| |
|

This overlay will guide you through the buttons:

विक्रीय पण्यं अप्रयच्छतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३.१५.०१ ॥
विक्रीय पण्यम् अप्रयच्छतः द्वादश-पणः दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३।१५।०१ ॥
vikrīya paṇyam aprayacchataḥ dvādaśa-paṇaḥ daṇḍaḥ . anyatra doṣa-upanipāta-aviṣahyebhyaḥ .. 03.15.01 ..
पण्य-दोषो दोषः ॥ ०३.१५.०२ ॥
पण्य-दोषः दोषः ॥ ०३।१५।०२ ॥
paṇya-doṣaḥ doṣaḥ .. 03.15.02 ..
राज-चोर-अग्न्य्-उदक-बाध उपनिपातः ॥ ०३.१५.०३ ॥
राज-चोर-अग्नि-उदक-बाधः उपनिपातः ॥ ०३।१५।०३ ॥
rāja-cora-agni-udaka-bādhaḥ upanipātaḥ .. 03.15.03 ..
बहु-गुण-हीनं आर्त-कृतं वाअविषह्यं ॥ ०३.१५.०४ ॥
बहु-गुण-हीनम् आर्त-कृतम् वा अविषह्यम् ॥ ०३।१५।०४ ॥
bahu-guṇa-hīnam ārta-kṛtam vā aviṣahyam .. 03.15.04 ..
वैदेहकानां एक-रात्रं अनुशयः । कर्षकाणां त्रि-रात्रं । गो-रक्षकाणां पञ्च-रात्रं ॥ ०३.१५.०५ ॥
वैदेहकानाम् एक-रात्रम् अनुशयः । कर्षकाणाम् त्रि-रात्रम् । गो-रक्षकाणाम् पञ्च-रात्रम् ॥ ०३।१५।०५ ॥
vaidehakānām eka-rātram anuśayaḥ . karṣakāṇām tri-rātram . go-rakṣakāṇām pañca-rātram .. 03.15.05 ..
व्यामिश्राणां उत्तमानां च वर्णानां वृत्ति-विक्रये सप्त-रात्रं ॥ ०३.१५.०६ ॥
व्यामिश्राणाम् उत्तमानाम् च वर्णानाम् वृत्ति-विक्रये सप्त-रात्रम् ॥ ०३।१५।०६ ॥
vyāmiśrāṇām uttamānām ca varṇānām vṛtti-vikraye sapta-rātram .. 03.15.06 ..
आतिपातिकानां पण्यानां "अन्यत्र-अविक्रेयम्" इत्यवरोधेनानुशयो देयः ॥ ०३.१५.०७ ॥
आतिपातिकानाम् पण्यानाम् "अन्यत्र अविक्रेयम्" इति अवरोधेन अनुशयः देयः ॥ ०३।१५।०७ ॥
ātipātikānām paṇyānām "anyatra avikreyam" iti avarodhena anuśayaḥ deyaḥ .. 03.15.07 ..
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः । पण्य-दश-भागो वा ॥ ०३.१५.०८ ॥
तस्य अतिक्रमे चतुर्-विंशति-पणः दण्डः । पण्य-दश-भागः वा ॥ ०३।१५।०८ ॥
tasya atikrame catur-viṃśati-paṇaḥ daṇḍaḥ . paṇya-daśa-bhāgaḥ vā .. 03.15.08 ..
क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३.१५.०९ ॥
क्रीत्वा पण्यम् अ प्रतिगृह्णतः द्वादश-पणः दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ॥ ०३।१५।०९ ॥
krītvā paṇyam a pratigṛhṇataḥ dvādaśa-paṇaḥ daṇḍaḥ . anyatra doṣa-upanipāta-aviṣahyebhyaḥ .. 03.15.09 ..
समानश्चानुशयो विक्रेतुरनुशयेन ॥ ०३.१५.१० ॥
समानः च अनुशयः विक्रेतुः अनुशयेन ॥ ०३।१५।१० ॥
samānaḥ ca anuśayaḥ vikretuḥ anuśayena .. 03.15.10 ..
विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि-ग्रहणात्सिद्धं उपावर्तनं । शूद्राणां च प्रकर्मणः ॥ ०३.१५.११ ॥
विवाहानाम् तु त्रयाणाम् पूर्वेषाम् वर्णानाम् पाणि-ग्रहणात् सिद्धम् उपावर्तनम् । शूद्राणाम् च प्रकर्मणः ॥ ०३।१५।११ ॥
vivāhānām tu trayāṇām pūrveṣām varṇānām pāṇi-grahaṇāt siddham upāvartanam . śūdrāṇām ca prakarmaṇaḥ .. 03.15.11 ..
वृत्त-पाणि-ग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनं ॥ ०३.१५.१२ ॥
वृत्त-पाणि-ग्रहणयोः अपि दोषम् औपशायिकम् दृष्ट्वा सिद्धम् उपावर्तनम् ॥ ०३।१५।१२ ॥
vṛtta-pāṇi-grahaṇayoḥ api doṣam aupaśāyikam dṛṣṭvā siddham upāvartanam .. 03.15.12 ..
न त्वेवाभिप्रजातयोः ॥ ०३.१५.१३ ॥
न तु एव अभिप्रजातयोः ॥ ०३।१५।१३ ॥
na tu eva abhiprajātayoḥ .. 03.15.13 ..
कन्या-दोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्-णवतिर्दण्डः । शुल्क-स्त्री-धन-प्रतिदानं च ॥ ०३.१५.१४ ॥
कन्या-दोषम् औपशायिकम् अन् आख्याय प्रयच्छतः कन्याम् षष्-नवतिः दण्डः । शुल्क-स्त्री-धन-प्रतिदानम् च ॥ ०३।१५।१४ ॥
kanyā-doṣam aupaśāyikam an ākhyāya prayacchataḥ kanyām ṣaṣ-navatiḥ daṇḍaḥ . śulka-strī-dhana-pratidānam ca .. 03.15.14 ..
वरयितुर्वा वर-दोषं अनाख्याय विन्दतो द्वि-गुणः । शुल्क-स्त्री-धन-नाशश्च ॥ ०३.१५.१५ ॥
वरयितुः वा वर-दोषम् अन् आख्याय विन्दतः द्वि-गुणः । शुल्क-स्त्री-धन-नाशः च ॥ ०३।१५।१५ ॥
varayituḥ vā vara-doṣam an ākhyāya vindataḥ dvi-guṇaḥ . śulka-strī-dhana-nāśaḥ ca .. 03.15.15 ..
द्विपद-चतुष्पदानां तु कुण्ठ-व्याधित-अशुचीनां उत्साह-स्वास्थ्य-शुचीनां आख्याने द्वादश-पणो दण्डः ॥ ०३.१५.१६ ॥
द्विपद-चतुष्पदानाम् तु कुण्ठ-व्याधित-अशुचीनाम् उत्साह-स्वास्थ्य-शुचीनाम् आख्याने द्वादश-पणः दण्डः ॥ ०३।१५।१६ ॥
dvipada-catuṣpadānām tu kuṇṭha-vyādhita-aśucīnām utsāha-svāsthya-śucīnām ākhyāne dvādaśa-paṇaḥ daṇḍaḥ .. 03.15.16 ..
आ-त्रि-पक्षादिति चतुष्पदानां उपावर्तनम् । आ-संवत्सरादिति मनुष्याणां ॥ ०३.१५.१७ ॥
आ त्रि-पक्षात् इति चतुष्पदानाम् उपावर्तनम् । आ संवत्सरात् इति मनुष्याणाम् ॥ ०३।१५।१७ ॥
ā tri-pakṣāt iti catuṣpadānām upāvartanam . ā saṃvatsarāt iti manuṣyāṇām .. 03.15.17 ..
तावता हि कालेन शक्यं शौच-आशौचे ज्ञातुं ॥ ०३.१५.१८ ॥
तावता हि कालेन शक्यम् शौच-आशौचे ज्ञातुम् ॥ ०३।१५।१८ ॥
tāvatā hi kālena śakyam śauca-āśauce jñātum .. 03.15.18 ..
दाता प्रतिग्रहीता च स्यातां नौपहतौ यथा । ॥ ०३.१५.१९अ ब ॥
दाता प्रतिग्रहीता च स्याताम् न औपहतौ यथा । ॥ ०३।१५।१९अ ब ॥
dātā pratigrahītā ca syātām na aupahatau yathā . .. 03.15.19a ba ..
दाने क्रये वाअनुशयं तथा कुर्युः सभासदः ॥ ०३.१५.१९च्द् ॥
दाने क्रये वा अनुशयम् तथा कुर्युः सभासदः ॥ ०३।१५।१९च् ॥
dāne kraye vā anuśayam tathā kuryuḥ sabhāsadaḥ .. 03.15.19c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In