| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ८ ॥
.. nāṭyaśāstram adhyāya 8 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
भरतमुनिप्रणीतं नाट्यशास्त्रम् अष्टमोऽध्यायः
bharatamunipraṇītaṃ nāṭyaśāstram aṣṭamo'dhyāyaḥ
ऋषयः ऊचुः । भावानां च रसां च समुत्थानं यथाक्रमम् ।
ṛṣayaḥ ūcuḥ . bhāvānāṃ ca rasāṃ ca samutthānaṃ yathākramam .
भावानां च रसां च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥१॥
bhāvānāṃ ca rasāṃ ca samutthānaṃ yathākramam . tvatprasādācchrutaṃ sarvamicchāmo vedituṃ punaḥ ..1..
नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ २॥
nāṭye katividhaḥ kāryaḥ tajjñairabhinayakramaḥ . kataṃ vābhinayo hyeṣa katibhedastu kīrtitaḥ .. 2..
सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ ३॥
sarvametadyathātattvaṃ kathayasva mahāmune . yo yathābhinayo yasmin yoktavyaḥ siddhimicchatā .. 3..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥ ४॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ . pratyuvāca punarvākyaṃ caturo'bhinayān prati .. 4..
अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥ ५॥
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ . yasmādabhinayo hyeṣa vidhivat samudāhṛtam .. 5..
यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ --
yaduktaṃ catvāro'bhinaya iti tān varṇayiṣyāmaḥ . atrāha -- abhinaya iti kasmāt . atrocyate -- abhītyupasargaḥ ṇīñ iti prāpaṇārthako dhātuḥ . asyābhinītyevaṃ vyavasthitasya erajityacpratyatyayāntasyābhinaya ityevaṃ rūpaṃ siddham . etacca dhātvarthānuvacanenāvadhāryaṃ bhavati . atra ślokau --
अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ ६॥
abhipūrvastu ṇīñ dhāturābhimukhyārthanirṇaye . yasmātpadārthānnayati tasmādabhinayaḥ smṛtaḥ .. 6..
विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ ७॥
vibhāvayati yasmācca nānārthān hi prayogataḥ . śākhāṅgopāṅgasaṃyuktastasmādabhinayaḥ smṛtaḥ .. 7..
चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ ८॥
caturvidhaścaiva bhavennāṭyasyābhinayo dvijāḥ . anekabhedavāhūyaṃ nāṭyaṃ hyasmin pratiṣṭhitam .. 8..
आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ ९॥
āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā . jñeyastvabhinayo viprāḥ caturdhā parikalpitaḥ .. 9..
सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १०॥
sāttvikaḥ pūrvamuktastu bhāvaiśca sahito mayā . aṅgābhinayamevādau gadato me nibodhata .. 10..
त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ११॥
trividhastvāṅgiko dyneyaḥ śārīro mukhajastathā . tathā ceṣṭākṛtaścaiva śākhāṅgopāṅgasaṃyutaḥ .. 11..
शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसङ्ग्रहः ॥ १२॥
śirohastakaṭīdakṣaḥ pārśvapādasamanvitaḥ . aṅgapratyaṅgasaṃyuktaḥ ṣaḍaṅgo nāṭyasaṅgrahaḥ .. 12..
तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ १३॥
tasya śirohastoraḥpārśvakaṭīpādataḥ ṣaḍaṅgāni . netrabhrūnāsādharakapolacibukānyupāṅgāni .. 13..
अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥
asya śākhā ca nṛttaṃ ca tathaivāṅkura eva ca . vastūnyabhinayasyeha vijñeyāni prayoktṛbhiḥ .. 14..
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ १५॥
āṅgikastu bhavecchākhā hyaṅkuraḥ sūcanā bhavet . aṅgahāraviniṣpannaṃ nṛttaṃ tu karaṇāśrayam .. 15..
मुखजेऽभिनये विप्रा! नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ १६॥
mukhaje'bhinaye viprā! nānābhāvarasāśraye . śirasaḥ prathamaṃ karma gadato me nibodhata .. 16..
आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥ १७॥
ākampitaṃ kampitaṃ ca dhūtaṃ vidhutameva ca . parivāhitamādhūtamavadhūtaṃ tathāñcitam .. 17..
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ १८॥
nihañcitaṃ parāvṛttamutkṣiptaṃ cāpyadhogatam . lolitaṃ caiva vijñeyaṃ trayodaśavidhaṃ śiraḥ .. 18..
शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ १९॥
śanairākampanādūrdhvamadhaścākampitaṃ bhavet . drutaṃ tadeva bahuśaḥ kampitaṃ kampitaṃ śiraḥ .. 19..
ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ २०॥
ṛjusthitasya cordhvādhaḥ kṣepādākampitaṃ bhavet . bahuśaścalitaṃ yacca tatkampitamihocyate .. 20..
सन्ज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २१॥
sanjñopadeśapṛcchāsu svabhāvābhāṣaṇe tathā . nirdeśāvāhane caiva bhavedākampitaṃ śiraḥ .. 21..
रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ २२॥
roṣe vitarke vijñāne pratijñāne'tha tarjane . praśnātiśayavākyeṣu śiraḥ kampitamiṣyate .. 22..
शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः॥२३॥
śiraso recanaṃ yattu śanaistad dhutamiṣyate . drutamārecanādetadvidhutaṃ tu bhavecchiraḥ..23..
अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २४॥
anīpsite viṣāde ca vismaye pratyayaṃ tathā . pārśvāvalokane śūnye pratiṣedhe dhutaṃ śiraḥ .. 24..
शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ २५॥
śītagraste bhayārte ca trāsite jvarite tathā . pītamātre tathā madye vidhutaṃ tu bhavecchiraḥ .. 25..
पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् । आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥ २६॥
paryāyaśaḥ pārśvagataṃ śiraḥ syāt parivāhitam . ādhūtamucyate tiryak sakṛdudvāhitaṃ tu yat .. 26..
साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥ २७॥
sādhane vismaye harṣe smite cāmarṣite tathā . vicāre vihṛte caiva līlāyāṃ parivāhitam .. 27..
गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ २८॥
garvecchādarśane caiva pārśvasthordhvanirīkṣaṇe ādhutaṃ tu śiro jñeyamātmasambhāvanādiṣu .. 28..
यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसन्ज्ञादिषु नदिष्यते ॥ २९॥
yadadhaḥ sakṛdākṣiptamavadhūtaṃ tu tacchiraḥ . sandeśāvāhanālāpasanjñādiṣu nadiṣyate .. 29..
किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ ३०॥
kiñcit pārśvanatagrīvaṃ śiro vijñeyamañcitam . vyādhite mūrchite matte cintāyāṃ hanudhāraṇam .. 30..
उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥ ३१॥
utkṣipāṃsāvasaktaṃ yatkuñcitabhrūlataṃ śiraḥ . nihañcitaṃ tu vijñeyaṃ strīṇāmetat prayojayet .. 31..
गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ३२॥
garve māne vilāse ca bivvoke kilakiñcite . moṭṭāyite kuṭṭamite stambhamāne nihañcitam .. 32..
परावृत्तानुकरणात् परावृत्तमिहोच्यते । तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ ३३॥
parāvṛttānukaraṇāt parāvṛttamihocyate . tat syānmukhāpaharaṇe pṛṣṭhataḥ prekṣaṇādiṣu .. 33..
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ३४॥
utkṣiptaṃ cāpi vijñeyamunmukhāvasthitaṃ śiraḥ . prāṃśudivyāstrayogeṣu syādutkṣiptaṃ prayogataḥ .. 34..
अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ ३५॥
adhomukhaṃ sthitaṃ cāpi budhāḥ prāhuradhogatam . lajjāyāṃ ca praṇāme ca duḥkhe cādhogataṃ śiraḥ .. 35..
सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥३६॥
sarvato bhramaṇāccaiva śiraḥ syāt parilolitam . mūrcchāvyādhimadāveśagrahanidrādiṣu smṛtam ..36..
ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मङ्गल्याध्ययनध्यानस्वभावजयकर्मसु ॥ ३७॥
ṛjusvabhāvasaṃsthānaṃ prākṛtaṃ tu svabhāvajam . maṅgalyādhyayanadhyānasvabhāvajayakarmasu .. 37..
एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ३८॥
ebhyo'nye bahavo bhedā lokābhinayasaṃśritāḥ . te ca lokasvabhāvena prayoktavyā prayoktṛbhiḥ .. 38..
त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ३९॥
trayodaśavidhaṃ hyetacchiraḥkarma mayoditam . ataḥ paraṃ pravakṣyāmi dṛṣṭīnāmiha lakṣaṇam .. 39..
कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ ४०॥
kāntā bhayānakā hāsyā karuṇā cādbhutā tathā . raudro vīrā ca bībhatsā vijñeyā rasadṛṣṭayaḥ .. 40..
स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥
snigdhā hṛṣṭā ca dīnā ca kruddhā dṛptā bhayānvitā . jugupsitā vismitā ca sthāyibhāveṣu dṛṣṭayaḥ .. 41..
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४२॥
śūnyā ca malinā caiva śrāntā lajjānvitā tathā . glānā ca śaṅkitā caiva viṣaṇṇā mukulā tathā .. 42..
कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥
kuñcitā cābhitaptā ca jihmā salalitā tathā . vitarkitārdhamukulā vibhrāntā viluptā tathā .. 43..
आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ४४॥
ākekarā vikośā ca trastā ca madirā tathā . ṣaṭtriṃśad dṛṣṭayo hyetā tāsu nāṭyaṃ pratiṣṭhitam .. 44..
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥
asya dṛṣṭividhānasya nānābhāvarasāśrayam . lakṣaṇaṃ sampravakṣyami yathākarma prayogataḥ .. 45..
हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ ४६॥
harṣaprasādajanitā kāntātyarthaṃ samanyathā . sabhrūkṣepakaṭākṣā ca śṛṅgāre dṛṣṭirikṣyate .. 46..
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ ४७॥
prodvṛttaniṣṭabdhapuṭā sphuradudvṛttatārakā . dṛṣṭirbhayānākātyarthaṃ bhītā jñeyā bhayānake .. 47..
क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ ४८॥
kramādākuñcitapuṭā vibhrāntākulatārakā . hāsyā dṛṣṭistu kartavyā kuhakābhinayaṃ prati .. 48..
पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ४९॥
patitordhvapuṭā sāsrā manyumantharatārakā . nāsāgrānugatā dṛṣṭiḥ karuṇā karuṇe rase .. 49..
या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते॥ ५०
yā tvākuñcitapakṣmāgrā sāścaryoddhattatārakā . saumyā vikasitāntā ca sādbhutā dṛṣṭiradbhute.. 50
क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ५१॥
krūrā rūkṣāruṇodvṛtaniṣṭabdhapuṭatārakā . bhrukuṭīkuṭilā dṛṣṭiḥ raudre raudrī rasā smṛtā .. 51..
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ ५२॥
dīptā vikasitā kṣubdhā gambhīrā samatārakā . utphullamadhyā dṛṣṭistu vīrā vīrarasāśrayā .. 52..
निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ५३॥
nikuñcitapuṭāpāṅgā ghūrṇopaplutatārakā . saṃśliṣṭasthirapakṣmā ca bībhatsā dṛṣṭiriṣyate .. 53..
नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ ५४॥
nāsāgrasaktā nimiṣā tathādhobhāgacāriṇī . ākekarapuṭā śānte śāntā dṛṣṭirbhavedasau .. 54..
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ ५५॥
rasajā dṛṣṭayo hyetā vijñeyā lakṣaṇānvitā . ataḥ paraṃ pravakṣyāmi sthāyibhāvasamāśrayāḥ .. 55..
व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ ५६॥
vyākośamadhyā madhurā sthitatārābhilāṣiṇī . sānandāśruplutā dṛṣṭiḥ snigdheyaṃ ratibhāvajā .. 56..
चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ५७॥
calā hasitagarbhā ca viśattārānimeṣiṇī . kiñcidākuñcitā dṛṣṭiḥ hṛṣṭā hāse prakīrtitā .. 57..
अवस्रस्तोत्तरपुटा किञ्चित्सरम्ब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ ५८॥
avasrastottarapuṭā kiñcitsarambdhatārakā . mandasañcāriṇī dīnā sā śoke dṛṣṭiriṣyate .. 58..
रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ५९॥
rūkṣā sthiroddhatapuṭā niṣṭabdhoddhṛttatārakā . kuṭilā bhrukuṭirdṛṣṭiḥ kruddhā krodhe vidhīyate .. 59..
संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसम्भवा ॥ ६०॥
saṃsthite tārke yasyāḥ sthitā vikasitā tathā . sattvamudgiratī dṛptā dṛṣṭirutsāhasambhavā .. 60..
विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ६१॥
visphāritobhayapuṭā bhayakampitatārakā . niṣkrāntamadhyā dṛṣṭistu bhayabhāve bhayānvitā .. 61..
सङ्कोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ ६२॥
saṅkocitapuṭādhyāmā dṛṣṭirmīlitatārakā . pakṣmoddeśāt samudvignā jugupsāyāṃ jugupsitā .. 62..
भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ६३॥
bhṛśamudvṛttatārā ca naṣṭobhayapuṭānvitā . samā vikasitā dṛṣṭirvismitā vismaye smṛtā .. 63..
स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । सञ्चारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ ६४॥
sthāyibhāvāśrayā hyetā vijñeyāḥ dṛṣṭayo budhaiḥ . sañcāriṇīnāṃ dṛṣṭīnāṃ sampravakṣyāmi lakṣaṇam .. 64..
समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६५॥
samatārā samapuṭā niṣkampā śūnyadarśanā . bāhyārthāgrāhiṇī dhyāmā śūnyā dṛṣṭiḥ prakīrtitā .. 65..
प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ ६६॥
praspandamānapakṣmāgrā nātyarthamukulaiḥ puṭaiḥ . malināntā ca malinā dṛṣṭirvismitatārakā .. 66..
श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ६७॥
śramapramlāpitapuṭā kṣāmā kuñcitalocanā . sannā patitatārā ca śrāntā dṛṣṭiḥ prakīrtitā .. 67..
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ६८॥
kiñcidañcitapakṣmāgrā patitordhvapuṭā hriyā . trapādhogatatārā ca dṛṣṭirlajjānvitā tu sā .. 68..
म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता॥६९॥
mlānabhrupuṭapakṣmā yā śithilā mandacāriṇī . kramapravṛṣṭatārā ca glānā dṛṣṭistu sā smṛtā..69..
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥७०॥
kiñciccalā sthirā kiñcidudgatā tiryagāyatā . gūḍhā cakitatārā ca śaṅkitā dṛṣṭiriṣyate..70..
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ ७१॥
viṣādavistīrṇapuṭā paryastāntā nimeṣiṇī . kiñcinniṣṭabdhatārā ca kāryā dṛṣṭīrviṣādinī .. 71..
स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता । सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते॥७२॥
sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā . sukhonmīlitatārā ca mukulā dṛṣṭiriṣyate..72..
आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ ७३॥
ānikuñcitapakṣmāgrā puṭairākuñcitaistathā . saṃnikuñcitatārā ca kuñcitā dṛṣṭiriṣyate .. 73..
मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ ७४॥
mandāyamānatārā yā puṭaiḥ pracalitaistathā . santāpopaplutā dṛṣṭirabhitaptā tu savyathā .. 74..
लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ७५॥
lambitākuñcitapuṭā śanaistiryaṅ nirīkṣiṇī . nigūḍhā gūḍhatārā ca jihmā dṛṣṭirudāhṛtā .. 75..
मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ ७६॥
madhurākuñcitāntā ca sabhrūkṣepā ca sasmitā . samamanyavikārā ca dṛṣṭiḥ sā lalitā smṛtā .. 76..
वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता॥७७॥
vitarkodvartitapuṭā tathaivotphullatārakā . adhogatavicārā ca dṛṣṭireṣā vitarkitā..77..
अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ ७८॥
ardhavyākośapakṣmā ca hlādārdhamukulaiḥ puṭaiḥ . smitārśamukulā dṛṣṭiḥ kiñcillulitatārakā .. 78..
अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ ७९॥
anavasthitatārā ca vibhrāntākuladarśanā . vistīrṇotphullamadhyā ca vibhrāntā dṛṣṭirucyate .. 79..
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ ८०॥
puṭau prasphuritau yasya niṣṭabdhau patitau punaḥ . viluptodvṛttatārā ca dṛṣṭireṣā tu viplutā .. 80..
आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ८१॥
ākuñcitapuṭāpāṅgā saṅgatārdhanimeṣiṇī . muhurvyāvṛttatārā ca dṛṣṭirākekarā smṛtā .. 81..
विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ ८२॥
vikośitobhayapuṭā protphullā cānimeṣiṇī . anavasthitasañcārā vikośā dṛṣṭirucyate .. 82..
त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ ८३॥
trāsodvṛttapuṭā yā tu tathotkampitatārakā . santrāsotphullamadhyā ca trastā dṛṣṭirudāhṛtā .. 83..
आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ ८४॥
āghurṇamānamadhyā yā kṣāmāntāñcitalocanā . dṛṣṭirvikasitāpāṅgā madirā taruṇe made .. 84..
किञ्चिदाकुऽचितपुटा ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ ८५॥
kiñcidāku'citapuṭā hyanavasthitatārakā . tathā calitapakṣmā ca dṛṣṭirmadhyamade bhavet .. 85..
सनिमेषानिमेषा च किञ्चिद् दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ ८६॥
sanimeṣānimeṣā ca kiñcid darśitatārakā . adhobhāgacarī dṛṣṭiradhame tu made smṛtā .. 86..
इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥ ८७॥
ityevaṃ lakṣitā hyetā ṣaṭatriṃśad dṛṣṭayo mayā . rasajā sahajāścāsāṃ viniyogaṃ nibodhata .. 87..
रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८८॥
rasajāsstu raseṣveva sthāyiṣu sthāyidṛṣṭayaḥ . śṛṇuta vyabhicāriṇyaḥ sañcāriṣu yathāsthitāḥ .. 88..
शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ ८९॥
śūnyā dṛṣṭistu cintāyāṃ stambhe cāpi prakīrtitā . nirvede cāpi malinā vaivarṇye ca vidhīyate .. 89..
श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ ९०॥
śrāntā śramārte svede ca lajāyāṃ lalitā tathā . apasmāre tathā vyādhau glānyāṃ glānā vidhīyate .. 90..
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ ९१॥
śaṅkāyāṃ śaṅkitā jñeyā viṣādārthe viṣādinī . nidrāsvapnasukhārtheṣu mukulā dṛṣṭiriṣyate .. 91..
कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ ९२॥
kuñcitāsūyitāniṣṭaduṣprekṣākṣivyathāṣu ca . abhitaptā ca nirvede hyabhighātābhitāpayoḥ .. 92..
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ९३॥
jihmā dṛṣṭirasūyāyāṃ jaḍatālasyayostathā . dhṛtau harṣe salalitā smṛtau tarke ca tarkitā .. 93..
आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ ९४॥
ālhādiṣvardhamukulā gandhasparśasukhādiṣu . vibhrāntā dṛṣṭirāvege sambhrame vibhrame tathā .. 94..
विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ ९५॥
viluptā capalonmādaduḥkhārtimaraṇādiṣu . ākekarā durāloke vicchedapreakṣiteṣu ca .. 95..
विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥ ९६॥
vibodhagarvāmarśaugryamatiṣu syādvikośitā . trastā trāse bhaved dṛṣṭirmadirā ca madeṣviti .. 96..
षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ ९७॥
ṣaṭatriṃśad dṛṣṭayo hyetā yathāvat samudāhṛtāḥ . rasajānāṃ tu dṛṣṭīnāṃ bhāvajānāṃ tathaiava ca .. 97..
तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ ९८॥
tārāpuṭabhruvāṃ karma gadato me nibodhata . bhramaṇaṃ valanaṃ pātaścalanaṃ sampraveśanam .. 98..
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ ९९॥
vivartanaṃ samudvṛttaṃ niṣkrāmaḥ prākṛtaṃ tathā . puṭāntarmaṇḍalāvṛttistārayorbhramaṇaṃ smṛtam .. 99..
वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥ १००॥
valanaṃ gamanaṃ tryasraṃ pātanaṃ srastatā tathā . calanaṃ kampanaṃ jñeyaṃ praveśo'ntaḥpraveśanam .. 100..
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ १०१॥
vivartanaṃ kaṭākṣastu samudvṛttaṃ samunnatiḥ . niṣkrāmo nirgamaḥ proktaḥ prākṛtaṃ tu svabhāvajam .. 101..
अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ १०२॥
athaiṣāṃ rasabhāveṣu viniyogaṃ nibodhata . bhramaṇaṃ calanodvṛtte niṣkrāmo vīraraudrayoḥ .. 102..
निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ १०३॥
niṣkrāmaṇaṃ saṃvalanaṃ kartavyaṃ tu bhayānake . hāsyabībhatsayoścāpi praveśanamiheṣyate .. 103..
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ १०४॥
pātanaṃ karuṇe kāryaṃ niṣkrāmaṇamathādbhute . prākṛtaṃ śeṣabhāveṣu śṛṅgāre ca vivartitam .. 104..
स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ १०५॥
svabhāvasiddhamevaitat karmaṃ lokakriyāśrayam . evaṃ raseṣu bhāveṣu tārākarmāṇi yojayet .. 105..
अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ १०६॥
athā'traiva pravakṣyāmi prakāran darśanasya tu . samaṃ sācaynuvṛtte ca hyālokitavilokite .. 106..
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥ १०७॥
pralokitollokite cāpyavalokitameva ca . samatāraṃ ca saumyaṃ ca yaddṛṣṭaṃ tat samaṃ smṛtam .. 107..
पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ १०८॥
pakṣmāntaragatatāraṃ ca tryasraṃ sācīkṛtaṃ tu tat . rūpanirvarṇanā yuktamanuvṛttamiti smṛtam .. 108..
सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ १०९॥
sahasā darśanaṃ yat syāttadālokitamucyate . vilokitaṃ pṛṣṭatastu pārśvābhyāṃ tu pralokitam .. 109..
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ ११०॥
ūrdhvamullokitaṃ jñeyamavalokitamapyadhaḥ . ityeṣu darśanavidhiḥ sarvabhāvarasāśrayaḥ .. 110..
ताराकृतोऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ १११॥
tārākṛto'syānugataṃ puṭakarma nibodhata . unmeṣaśca nimeṣaśca prasṛtaṃ kuñcitaṃ samam .. 111..
विवर्तितं स स्फुरितं पिहितं सविताडितम् । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ ११२॥
vivartitaṃ sa sphuritaṃ pihitaṃ savitāḍitam . viśleṣaḥ puṭayoryastu sa tūnmeṣaḥ prakīrtitaḥ .. 112..
समागमो निमेषः स्यादायामः प्रसृतं भवेत् । आकुऽचितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥ ११३॥
samāgamo nimeṣaḥ syādāyāmaḥ prasṛtaṃ bhavet . āku'citaṃ kuñcitaṃ syāt samaṃ svābhāvikaṃ smṛtam .. 113..
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥ ११४॥
vivartitaṃ samudvṛttaṃ sphuritaṃ spanditaṃ tathā . sthagitaṃ pihitaṃ proktamāhataṃ tu vitāḍitam .. 114..
अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ ११५॥
athaiṣaṃ rasabhāveṣu viniyogaṃ nibodhata . krodhe vivartitaṃ kāryo nimeṣonmeṣaṇaiḥ saha .. 115..
विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ११६॥
vismayārtheṣu harṣe ca vīre ca prasṛtaṃ smṛtam . aniṣṭadarśane gandhe rase sparśe ca kuñcitam .. 116..
शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ ११७॥
śṛṅgāre ca samaṃ kāryamīrṣyāsu sphuritaṃ tathā . suptamūrcchitavātoṣṇadhūmavarṣāñjanārtiṣu .. 117..
नेत्ररोगे च पिहितमभिघाते विताडितम् । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ ११८॥
netraroge ca pihitamabhighāte vitāḍitam . ityevaṃ rasabhāveṣu tārakāpuṭayorvidhiḥ .. 118..
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥११९॥
kāryānugatamasyaiva bhruvoḥ karma nibodhata . utkṣepaḥ pātanaścaiva bhrukuṭī caturaṃ bhruvoḥ ..119..
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा॥१२०॥
kuñcitaṃ recitaṃ caiva sahajaṃ ceti saptadhā . bhruvorunnatirutkṣepaḥ samamekaikaśo'pi vā..120..
अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ १२१॥
anenaiva krameṇaiva pātanaṃ syādadhomukham . bhruvormūlasamutkṣepāt bhrukuṭī parikīrtitā .. 121..
चतुरं किऽचिदुच्छ्वासान्मधुरायतया भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ १२२॥
caturaṃ ki'ciducchvāsānmadhurāyatayā bhruvoḥ . ekasyā ubhayorvāpi mṛdubhaṅgastu kuñcitam .. 122..
एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ १२३॥
ekasyā eva lalitādutkṣepādrecitaṃ bhruvaḥ . sahajātaṃ tu sahajaṃ karma svābhāvikaṃ smṛtam .. 123..
अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ १२४॥
athaiṣāṃ sampravakṣyāmi rasabhāvaprayojanam . kope vitarke helāyāṃ līlādau sahaje tathā .. 124..
श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥ १२५॥
śravaṇe darśane caiva bhruvamekāṃ samutkṣipet . utkṣepo vismaye harṣe roṣe caiava dvayorapi .. 125..
आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥ १२६॥
āsūyitajugupsāyāṃ hāsye ghrāṇe ca pātanam . krodhasthāneṣu dīpteṣu yojayet bhrukuṭiṃ budhaḥ .. 126..
शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ १२७॥
śṛṅgāre lalite saumye sukhe sparśe prabodhane . evaṃ vidheṣu bhāveṣu caturaṃ tu prayojayet .. 127..
स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ १२८॥
strīpuruṣayośca saṃlāpe nānāvasthāntarātmake . moṭṭāyite kuṭṭamite vilāse kilakiñcite .. 128..
निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥
nikuñcitaṃ tu kartavyaṃ nṛtte yojyaṃ tu recitam . anāviddheṣu bhāveṣu vidyāt svābhāvikaṃ budhaḥ..129..
इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ १३०॥
ityevaṃ tu bhruvaḥ proktaṃ nāsākarma nibodhata . natā mandā vikṛṣṭā ca socchvāsā ca vikūṇitā .. 130..
स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ १३१॥
svābhāvikā ceti budhaiḥ ṣaḍvidhā nāsikā smṛtā . natā muhuḥśliṣṭapuṭā mandā tu nibhṛtā smṛtā .. 131..
विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता सङ्कुचिता समा स्वाभाविका स्मृता ॥ १३२॥
vikṛṣṭotphullitapuṭā socchvāsā kṛṣṭamārutā . vikūṇitā saṅkucitā samā svābhāvikā smṛtā .. 132..
नासिकालक्षणं ह्येतत् विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ १३३॥
nāsikālakṣaṇaṃ hyetat viniyogaṃ nibodhata . madotkampasamāyukte nārīṇāmanurodhane .. 133..
निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ १३४॥
niḥśvāse ca natā kāryā nāsikā nāṭyayoktṛbhiḥ . vicchinnamandarudite socchvāse ca natā smṛtā .. 134..
निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ १३५॥
nirvegautsukyacintāsu mandā śoke ca yojayet . tīvragandhe vikṛṣṭāṃ tau raudre vīre tathaiva ca .. 135..
इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ १३६॥
iṣṭaghrāṇe tathocchvāse dīrghocchvāsāṃ prayojayet . vikūṇitā ca kartavyā jugupsāyāmasūyādiṣu .. 136..
कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ १३७॥
kāryā śeṣu bhāveṣu tajñaiḥ svābhāvikā tathā . kṣāmaṃ phullaṃ ca ghūrṇaṃ ca kampitaṃ kuñcitaṃ samam .. 137..
षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ १३८॥
ṣaḍvidhaṃ gaṇḍamuddiṣṭaṃ tasya lakṣaṇamucyate . kṣāmaṃ cāvanataṃ jñeyaṃ phullaṃ vikasitaṃ bhavet .. 138..
विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात् कुञ्चितं सङ्कुञ्चितं समं प्राकृतमुच्यते ॥ १३९॥
vitataṃ ghūrṇamatroktaṃ kampitaṃ sphuritaṃ bhavet . syāt kuñcitaṃ saṅkuñcitaṃ samaṃ prākṛtamucyate .. 139..
गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ १४०॥
gaṇḍayorlakṣaṇaṃ proktaṃ viniyogaṃ nibodhata . kṣāmaṃ duḥkheṣu kartavyaṃ praharṣe phullameva ca .. 140..
पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे॥ १४१॥
pūrṇamutsāhagarveṣu romaharṣeṣu kampitam . kuñcitaṃ ca saromāñcaṃ sparśe śīte bhaye jvare.. 141..
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम्॥१४२॥
prākṛtaṃ śeṣabhāveṣu gaṇḍakarma bhavediti . vivartanaṃ kampanaṃ ca visargo vinigūhanam..142..
सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ १४३॥
sandaṣṭakaṃ samudgaṃ ca ṣaṭ karmāṇyadharasya tu . vikūṇitaṃ vivartastu vepanaṃ kampanaṃ smṛtam .. 143..
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥ १४४॥
viniṣkrāmo visargastu praveśo vinigūhanam . sandaṣṭakaṃ dvijaiardaṣṭaṃ samudgaḥ sahajonnati .. 144..
इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ १४५॥
ityoṣṭhalakṣaṇaṃ proktaṃ viniyogaṃ nibodhata . asūyāvedanāvajñābhayādiṣu vivartanam .. 145..
कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ १४६॥
kampanaṃ vepanaṃ śītabhayaroṣajavādiṣu . strīaṇāṃ vilāse vivvoke visargo rañjane tathā .. 146..
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥१४७॥
vinigūhanamāyāse sandaṣṭaṃ krodhakarmasu . samudgastvanukampāyāṃ cumbane cābhinandane ..147..
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ १४८॥
ityoṣṭhakarmāṇyuktāni cibukasya nibodhata . kuṭṭanaṃ khaṇḍanaṃ chinnaṃ cukkitaṃ lehanaṃ samam .. 148..
दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसङ्घर्षः संस्फोटः खण्डनं मुहुः ॥ १४९॥
daṣṭaṃ ca dantakriyayā cibukaṃ tviha lakṣyate . kuṭṭanaṃ dantasaṅgharṣaḥ saṃsphoṭaḥ khaṇḍanaṃ muhuḥ .. 149..
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥१५०॥
chinnaṃ tu gāḍhasaṃśleṣaścukkitaṃ dūravicyutiḥ . lehanaṃ jihvayā lehaḥ kiñcit śleṣaḥ samaṃ bhavet ..150..
दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ १५१॥
dantairdaṣṭe'dhare daṣṭamityeṣāṃ viniyojanam . bhayaśītajvarakrodhagrastānāṃ kuṭṭanaṃ bhavet .. 151..
जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ १५२॥
japādhyayanasaṃlāpabhakṣyayoge ca khaṇḍanam . chinnaṃ vyādhau bhaye śīte vyāyāme rudite mṛte .. 152..
जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ १५३॥
jṛmbhaṇe cukkitaṃ kāryaṃ tathā lehye ca lehanam . samaṃ svabhāvabhāveṣu sandaṣṭaṃ krodhakarmasu .. 153..
इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ १५४॥
iti dantoṣṭhajihvānāṃ karaṇāccibukakriyā . vidhutaṃ vinivṛttaṃ ca nirbhugnaṃ bhugnameva ca .. 154..
विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्॥ १५५॥
vivṛtaṃ ca tathodvāhi karmāṇyatrāsyajāni tu . vyāvṛttaṃ vinivṛttaṃ syādvidhutaṃ tiryagāyatam.. 155..
अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ १५६॥
avāṅmukhatvaṃ nirbhugnaṃ vyābhugnaṃ kiñcidāyatam . viśliṣṭoṣṭhaṃ ca vivṛtamudvāhyutkṣiptameva ca .. 156..
विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ १५७॥
vinivṛttamasūyāyāmīrṣyākrodhakṛtena ca . avajñāvivṛtādau ca strīṇā kāryā prayoktṛbhiḥ .. 157..
विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ १५८॥
vidhutaṃ vāraṇe caiva naivamityevamādiṣu . nirbhugnaṃ cāpi vijñeyaṃ gambhīrālokanādiṣu .. 158..
भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ १५९॥
bhugnaṃ lajānvite yojyaṃ yatīnāṃ tu svabhāvajam . nirvedautsukyacintāsu naye ca vinimantraṇe .. 159..
विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥१६०॥
vivṛttaṃ cāpi vijñeyaṃ hāsyaśokabhayādiṣu . strīṇāmudvāhi līlāyāṃ garve gacchatyanādare ..160..
एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ १६१॥
eva nāmeti kāryaṃ ca kopavākye vicakṣaṇaiḥ . samaṃ sācyanuvṛttādi yacca dṛṣṭivikalpitam .. 161..
तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ १६२॥
tajjñaistenānusāreṇa kāryaṃ tadanugaṃ mukham . athāto mukharāgastu caturdhā parikīrtitaḥ .. 162..
स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ १६३॥
svābhāvikaḥ prasannaśca raktaḥ śyāmo'rthasaṃśrayaḥ . svābhāvikastu kartavyaḥ svabhāvābhinayāśrayaḥ .. 163..
मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ १६४॥
madhyasthādiṣu bhāveṣu mukharāgaḥ prayoktṛbhiḥ . prasannastvadbhute kāryo hāsyaśṛṅgārayostathā .. 164..
वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ १६५५॥
vīraraudramadādyeṣu raktaḥ syāt karuṇe tathā . bhayānake sabībhatse śyāmaṃ sañjāyate mukham .. 1655..
एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥ १६६॥
evaṃ bhāvarasārtheṣu mukharāgaṃ prayojayet . śākhāṅgopāṅgasaṃyuktaḥ kṛto'pyabhinayaḥ śubhaḥ .. 166..
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः ॥ १६७॥
mukharāgavihīnastu naiva śobhānvito bhavet . śarīrābhinayo'lpo'pi mukharāgasamnvitaḥ .. 167..
द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥ १६८॥
dviguṇāṃ labhate śobhāṃ rātrāviva niśākaraḥ . nayanābhinayo'pi syānnānābhāvarasāsphuṭaḥ .. 168..
मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ १६९॥
mukharāgānvito yasmānnāṭyamatra pratiṣṭhitam . yathā netraṃ prasarpeta mukhabhūdṛṣṭisaṃyutam .. 169..
तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ १७०॥
tathā bhāvarasopetaṃ mukharāgaṃ prayojayet . ityevaṃ mukharāgastu prokto bhāvarasāśrayaḥ .. 170..
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः ! । समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ १७१॥
ataḥ paraṃ pravakṣyāmi grīvākarmāṇi vai dvijāḥ ! . samā natonnatā tryasrā recitā kuñcitāñcitā .. 171..
वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ १७२॥
valitā ca nivṛttā ca grīvā navavidhārthataḥ . samā svābhāvikī dhyānasvabhājapakarmasu .. 172..
नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ १७३॥
natā natāsyālaṅkārabandhe kaṇṭhāvalambane , unnatābhyunnatamukhī grīvā cordhvaniveśane .. 173..
त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ १७४॥
tryasrā pārśvagatā jñeyā skandhabhāre'ti duḥkhite . recitā vidhutabhrāntā hāve mathanṛttayoḥ .. 174..
कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ १७५॥
kuñcitākuñcite mūrdhni dhārite galarakṣaṇe . añcitāpasṛtodbandhakeśakarṣordhvadarśane .. 175..
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ १७६॥
pārśvonmukhī syādvalitā grīvābhedaiśca vīkṣaṇe . nivṛtābhimukhībhūtā svasthānābhimukhādiṣu .. 176..
इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥१७७॥
ityādi lokabhāvārthā grīvābhaṅgairanekadhā . grīvākarmāṇi sarvāṇi śiraḥ karmānugāni hi ..177..
शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ १७९॥
śirasaḥ karmaṇaḥ karma grīvāyāḥ sampravartate . ityetallakṣaṇaṃ proktaṃ śīrṣopāṅgasamāśrayam . aṅgakarmāṇi śeṣāṇi gadato me nibodhata .. 179..
इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः ।
iti bhāratīye nāṭyaśāśtre upāṅgavidhānaṃ nāma aṣṭamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In