| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ८ ॥
॥ नाट्यशास्त्रम् अध्याय ॥
.. nāṭyaśāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
भरतमुनिप्रणीतं नाट्यशास्त्रम् अष्टमोऽध्यायः
भरत-मुनि-प्रणीतम् नाट्य-शास्त्रम् अष्टमः अध्यायः
bharata-muni-praṇītam nāṭya-śāstram aṣṭamaḥ adhyāyaḥ
ऋषयः ऊचुः । भावानां च रसां च समुत्थानं यथाक्रमम् ।
ऋषयः ऊचुः । भावानाम् च रसाम् च समुत्थानम् यथाक्रमम् ।
ṛṣayaḥ ūcuḥ . bhāvānām ca rasām ca samutthānam yathākramam .
भावानां च रसां च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥१॥
भावानाम् च रसाम् च समुत्थानम् यथाक्रमम् । त्वद्-प्रसादात् श्रुतम् सर्वम् इच्छामः वेदितुम् पुनर् ॥१॥
bhāvānām ca rasām ca samutthānam yathākramam . tvad-prasādāt śrutam sarvam icchāmaḥ veditum punar ..1..
नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ २॥
नाट्ये कतिविधः कार्यः तद्-ज्ञैः अभिनय-क्रमः । वा अभिनयः हि एष कति भेदः तु कीर्तितः ॥ २॥
nāṭye katividhaḥ kāryaḥ tad-jñaiḥ abhinaya-kramaḥ . vā abhinayaḥ hi eṣa kati bhedaḥ tu kīrtitaḥ .. 2..
सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ ३॥
सर्वम् एतत् यथातत्त्वम् कथयस्व महा-मुने । यः यथा अभिनयः यस्मिन् योक्तव्यः सिद्धिम् इच्छता ॥ ३॥
sarvam etat yathātattvam kathayasva mahā-mune . yaḥ yathā abhinayaḥ yasmin yoktavyaḥ siddhim icchatā .. 3..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥ ४॥
तेषाम् तु वचनम् श्रुत्वा मुनीनाम् भरतः मुनिः । प्रत्युवाच पुनर् वाक्यम् चतुरः अभिनयान् प्रति ॥ ४॥
teṣām tu vacanam śrutvā munīnām bharataḥ muniḥ . pratyuvāca punar vākyam caturaḥ abhinayān prati .. 4..
अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥ ५॥
अहम् वः कथयिष्यामि निखिलेन तपोधनाः । यस्मात् अभिनयः हि एष विधिवत् समुदाहृतम् ॥ ५॥
aham vaḥ kathayiṣyāmi nikhilena tapodhanāḥ . yasmāt abhinayaḥ hi eṣa vidhivat samudāhṛtam .. 5..
यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ --
यत् उक्तम् चत्वारः अभिनयः इति तान् वर्णयिष्यामः । अत्र आह अभिनयः इति कस्मात् । अत्र उच्यते अभि इति उपसर्गः इति प्रापण-अर्थकः धातुः । अस्य अभिनी इति एवम् व्यवस्थितस्य एरच्-इत्यच्-प्रति-अत्यय-अन्तस्य अभिनयः इति एवम् रूपम् सिद्धम् । एतत् च धात्वर्थ-अनुवचनेन अवधार्यम् भवति । अत्र श्लोकौ
yat uktam catvāraḥ abhinayaḥ iti tān varṇayiṣyāmaḥ . atra āha abhinayaḥ iti kasmāt . atra ucyate abhi iti upasargaḥ iti prāpaṇa-arthakaḥ dhātuḥ . asya abhinī iti evam vyavasthitasya erac-ityac-prati-atyaya-antasya abhinayaḥ iti evam rūpam siddham . etat ca dhātvartha-anuvacanena avadhāryam bhavati . atra ślokau
अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ ६॥
अभिपूर्वः तु णीञ् धातुः आभिमुख्य-अर्थ-निर्णये । यस्मात् पदार्थान् नयति तस्मात् अभिनयः स्मृतः ॥ ६॥
abhipūrvaḥ tu ṇīñ dhātuḥ ābhimukhya-artha-nirṇaye . yasmāt padārthān nayati tasmāt abhinayaḥ smṛtaḥ .. 6..
विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ ७॥
विभावयति यस्मात् च नाना अर्थान् हि प्रयोगतः । शाखा-अङ्ग-उपाङ्ग-संयुक्तः तस्मात् अभिनयः स्मृतः ॥ ७॥
vibhāvayati yasmāt ca nānā arthān hi prayogataḥ . śākhā-aṅga-upāṅga-saṃyuktaḥ tasmāt abhinayaḥ smṛtaḥ .. 7..
चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ ८॥
चतुर्विधः च एव भवेत् नाट्यस्य अभिनयः द्विजाः । नाट्यम् हि अस्मिन् प्रतिष्ठितम् ॥ ८॥
caturvidhaḥ ca eva bhavet nāṭyasya abhinayaḥ dvijāḥ . nāṭyam hi asmin pratiṣṭhitam .. 8..
आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ ९॥
आङ्गिकः वाचिकः च एव हि आहार्यः सात्त्विकः तथा । ज्ञेयः तु अभिनयः विप्राः चतुर्धा परिकल्पितः ॥ ९॥
āṅgikaḥ vācikaḥ ca eva hi āhāryaḥ sāttvikaḥ tathā . jñeyaḥ tu abhinayaḥ viprāḥ caturdhā parikalpitaḥ .. 9..
सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १०॥
सात्त्विकः पूर्वम् उक्तः तु भावैः च सहितः मया । अङ्ग-अभिनयम् एव आदौ गदतः मे निबोधत ॥ १०॥
sāttvikaḥ pūrvam uktaḥ tu bhāvaiḥ ca sahitaḥ mayā . aṅga-abhinayam eva ādau gadataḥ me nibodhata .. 10..
त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ११॥
त्रिविधः तु आङ्गिकः शारीरः मुख-जः तथा । तथा चेष्टा-कृतः च एव शाखा-अङ्ग-उपाङ्ग-संयुतः ॥ ११॥
trividhaḥ tu āṅgikaḥ śārīraḥ mukha-jaḥ tathā . tathā ceṣṭā-kṛtaḥ ca eva śākhā-aṅga-upāṅga-saṃyutaḥ .. 11..
शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसङ्ग्रहः ॥ १२॥
शिरः-हस्त-कटी-दक्षः पार्श्व-पाद-समन्वितः । अङ्ग-प्रत्यङ्ग-संयुक्तः षष्-अङ्गः नाट्य-सङ्ग्रहः ॥ १२॥
śiraḥ-hasta-kaṭī-dakṣaḥ pārśva-pāda-samanvitaḥ . aṅga-pratyaṅga-saṃyuktaḥ ṣaṣ-aṅgaḥ nāṭya-saṅgrahaḥ .. 12..
तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ १३॥
तस्य शिरः-हस्त-उरः-पार्श्व-कटी-पादतः षष्-अङ्गानि । नेत्र-भ्रू-नासा-अधर-कपोल-चिबुकानि उपाङ्गानि ॥ १३॥
tasya śiraḥ-hasta-uraḥ-pārśva-kaṭī-pādataḥ ṣaṣ-aṅgāni . netra-bhrū-nāsā-adhara-kapola-cibukāni upāṅgāni .. 13..
अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥
अस्य शाखा च नृत्तम् च तथा एव अङ्कुरः एव च । वस्तूनि अभिनयस्य इह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥
asya śākhā ca nṛttam ca tathā eva aṅkuraḥ eva ca . vastūni abhinayasya iha vijñeyāni prayoktṛbhiḥ .. 14..
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ १५॥
आङ्गिकः तु भवेत् शाखा हि अङ्कुरः सूचना भवेत् । अङ्गहार-विनिष्पन्नम् नृत्तम् तु करण-आश्रयम् ॥ १५॥
āṅgikaḥ tu bhavet śākhā hi aṅkuraḥ sūcanā bhavet . aṅgahāra-viniṣpannam nṛttam tu karaṇa-āśrayam .. 15..
मुखजेऽभिनये विप्रा! नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ १६॥
मुख-जे अभिनये विप्रा! नाना भाव-रस-आश्रये । शिरसः प्रथमम् कर्म गदतः मे निबोधत ॥ १६॥
mukha-je abhinaye viprā! nānā bhāva-rasa-āśraye . śirasaḥ prathamam karma gadataḥ me nibodhata .. 16..
आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥ १७॥
आकम्पितम् कम्पितम् च धूतम् विधुतम् एव च । परिवाहितम् आधूतम् अवधूतम् तथा आञ्चितम् ॥ १७॥
ākampitam kampitam ca dhūtam vidhutam eva ca . parivāhitam ādhūtam avadhūtam tathā āñcitam .. 17..
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ १८॥
निहञ्चितम् परावृत्तम् उत्क्षिप्तम् च अपि अधस् गतम् । लोलितम् च एव विज्ञेयम् त्रयोदशविधम् शिरः ॥ १८॥
nihañcitam parāvṛttam utkṣiptam ca api adhas gatam . lolitam ca eva vijñeyam trayodaśavidham śiraḥ .. 18..
शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ १९॥
शनैस् आकम्पनात् ऊर्ध्वम् अधस् च अकम्पितम् भवेत् । द्रुतम् तत् एव बहुशस् कम्पितम् कम्पितम् शिरः ॥ १९॥
śanais ākampanāt ūrdhvam adhas ca akampitam bhavet . drutam tat eva bahuśas kampitam kampitam śiraḥ .. 19..
ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ २०॥
ऋजु-स्थितस्य च ऊर्ध्व-अधस् क्षेपात् आकम्पितम् भवेत् । बहुशस् चलितम् यत् च तत् कम्पितम् इह उच्यते ॥ २०॥
ṛju-sthitasya ca ūrdhva-adhas kṣepāt ākampitam bhavet . bahuśas calitam yat ca tat kampitam iha ucyate .. 20..
सन्ज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २१॥
सन्ज्ञा-उपदेश-पृच्छासु स्वभाव-आभाषणे तथा । निर्देश-आवाहने च एव भवेत् आकम्पितम् शिरः ॥ २१॥
sanjñā-upadeśa-pṛcchāsu svabhāva-ābhāṣaṇe tathā . nirdeśa-āvāhane ca eva bhavet ākampitam śiraḥ .. 21..
रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ २२॥
रोषे वितर्के विज्ञाने प्रतिज्ञाने अथ तर्जने । प्रश्न-अतिशय-वाक्येषु शिरः कम्पितम् इष्यते ॥ २२॥
roṣe vitarke vijñāne pratijñāne atha tarjane . praśna-atiśaya-vākyeṣu śiraḥ kampitam iṣyate .. 22..
शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः॥२३॥
शिरसः रेचनम् यत् तु शनैस् तत् धुतम् इष्यते । द्रुतम् आरेचनात् एतत् विधुतम् तु भवेत् शिरः॥२३॥
śirasaḥ recanam yat tu śanais tat dhutam iṣyate . drutam ārecanāt etat vidhutam tu bhavet śiraḥ..23..
अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २४॥
अन् ईप्सिते विषादे च विस्मये प्रत्ययम् तथा । पार्श्व-अवलोकने शून्ये प्रतिषेधे धुतम् शिरः ॥ २४॥
an īpsite viṣāde ca vismaye pratyayam tathā . pārśva-avalokane śūnye pratiṣedhe dhutam śiraḥ .. 24..
शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ २५॥
शीत-ग्रस्ते भय-आर्ते च त्रासिते ज्वरिते तथा । पीत-मात्रे तथा मद्ये विधुतम् तु भवेत् शिरः ॥ २५॥
śīta-graste bhaya-ārte ca trāsite jvarite tathā . pīta-mātre tathā madye vidhutam tu bhavet śiraḥ .. 25..
पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् । आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥ २६॥
पर्यायशः पार्श्व-गतम् शिरः स्यात् परिवाहितम् । आधूतम् उच्यते तिर्यक् सकृत् उद्वाहितम् तु यत् ॥ २६॥
paryāyaśaḥ pārśva-gatam śiraḥ syāt parivāhitam . ādhūtam ucyate tiryak sakṛt udvāhitam tu yat .. 26..
साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥ २७॥
साधने विस्मये हर्षे स्मिते च अमर्षिते तथा । विचारे विहृते च एव लीलायाम् परिवाहितम् ॥ २७॥
sādhane vismaye harṣe smite ca amarṣite tathā . vicāre vihṛte ca eva līlāyām parivāhitam .. 27..
गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ २८॥
गर्व-इच्छा-दर्शने च एव पार्श्व-स्थ-ऊर्ध्व-निरीक्षणे आधुतम् तु शिरः ज्ञेयम् आत्म-सम्भावना-आदिषु ॥ २८॥
garva-icchā-darśane ca eva pārśva-stha-ūrdhva-nirīkṣaṇe ādhutam tu śiraḥ jñeyam ātma-sambhāvanā-ādiṣu .. 28..
यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसन्ज्ञादिषु नदिष्यते ॥ २९॥
यत् अधस् सकृत् आक्षिप्तम् अवधूतम् तु तत् शिरः । सन्देश-आवाहन-आलाप-सन्ज्ञा-आदिषु न त् इष्यते ॥ २९॥
yat adhas sakṛt ākṣiptam avadhūtam tu tat śiraḥ . sandeśa-āvāhana-ālāpa-sanjñā-ādiṣu na t iṣyate .. 29..
किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ ३०॥
किञ्चिद् पार्श्व-नत-ग्रीवम् शिरः विज्ञेयम् अञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायाम् हनु-धारणम् ॥ ३०॥
kiñcid pārśva-nata-grīvam śiraḥ vijñeyam añcitam . vyādhite mūrchite matte cintāyām hanu-dhāraṇam .. 30..
उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥ ३१॥
उत्क्षिप अंस-अवसक्तम् यत् कुञ्चित-भ्रू-लतम् शिरः । निहञ्चितम् तु विज्ञेयम् स्त्रीणाम् एतत् प्रयोजयेत् ॥ ३१॥
utkṣipa aṃsa-avasaktam yat kuñcita-bhrū-latam śiraḥ . nihañcitam tu vijñeyam strīṇām etat prayojayet .. 31..
गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ३२॥
गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ३२॥
garve māne vilāse ca bivvoke kilakiñcite . moṭṭāyite kuṭṭamite stambhamāne nihañcitam .. 32..
परावृत्तानुकरणात् परावृत्तमिहोच्यते । तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ ३३॥
परावृत्त-अनुकरणात् परावृत्तम् इह उच्यते । तत् स्यात् मुख-अपहरणे पृष्ठतस् प्रेक्षण-आदिषु ॥ ३३॥
parāvṛtta-anukaraṇāt parāvṛttam iha ucyate . tat syāt mukha-apaharaṇe pṛṣṭhatas prekṣaṇa-ādiṣu .. 33..
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ३४॥
उत्क्षिप्तम् च अपि विज्ञेयम् उन्मुख-अवस्थितम् शिरः । प्रांशु-दिव्य-अस्त्र-योगेषु स्यात् उत्क्षिप्तम् प्रयोगतः ॥ ३४॥
utkṣiptam ca api vijñeyam unmukha-avasthitam śiraḥ . prāṃśu-divya-astra-yogeṣu syāt utkṣiptam prayogataḥ .. 34..
अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ ३५॥
अधोमुखम् स्थितम् च अपि बुधाः प्राहुः अधस् गतम् । लज्जायाम् च प्रणामे च दुःखे च अधस् गतम् शिरः ॥ ३५॥
adhomukham sthitam ca api budhāḥ prāhuḥ adhas gatam . lajjāyām ca praṇāme ca duḥkhe ca adhas gatam śiraḥ .. 35..
सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥३६॥
सर्वतस् भ्रमणात् च एव शिरः स्यात् परिलोलितम् । मूर्च्छा-व्याधि-मद-आवेश-ग्रह-निद्रा-आदिषु स्मृतम् ॥३६॥
sarvatas bhramaṇāt ca eva śiraḥ syāt parilolitam . mūrcchā-vyādhi-mada-āveśa-graha-nidrā-ādiṣu smṛtam ..36..
ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मङ्गल्याध्ययनध्यानस्वभावजयकर्मसु ॥ ३७॥
ऋजु-स्वभाव-संस्थानम् प्राकृतम् तु स्वभाव-जम् । मङ्गल्य-अध्ययन-ध्यान-स्वभाव-जय-कर्मसु ॥ ३७॥
ṛju-svabhāva-saṃsthānam prākṛtam tu svabhāva-jam . maṅgalya-adhyayana-dhyāna-svabhāva-jaya-karmasu .. 37..
एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ३८॥
एभ्यः अन्ये बहवः भेदाः लोक-अभिनय-संश्रिताः । ते च लोक-स्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ३८॥
ebhyaḥ anye bahavaḥ bhedāḥ loka-abhinaya-saṃśritāḥ . te ca loka-svabhāvena prayoktavyā prayoktṛbhiḥ .. 38..
त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ३९॥
त्रयोदशविधम् हि एतत् शिरः-कर्म मया उदितम् । अतस् परम् प्रवक्ष्यामि दृष्टीनाम् इह लक्षणम् ॥ ३९॥
trayodaśavidham hi etat śiraḥ-karma mayā uditam . atas param pravakṣyāmi dṛṣṭīnām iha lakṣaṇam .. 39..
कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ ४०॥
कान्ता भयानका हास्या करुणा च अद्भुता तथा । रौद्रः वीरा च बीभत्सा विज्ञेयाः रस-दृष्टयः ॥ ४०॥
kāntā bhayānakā hāsyā karuṇā ca adbhutā tathā . raudraḥ vīrā ca bībhatsā vijñeyāḥ rasa-dṛṣṭayaḥ .. 40..
स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥
स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भय-अन्विता । जुगुप्सिताः विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥
snigdhā hṛṣṭā ca dīnā ca kruddhā dṛptā bhaya-anvitā . jugupsitāḥ vismitā ca sthāyibhāveṣu dṛṣṭayaḥ .. 41..
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४२॥
शून्या च मलिना च एव श्रान्ता लज्जा-अन्विता तथा । ग्लाना च शङ्किता च एव विषण्णा मुकुला तथा ॥ ४२॥
śūnyā ca malinā ca eva śrāntā lajjā-anvitā tathā . glānā ca śaṅkitā ca eva viṣaṇṇā mukulā tathā .. 42..
कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥
कुञ्चिता च अभितप्ता च जिह्मा स ललिता तथा । वितर्कित-अर्ध-मुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥
kuñcitā ca abhitaptā ca jihmā sa lalitā tathā . vitarkita-ardha-mukulā vibhrāntā viluptā tathā .. 43..
आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ४४॥
आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशत् दृष्टयः हि एता तासु नाट्यम् प्रतिष्ठितम् ॥ ४४॥
ākekarā vikośā ca trastā ca madirā tathā . ṣaṭtriṃśat dṛṣṭayaḥ hi etā tāsu nāṭyam pratiṣṭhitam .. 44..
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥
अस्य दृष्टि-विधानस्य नाना भाव-रस-आश्रयम् । लक्षणम् सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥
asya dṛṣṭi-vidhānasya nānā bhāva-rasa-āśrayam . lakṣaṇam sampravakṣyami yathākarma prayogataḥ .. 45..
हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ ४६॥
हर्ष-प्रसाद-जनिता कान्ता अत्यर्थम् सम् अन्यथा । स भ्रू-क्षेप-कटाक्षा च शृङ्गारे दृष्टिः इक्ष्यते ॥ ४६॥
harṣa-prasāda-janitā kāntā atyartham sam anyathā . sa bhrū-kṣepa-kaṭākṣā ca śṛṅgāre dṛṣṭiḥ ikṣyate .. 46..
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ ४७॥
प्रोद्वृत्त-निष्टब्ध-पुटा स्फुरत्-उद्वृत्त-तारका । दृष्टिः भयानाका अत्यर्थम् भीता ज्ञेया भयानके ॥ ४७॥
prodvṛtta-niṣṭabdha-puṭā sphurat-udvṛtta-tārakā . dṛṣṭiḥ bhayānākā atyartham bhītā jñeyā bhayānake .. 47..
क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ ४८॥
क्रमात् आकुञ्चित-पुटा विभ्रान्त-आकुल-तारका । हास्या दृष्टिः तु कर्तव्या कुहक-अभिनयम् प्रति ॥ ४८॥
kramāt ākuñcita-puṭā vibhrānta-ākula-tārakā . hāsyā dṛṣṭiḥ tu kartavyā kuhaka-abhinayam prati .. 48..
पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ४९॥
पतित-ऊर्ध्व-पुटा स अस्रा मन्यु-मन्थर-तारका । नासा-अग्र-अनुगता दृष्टिः करुणा करुणे रसे ॥ ४९॥
patita-ūrdhva-puṭā sa asrā manyu-manthara-tārakā . nāsā-agra-anugatā dṛṣṭiḥ karuṇā karuṇe rase .. 49..
या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते॥ ५०
या तु आकुञ्चित-पक्ष्म-अग्रा सा आश्चर्य-उद्धत्त-तारका । सौम्या विकसित-अन्ता च सा अद्भुता दृष्टिः अद्भुते॥ ५०
yā tu ākuñcita-pakṣma-agrā sā āścarya-uddhatta-tārakā . saumyā vikasita-antā ca sā adbhutā dṛṣṭiḥ adbhute.. 50
क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ५१॥
क्रूरा रूक्ष-अरुण-उद्वृत-निष्टब्ध-पुट-तारका । भ्रुकुटी-कुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ५१॥
krūrā rūkṣa-aruṇa-udvṛta-niṣṭabdha-puṭa-tārakā . bhrukuṭī-kuṭilā dṛṣṭiḥ raudre raudrī rasā smṛtā .. 51..
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ ५२॥
दीप्ता विकसिता क्षुब्धा गम्भीरा सम-तारका । उत्फुल्ल-मध्या दृष्टिः तु वीरा वीर-रस-आश्रया ॥ ५२॥
dīptā vikasitā kṣubdhā gambhīrā sama-tārakā . utphulla-madhyā dṛṣṭiḥ tu vīrā vīra-rasa-āśrayā .. 52..
निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ५३॥
निकुञ्चित-पुट-अपाङ्गा घूर्ण-उपप्लुत-तारका । संश्लिष्ट-स्थिर-पक्ष्मा च बीभत्सा दृष्टिः इष्यते ॥ ५३॥
nikuñcita-puṭa-apāṅgā ghūrṇa-upapluta-tārakā . saṃśliṣṭa-sthira-pakṣmā ca bībhatsā dṛṣṭiḥ iṣyate .. 53..
नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ ५४॥
नासा-अग्र-सक्ता निमिषा तथा अधोभाग-चारिणी । आ केकर-पुटा शान्ते शान्ता दृष्टिः भवेत् असौ ॥ ५४॥
nāsā-agra-saktā nimiṣā tathā adhobhāga-cāriṇī . ā kekara-puṭā śānte śāntā dṛṣṭiḥ bhavet asau .. 54..
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ ५५॥
रस-जाः दृष्टयः हि एताः विज्ञेयाः लक्षण-अन्विता । अतस् परम् प्रवक्ष्यामि स्थायिभाव-समाश्रयाः ॥ ५५॥
rasa-jāḥ dṛṣṭayaḥ hi etāḥ vijñeyāḥ lakṣaṇa-anvitā . atas param pravakṣyāmi sthāyibhāva-samāśrayāḥ .. 55..
व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ ५६॥
व्याकोश-मध्या मधुरा स्थित-तारा-अभिलाषिणी । स आनन्द-अश्रु-प्लुता दृष्टिः स्निग्धा इयम् रति-भाव-जा ॥ ५६॥
vyākośa-madhyā madhurā sthita-tārā-abhilāṣiṇī . sa ānanda-aśru-plutā dṛṣṭiḥ snigdhā iyam rati-bhāva-jā .. 56..
चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ५७॥
चला हसितगर्भा च विशत्-तारा-निमेषिणी । किञ्चिद् आकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ५७॥
calā hasitagarbhā ca viśat-tārā-nimeṣiṇī . kiñcid ākuñcitā dṛṣṭiḥ hṛṣṭā hāse prakīrtitā .. 57..
अवस्रस्तोत्तरपुटा किञ्चित्सरम्ब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ ५८॥
अवस्रस्त-उत्तर-पुटा किञ्चिद् सरम्ब्ध-तारका । मन्द-सञ्चारिणी दीना सा शोके दृष्टिः इष्यते ॥ ५८॥
avasrasta-uttara-puṭā kiñcid sarambdha-tārakā . manda-sañcāriṇī dīnā sā śoke dṛṣṭiḥ iṣyate .. 58..
रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ५९॥
रूक्षा स्थिर-उद्धत-पुटा निष्टब्ध-उद्धृत्त-तारका । कुटिला भ्रुकुटिः दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ५९॥
rūkṣā sthira-uddhata-puṭā niṣṭabdha-uddhṛtta-tārakā . kuṭilā bhrukuṭiḥ dṛṣṭiḥ kruddhā krodhe vidhīyate .. 59..
संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसम्भवा ॥ ६०॥
संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वम् उद्गिरती दृप्ता दृष्टिः उत्साह-सम्भवा ॥ ६०॥
saṃsthite tārke yasyāḥ sthitā vikasitā tathā . sattvam udgiratī dṛptā dṛṣṭiḥ utsāha-sambhavā .. 60..
विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ६१॥
विस्फारित-उभय-पुटा भय-कम्पित-तारका । निष्क्रान्त-मध्या दृष्टिः तु भय-भावे भय-अन्विता ॥ ६१॥
visphārita-ubhaya-puṭā bhaya-kampita-tārakā . niṣkrānta-madhyā dṛṣṭiḥ tu bhaya-bhāve bhaya-anvitā .. 61..
सङ्कोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ ६२॥
सङ्कोचित-पुट-अध्यामा दृष्टिः मीलित-तारका । पक्ष्म-उद्देशात् समुद्विग्ना जुगुप्सायाम् जुगुप्सिता ॥ ६२॥
saṅkocita-puṭa-adhyāmā dṛṣṭiḥ mīlita-tārakā . pakṣma-uddeśāt samudvignā jugupsāyām jugupsitā .. 62..
भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ६३॥
भृशम् उद्वृत्त-तारा च नष्ट-उभय-पुट-अन्विता । समा विकसिता दृष्टिः विस्मिता विस्मये स्मृता ॥ ६३॥
bhṛśam udvṛtta-tārā ca naṣṭa-ubhaya-puṭa-anvitā . samā vikasitā dṛṣṭiḥ vismitā vismaye smṛtā .. 63..
स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । सञ्चारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ ६४॥
स्थायिभाव-आश्रयाः हि एताः विज्ञेयाः दृष्टयः बुधैः । सञ्चारिणीनाम् दृष्टीनाम् सम्प्रवक्ष्यामि लक्षणम् ॥ ६४॥
sthāyibhāva-āśrayāḥ hi etāḥ vijñeyāḥ dṛṣṭayaḥ budhaiḥ . sañcāriṇīnām dṛṣṭīnām sampravakṣyāmi lakṣaṇam .. 64..
समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६५॥
सम-तारा सम-पुटा निष्कम्पा शून्य-दर्शना । बाह्य-अर्थ-अग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६५॥
sama-tārā sama-puṭā niṣkampā śūnya-darśanā . bāhya-artha-agrāhiṇī dhyāmā śūnyā dṛṣṭiḥ prakīrtitā .. 65..
प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ ६६॥
प्रस्पन्दमान-पक्ष्म-अग्रा न अत्यर्थ-मुकुलैः पुटैः । मलिन-अन्ता च मलिना दृष्टिः विस्मित-तारका ॥ ६६॥
praspandamāna-pakṣma-agrā na atyartha-mukulaiḥ puṭaiḥ . malina-antā ca malinā dṛṣṭiḥ vismita-tārakā .. 66..
श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ६७॥
श्रम-प्रम्लापित-पुटा क्षामा कुञ्चित-लोचना । सन्ना पतित-तारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ६७॥
śrama-pramlāpita-puṭā kṣāmā kuñcita-locanā . sannā patita-tārā ca śrāntā dṛṣṭiḥ prakīrtitā .. 67..
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ६८॥
किञ्चिद् अञ्चित-पक्ष्म-अग्रा पतित-ऊर्ध्व-पुटा ह्रिया । त्रपा-अधस् गत-तारा च दृष्टिः लज्जा-अन्विता तु सा ॥ ६८॥
kiñcid añcita-pakṣma-agrā patita-ūrdhva-puṭā hriyā . trapā-adhas gata-tārā ca dṛṣṭiḥ lajjā-anvitā tu sā .. 68..
म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता॥६९॥
म्लान-भ्रुपुट-पक्ष्मा या शिथिला मन्द-चारिणी । क्रम-प्रवृष्ट-तारा च ग्लाना दृष्टिः तु सा स्मृता॥६९॥
mlāna-bhrupuṭa-pakṣmā yā śithilā manda-cāriṇī . krama-pravṛṣṭa-tārā ca glānā dṛṣṭiḥ tu sā smṛtā..69..
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥७०॥
किञ्चिद् चला स्थिरा किञ्चिद् उद्गता तिर्यक्-आयता । गूढा चकित-तारा च शङ्किता दृष्टिः इष्यते॥७०॥
kiñcid calā sthirā kiñcid udgatā tiryak-āyatā . gūḍhā cakita-tārā ca śaṅkitā dṛṣṭiḥ iṣyate..70..
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ ७१॥
विषाद-विस्तीर्ण-पुटा पर्यस्त-अन्ता निमेषिणी । किञ्चिद् निष्टब्ध-तारा च कार्या दृष्टीः विषादिनी ॥ ७१॥
viṣāda-vistīrṇa-puṭā paryasta-antā nimeṣiṇī . kiñcid niṣṭabdha-tārā ca kāryā dṛṣṭīḥ viṣādinī .. 71..
स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता । सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते॥७२॥
स्फुरत्-आश्लिष्ट-पक्ष्म-अग्रा मुकुल-ऊर्ध्व-पुट-अञ्चिता । सुख-उन्मीलित-तारा च मुकुला दृष्टिः इष्यते॥७२॥
sphurat-āśliṣṭa-pakṣma-agrā mukula-ūrdhva-puṭa-añcitā . sukha-unmīlita-tārā ca mukulā dṛṣṭiḥ iṣyate..72..
आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ ७३॥
आनिकुञ्चित-पक्ष्म-अग्रा पुटैः आकुञ्चितैः तथा । संनिकुञ्चित-तारा च कुञ्चिता दृष्टिः इष्यते ॥ ७३॥
ānikuñcita-pakṣma-agrā puṭaiḥ ākuñcitaiḥ tathā . saṃnikuñcita-tārā ca kuñcitā dṛṣṭiḥ iṣyate .. 73..
मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ ७४॥
मन्दायमान-तारा या पुटैः प्रचलितैः तथा । सन्ताप-उपप्लुता दृष्टिः अभितप्ता तु स व्यथा ॥ ७४॥
mandāyamāna-tārā yā puṭaiḥ pracalitaiḥ tathā . santāpa-upaplutā dṛṣṭiḥ abhitaptā tu sa vyathā .. 74..
लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ७५॥
लम्बित-आकुञ्चित-पुटा शनैस् तिर्यङ् निरीक्षिणी । निगूढा गूढ-तारा च जिह्मा दृष्टिः उदाहृता ॥ ७५॥
lambita-ākuñcita-puṭā śanais tiryaṅ nirīkṣiṇī . nigūḍhā gūḍha-tārā ca jihmā dṛṣṭiḥ udāhṛtā .. 75..
मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ ७६॥
मधुर-आकुञ्चित-अन्ता च स भ्रू-क्षेपा च स स्मिता । समम् अन्य-विकारा च दृष्टिः सा ललिता स्मृता ॥ ७६॥
madhura-ākuñcita-antā ca sa bhrū-kṣepā ca sa smitā . samam anya-vikārā ca dṛṣṭiḥ sā lalitā smṛtā .. 76..
वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता॥७७॥
वितर्क-उद्वर्तित-पुटा तथा एवा उत्फुल्ल-तारका । अधस् गत-विचारा च दृष्टिः एषा वितर्किता॥७७॥
vitarka-udvartita-puṭā tathā evā utphulla-tārakā . adhas gata-vicārā ca dṛṣṭiḥ eṣā vitarkitā..77..
अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ ७८॥
अर्ध-व्याकोश-पक्ष्मा च ह्लादा-अर्ध-मुकुलैः पुटैः । दृष्टिः किञ्चिद् लुलित-तारका ॥ ७८॥
ardha-vyākośa-pakṣmā ca hlādā-ardha-mukulaiḥ puṭaiḥ . dṛṣṭiḥ kiñcid lulita-tārakā .. 78..
अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ ७९॥
अनवस्थित-तारा च विभ्रान्त-आकुल-दर्शना । विस्तीर्ण-उत्फुल्ल-मध्या च विभ्रान्ता दृष्टिः उच्यते ॥ ७९॥
anavasthita-tārā ca vibhrānta-ākula-darśanā . vistīrṇa-utphulla-madhyā ca vibhrāntā dṛṣṭiḥ ucyate .. 79..
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ ८०॥
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनर् । विलुप्त-उद्वृत्त-तारा च दृष्टिः एषा तु विप्लुता ॥ ८०॥
puṭau prasphuritau yasya niṣṭabdhau patitau punar . vilupta-udvṛtta-tārā ca dṛṣṭiḥ eṣā tu viplutā .. 80..
आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ८१॥
आकुञ्चित-पुट-अपाङ्गा सङ्ग-ता-अर्ध-निमेषिणी । मुहुर् व्यावृत्त-तारा च दृष्टिः आकेकरा स्मृता ॥ ८१॥
ākuñcita-puṭa-apāṅgā saṅga-tā-ardha-nimeṣiṇī . muhur vyāvṛtta-tārā ca dṛṣṭiḥ ākekarā smṛtā .. 81..
विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ ८२॥
विकोशित-उभय-पुटा प्रोत्फुल्ला च अनिमेषिणी । अनवस्थित-सञ्चारा विकोशा दृष्टिः उच्यते ॥ ८२॥
vikośita-ubhaya-puṭā protphullā ca animeṣiṇī . anavasthita-sañcārā vikośā dṛṣṭiḥ ucyate .. 82..
त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ ८३॥
त्रास-उद्वृत्त-पुटा या तु तथा उत्कम्पित-तारका । सन्त्रास-उत्फुल्ल-मध्या च त्रस्ता दृष्टिः उदाहृता ॥ ८३॥
trāsa-udvṛtta-puṭā yā tu tathā utkampita-tārakā . santrāsa-utphulla-madhyā ca trastā dṛṣṭiḥ udāhṛtā .. 83..
आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ ८४॥
आघुर्णमान-मध्या या क्षाम-अन्त-अञ्चित-लोचना । दृष्टिः विकसित-अपाङ्गा मदिरा तरुणे मदे ॥ ८४॥
āghurṇamāna-madhyā yā kṣāma-anta-añcita-locanā . dṛṣṭiḥ vikasita-apāṅgā madirā taruṇe made .. 84..
किञ्चिदाकुऽचितपुटा ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ ८५॥
हि अनवस्थित-तारका । तथा चलित-पक्ष्मा च दृष्टिः मध्य-मदे भवेत् ॥ ८५॥
hi anavasthita-tārakā . tathā calita-pakṣmā ca dṛṣṭiḥ madhya-made bhavet .. 85..
सनिमेषानिमेषा च किञ्चिद् दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ ८६॥
स निमेष-अनिमेषा च किञ्चिद् दर्शित-तारका । अधोभाग-चरी दृष्टिः अधमे तु मदे स्मृता ॥ ८६॥
sa nimeṣa-animeṣā ca kiñcid darśita-tārakā . adhobhāga-carī dṛṣṭiḥ adhame tu made smṛtā .. 86..
इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥ ८७॥
इति एवम् लक्षिताः हि एताः षटत्रिंशत् दृष्टयः मया । रस-जा सहजाः च आसाम् विनियोगम् निबोधत ॥ ८७॥
iti evam lakṣitāḥ hi etāḥ ṣaṭatriṃśat dṛṣṭayaḥ mayā . rasa-jā sahajāḥ ca āsām viniyogam nibodhata .. 87..
रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८८॥
रस-जाः तु रसेषु एव स्थायिषु स्थायि-दृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८८॥
rasa-jāḥ tu raseṣu eva sthāyiṣu sthāyi-dṛṣṭayaḥ . śṛṇuta vyabhicāriṇyaḥ sañcāriṣu yathāsthitāḥ .. 88..
शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ ८९॥
शून्या दृष्टिः तु चिन्तायाम् स्तम्भे च अपि प्रकीर्तिता । निर्वेदे च अपि मलिना वैवर्ण्ये च विधीयते ॥ ८९॥
śūnyā dṛṣṭiḥ tu cintāyām stambhe ca api prakīrtitā . nirvede ca api malinā vaivarṇye ca vidhīyate .. 89..
श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ ९०॥
श्रान्ता श्रम-आर्ते स्वेदे च लजायाम् ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्याम् ग्लाना विधीयते ॥ ९०॥
śrāntā śrama-ārte svede ca lajāyām lalitā tathā . apasmāre tathā vyādhau glānyām glānā vidhīyate .. 90..
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ ९१॥
शङ्कायाम् शङ्किता ज्ञेया विषाद-अर्थे विषादिनी । निद्रा-स्वप्न-सुख-अर्थेषु मुकुला दृष्टिः इष्यते ॥ ९१॥
śaṅkāyām śaṅkitā jñeyā viṣāda-arthe viṣādinī . nidrā-svapna-sukha-artheṣu mukulā dṛṣṭiḥ iṣyate .. 91..
कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ ९२॥
कुञ्चित-असूयित-अनिष्ट-दुष्प्रेक्षा-अक्षि-व्यथाषु च । अभितप्ता च निर्वेदे हि अभिघात-अभितापयोः ॥ ९२॥
kuñcita-asūyita-aniṣṭa-duṣprekṣā-akṣi-vyathāṣu ca . abhitaptā ca nirvede hi abhighāta-abhitāpayoḥ .. 92..
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ९३॥
जिह्मा दृष्टिः असूयायाम् जड-ता-आलस्ययोः तथा । धृतौ हर्षे स ललिता स्मृतौ तर्के च तर्किता ॥ ९३॥
jihmā dṛṣṭiḥ asūyāyām jaḍa-tā-ālasyayoḥ tathā . dhṛtau harṣe sa lalitā smṛtau tarke ca tarkitā .. 93..
आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ ९४॥
आल्हा-आदिषु अर्ध-मुकुलाः गन्ध-स्पर्श-सुख-आदिषु । विभ्रान्ता दृष्टिः आवेगे सम्भ्रमे विभ्रमे तथा ॥ ९४॥
ālhā-ādiṣu ardha-mukulāḥ gandha-sparśa-sukha-ādiṣu . vibhrāntā dṛṣṭiḥ āvege sambhrame vibhrame tathā .. 94..
विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ ९५॥
विलुप्ता चपल-उन्माद-दुःख-आर्ति-मरण-आदिषु । आकेकराः दुरालोके विच्छेद-प्रेअक्षितेषु च ॥ ९५॥
viluptā capala-unmāda-duḥkha-ārti-maraṇa-ādiṣu . ākekarāḥ durāloke viccheda-preakṣiteṣu ca .. 95..
विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥ ९६॥
विबोध-गर्व-आमर्श-औग्र्य-मतिषु स्यात् विकोशि-ता । त्रस्ता त्रासे भवेत् दृष्टिः मदिरा च मदेषु इति ॥ ९६॥
vibodha-garva-āmarśa-augrya-matiṣu syāt vikośi-tā . trastā trāse bhavet dṛṣṭiḥ madirā ca madeṣu iti .. 96..
षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ ९७॥
षटत्रिंशत् दृष्टयः हि एताः यथावत् समुदाहृताः । रस-जानाम् तु दृष्टीनाम् भाव-जानाम् च ॥ ९७॥
ṣaṭatriṃśat dṛṣṭayaḥ hi etāḥ yathāvat samudāhṛtāḥ . rasa-jānām tu dṛṣṭīnām bhāva-jānām ca .. 97..
तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ ९८॥
तारापुट-भ्रुवाम् कर्म गदतः मे निबोधत । भ्रमणम् वलनम् पातः चलनम् सम्प्रवेशनम् ॥ ९८॥
tārāpuṭa-bhruvām karma gadataḥ me nibodhata . bhramaṇam valanam pātaḥ calanam sampraveśanam .. 98..
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ ९९॥
विवर्तनम् समुद्वृत्तम् निष्क्रामः प्राकृतम् तथा । पुट-अन्तर् मण्डल-आवृत्तिः तारयोः भ्रमणम् स्मृतम् ॥ ९९॥
vivartanam samudvṛttam niṣkrāmaḥ prākṛtam tathā . puṭa-antar maṇḍala-āvṛttiḥ tārayoḥ bhramaṇam smṛtam .. 99..
वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥ १००॥
वलनम् गमनम् त्रि-अस्रम् पातनम् स्रस्त-ता तथा । चलनम् कम्पनम् ज्ञेयम् प्रवेशः अन्तःप्रवेशनम् ॥ १००॥
valanam gamanam tri-asram pātanam srasta-tā tathā . calanam kampanam jñeyam praveśaḥ antaḥpraveśanam .. 100..
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ १०१॥
विवर्तनम् कटाक्षः तु समुद्वृत्तम् समुन्नतिः । निष्क्रामः निर्गमः प्रोक्तः प्राकृतम् तु स्वभाव-जम् ॥ १०१॥
vivartanam kaṭākṣaḥ tu samudvṛttam samunnatiḥ . niṣkrāmaḥ nirgamaḥ proktaḥ prākṛtam tu svabhāva-jam .. 101..
अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ १०२॥
अथ एषाम् रस-भावेषु विनियोगम् निबोधत । भ्रमणम् चलन-उद्वृत्ते निष्क्रामः वीर-रौद्रयोः ॥ १०२॥
atha eṣām rasa-bhāveṣu viniyogam nibodhata . bhramaṇam calana-udvṛtte niṣkrāmaḥ vīra-raudrayoḥ .. 102..
निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ १०३॥
निष्क्रामणम् संवलनम् कर्तव्यम् तु भयानके । हास्य-बीभत्सयोः च अपि प्रवेशनम् इह इष्यते ॥ १०३॥
niṣkrāmaṇam saṃvalanam kartavyam tu bhayānake . hāsya-bībhatsayoḥ ca api praveśanam iha iṣyate .. 103..
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ १०४॥
पातनम् करुणे कार्यम् निष्क्रामणम् अथ अद्भुते । प्राकृतम् शेष-भावेषु शृङ्गारे च विवर्तितम् ॥ १०४॥
pātanam karuṇe kāryam niṣkrāmaṇam atha adbhute . prākṛtam śeṣa-bhāveṣu śṛṅgāre ca vivartitam .. 104..
स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ १०५॥
स्वभाव-सिद्धम् एव एतत् कर्मम् लोक-क्रिया-आश्रयम् । एवम् रसेषु भावेषु तारा-कर्माणि योजयेत् ॥ १०५॥
svabhāva-siddham eva etat karmam loka-kriyā-āśrayam . evam raseṣu bhāveṣu tārā-karmāṇi yojayet .. 105..
अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ १०६॥
अथ अत्रा एव प्रवक्ष्यामि दर्शनस्य तु । समम् साचय्नुवृत्ते च हि आलोकित-विलोकिते ॥ १०६॥
atha atrā eva pravakṣyāmi darśanasya tu . samam sācaynuvṛtte ca hi ālokita-vilokite .. 106..
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥ १०७॥
प्रलोकित-उल्लोकिते च अपि अवलोकितम् एव च । सम-तारम् च सौम्यम् च यत् दृष्टम् तत् समम् स्मृतम् ॥ १०७॥
pralokita-ullokite ca api avalokitam eva ca . sama-tāram ca saumyam ca yat dṛṣṭam tat samam smṛtam .. 107..
पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ १०८॥
पक्ष्म-अन्तर-गत-तारम् च त्रि-अस्रम् साचीकृतम् तु तत् । रूप-निर्वर्णना युक्तम् अनुवृत्तम् इति स्मृतम् ॥ १०८॥
pakṣma-antara-gata-tāram ca tri-asram sācīkṛtam tu tat . rūpa-nirvarṇanā yuktam anuvṛttam iti smṛtam .. 108..
सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ १०९॥
सहसा दर्शनम् यत् स्यात् तत् आलोकितम् उच्यते । विलोकितम् पृष्टतस् तु पार्श्वाभ्याम् तु प्रलोकितम् ॥ १०९॥
sahasā darśanam yat syāt tat ālokitam ucyate . vilokitam pṛṣṭatas tu pārśvābhyām tu pralokitam .. 109..
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ ११०॥
ऊर्ध्वम् उल्लोकितम् ज्ञेयम् अवलोकितम् अपि अधस् । इति एषु दर्शन-विधिः सर्व-भाव-रस-आश्रयः ॥ ११०॥
ūrdhvam ullokitam jñeyam avalokitam api adhas . iti eṣu darśana-vidhiḥ sarva-bhāva-rasa-āśrayaḥ .. 110..
ताराकृतोऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ १११॥
तारा-कृतः अस्य अनुगतम् पुट-कर्म निबोधत । उन्मेषः च निमेषः च प्रसृतम् कुञ्चितम् समम् ॥ १११॥
tārā-kṛtaḥ asya anugatam puṭa-karma nibodhata . unmeṣaḥ ca nimeṣaḥ ca prasṛtam kuñcitam samam .. 111..
विवर्तितं स स्फुरितं पिहितं सविताडितम् । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ ११२॥
विवर्तितम् स स्फुरितम् पिहितम् स विताडितम् । विश्लेषः पुटयोः यः तु स तु उन्मेषः प्रकीर्तितः ॥ ११२॥
vivartitam sa sphuritam pihitam sa vitāḍitam . viśleṣaḥ puṭayoḥ yaḥ tu sa tu unmeṣaḥ prakīrtitaḥ .. 112..
समागमो निमेषः स्यादायामः प्रसृतं भवेत् । आकुऽचितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥ ११३॥
समागमः निमेषः स्यात् आयामः प्रसृतम् भवेत् । कुञ्चितम् स्यात् समम् स्वाभाविकम् स्मृतम् ॥ ११३॥
samāgamaḥ nimeṣaḥ syāt āyāmaḥ prasṛtam bhavet . kuñcitam syāt samam svābhāvikam smṛtam .. 113..
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥ ११४॥
विवर्तितम् समुद्वृत्तम् स्फुरितम् स्पन्दितम् तथा । स्थगितम् पिहितम् प्रोक्तम् आहतम् तु विताडितम् ॥ ११४॥
vivartitam samudvṛttam sphuritam spanditam tathā . sthagitam pihitam proktam āhatam tu vitāḍitam .. 114..
अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ ११५॥
रस-भावेषु विनियोगम् निबोधत । क्रोधे विवर्तितम् कार्यः निमेष-उन्मेषणैः सह ॥ ११५॥
rasa-bhāveṣu viniyogam nibodhata . krodhe vivartitam kāryaḥ nimeṣa-unmeṣaṇaiḥ saha .. 115..
विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ११६॥
विस्मय-अर्थेषु हर्षे च वीरे च प्रसृतम् स्मृतम् । अनिष्ट-दर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ११६॥
vismaya-artheṣu harṣe ca vīre ca prasṛtam smṛtam . aniṣṭa-darśane gandhe rase sparśe ca kuñcitam .. 116..
शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ ११७॥
शृङ्गारे च समम् कार्यम् ईर्ष्यासु स्फुरितम् तथा । सुप्त-मूर्च्छित-वात-उष्ण-धूम-वर्ष-अञ्जन-आर्तिषु ॥ ११७॥
śṛṅgāre ca samam kāryam īrṣyāsu sphuritam tathā . supta-mūrcchita-vāta-uṣṇa-dhūma-varṣa-añjana-ārtiṣu .. 117..
नेत्ररोगे च पिहितमभिघाते विताडितम् । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ ११८॥
नेत्र-रोगे च पिहितम् अभिघाते विताडितम् । इति एवम् रस-भावेषु तारका-पुटयोः विधिः ॥ ११८॥
netra-roge ca pihitam abhighāte vitāḍitam . iti evam rasa-bhāveṣu tārakā-puṭayoḥ vidhiḥ .. 118..
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥११९॥
कार्य-अनुगतम् अस्य एव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनः च एव भ्रुकुटी चतुरम् भ्रुवोः ॥११९॥
kārya-anugatam asya eva bhruvoḥ karma nibodhata . utkṣepaḥ pātanaḥ ca eva bhrukuṭī caturam bhruvoḥ ..119..
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा॥१२०॥
कुञ्चितम् रेचितम् च एव सहजम् च इति सप्तधा । भ्रुवोः उन्नतिः उत्क्षेपः समम् एकैकशस् अपि वा॥१२०॥
kuñcitam recitam ca eva sahajam ca iti saptadhā . bhruvoḥ unnatiḥ utkṣepaḥ samam ekaikaśas api vā..120..
अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ १२१॥
अनेन एव क्रमेण एव पातनम् स्यात् अधोमुखम् । भ्रुवोः मूल-समुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ १२१॥
anena eva krameṇa eva pātanam syāt adhomukham . bhruvoḥ mūla-samutkṣepāt bhrukuṭī parikīrtitā .. 121..
चतुरं किऽचिदुच्छ्वासान्मधुरायतया भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ १२२॥
चतुरम् किऽचिद् उच्छ्वासात् मधुर-आयतया भ्रुवोः । एकस्याः उभयोः वा अपि मृदु-भङ्गः तु कुञ्चितम् ॥ १२२॥
caturam ki'cid ucchvāsāt madhura-āyatayā bhruvoḥ . ekasyāḥ ubhayoḥ vā api mṛdu-bhaṅgaḥ tu kuñcitam .. 122..
एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ १२३॥
एकस्याः एव ललितात् उत्क्षेपात् रेचितम् भ्रुवः । सहजातम् तु सहजम् कर्म स्वाभाविकम् स्मृतम् ॥ १२३॥
ekasyāḥ eva lalitāt utkṣepāt recitam bhruvaḥ . sahajātam tu sahajam karma svābhāvikam smṛtam .. 123..
अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ १२४॥
अथ एषाम् सम्प्रवक्ष्यामि रस-भाव-प्रयोजनम् । कोपे वितर्के हेलायाम् लीला-आदौ सहजे तथा ॥ १२४॥
atha eṣām sampravakṣyāmi rasa-bhāva-prayojanam . kope vitarke helāyām līlā-ādau sahaje tathā .. 124..
श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥ १२५॥
श्रवणे दर्शने च एव भ्रुवम् एकाम् समुत्क्षिपेत् । उत्क्षेपः विस्मये हर्षे रोषे द्वयोः अपि ॥ १२५॥
śravaṇe darśane ca eva bhruvam ekām samutkṣipet . utkṣepaḥ vismaye harṣe roṣe dvayoḥ api .. 125..
आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥ १२६॥
आसूयित-जुगुप्सायाम् हास्ये घ्राणे च पातनम् । क्रोध-स्थानेषु दीप्तेषु योजयेत् भ्रुकुटिम् बुधः ॥ १२६॥
āsūyita-jugupsāyām hāsye ghrāṇe ca pātanam . krodha-sthāneṣu dīpteṣu yojayet bhrukuṭim budhaḥ .. 126..
शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ १२७॥
शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवंविधेषु भावेषु चतुरम् तु प्रयोजयेत् ॥ १२७॥
śṛṅgāre lalite saumye sukhe sparśe prabodhane . evaṃvidheṣu bhāveṣu caturam tu prayojayet .. 127..
स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ १२८॥
स्त्री-पुरुषयोः च संलापे नाना अवस्था-अन्तर-आत्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ १२८॥
strī-puruṣayoḥ ca saṃlāpe nānā avasthā-antara-ātmake . moṭṭāyite kuṭṭamite vilāse kilakiñcite .. 128..
निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥
निकुञ्चितम् तु कर्तव्यम् नृत्ते योज्यम् तु रेचितम् । अन् आविद्धेषु भावेषु विद्यात् स्वाभाविकम् बुधः॥१२९॥
nikuñcitam tu kartavyam nṛtte yojyam tu recitam . an āviddheṣu bhāveṣu vidyāt svābhāvikam budhaḥ..129..
इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ १३०॥
इति एवम् तु भ्रुवः प्रोक्तम् नासा-कर्म निबोधत । नता मन्दा विकृष्टा च स उच्छ्वासा च विकूणिता ॥ १३०॥
iti evam tu bhruvaḥ proktam nāsā-karma nibodhata . natā mandā vikṛṣṭā ca sa ucchvāsā ca vikūṇitā .. 130..
स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ १३१॥
स्वाभाविका च इति बुधैः षड्विधा नासिका स्मृता । नता मुहुर् श्लिष्ट-पुटा मन्दा तु निभृता स्मृता ॥ १३१॥
svābhāvikā ca iti budhaiḥ ṣaḍvidhā nāsikā smṛtā . natā muhur śliṣṭa-puṭā mandā tu nibhṛtā smṛtā .. 131..
विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता सङ्कुचिता समा स्वाभाविका स्मृता ॥ १३२॥
विकृष्ट-उत्फुल्लित-पुटा स उच्छ्वासा कृष्ट-मारुता । विकूणिता सङ्कुचिता समा स्वाभाविका स्मृता ॥ १३२॥
vikṛṣṭa-utphullita-puṭā sa ucchvāsā kṛṣṭa-mārutā . vikūṇitā saṅkucitā samā svābhāvikā smṛtā .. 132..
नासिकालक्षणं ह्येतत् विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ १३३॥
नासिका-लक्षणम् हि एतत् विनियोगम् निबोधत । मद-उत्कम्प-समायुक्ते नारीणाम् अनुरोधने ॥ १३३॥
nāsikā-lakṣaṇam hi etat viniyogam nibodhata . mada-utkampa-samāyukte nārīṇām anurodhane .. 133..
निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ १३४॥
निःश्वासे च नता कार्या नासिका नाट्य-योक्तृभिः । विच्छिन्न-मन्द-रुदिते स उच्छ्वासे च नता स्मृता ॥ १३४॥
niḥśvāse ca natā kāryā nāsikā nāṭya-yoktṛbhiḥ . vicchinna-manda-rudite sa ucchvāse ca natā smṛtā .. 134..
निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ १३५॥
निर्वेग-औत्सुक्य-चिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टाम् तौ रौद्रे वीरे तथा एव च ॥ १३५॥
nirvega-autsukya-cintāsu mandā śoke ca yojayet . tīvragandhe vikṛṣṭām tau raudre vīre tathā eva ca .. 135..
इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ १३६॥
इष्ट-घ्राणे तथा उच्छ्वासे दीर्घ-उच्छ्वासाम् प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायाम् असूया-आदिषु ॥ १३६॥
iṣṭa-ghrāṇe tathā ucchvāse dīrgha-ucchvāsām prayojayet . vikūṇitā ca kartavyā jugupsāyām asūyā-ādiṣu .. 136..
कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ १३७॥
कार्या शेषु भावेषु स्वाभाविका तथा । क्षामम् फुल्लम् च घूर्णम् च कम्पितम् कुञ्चितम् समम् ॥ १३७॥
kāryā śeṣu bhāveṣu svābhāvikā tathā . kṣāmam phullam ca ghūrṇam ca kampitam kuñcitam samam .. 137..
षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ १३८॥
षड्विधम् गण्डम् उद्दिष्टम् तस्य लक्षणम् उच्यते । क्षामम् च अवनतम् ज्ञेयम् फुल्लम् विकसितम् भवेत् ॥ १३८॥
ṣaḍvidham gaṇḍam uddiṣṭam tasya lakṣaṇam ucyate . kṣāmam ca avanatam jñeyam phullam vikasitam bhavet .. 138..
विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात् कुञ्चितं सङ्कुञ्चितं समं प्राकृतमुच्यते ॥ १३९॥
विततम् घूर्णम् अत्र उक्तम् कम्पितम् स्फुरितम् भवेत् । स्यात् कुञ्चितम् सङ्कुञ्चितम् समम् प्राकृतम् उच्यते ॥ १३९॥
vitatam ghūrṇam atra uktam kampitam sphuritam bhavet . syāt kuñcitam saṅkuñcitam samam prākṛtam ucyate .. 139..
गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ १४०॥
गण्डयोः लक्षणम् प्रोक्तम् विनियोगम् निबोधत । क्षामम् दुःखेषु कर्तव्यम् प्रहर्षे फुल्लम् एव च ॥ १४०॥
gaṇḍayoḥ lakṣaṇam proktam viniyogam nibodhata . kṣāmam duḥkheṣu kartavyam praharṣe phullam eva ca .. 140..
पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे॥ १४१॥
पूर्णम् उत्साह-गर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितम् च स रोमाञ्चम् स्पर्शे शीते भये ज्वरे॥ १४१॥
pūrṇam utsāha-garveṣu romaharṣeṣu kampitam . kuñcitam ca sa romāñcam sparśe śīte bhaye jvare.. 141..
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम्॥१४२॥
प्राकृतम् शेष-भावेषु गण्डकर्म भवेत् इति । विवर्तनम् कम्पनम् च विसर्गः विनिगूहनम्॥१४२॥
prākṛtam śeṣa-bhāveṣu gaṇḍakarma bhavet iti . vivartanam kampanam ca visargaḥ vinigūhanam..142..
सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ १४३॥
सन्दष्टकम् समुद्गम् च षड् कर्माणि अधरस्य तु । विकूणितम् विवर्तः तु वेपनम् कम्पनम् स्मृतम् ॥ १४३॥
sandaṣṭakam samudgam ca ṣaḍ karmāṇi adharasya tu . vikūṇitam vivartaḥ tu vepanam kampanam smṛtam .. 143..
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥ १४४॥
विनिष्क्रामः विसर्गः तु प्रवेशः विनिगूहनम् । सन्दष्टकम् समुद्गः सहज-उन्नति ॥ १४४॥
viniṣkrāmaḥ visargaḥ tu praveśaḥ vinigūhanam . sandaṣṭakam samudgaḥ sahaja-unnati .. 144..
इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ १४५॥
इति ओष्ठ-लक्षणम् प्रोक्तम् विनियोगम् निबोधत । असूया-वेदना-अवज्ञा-भय-आदिषु विवर्तनम् ॥ १४५॥
iti oṣṭha-lakṣaṇam proktam viniyogam nibodhata . asūyā-vedanā-avajñā-bhaya-ādiṣu vivartanam .. 145..
कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ १४६॥
कम्पनम् वेपनम् शीत-भय-रोष-जव-आदिषु । विलासे विसर्गः रञ्जने तथा ॥ १४६॥
kampanam vepanam śīta-bhaya-roṣa-java-ādiṣu . vilāse visargaḥ rañjane tathā .. 146..
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥१४७॥
विनिगूहनम् आयासे सन्दष्टम् क्रोध-कर्मसु । समुद्गः तु अनुकम्पायाम् चुम्बने च अभिनन्दने ॥१४७॥
vinigūhanam āyāse sandaṣṭam krodha-karmasu . samudgaḥ tu anukampāyām cumbane ca abhinandane ..147..
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ १४८॥
इति ओष्ठ-कर्माणि उक्तानि चिबुकस्य निबोधत । कुट्टनम् खण्डनम् छिन्नम् चुक्कितम् लेहनम् समम् ॥ १४८॥
iti oṣṭha-karmāṇi uktāni cibukasya nibodhata . kuṭṭanam khaṇḍanam chinnam cukkitam lehanam samam .. 148..
दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसङ्घर्षः संस्फोटः खण्डनं मुहुः ॥ १४९॥
दष्टम् च दन्त-क्रियया चिबुकम् तु इह लक्ष्यते । कुट्टनम् दन्त-सङ्घर्षः संस्फोटः खण्डनम् मुहुर् ॥ १४९॥
daṣṭam ca danta-kriyayā cibukam tu iha lakṣyate . kuṭṭanam danta-saṅgharṣaḥ saṃsphoṭaḥ khaṇḍanam muhur .. 149..
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥१५०॥
छिन्नम् तु गाढ-संश्लेषः चुक्कितम् दूर-विच्युतिः । लेहनम् जिह्वया लेहः किञ्चिद् श्लेषः समम् भवेत् ॥१५०॥
chinnam tu gāḍha-saṃśleṣaḥ cukkitam dūra-vicyutiḥ . lehanam jihvayā lehaḥ kiñcid śleṣaḥ samam bhavet ..150..
दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ १५१॥
दन्तैः दष्टे अधरे दष्टम् इति एषाम् विनियोजनम् । भय-शीतज्वर-क्रोध-ग्रस्तानाम् कुट्टनम् भवेत् ॥ १५१॥
dantaiḥ daṣṭe adhare daṣṭam iti eṣām viniyojanam . bhaya-śītajvara-krodha-grastānām kuṭṭanam bhavet .. 151..
जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ १५२॥
जप-अध्ययन-संलाप-भक्ष्य-योगे च खण्डनम् । छिन्नम् व्याधौ भये शीते व्यायामे रुदिते मृते ॥ १५२॥
japa-adhyayana-saṃlāpa-bhakṣya-yoge ca khaṇḍanam . chinnam vyādhau bhaye śīte vyāyāme rudite mṛte .. 152..
जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ १५३॥
जृम्भणे चुक्कितम् कार्यम् तथा लेह्ये च लेहनम् । समम् स्वभाव-भावेषु सन्दष्टम् क्रोध-कर्मसु ॥ १५३॥
jṛmbhaṇe cukkitam kāryam tathā lehye ca lehanam . samam svabhāva-bhāveṣu sandaṣṭam krodha-karmasu .. 153..
इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ १५४॥
इति दन्त-उष्ठ-जिह्वानाम् करणात् चिबुक-क्रिया । विधुतम् विनिवृत्तम् च निर्भुग्नम् भुग्नम् एव च ॥ १५४॥
iti danta-uṣṭha-jihvānām karaṇāt cibuka-kriyā . vidhutam vinivṛttam ca nirbhugnam bhugnam eva ca .. 154..
विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्॥ १५५॥
विवृतम् च तथा उद्वाहि कर्माणि अत्र आस्य-जानि तु । व्यावृत्तम् विनिवृत्तम् स्यात् विधुतम् तिर्यक्-आयतम्॥ १५५॥
vivṛtam ca tathā udvāhi karmāṇi atra āsya-jāni tu . vyāvṛttam vinivṛttam syāt vidhutam tiryak-āyatam.. 155..
अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ १५६॥
अवाङ्मुख-त्वम् निर्भुग्नम् व्याभुग्नम् किञ्चिद् आयतम् । विश्लिष्ट-उष्ठम् च विवृतम् उद्वाहि उत्क्षिप्तम् एव च ॥ १५६॥
avāṅmukha-tvam nirbhugnam vyābhugnam kiñcid āyatam . viśliṣṭa-uṣṭham ca vivṛtam udvāhi utkṣiptam eva ca .. 156..
विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ १५७॥
विनिवृत्तम् असूयायाम् ईर्ष्या-क्रोध-कृतेन च । अवज्ञा-विवृत-आदौ च कार्या प्रयोक्तृभिः ॥ १५७॥
vinivṛttam asūyāyām īrṣyā-krodha-kṛtena ca . avajñā-vivṛta-ādau ca kāryā prayoktṛbhiḥ .. 157..
विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ १५८॥
विधुतम् वारणे च एव न एवम् इति एवमादिषु । निर्भुग्नम् च अपि विज्ञेयम् गम्भीर-आलोकन-आदिषु ॥ १५८॥
vidhutam vāraṇe ca eva na evam iti evamādiṣu . nirbhugnam ca api vijñeyam gambhīra-ālokana-ādiṣu .. 158..
भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ १५९॥
भुग्नम् लजा-अन्विते योज्यम् यतीनाम् तु स्वभाव-जम् । निर्वेद-औत्सुक्य-चिन्तासु नये च विनिमन्त्रणे ॥ १५९॥
bhugnam lajā-anvite yojyam yatīnām tu svabhāva-jam . nirveda-autsukya-cintāsu naye ca vinimantraṇe .. 159..
विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥१६०॥
विवृत्तम् च अपि विज्ञेयम् हास्य-शोक-भय-आदिषु । स्त्रीणाम् उद्वाहि लीलायाम् गर्वे गच्छति अनादरे ॥१६०॥
vivṛttam ca api vijñeyam hāsya-śoka-bhaya-ādiṣu . strīṇām udvāhi līlāyām garve gacchati anādare ..160..
एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ १६१॥
एव नाम इति कार्यम् च कोप-वाक्ये विचक्षणैः । समम् साचि-अनुवृत्त-आदि यत् च दृष्टि-विकल्पितम् ॥ १६१॥
eva nāma iti kāryam ca kopa-vākye vicakṣaṇaiḥ . samam sāci-anuvṛtta-ādi yat ca dṛṣṭi-vikalpitam .. 161..
तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ १६२॥
तद्-ज्ञैः तेन अनुसारेण कार्यम् तद्-अनुगम् मुखम् । अथ अतस् मुख-रागः तु चतुर्धा परिकीर्तितः ॥ १६२॥
tad-jñaiḥ tena anusāreṇa kāryam tad-anugam mukham . atha atas mukha-rāgaḥ tu caturdhā parikīrtitaḥ .. 162..
स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ १६३॥
स्वाभाविकः प्रसन्नः च रक्तः श्यामः अर्थ-संश्रयः । स्वाभाविकः तु कर्तव्यः स्वभाव-अभिनय-आश्रयः ॥ १६३॥
svābhāvikaḥ prasannaḥ ca raktaḥ śyāmaḥ artha-saṃśrayaḥ . svābhāvikaḥ tu kartavyaḥ svabhāva-abhinaya-āśrayaḥ .. 163..
मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ १६४॥
मध्यस्थ-आदिषु भावेषु मुख-रागः प्रयोक्तृभिः । प्रसन्नः तु अद्भुते कार्यः हास्य-शृङ्गारयोः तथा ॥ १६४॥
madhyastha-ādiṣu bhāveṣu mukha-rāgaḥ prayoktṛbhiḥ . prasannaḥ tu adbhute kāryaḥ hāsya-śṛṅgārayoḥ tathā .. 164..
वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ १६५५॥
वीर-रौद्र-मद-आद्येषु रक्तः स्यात् करुणे तथा । भयानके स बीभत्से श्यामम् सञ्जायते मुखम् ॥ १६५५॥
vīra-raudra-mada-ādyeṣu raktaḥ syāt karuṇe tathā . bhayānake sa bībhatse śyāmam sañjāyate mukham .. 1655..
एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥ १६६॥
एवम् भाव-रस-अर्थेषु मुख-रागम् प्रयोजयेत् । शाखा-अङ्ग-उपाङ्ग-संयुक्तः कृतः अपि अभिनयः शुभः ॥ १६६॥
evam bhāva-rasa-artheṣu mukha-rāgam prayojayet . śākhā-aṅga-upāṅga-saṃyuktaḥ kṛtaḥ api abhinayaḥ śubhaḥ .. 166..
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः ॥ १६७॥
मुख-राग-विहीनः तु न एव शोभा-अन्वितः भवेत् । शरीर-अभिनयः अल्पः अपि मुख-राग-सम्न्वितः ॥ १६७॥
mukha-rāga-vihīnaḥ tu na eva śobhā-anvitaḥ bhavet . śarīra-abhinayaḥ alpaḥ api mukha-rāga-samnvitaḥ .. 167..
द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥ १६८॥
द्विगुणाम् लभते शोभाम् रात्रौ इव निशाकरः । नयन-अभिनयः अपि स्यात् नाना भाव-रस-अस्फुटः ॥ १६८॥
dviguṇām labhate śobhām rātrau iva niśākaraḥ . nayana-abhinayaḥ api syāt nānā bhāva-rasa-asphuṭaḥ .. 168..
मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ १६९॥
मुख-राग-अन्वितः यस्मात् नाट्यम् अत्र प्रतिष्ठितम् । यथा नेत्रम् प्रसर्पेत मुख-भू-दृष्टि-संयुतम् ॥ १६९॥
mukha-rāga-anvitaḥ yasmāt nāṭyam atra pratiṣṭhitam . yathā netram prasarpeta mukha-bhū-dṛṣṭi-saṃyutam .. 169..
तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ १७०॥
तथा भाव-रस-उपेतम् मुख-रागम् प्रयोजयेत् । इति एवम् मुख-रागः तु प्रोक्तः भाव-रस-आश्रयः ॥ १७०॥
tathā bhāva-rasa-upetam mukha-rāgam prayojayet . iti evam mukha-rāgaḥ tu proktaḥ bhāva-rasa-āśrayaḥ .. 170..
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः ! । समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ १७१॥
अतस् परम् प्रवक्ष्यामि ग्रीवा-कर्माणि वै द्विजाः ! । समा नत-उन्नता त्रि-अस्रा रेचिता कुञ्चिता अञ्चिता ॥ १७१॥
atas param pravakṣyāmi grīvā-karmāṇi vai dvijāḥ ! . samā nata-unnatā tri-asrā recitā kuñcitā añcitā .. 171..
वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ १७२॥
वलिता च निवृत्ता च ग्रीवा नवविधा अर्थतः । समा स्वाभाविकी ॥ १७२॥
valitā ca nivṛttā ca grīvā navavidhā arthataḥ . samā svābhāvikī .. 172..
नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ १७३॥
नता नता अस्य अलङ्कार-बन्धे कण्ठ-अवलम्बने , उन्नत-अभ्युन्नत-मुखी ग्रीवा च ऊर्ध्व-निवेशने ॥ १७३॥
natā natā asya alaṅkāra-bandhe kaṇṭha-avalambane , unnata-abhyunnata-mukhī grīvā ca ūrdhva-niveśane .. 173..
त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ १७४॥
त्रि-अस्रा पार्श्व-गता ज्ञेया स्कन्ध-भारे अति दुःखिते । रेचिताः विधुत-भ्रान्ताः हावे मथ-नृत्तयोः ॥ १७४॥
tri-asrā pārśva-gatā jñeyā skandha-bhāre ati duḥkhite . recitāḥ vidhuta-bhrāntāḥ hāve matha-nṛttayoḥ .. 174..
कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ १७५॥
कुञ्चित-आकुञ्चिते मूर्ध्नि धारिते गल-रक्षणे । अञ्चित-अपसृत-उद्बन्ध-केश-कर्ष-ऊर्ध्व-दर्शने ॥ १७५॥
kuñcita-ākuñcite mūrdhni dhārite gala-rakṣaṇe . añcita-apasṛta-udbandha-keśa-karṣa-ūrdhva-darśane .. 175..
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ १७६॥
पार्श्व-उन्मुखी स्यात् वलिता ग्रीवा-भेदैः च वीक्षणे । निवृता अभिमुखीभूता स्व-स्थान-अभिमुख-आदिषु ॥ १७६॥
pārśva-unmukhī syāt valitā grīvā-bhedaiḥ ca vīkṣaṇe . nivṛtā abhimukhībhūtā sva-sthāna-abhimukha-ādiṣu .. 176..
इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥१७७॥
इत्यादि लोक-भाव-अर्थाः ग्रीवा-भङ्गैः अनेकधा । ग्रीवा-कर्माणि सर्वाणि शिरः कर्म-अनुगानि हि ॥१७७॥
ityādi loka-bhāva-arthāḥ grīvā-bhaṅgaiḥ anekadhā . grīvā-karmāṇi sarvāṇi śiraḥ karma-anugāni hi ..177..
शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ १७९॥
शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इति एतत् लक्षणम् प्रोक्तम् शीर्ष-उपाङ्ग-समाश्रयम् । अङ्ग-कर्माणि शेषाणि गदतः मे निबोधत ॥ १७९॥
śirasaḥ karmaṇaḥ karma grīvāyāḥ sampravartate . iti etat lakṣaṇam proktam śīrṣa-upāṅga-samāśrayam . aṅga-karmāṇi śeṣāṇi gadataḥ me nibodhata .. 179..
इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः ।
इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानम् नाम अष्टमः अध्यायः ।
iti bhāratīye nāṭyaśāśtre upāṅgavidhānam nāma aṣṭamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In