| |
|

This overlay will guide you through the buttons:

कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानादौपकारिकी ॥ ०१.४.०१ ॥
कृषि-पाशुपाल्ये वणिज्या च वार्ता । धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रदानात् औपकारिकी ॥ ०१।४।०१ ॥
kṛṣi-pāśupālye vaṇijyā ca vārtā . dhānya-paśu-hiraṇya-kupya-viṣṭi-pradānāt aupakārikī .. 01.4.01 ..
तया स्व-पक्षं पर-पक्षं च वशी-करोति कोश-दण्डाभ्यां ॥ ०१.४.०२ ॥
तया स्व-पक्षम् पर-पक्षम् च वशीकरोति कोश-दण्डाभ्याम् ॥ ०१।४।०२ ॥
tayā sva-pakṣam para-pakṣam ca vaśīkaroti kośa-daṇḍābhyām .. 01.4.02 ..
आन्वीक्षिकी त्रयी वार्त्तानां योग-क्षेम-साधनो दण्डः । तस्य नीतिर्दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ ०१.४.०३ ॥
आन्वीक्षिकी त्रयी वार्त्तानाम् योग-क्षेम-साधनः दण्डः । तस्य नीतिः दण्ड नीतिः । अलब्ध-लाभ-अर्था लब्ध-परिरक्षणी रक्षित-विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ ०१।४।०३ ॥
ānvīkṣikī trayī vārttānām yoga-kṣema-sādhanaḥ daṇḍaḥ . tasya nītiḥ daṇḍa nītiḥ . alabdha-lābha-arthā labdha-parirakṣaṇī rakṣita-vivardhanī vṛddhasya tīrthe pratipādanī ca .. 01.4.03 ..
तस्यां आयत्ता लोक-यात्रा ॥ ०१.४.०४ ॥
तस्याम् आयत्ता लोक-यात्रा ॥ ०१।४।०४ ॥
tasyām āyattā loka-yātrā .. 01.4.04 ..
तस्माल्लोक-यात्रा-अर्थी नित्यं उद्यत-दण्डः स्यात् ॥ ०१.४.०५ ॥
तस्मात् लोक-यात्रा-अर्थी नित्यम् उद्यत-दण्डः स्यात् ॥ ०१।४।०५ ॥
tasmāt loka-yātrā-arthī nityam udyata-daṇḍaḥ syāt .. 01.4.05 ..
न ह्येवंविधं वश-उपनयनं अस्ति भूतानां यथा दण्डः इत्याचार्याः ॥ ०१.४.०६ ॥
न हि एवंविधम् वश-उपनयनम् अस्ति भूतानाम् यथा दण्डः इति आचार्याः ॥ ०१।४।०६ ॥
na hi evaṃvidham vaśa-upanayanam asti bhūtānām yathā daṇḍaḥ iti ācāryāḥ .. 01.4.06 ..
नैति कौटिल्यः ॥ ०१.४.०७ ॥
न एति कौटिल्यः ॥ ०१।४।०७ ॥
na eti kauṭilyaḥ .. 01.4.07 ..
तीक्ष्ण-दण्डो हि भूतानां उद्वेजनीयो भवति ॥ ०१.४.०८ ॥
तीक्ष्ण-दण्डः हि भूतानाम् उद्वेजनीयः भवति ॥ ०१।४।०८ ॥
tīkṣṇa-daṇḍaḥ hi bhūtānām udvejanīyaḥ bhavati .. 01.4.08 ..
मृदु-दण्डः परिभूयते ॥ ०१.४.०९ ॥
मृदु-दण्डः परिभूयते ॥ ०१।४।०९ ॥
mṛdu-daṇḍaḥ paribhūyate .. 01.4.09 ..
यथा-अर्ह-दण्डः पूज्यते ॥ ०१.४.१० ॥
यथा अर्ह-दण्डः पूज्यते ॥ ०१।४।१० ॥
yathā arha-daṇḍaḥ pūjyate .. 01.4.10 ..
सुविज्ञात-प्रणीतो हि दण्डः प्रजा धर्म-अर्थ-कामैर्योजयति ॥ ०१.४.११ ॥
सु विज्ञात-प्रणीतः हि दण्डः प्रजाः धर्म-अर्थ-कामैः योजयति ॥ ०१।४।११ ॥
su vijñāta-praṇītaḥ hi daṇḍaḥ prajāḥ dharma-artha-kāmaiḥ yojayati .. 01.4.11 ..
दुष्प्रणीतः काम-क्रोधाभ्यां अवज्ञानाद्वा वानप्रस्थ-परिव्राजकानपि कोपयति । किं-अङ्ग पुनर्गृहस्थान् ॥ ०१.४.१२ ॥
दुष्प्रणीतः काम-क्रोधाभ्याम् अवज्ञानात् वा वानप्रस्थ-परिव्राजकान् अपि कोपयति । किम् अङ्ग पुनर्गृहस्थान् ॥ ०१।४।१२ ॥
duṣpraṇītaḥ kāma-krodhābhyām avajñānāt vā vānaprastha-parivrājakān api kopayati . kim aṅga punargṛhasthān .. 01.4.12 ..
अप्रणीतस्तु मात्स्य-न्यायं उद्भावयति ॥ ०१.४.१३ ॥
अप्रणीतः तु मात्स्य-न्यायम् उद्भावयति ॥ ०१।४।१३ ॥
apraṇītaḥ tu mātsya-nyāyam udbhāvayati .. 01.4.13 ..
बलीयानबलं हि ग्रसते दण्ड-धर-अभावे ॥ ०१.४.१४ ॥
बलीयान् अ बलम् हि ग्रसते दण्ड-धर-अभावे ॥ ०१।४।१४ ॥
balīyān a balam hi grasate daṇḍa-dhara-abhāve .. 01.4.14 ..
स तेन गुप्तः प्रभवति इति ॥ ०१.४.१५ ॥
स तेन गुप्तः प्रभवति इति ॥ ०१।४।१५ ॥
sa tena guptaḥ prabhavati iti .. 01.4.15 ..
चतुर्-वर्ण-आश्रमो लोको राज्ञा दण्डेन पालितः ॥ ०१.४.१६अ ब ॥
चतुर्-वर्ण-आश्रमः लोकः राज्ञा दण्डेन पालितः ॥ ०१।४।१६अ ब ॥
catur-varṇa-āśramaḥ lokaḥ rājñā daṇḍena pālitaḥ .. 01.4.16a ba ..
स्वधर्म-कर्म-अभिरतो वर्तते स्वेषु वर्त्मसु ॥ ०१.४.१६च्द् ॥
स्वधर्म-कर्म-अभिरतः वर्तते स्वेषु वर्त्मसु ॥ ०१।४।१६च् ॥
svadharma-karma-abhirataḥ vartate sveṣu vartmasu .. 01.4.16c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In