| |
|

This overlay will guide you through the buttons:

उदर-दास-वर्जं आर्य-प्राणं अप्राप्त-व्यवहारं शूद्रं विक्रय-आधानं नयतः स्व-जनस्य द्वादश-पणो दण्डः । वैश्यं द्वि-गुणः । क्षत्रियं त्रि-गुणः । ब्राह्मणं चतुर्-गुणः ॥ ०३.१३.०१ ॥
उदर-दास-वर्जम् आर्य-प्राणम् अप्राप्त-व्यवहारम् शूद्रम् विक्रय-आधानम् नयतः स्व-जनस्य द्वादश-पणः दण्डः । वैश्यम् द्वि-गुणः । क्षत्रियम् त्रि-गुणः । ब्राह्मणम् चतुर्-गुणः ॥ ०३।१३।०१ ॥
udara-dāsa-varjam ārya-prāṇam aprāpta-vyavahāram śūdram vikraya-ādhānam nayataḥ sva-janasya dvādaśa-paṇaḥ daṇḍaḥ . vaiśyam dvi-guṇaḥ . kṣatriyam tri-guṇaḥ . brāhmaṇam catur-guṇaḥ .. 03.13.01 ..
पर-जनस्य पूर्व-मध्यम-उत्तम-वधा दण्डाः । क्रेतृ-श्रोतृऋणां च ॥ ०३.१३.०२ ॥
पर-जनस्य पूर्व-मध्यम-उत्तम-वधाः दण्डाः । क्रेतृ-श्रोतृऋणाम् च ॥ ०३।१३।०२ ॥
para-janasya pūrva-madhyama-uttama-vadhāḥ daṇḍāḥ . kretṛ-śrotṛṛṇām ca .. 03.13.02 ..
म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा ॥ ०३.१३.०३ ॥
म्लेच्छानाम् अदोषः प्रजाम् विक्रेतुम् आधातुम् वा ॥ ०३।१३।०३ ॥
mlecchānām adoṣaḥ prajām vikretum ādhātum vā .. 03.13.03 ..
न त्वेवऽर्यस्य दास-भावः ॥ ०३.१३.०४ ॥
न तु एव अर्यस्य दास-भावः ॥ ०३।१३।०४ ॥
na tu eva aryasya dāsa-bhāvaḥ .. 03.13.04 ..
अथवाआर्यं आधाय कुल-बन्धन आर्याणां आपदि । निष्क्रयं चाधिगम्य बालं साहाय्य-दातारं वा पूर्वं निष्क्रीणीरन् ॥ ०३.१३.०५ ॥
अथवा आआर्यम् आधाय कुल-बन्धने आर्याणाम् आपदि । निष्क्रयम् च अधिगम्य बालम् साहाय्य-दातारम् वा पूर्वम् निष्क्रीणीरन् ॥ ०३।१३।०५ ॥
athavā āāryam ādhāya kula-bandhane āryāṇām āpadi . niṣkrayam ca adhigamya bālam sāhāyya-dātāram vā pūrvam niṣkrīṇīran .. 03.13.05 ..
सकृद्-आत्म-आधाता निष्पतितः सीदेत् । द्विरन्येनऽहितकः । सकृदुभौ पर-विषय-अभिमुखौ ॥ ०३.१३.०६ ॥
सकृत् आत्म-आधाता निष्पतितः सीदेत् । द्विस् अन्येन अहितकः । सकृत् उभौ पर-विषय-अभिमुखौ ॥ ०३।१३।०६ ॥
sakṛt ātma-ādhātā niṣpatitaḥ sīdet . dvis anyena ahitakaḥ . sakṛt ubhau para-viṣaya-abhimukhau .. 03.13.06 ..
वित्त-अपहारिणो वा दासस्यऽर्य-भावं अपहरतोअर्ध-दण्डः ॥ ०३.१३.०७ ॥
वित्त-अपहारिणः वा दासस्य आर्य-भावम् अपहरतः अर्ध-दण्डः ॥ ०३।१३।०७ ॥
vitta-apahāriṇaḥ vā dāsasya ārya-bhāvam apaharataḥ ardha-daṇḍaḥ .. 03.13.07 ..
निष्पतित-प्रेत-व्यसनिनां आधाता मूल्यं भजेत ॥ ०३.१३.०८ ॥
निष्पतित-प्रेत-व्यसनिनाम् आधाता मूल्यम् भजेत ॥ ०३।१३।०८ ॥
niṣpatita-preta-vyasaninām ādhātā mūlyam bhajeta .. 03.13.08 ..
प्रेत-विण्-मूत्र-उच्छिष्ट-ग्राहणं आहितस्य नग्न-स्नापनं दण्ड-प्रेषणं अतिक्रमणं च स्त्रीणां मूल्य-नाश-करं । धात्री-परिचारिक-अर्ध-सीतिक-उपचारिकाणां च मोक्ष-करं ॥ ०३.१३.०९ ॥
प्रेत-विष्-मूत्र-उच्छिष्ट-ग्राहणम् आहितस्य नग्न-स्नापनम् दण्ड-प्रेषणम् अतिक्रमणम् च स्त्रीणाम् मूल्य-नाश-करम् । धात्री-परिचारिक-अर्धसीतिक-उपचारिकाणाम् च मोक्ष-करम् ॥ ०३।१३।०९ ॥
preta-viṣ-mūtra-ucchiṣṭa-grāhaṇam āhitasya nagna-snāpanam daṇḍa-preṣaṇam atikramaṇam ca strīṇām mūlya-nāśa-karam . dhātrī-paricārika-ardhasītika-upacārikāṇām ca mokṣa-karam .. 03.13.09 ..
सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणं ॥ ०३.१३.१० ॥
सिद्धम् उपचारकस्य अभिप्रजातस्य अपक्रमणम् ॥ ०३।१३।१० ॥
siddham upacārakasya abhiprajātasya apakramaṇam .. 03.13.10 ..
धात्रीं आहितिकां वाअकामां स्व-वशां गच्छतः पूर्वः साहस-दण्डः । पर-वशां मध्यमः ॥ ०३.१३.११ ॥
धात्रीम् आहितिकाम् वा अकामाम् स्व-वशाम् गच्छतः पूर्वः साहस-दण्डः । पर-वशाम् मध्यमः ॥ ०३।१३।११ ॥
dhātrīm āhitikām vā akāmām sva-vaśām gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ . para-vaśām madhyamaḥ .. 03.13.11 ..
कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्य-नाशः शुल्कं तद्-द्वु-गुणश्च दण्डः ॥ ०३.१३.१२ ॥
कन्याम् आहितिकाम् वा स्वयम् अन्येन वा दुषयतः मूल्य-नाशः शुल्कम् तद्-द्वु-गुणः च दण्डः ॥ ०३।१३।१२ ॥
kanyām āhitikām vā svayam anyena vā duṣayataḥ mūlya-nāśaḥ śulkam tad-dvu-guṇaḥ ca daṇḍaḥ .. 03.13.12 ..
आत्म-विक्रयिणः प्रजां आर्यां विद्यात् ॥ ०३.१३.१३ ॥
आत्म-विक्रयिणः प्रजाम् आर्याम् विद्यात् ॥ ०३।१३।१३ ॥
ātma-vikrayiṇaḥ prajām āryām vidyāt .. 03.13.13 ..
आत्म-अधिगतं स्वामि-कर्म-अविरुद्धं लभेत । पित्र्यं च दायं ॥ ०३.१३.१४ ॥
आत्म-अधिगतम् स्वामि-कर्म-अविरुद्धम् लभेत । पित्र्यम् च दायम् ॥ ०३।१३।१४ ॥
ātma-adhigatam svāmi-karma-aviruddham labheta . pitryam ca dāyam .. 03.13.14 ..
मूल्येन चऽर्यत्वं गच्छेत् ॥ ०३.१३.१५ ॥
मूल्येन च अर्य-त्वम् गच्छेत् ॥ ०३।१३।१५ ॥
mūlyena ca arya-tvam gacchet .. 03.13.15 ..
तेनौदर-दास-आहितकौ व्याख्यातौ ॥ ०३.१३.१६ ॥
तेन औदर-दास-आहितकौ व्याख्यातौ ॥ ०३।१३।१६ ॥
tena audara-dāsa-āhitakau vyākhyātau .. 03.13.16 ..
प्रक्षेप-अनुरूपश्चास्य निष्क्रयः ॥ ०३.१३.१७ ॥
प्रक्षेप-अनुरूपः च अस्य निष्क्रयः ॥ ०३।१३।१७ ॥
prakṣepa-anurūpaḥ ca asya niṣkrayaḥ .. 03.13.17 ..
दण्ड-प्रणीतः कर्मणा दण्डं उपनयेत् ॥ ०३.१३.१८ ॥
दण्ड-प्रणीतः कर्मणा दण्डम् उपनयेत् ॥ ०३।१३।१८ ॥
daṇḍa-praṇītaḥ karmaṇā daṇḍam upanayet .. 03.13.18 ..
आर्य-प्राणो ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ॥ ०३.१३.१९ ॥
आर्य-प्राणः ध्वज-आहृतः कर्म-काल-अनुरूपेण मूल्य-अर्धेन वा विमुच्येत ॥ ०३।१३।१९ ॥
ārya-prāṇaḥ dhvaja-āhṛtaḥ karma-kāla-anurūpeṇa mūlya-ardhena vā vimucyeta .. 03.13.19 ..
गृहे-जात-दाय-आगत-लब्ध-क्रीतानां अन्यतमं दासं ऊन-अष्ट-वर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहित-गर्भ-भर्मण्यां विक्रय-आधानं नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणां च ॥ ०३.१३.२० ॥
गृहे जात-दाय-आगत-लब्ध-क्रीतानाम् अन्यतमम् दासम् ऊन-अष्ट-वर्षम् विबन्धुम् अकामम् नीचे कर्मणि विदेशे दासीम् वा सगर्भाम् अ प्रतिविहित-गर्भ-भर्मण्याम् विक्रय-आधानम् नयतः पूर्वः साहस-दण्डः । क्रेतृ-श्रोतृऋणाम् च ॥ ०३।१३।२० ॥
gṛhe jāta-dāya-āgata-labdha-krītānām anyatamam dāsam ūna-aṣṭa-varṣam vibandhum akāmam nīce karmaṇi videśe dāsīm vā sagarbhām a prativihita-garbha-bharmaṇyām vikraya-ādhānam nayataḥ pūrvaḥ sāhasa-daṇḍaḥ . kretṛ-śrotṛṛṇām ca .. 03.13.20 ..
दासं अनुरूपेण निष्क्रयेणऽर्यं अकुर्वतो द्वादश-पणो दण्डः । संरोधश्चऽ-करणात् ॥ ०३.१३.२१ ॥
दासम् अनुरूपेण निष्क्रयेण अर्यम् अ कुर्वतः द्वादश-पणः दण्डः । संरोधः च करणात् ॥ ०३।१३।२१ ॥
dāsam anurūpeṇa niṣkrayeṇa aryam a kurvataḥ dvādaśa-paṇaḥ daṇḍaḥ . saṃrodhaḥ ca karaṇāt .. 03.13.21 ..
दास-द्रव्यस्य ज्ञातयो दायादाः । तेषां अभावे स्वामी ॥ ०३.१३.२२ ॥
दास-द्रव्यस्य ज्ञातयः दायादाः । तेषाम् अभावे स्वामी ॥ ०३।१३।२२ ॥
dāsa-dravyasya jñātayaḥ dāyādāḥ . teṣām abhāve svāmī .. 03.13.22 ..
स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात् ॥ ०३.१३.२३ ॥
स्वामिनः स्वस्याम् दास्याम् जातम् स मातृकम् अ दासम् विद्यात् ॥ ०३।१३।२३ ॥
svāminaḥ svasyām dāsyām jātam sa mātṛkam a dāsam vidyāt .. 03.13.23 ..
गृह्या चेत्कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः ॥ ०३.१३.२४ ॥
गृह्या चेद् कुटुम्ब-अर्थ-चिन्तनी माता भ्राता भगिनी च अस्याः अदासाः स्युः ॥ ०३।१३।२४ ॥
gṛhyā ced kuṭumba-artha-cintanī mātā bhrātā bhaginī ca asyāḥ adāsāḥ syuḥ .. 03.13.24 ..
दासं दासीं वा निष्क्रीय पुनर्विक्रय-आधानं नयतो द्वादश-पणो दण्डः । अन्यत्र स्वयं-वादिभ्यः इति दास-कल्पः । ॥ ०३.१३.२५ ॥
दासम् दासीम् वा निष्क्रीय पुनर् विक्रय-आधानम् नयतः द्वादश-पणः दण्डः । अन्यत्र स्वयम् वादिभ्यः इति दास-कल्पः । ॥ ०३।१३।२५ ॥
dāsam dāsīm vā niṣkrīya punar vikraya-ādhānam nayataḥ dvādaśa-paṇaḥ daṇḍaḥ . anyatra svayam vādibhyaḥ iti dāsa-kalpaḥ . .. 03.13.25 ..
कर्म-करस्य कर्म-सम्बन्धं आसन्ना विद्युः ॥ ०३.१३.२६ ॥
कर्म-करस्य कर्म-सम्बन्धम् आसन्नाः विद्युः ॥ ०३।१३।२६ ॥
karma-karasya karma-sambandham āsannāḥ vidyuḥ .. 03.13.26 ..
यथा-सम्भाषितं वेतनं लभेत । कर्म-काल-अनुरूपं असम्भाषित-वेतनः ॥ ०३.१३.२७ ॥
यथा सम्भाषितम् वेतनम् लभेत । कर्म-काल-अनुरूपम् असंभाषित-वेतनः ॥ ०३।१३।२७ ॥
yathā sambhāṣitam vetanam labheta . karma-kāla-anurūpam asaṃbhāṣita-vetanaḥ .. 03.13.27 ..
कर्षकः सस्यानां गो-पालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दश-भागं असम्भाषित-वेतनो लभेत ॥ ०३.१३.२८ ॥
कर्षकः सस्यानाम् गो-पालकः सर्पिषाम् वैदेहकः पण्यानाम् आत्मना व्यवहृतानाम् दश-भागम् अ संभाषित-वेतनः लभेत ॥ ०३।१३।२८ ॥
karṣakaḥ sasyānām go-pālakaḥ sarpiṣām vaidehakaḥ paṇyānām ātmanā vyavahṛtānām daśa-bhāgam a saṃbhāṣita-vetanaḥ labheta .. 03.13.28 ..
सम्भाषित-वेतनस्तु यथा-सम्भाषितं ॥ ०३.१३.२९ ॥
सम्भाषित-वेतनः तु यथा सम्भाषितम् ॥ ०३।१३।२९ ॥
sambhāṣita-vetanaḥ tu yathā sambhāṣitam .. 03.13.29 ..
कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-परिचारक-आदिराशा-कारिक-वर्गस्तु यथाअन्यस्तद्-विधः कुर्याद्यथा वा कुशलाः कल्पयेयुस्तथा वेतनं लभेत ॥ ०३.१३.३० ॥
कारु-शिल्पि-कुशीलव-चिकित्सक-वाच्-जीवन-परिचारक-आदि-राशा-कारिक-वर्गः तु यथा अन्यः तद्-विधः कुर्यात् यथा वा कुशलाः कल्पयेयुः तथा वेतनम् लभेत ॥ ०३।१३।३० ॥
kāru-śilpi-kuśīlava-cikitsaka-vāc-jīvana-paricāraka-ādi-rāśā-kārika-vargaḥ tu yathā anyaḥ tad-vidhaḥ kuryāt yathā vā kuśalāḥ kalpayeyuḥ tathā vetanam labheta .. 03.13.30 ..
साक्षि-प्रत्ययं एव स्यात् ॥ ०३.१३.३१ ॥
साक्षि-प्रत्ययम् एव स्यात् ॥ ०३।१३।३१ ॥
sākṣi-pratyayam eva syāt .. 03.13.31 ..
साक्षिणां अभावे यतः कर्म ततोअनुयुञ्जीत ॥ ०३.१३.३२ ॥
साक्षिणाम् अभावे यतस् कर्म ततस् अनुयुञ्जीत ॥ ०३।१३।३२ ॥
sākṣiṇām abhāve yatas karma tatas anuyuñjīta .. 03.13.32 ..
वेतन-आदाने दश-बन्धो दण्डः । षट्-पणो वा ॥ ०३.१३.३३ ॥
वेतन-आदाने दश-बन्धः दण्डः । षष्-पणः वा ॥ ०३।१३।३३ ॥
vetana-ādāne daśa-bandhaḥ daṇḍaḥ . ṣaṣ-paṇaḥ vā .. 03.13.33 ..
अपव्ययमाने द्वादश-पणो दण्डः । पञ्च-बन्धो वा ॥ ०३.१३.३४ ॥
अपव्यय माने द्वादश-पणः दण्डः । पञ्च-बन्धः वा ॥ ०३।१३।३४ ॥
apavyaya māne dvādaśa-paṇaḥ daṇḍaḥ . pañca-bandhaḥ vā .. 03.13.34 ..
नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेनऽर्तस्त्रातारं आहूय निष्तीर्णः कुशल-प्रदिष्टं वेतनं दद्यात् ॥ ०३.१३.३५ ॥
नदी-वेग-ज्वाला-स्तेन-व्याल-उपरुद्धः सर्व-स्व-पुत्र-दार-आत्म-दानेन अर्तः त्रातारम् आहूय निष्तीर्णः कुशल-प्रदिष्टम् वेतनम् दद्यात् ॥ ०३।१३।३५ ॥
nadī-vega-jvālā-stena-vyāla-uparuddhaḥ sarva-sva-putra-dāra-ātma-dānena artaḥ trātāram āhūya niṣtīrṇaḥ kuśala-pradiṣṭam vetanam dadyāt .. 03.13.35 ..
तेन सर्वत्रऽर्त-दान-अनुशया व्याख्याताः ॥ ०३.१३.३६ ॥
तेन सर्वत्र आर्त-दान-अनुशयाः व्याख्याताः ॥ ०३।१३।३६ ॥
tena sarvatra ārta-dāna-anuśayāḥ vyākhyātāḥ .. 03.13.36 ..
लभेत पुंश्चली भोगं संगमस्यौपलिङ्गनात् । ॥ ०३.१३.३७अ ब ॥
लभेत पुंश्चली भोगम् संगमस्य औपलिङ्गनात् । ॥ ०३।१३।३७अ ब ॥
labheta puṃścalī bhogam saṃgamasya aupaliṅganāt . .. 03.13.37a ba ..
अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ॥ ०३.१३.३७च्द् ॥
अतियाच्ना तु जीयेत दौर्मत्य-अविनयेन वा ॥ ०३।१३।३७च् ॥
atiyācnā tu jīyeta daurmatya-avinayena vā .. 03.13.37c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In