| |
|

This overlay will guide you through the buttons:

तैल-अभ्यक्तं आशु-मृतकं परीक्षेत ॥ ०४.७.०१ ॥
तैल-अभ्यक्तम् आशु-मृतकम् परीक्षेत ॥ ०४।७।०१ ॥
taila-abhyaktam āśu-mṛtakam parīkṣeta .. 04.7.01 ..
निष्कीर्ण-मूत्र-पुरीषं वात-पूर्ण-कोष्ठ-त्वक्कं शून-पाद-पाणिमान्मीलित-अक्षं सव्यञ्जन-कण्ठं पीटन-निरुद्ध-उच्छ्वास-हतं विद्यात् ॥ ०४.७.०२ ॥
निष्कीर्ण-मूत्र-पुरीषम् वात-पूर्ण-कोष्ठ-त्वक्कम् शून-पाद-पाणिम् आन्मीलित-अक्षम् स व्यञ्जन-कण्ठम् पीटन-निरुद्ध-उच्छ्वास-हतम् विद्यात् ॥ ०४।७।०२ ॥
niṣkīrṇa-mūtra-purīṣam vāta-pūrṇa-koṣṭha-tvakkam śūna-pāda-pāṇim ānmīlita-akṣam sa vyañjana-kaṇṭham pīṭana-niruddha-ucchvāsa-hatam vidyāt .. 04.7.02 ..
तं एव संकुचित-बाहु-सक्थिं उद्बन्ध-हतं विद्यात् ॥ ०४.७.०३ ॥
तम् एव संकुचित-बाहु-सक्थिम् उद्बन्ध-हतम् विद्यात् ॥ ०४।७।०३ ॥
tam eva saṃkucita-bāhu-sakthim udbandha-hatam vidyāt .. 04.7.03 ..
शून-पाणि-पाद-उदरं अपगत-अक्षं उद्वृत्त-नाभिं अवरोपितं विद्यात् ॥ ०४.७.०४ ॥
शून-पाणि-पाद-उदरम् अपगत-अक्षम् उद्वृत्त-नाभिम् अवरोपितम् विद्यात् ॥ ०४।७।०४ ॥
śūna-pāṇi-pāda-udaram apagata-akṣam udvṛtta-nābhim avaropitam vidyāt .. 04.7.04 ..
निस्तब्ध-गुद-अक्षं संदष्ट-जिह्वं आध्मात-उदरं उदक-हतं विद्यात् ॥ ०४.७.०५ ॥
निस्तब्ध-गुद-अक्षम् संदष्ट-जिह्वम् आध्मात-उदरम् उदक-हतम् विद्यात् ॥ ०४।७।०५ ॥
nistabdha-guda-akṣam saṃdaṣṭa-jihvam ādhmāta-udaram udaka-hatam vidyāt .. 04.7.05 ..
शोणित-अनुसिक्तं भग्न-भिन्न-गात्रं काष्ठैरश्मभिर्वा हतं विद्यात् ॥ ०४.७.०६ ॥
शोणित-अनुसिक्तम् भग्न-भिन्न-गात्रम् काष्ठैः अश्मभिः वा हतम् विद्यात् ॥ ०४।७।०६ ॥
śoṇita-anusiktam bhagna-bhinna-gātram kāṣṭhaiḥ aśmabhiḥ vā hatam vidyāt .. 04.7.06 ..
सम्भग्न-स्फुटित-गात्रं अवक्षिप्तं विद्यात् ॥ ०४.७.०७ ॥
सम्भग्न-स्फुटित-गात्रम् अवक्षिप्तम् विद्यात् ॥ ०४।७।०७ ॥
sambhagna-sphuṭita-gātram avakṣiptam vidyāt .. 04.7.07 ..
श्याव-पाणि-पाद-दन्त-नखं शिथिल-मांस-रोम-चर्माणं फेन-उपदिग्ध-मुखं विष-हतं विद्यात् ॥ ०४.७.०८ ॥
श्याव-पाणि-पाद-दन्त-नखम् शिथिल-मांस-रोम-चर्माणम् फेन-उपदिग्ध-मुखम् विष-हतम् विद्यात् ॥ ०४।७।०८ ॥
śyāva-pāṇi-pāda-danta-nakham śithila-māṃsa-roma-carmāṇam phena-upadigdha-mukham viṣa-hatam vidyāt .. 04.7.08 ..
तं एव सशोणित-दंशं सर्प-कीट-हतं विद्यात् । ॥ ०४.७.०९ ॥
तम् एव स शोणित-दंशम् सर्प-कीट-हतम् विद्यात् । ॥ ०४।७।०९ ॥
tam eva sa śoṇita-daṃśam sarpa-kīṭa-hatam vidyāt . .. 04.7.09 ..
विक्षिप्त-वस्त्र-गात्रं अतिवन्त-विरिक्तं मदन-योग-हतं विद्यात् ॥ ०४.७.१० ॥
विक्षिप्त-वस्त्र-गात्रम् मदन-योग-हतम् विद्यात् ॥ ०४।७।१० ॥
vikṣipta-vastra-gātram madana-yoga-hatam vidyāt .. 04.7.10 ..
अतोअन्यतमेन कारणेन हतं हत्वा वा दण्ड-भयादुद्बद्ध-निकृत्त-कण्ठं विद्यात् ॥ ०४.७.११ ॥
अतस् अन्यतमेन कारणेन हतम् हत्वा वा दण्ड-भयात् उद्बद्ध-निकृत्त-कण्ठम् विद्यात् ॥ ०४।७।११ ॥
atas anyatamena kāraṇena hatam hatvā vā daṇḍa-bhayāt udbaddha-nikṛtta-kaṇṭham vidyāt .. 04.7.11 ..
विष-हतस्य भोजन-शेषं वयोभिः परीक्षेत ॥ ०४.७.१२ ॥
विष-हतस्य भोजन-शेषम् वयोभिः परीक्षेत ॥ ०४।७।१२ ॥
viṣa-hatasya bhojana-śeṣam vayobhiḥ parīkṣeta .. 04.7.12 ..
हृदयादुद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्-इन्द्र-धनुर्-वर्णं वा विष-युक्तं विद्यात् । दग्धस्य हृदयं अदग्धं दृष्ट्वा वा ॥ ०४.७.१३ ॥
हृदयात् उद्धृत्य अग्नौ प्रक्षिप्तम् चिटिचिटायत्-इन्द्रधनुः-वर्णम् वा विष-युक्तम् विद्यात् । दग्धस्य हृदयम् अ दग्धम् दृष्ट्वा वा ॥ ०४।७।१३ ॥
hṛdayāt uddhṛtya agnau prakṣiptam ciṭiciṭāyat-indradhanuḥ-varṇam vā viṣa-yuktam vidyāt . dagdhasya hṛdayam a dagdham dṛṣṭvā vā .. 04.7.13 ..
तस्य परिचारक-जनं वाग्-दण्ड-पारुष्य-अतिलब्धं मार्गेत । दुःख-उपहतं अन्य-प्रसक्तं वा स्त्री-जनं । दाय-वृत्ति-स्त्री-जन-अभिमन्तारं वा बन्धुं ॥ ०४.७.१४ ॥
तस्य परिचारक-जनम् वाच्-दण्ड-पारुष्य-अति लब्धम् मार्गेत । दुःख-उपहतम् अन्य-प्रसक्तम् वा स्त्री-जनम् । दाय-वृत्ति-स्त्री-जन-अभिमन्तारम् वा बन्धुम् ॥ ०४।७।१४ ॥
tasya paricāraka-janam vāc-daṇḍa-pāruṣya-ati labdham mārgeta . duḥkha-upahatam anya-prasaktam vā strī-janam . dāya-vṛtti-strī-jana-abhimantāram vā bandhum .. 04.7.14 ..
तदेव हत-उद्बद्धस्य परीक्षेत ॥ ०४.७.१५ ॥
तत् एव हत-उद्बद्धस्य परीक्षेत ॥ ०४।७।१५ ॥
tat eva hata-udbaddhasya parīkṣeta .. 04.7.15 ..
स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत ॥ ०४.७.१६ ॥
स्वयम् उद्बद्धस्य वा विप्रकारम् अयुक्तम् मार्गेत ॥ ०४।७।१६ ॥
svayam udbaddhasya vā viprakāram ayuktam mārgeta .. 04.7.16 ..
सर्वेषां वा स्त्री-दायाद्य-दोषः कर्म-स्पर्धा प्रतिपक्ष-द्वेषः पण्य-संस्था-समवायो वा विवाद-पदानां अन्यतमद्वा रोष-स्थानं ॥ ०४.७.१७ ॥
सर्वेषाम् वा स्त्री-दायाद्य-दोषः कर्म-स्पर्धा प्रतिपक्ष-द्वेषः पण्य-संस्था-समवायः वा विवाद-पदानाम् अन्यतमत् वा रोष-स्थानम् ॥ ०४।७।१७ ॥
sarveṣām vā strī-dāyādya-doṣaḥ karma-spardhā pratipakṣa-dveṣaḥ paṇya-saṃsthā-samavāyaḥ vā vivāda-padānām anyatamat vā roṣa-sthānam .. 04.7.17 ..
रोष-निमित्तो घातः ॥ ०४.७.१८ ॥
रोष-निमित्तः घातः ॥ ०४।७।१८ ॥
roṣa-nimittaḥ ghātaḥ .. 04.7.18 ..
स्वयं-आदिष्ट-पुरुषैर्वा । चोरैरर्थ-निमित्तं । सादृश्यादन्य-वैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत ॥ ०४.७.१९ ॥
स्वयम् आदिष्ट-पुरुषैः वा । चोरैः अर्थ-निमित्तम् । सादृश्यात् अन्य-वैरिभिः वा हतस्य घातम् आसन्नेभ्यः परीक्षेत ॥ ०४।७।१९ ॥
svayam ādiṣṭa-puruṣaiḥ vā . coraiḥ artha-nimittam . sādṛśyāt anya-vairibhiḥ vā hatasya ghātam āsannebhyaḥ parīkṣeta .. 04.7.19 ..
येनऽहूतः सह स्थितः प्रस्थितो हत-भूमिं आनीतो वा तं अनुयुञ्जीत ॥ ०४.७.२० ॥
येन अ हूतः सह स्थितः प्रस्थितः हत-भूमिम् आनीतः वा तम् अनुयुञ्जीत ॥ ०४।७।२० ॥
yena a hūtaḥ saha sthitaḥ prasthitaḥ hata-bhūmim ānītaḥ vā tam anuyuñjīta .. 04.7.20 ..
ये चास्य हत-भूमावासन्न-चरास्तानेक-एकशः पृच्छेत्"केनायं इहऽनीतो हतो वा । कः स-शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः" इति ॥ ०४.७.२१ ॥
ये च अस्य हत-भूमौ आसन्न-चराः तान् एक-एकशस् पृच्छेत्"केन अयम् इह अ नीतः हतः वा । कः स शस्त्रः संगूहमानः उद्विग्नः वा युष्माभिः दृष्टः" इति ॥ ०४।७।२१ ॥
ye ca asya hata-bhūmau āsanna-carāḥ tān eka-ekaśas pṛcchet"kena ayam iha a nītaḥ hataḥ vā . kaḥ sa śastraḥ saṃgūhamānaḥ udvignaḥ vā yuṣmābhiḥ dṛṣṭaḥ" iti .. 04.7.21 ..
ते यथा ब्रूयुस्तथाअनुयुञ्जीत ॥ ०४.७.२२ ॥
ते यथा ब्रूयुः तथा अनुयुञ्जीत ॥ ०४।७।२२ ॥
te yathā brūyuḥ tathā anuyuñjīta .. 04.7.22 ..
अनाथस्य शरीर-स्थं उपभोगं परिच्छदं । ॥ ०४.७.२३अ ब ॥
अनाथस्य शरीर-स्थम् उपभोगम् परिच्छदम् । ॥ ०४।७।२३अ ब ॥
anāthasya śarīra-stham upabhogam paricchadam . .. 04.7.23a ba ..
वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्-व्यवहारिणः ॥ ०४.७.२३च्द् ॥
वस्त्रम् वेषम् विभूषाम् वा दृष्ट्वा तद्-व्यवहारिणः ॥ ०४।७।२३च् ॥
vastram veṣam vibhūṣām vā dṛṣṭvā tad-vyavahāriṇaḥ .. 04.7.23c ..
अनुयुञ्जीत संयोगं निवासं वास-कारणं । ॥ ०४.७.२४अ ब ॥
अनुयुञ्जीत संयोगम् निवासम् वास-कारणम् । ॥ ०४।७।२४अ ब ॥
anuyuñjīta saṃyogam nivāsam vāsa-kāraṇam . .. 04.7.24a ba ..
कर्म च व्यवहारं च ततो मार्गणं आचरेत् ॥ ०४.७.२४च्द् ॥
कर्म च व्यवहारम् च ततस् मार्गणम् आचरेत् ॥ ०४।७।२४च् ॥
karma ca vyavahāram ca tatas mārgaṇam ācaret .. 04.7.24c ..
रज्जु-शस्त्र-विषैर्वाअपि काम-क्रोध-वशेन यः । ॥ ०४.७.२५अ ब ॥
रज्जु-शस्त्र-विषैः वा अपि काम-क्रोध-वशेन यः । ॥ ०४।७।२५अ ब ॥
rajju-śastra-viṣaiḥ vā api kāma-krodha-vaśena yaḥ . .. 04.7.25a ba ..
घातयेत्स्वयं आत्मानं स्त्री वा पापेन मोहिता ॥ ०४.७.२५च्द् ॥
घातयेत् स्वयम् आत्मानम् स्त्री वा पापेन मोहिता ॥ ०४।७।२५च् ॥
ghātayet svayam ātmānam strī vā pāpena mohitā .. 04.7.25c ..
रज्जुना राज-मार्गे तांश्चण्डालेनापकर्षयेत् । ॥ ०४.७.२६अ ब ॥
रज्जुना राज-मार्गे तान् चण्डालेन अपकर्षयेत् । ॥ ०४।७।२६अ ब ॥
rajjunā rāja-mārge tān caṇḍālena apakarṣayet . .. 04.7.26a ba ..
न श्मशान-विधिस्तेषां न सम्बन्धि-क्रियास्तथा ॥ ०४.७.२६च्द् ॥
न श्मशान-विधिः तेषाम् न सम्बन्धि-क्रियाः तथा ॥ ०४।७।२६च् ॥
na śmaśāna-vidhiḥ teṣām na sambandhi-kriyāḥ tathā .. 04.7.26c ..
बन्धुस्तेषां तु यः कुर्यात्प्रेत-कार्य-क्रिया-विधिं । ॥ ०४.७.२७अ ब ॥
बन्धुः तेषाम् तु यः कुर्यात् प्रेत-कार्य-क्रिया-विधिम् । ॥ ०४।७।२७अ ब ॥
bandhuḥ teṣām tu yaḥ kuryāt preta-kārya-kriyā-vidhim . .. 04.7.27a ba ..
तद्-गतिं स चरेत्पश्चात्स्व-जनाद्वा प्रमुच्यते ॥ ०४.७.२७च्द् ॥
तद्-गतिम् स चरेत् पश्चात् स्व-जनात् वा प्रमुच्यते ॥ ०४।७।२७च् ॥
tad-gatim sa caret paścāt sva-janāt vā pramucyate .. 04.7.27c ..
संवत्सरेण पतति पतितेन समाचरन् । ॥ ०४.७.२८अ ब ॥
संवत्सरेण पतति पतितेन समाचरन् । ॥ ०४।७।२८अ ब ॥
saṃvatsareṇa patati patitena samācaran . .. 04.7.28a ba ..
याजन-अध्यापनाद्यौनात्तैश्चान्योअपि समाचरन् ॥ ०४.७.२८च्द् ॥
याजन-अध्यापनात् यौनात् तैः च अन्यः अपि समाचरन् ॥ ०४।७।२८च् ॥
yājana-adhyāpanāt yaunāt taiḥ ca anyaḥ api samācaran .. 04.7.28c ..
मुषित-संनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासाननुयुञ्जीत ॥ ०४.८.०१ ॥
मुषित-संनिधौ बाह्यानाम् अभ्यन्तराणाम् च साक्षिणाम् अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासान् अनुयुञ्जीत ॥ ०४।८।०१ ॥
muṣita-saṃnidhau bāhyānām abhyantarāṇām ca sākṣiṇām abhiśastasya deśa-jāti-gotra-nāma-karma-sāra-sahāya-nivāsān anuyuñjīta .. 04.8.01 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In