१७ ॥
yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya-āhāra-vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt "asau me śatruḥ . tasyaupaghātaḥ kriyatām . ayaṃ cārthaḥ pratigṛhyatām" iti .. 04.4.17 ..
स चेत्तथा कुर्याद्रसद इति प्रवास्येत ॥ ०४.४.१८ ॥
sa cettathā kuryādrasada iti pravāsyeta .. 04.4.18 ..
तेन मदन-योग-व्यवहारी व्याख्यातः ॥ ०४.४.१९ ॥
tena madana-yoga-vyavahārī vyākhyātaḥ .. 04.4.19 ..
यं वा नाना-लोह-क्षाराणां अङ्गार-भस्म-असंदंश-मुष्टिक-अधिकरणी-बिम्ब-टङ्क-मूषाणां अभीक्ष्ण-क्रेतारं मषी-भस्म-धूम-दिग्ध-हस्त-वस्त्र-लिङ्गं कर्मार-उपकरण-संसर्गं कूट-रूप-कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ॥ ०४.४.२० ॥
yaṃ vā nānā-loha-kṣārāṇāṃ aṅgāra-bhasma-asaṃdaṃśa-muṣṭika-adhikaraṇī-bimba-ṭaṅka-mūṣāṇāṃ abhīkṣṇa-kretāraṃ maṣī-bhasma-dhūma-digdha-hasta-vastra-liṅgaṃ karmāra-upakaraṇa-saṃsargaṃ kūṭa-rūpa-kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet .. 04.4.20 ..
प्रज्ञातः कूट-रूप-कारक इति प्रवास्येत ॥ ०४.४.२१ ॥
prajñātaḥ kūṭa-rūpa-kāraka iti pravāsyeta .. 04.4.21 ..
तेन रागस्यापहर्ता कूट-सुवर्ण-व्यवहारी च व्याख्यातः ॥ ०४.४.२२ ॥
tena rāgasyāpahartā kūṭa-suvarṇa-vyavahārī ca vyākhyātaḥ .. 04.4.22 ..
आरब्धारस्तु हिंसायां गूढ-आजीवास्त्रयोदश । ॥ ०४.४.२३अ ब ॥
ārabdhārastu hiṃsāyāṃ gūḍha-ājīvāstrayodaśa . .. 04.4.23a ba ..
प्रवास्या निष्क्रय-अर्थं वा दद्युर्दोष-विशेषतः ॥ ०४.४.२३च्द् ॥
pravāsyā niṣkraya-arthaṃ vā dadyurdoṣa-viśeṣataḥ .. 04.4.23cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In