| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २८ जातिविकल्प ॥
॥ नाट्य-शास्त्रम् अध्याय जाति-विकल्प ॥
.. nāṭya-śāstram adhyāya jāti-vikalpa ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ अष्टाविंशोऽध्यायः ।
अथ अष्टाविंशः अध्यायः ।
atha aṣṭāviṃśaḥ adhyāyaḥ .
आतोद्यविधिमिदानीं वक्ष्यामः । ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ १॥
आतोद्य-विधिम् इदानीम् वक्ष्यामः । ततम् च एव अवनद्धम् च घनम् सुषिरम् एव च । चतुर्विधम् तु विज्ञेयम् आतोद्यम् लक्षण-अन्वितम् ॥ १॥
ātodya-vidhim idānīm vakṣyāmaḥ . tatam ca eva avanaddham ca ghanam suṣiram eva ca . caturvidham tu vijñeyam ātodyam lakṣaṇa-anvitam .. 1..
ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ २॥
ततम् तन्त्रीकृतम् ज्ञेयम् अवनद्धम् तु पौष्करम् । घनम् तालः तु विज्ञेयः सुषिरः वंशः उच्यते ॥ २॥
tatam tantrīkṛtam jñeyam avanaddham tu pauṣkaram . ghanam tālaḥ tu vijñeyaḥ suṣiraḥ vaṃśaḥ ucyate .. 2..
प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥
प्रयोगः त्रिविधः हि एषाम् विज्ञेयः नाटक-आश्रयः । ततम् च एव अवनद्धम् च तथा नाट्य-कृतः अपरः ॥ ३॥
prayogaḥ trividhaḥ hi eṣām vijñeyaḥ nāṭaka-āśrayaḥ . tatam ca eva avanaddham ca tathā nāṭya-kṛtaḥ aparaḥ .. 3..
ततः कुतपविन्यासो गायनः सपरिग्रहः । वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ॥ ४॥
ततस् कुतप-विन्यासः गायनः स परिग्रहः । वैपञ्चिकः वैणिकः च वंश-वादः तथा एव च ॥ ४॥
tatas kutapa-vinyāsaḥ gāyanaḥ sa parigrahaḥ . vaipañcikaḥ vaiṇikaḥ ca vaṃśa-vādaḥ tathā eva ca .. 4..
मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः । अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
मार्दङ्गिकः पाणविकः तथा दार्दुरिकः बुधैः । अवनद्ध-विधौ एष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
mārdaṅgikaḥ pāṇavikaḥ tathā dārdurikaḥ budhaiḥ . avanaddha-vidhau eṣa kutapaḥ samudāhṛtaḥ .. 5 .. 11/22
उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥
उत्तम-अधम-मध्याभिः तथा प्रकृतिभिः युतः । कुतपः नाट्य-योगे तु नाना देश-समाश्रयः ॥ ६॥
uttama-adhama-madhyābhiḥ tathā prakṛtibhiḥ yutaḥ . kutapaḥ nāṭya-yoge tu nānā deśa-samāśrayaḥ .. 6..
एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् । अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ ७॥
एवम् गानम् च वाद्यम् च नाट्यम् च विविध-आश्रयम् । अलात-चक्र-प्रतिमम् कर्तव्यम् नाट्य-योक्तृभिः ॥ ७॥
evam gānam ca vādyam ca nāṭyam ca vividha-āśrayam . alāta-cakra-pratimam kartavyam nāṭya-yoktṛbhiḥ .. 7..
यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदात्मकम् ॥ ८॥
यत् तु तन्त्रीकृतम् प्रोक्तम् नाना तोद्य-समाश्रयम् । गान्धर्वम् इति तत् ज्ञेयम् स्वर-ताल-पद-आत्मकम् ॥ ८॥
yat tu tantrīkṛtam proktam nānā todya-samāśrayam . gāndharvam iti tat jñeyam svara-tāla-pada-ātmakam .. 8..
अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्धर्वाणां च यस्माद्धि तस्माद्गन्धर्वमुच्यते ॥ ९॥
अत्यर्थम् इष्टम् देवानाम् तथा प्रीति-करम् पुनर् । गन्धर्वाणाम् च यस्मात् हि तस्मात् गन्धर्वम् उच्यते ॥ ९॥
atyartham iṣṭam devānām tathā prīti-karam punar . gandharvāṇām ca yasmāt hi tasmāt gandharvam ucyate .. 9..
अस्य योनिर्भवेद्गानं वीणा वंशस्तथैव च । एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ १०॥
अस्य योनिः भवेत् गानम् वीणा वंशः तथा एव च । एतेषाम् च एव वक्ष्यामि विधिम् स्वर-समुत्थितम् ॥ १०॥
asya yoniḥ bhavet gānam vīṇā vaṃśaḥ tathā eva ca . eteṣām ca eva vakṣyāmi vidhim svara-samutthitam .. 10..
गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् । त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ ११॥
गान्धर्वम् त्रिविधम् विद्यात् स्वर-ताल-पद-आत्मकम् । त्रिविधस्य अपि वक्ष्यामि लक्षणम् कर्म च एव हि ॥ ११॥
gāndharvam trividham vidyāt svara-tāla-pada-ātmakam . trividhasya api vakṣyāmi lakṣaṇam karma ca eva hi .. 11..
द्व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । एतेषां सम्प्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ १२॥
द्वि-अधिष्ठानाः स्वराः वैणाः शारीराः च प्रकीर्तिताः । एतेषाम् सम्प्रवक्ष्यामि विधानम् लक्षण-अन्वितम् ॥ १२॥
dvi-adhiṣṭhānāḥ svarāḥ vaiṇāḥ śārīrāḥ ca prakīrtitāḥ . eteṣām sampravakṣyāmi vidhānam lakṣaṇa-anvitam .. 12..
स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः ॥ १३॥
स्वराः ग्रामौ मूर्च्छनाः च तानाः स्थानानि वृत्तयः । शुष्कम् साधारणे वर्णाः हि अलङ्काराः च धातवः ॥ १३॥
svarāḥ grāmau mūrcchanāḥ ca tānāḥ sthānāni vṛttayaḥ . śuṣkam sādhāraṇe varṇāḥ hi alaṅkārāḥ ca dhātavaḥ .. 13..
श्रुतयो यतयश्चैव नित्यं स्वरगतात्मकाः । दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ १४॥
श्रुतयः यतयः च एव नित्यम् स्वर-गत-आत्मकाः । दारव्याम् समवायः तु वीणायाम् समुदाहृतः ॥ १४॥
śrutayaḥ yatayaḥ ca eva nityam svara-gata-ātmakāḥ . dāravyām samavāyaḥ tu vīṇāyām samudāhṛtaḥ .. 14..
स्वरा ग्रामावलङ्कारा वर्णाः स्थानानि जातयः । साधारणे च शरीर्यां वीणायामेष सङ्ग्रहः ॥ १५॥
स्वराः ग्रामौ अलङ्काराः वर्णाः स्थानानि जातयः । साधारणे च शरीर्याम् वीणायाम् एष सङ्ग्रहः ॥ १५॥
svarāḥ grāmau alaṅkārāḥ varṇāḥ sthānāni jātayaḥ . sādhāraṇe ca śarīryām vīṇāyām eṣa saṅgrahaḥ .. 15..
व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ १६॥
व्यञ्जनानि स्वराः वर्णाः सन्धयः अथ विभक्तयः । नाम-आख्यात-उपसर्गाः च निपाताः तद्धिताः कृतः ॥ १६॥
vyañjanāni svarāḥ varṇāḥ sandhayaḥ atha vibhaktayaḥ . nāma-ākhyāta-upasargāḥ ca nipātāḥ taddhitāḥ kṛtaḥ .. 16..
छन्दोविधिरलङ्कारा ज्ञेयः पदगतो विधिः । निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ १७॥
छन्दः-विधिः अलङ्काराः ज्ञेयः पद-गतः विधिः । निबद्धम् च अनिबद्धम् च द्विविधम् तत् पदम् स्मृतम् ॥ १७॥
chandaḥ-vidhiḥ alaṅkārāḥ jñeyaḥ pada-gataḥ vidhiḥ . nibaddham ca anibaddham ca dvividham tat padam smṛtam .. 17..
ध्रुवस्त्वावापनिष्कामौ विक्षेपोऽथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ १८॥
ध्रुवः तु आवाप-निष्कामौ विक्षेपः अथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः स वस्तुकः ॥ १८॥
dhruvaḥ tu āvāpa-niṣkāmau vikṣepaḥ atha praveśanam . śamyā tālaḥ sannipātaḥ parivartaḥ sa vastukaḥ .. 18..
मात्रा प्रकरणाङ्गानि विवारी यतयो लयाः । गीतयोऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ १९॥
मात्रा प्रकरण-अङ्गानि विवारी यतयः लयाः । गीतयः अवयवाः मार्गाः पाद-मार्गाः स पाणयः ॥ १९॥
mātrā prakaraṇa-aṅgāni vivārī yatayaḥ layāḥ . gītayaḥ avayavāḥ mārgāḥ pāda-mārgāḥ sa pāṇayaḥ .. 19..
इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः । गान्धर्वसङ्ग्रहो ह्येष विस्तरं तु निबोधत ॥ २०॥
इति एकविंशतिविधम् ज्ञेयम् तालगतम् बुधैः । गान्धर्व-सङ्ग्रहः हि एष विस्तरम् तु निबोधत ॥ २०॥
iti ekaviṃśatividham jñeyam tālagatam budhaiḥ . gāndharva-saṅgrahaḥ hi eṣa vistaram tu nibodhata .. 20..
तत्र स्वराः - षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव सप्तमोऽथ निषादवान् ॥ २१॥
तत्र स्वराः षड्जः च ऋषभः च एव गान्धारः मध्यमः तथा । पञ्चमः धैवतः च एव सप्तमः अथ निषादवान् ॥ २१॥
tatra svarāḥ ṣaḍjaḥ ca ṛṣabhaḥ ca eva gāndhāraḥ madhyamaḥ tathā . pañcamaḥ dhaivataḥ ca eva saptamaḥ atha niṣādavān .. 21..
चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः । वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ २२॥
चतुर्विध-त्वम् एतेषाम् विज्ञेयम् गान-योक्तृभिः । वादी च एव अथ संवादी विवादी च अनुवादी अपि ॥ २२॥
caturvidha-tvam eteṣām vijñeyam gāna-yoktṛbhiḥ . vādī ca eva atha saṃvādī vivādī ca anuvādī api .. 22..
संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ २३॥
संवादः मध्यमग्रामे पञ्चमस्य ऋषभस्य च । षड्ज-ग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ २३॥
saṃvādaḥ madhyamagrāme pañcamasya ṛṣabhasya ca . ṣaḍja-grāme tu ṣaḍjasya saṃvādaḥ pañcamasya ca .. 23..
तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चैवाद्य चतस्रश्च षड्जग्रामे भवेद्विधिः ॥ २४॥
तिस्रः द्वे च चतस्रः च चतस्रः तिस्रः एव च । द्वे च एव अद्य चतस्रः च षड्ज-ग्रामे भवेत् विधिः ॥ २४॥
tisraḥ dve ca catasraḥ ca catasraḥ tisraḥ eva ca . dve ca eva adya catasraḥ ca ṣaḍja-grāme bhavet vidhiḥ .. 24..
चतुःश्रुतिर्भवेत् षड्ज ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥ २५॥
चतुर्-श्रुतिः भवेत् षड्जः ऋषभः त्रि-श्रुतिः स्मृतः । द्वि-श्रुतिः च एव गान्धारः मध्यमः च चतुर्-श्रुतिः ॥ २५॥
catur-śrutiḥ bhavet ṣaḍjaḥ ṛṣabhaḥ tri-śrutiḥ smṛtaḥ . dvi-śrutiḥ ca eva gāndhāraḥ madhyamaḥ ca catur-śrutiḥ .. 25..
पञ्चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः । द्विश्रुतिश्च निषादः स्यात् षड्जग्रामे विधिर्भवेत् ॥ २६॥
पञ्चमः तद्वत् एव स्यात् त्रि-श्रुतिः धैवतः मतः । द्वि-श्रुतिः च निषादः स्यात् षड्ज-ग्रामे विधिः भवेत् ॥ २६॥
pañcamaḥ tadvat eva syāt tri-śrutiḥ dhaivataḥ mataḥ . dvi-śrutiḥ ca niṣādaḥ syāt ṣaḍja-grāme vidhiḥ bhavet .. 26..
अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश - आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ २७॥
अथ मूर्च्छनाः द्वैग्रामिक्यः चतुर्दश आदौ उत्तर-मन्द्रा स्यात् रजनी च उत्तर-आयता । चतुर्थी शुद्ध-षड्जा तु पञ्चमी मत्सरीकृता ॥ २७॥
atha mūrcchanāḥ dvaigrāmikyaḥ caturdaśa ādau uttara-mandrā syāt rajanī ca uttara-āyatā . caturthī śuddha-ṣaḍjā tu pañcamī matsarīkṛtā .. 27..
अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ २८॥
अश्वक्रान्ता तथा षष्ठी सप्तमी च आभिः उद्गता । षड्ज-ग्राम-आश्रिताः हि एताः विज्ञेयाः सप्त-मूर्च्छनाः ॥ २८॥
aśvakrāntā tathā ṣaṣṭhī saptamī ca ābhiḥ udgatā . ṣaḍja-grāma-āśritāḥ hi etāḥ vijñeyāḥ sapta-mūrcchanāḥ .. 28..
षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥
षड्जे च उत्तर-मन्द्रा स्यात् ऋषभे च आभिः उद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ २९॥
ṣaḍje ca uttara-mandrā syāt ṛṣabhe ca ābhiḥ udgatā . aśvakrāntā tu gāndhāre madhyame matsarīkṛtā .. 29..
पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता । निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ॥ ३०॥
पञ्चमे शुद्ध-षड्जा स्यात् हैवते च उत्तर-आयता । निषादे रजनी च स्यात् इति एताः षड्ज-मूर्च्छनाः ॥ ३०॥
pañcame śuddha-ṣaḍjā syāt haivate ca uttara-āyatā . niṣāde rajanī ca syāt iti etāḥ ṣaḍja-mūrcchanāḥ .. 30..
अथ मध्यमग्रामे - सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ ३१॥
अथ मध्यम-ग्रामे सौवीरी हरिणाश्वा च स्यात् कला-उपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यम-ग्राम-जाः हि एताः विज्ञेयाः सप्त-मूर्च्छनाः ॥ ३१॥
atha madhyama-grāme sauvīrī hariṇāśvā ca syāt kalā-upanatā tathā . śuddhamadhyā tathā mārgī pauravī hṛṣyakā tathā . madhyama-grāma-jāḥ hi etāḥ vijñeyāḥ sapta-mūrcchanāḥ .. 31..
अपि च - क्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः । षट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ ३२॥
अपि च क्रम-युक्ताः स्वराः सप्त मूर्च्छन-इति अभिसंज्ञिताः । षष्-पञ्च-स्वरकाः तानाः षाडव-औडुवित-आश्रयाः ॥ ३२॥
api ca krama-yuktāḥ svarāḥ sapta mūrcchana-iti abhisaṃjñitāḥ . ṣaṣ-pañca-svarakāḥ tānāḥ ṣāḍava-auḍuvita-āśrayāḥ .. 32..
साधारणकृताश्चैव काकलीसमलङ्कृताः । अन्तरस्वरसंयुक्ता मूर्च्छना ग्रामयोर्द्वयोः ॥ ३३॥
साधारण-कृताः च एव काकली-समलङ्कृताः । अन्तर-स्वर-संयुक्ता मूर्च्छना ग्रामयोः द्वयोः ॥ ३३॥
sādhāraṇa-kṛtāḥ ca eva kākalī-samalaṅkṛtāḥ . antara-svara-saṃyuktā mūrcchanā grāmayoḥ dvayoḥ .. 33..
यथा - छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ ३४॥
यथा छायासु भवति शीतम् प्रस्वेदः भवति च आतप-स्थस्य । न च ना आगतः वसन्तः न च निःशेषः शिशिर-कालः ॥ ३४॥
yathā chāyāsu bhavati śītam prasvedaḥ bhavati ca ātapa-sthasya . na ca nā āgataḥ vasantaḥ na ca niḥśeṣaḥ śiśira-kālaḥ .. 34..
भवतश्चात्र - अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ ३५॥
भवतः च अत्र अन्तर-स्वर-संयोगः नित्यम् आरोहि-संश्रयः । कार्यः हि अल्पः विशेषेण न अवरोही कदाचन ॥ ३५॥
bhavataḥ ca atra antara-svara-saṃyogaḥ nityam ārohi-saṃśrayaḥ . kāryaḥ hi alpaḥ viśeṣeṇa na avarohī kadācana .. 35..
क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहुः । जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ ३६ ॥ इति॥
क्रियमाणः अवरोही स्यात् अल्पः वा यदि वा बहुः । जाति-रागम् श्रुतिम् च एव नयन्ते तु अन्तर-स्वराः ॥ ३६ ॥ इति॥
kriyamāṇaḥ avarohī syāt alpaḥ vā yadi vā bahuḥ . jāti-rāgam śrutim ca eva nayante tu antara-svarāḥ .. 36 .. iti..
जातीरिदानीं वक्ष्यामः । स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ॥ ३७॥
जातीः इदानीम् वक्ष्यामः । स्वर-साधारण-गताः तिस्रः ज्ञेयाः तु जातयः । मध्यमा पञ्चमी च एव षड्ज-मध्या तथा एव च ॥ ३७॥
jātīḥ idānīm vakṣyāmaḥ . svara-sādhāraṇa-gatāḥ tisraḥ jñeyāḥ tu jātayaḥ . madhyamā pañcamī ca eva ṣaḍja-madhyā tathā eva ca .. 37..
आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथा स्वं दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ ३८॥
आसाम् अंशाः तु विज्ञेयाः षड्ज-मध्यम-पञ्चमाः । यथा स्वम् दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ ३८॥
āsām aṃśāḥ tu vijñeyāḥ ṣaḍja-madhyama-pañcamāḥ . yathā svam durbalatarā vyaktā sā pañcamī tathā .. 38..
जातयोऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा । तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ ३९॥
जातयः अष्टादश इति एवम् ब्रह्मणा अभिहितम् पुरा । ताः तु अहम् वर्तयिष्यामि ग्रह-अंश-आदि-विभागतः ॥ ३९॥
jātayaḥ aṣṭādaśa iti evam brahmaṇā abhihitam purā . tāḥ tu aham vartayiṣyāmi graha-aṃśa-ādi-vibhāgataḥ .. 39..
षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ ४०॥
षाड्जी च एव आर्षभी च एव धैवती अथ निषादिनी । षड्ज-उदीच्यवती च एव तथा वै षड्ज-कैशिकी ॥ ४०॥
ṣāḍjī ca eva ārṣabhī ca eva dhaivatī atha niṣādinī . ṣaḍja-udīcyavatī ca eva tathā vai ṣaḍja-kaiśikī .. 40..
षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ ४१॥
षड्ज-मध्या तथा च एव षड्ज-ग्राम-समाश्रयाः । अतस् ऊर्ध्वम् प्रवक्ष्यामि मध्यमग्राम-संश्रिताः ॥ ४१॥
ṣaḍja-madhyā tathā ca eva ṣaḍja-grāma-samāśrayāḥ . atas ūrdhvam pravakṣyāmi madhyamagrāma-saṃśritāḥ .. 41..
गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ ४२॥
गान्धारी मध्यमा च एव गान्धारा उदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ ४२॥
gāndhārī madhyamā ca eva gāndhārā udīcyavā tathā . pañcamī raktagāndhārī tathā gāndhārapañcamī .. 42..
मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च । कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ ४३॥
च एव नन्दयन्ति तथा एव च । कर्मारवी च विज्ञेया तथा आन्ध्री कैशिकी मता ॥ ४३॥
ca eva nandayanti tathā eva ca . karmāravī ca vijñeyā tathā āndhrī kaiśikī matā .. 43..
स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा षड्जमध्या च पञ्चमी चैव सूरिभिः ॥ ४४॥
स्वर-साधारण-गताः तिस्रः ज्ञेयाः तु जातयः । मध्यमा षड्ज-मध्या च पञ्चमी च एव सूरिभिः ॥ ४४॥
svara-sādhāraṇa-gatāḥ tisraḥ jñeyāḥ tu jātayaḥ . madhyamā ṣaḍja-madhyā ca pañcamī ca eva sūribhiḥ .. 44..
आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ॥ ४५॥
आसाम् अंशाः तु विज्ञेयाः षड्ज-मध्यम-पञ्चमाः । यथास्वम् दुर्बलतरम् व्यत्यासात् तु अत्र पञ्चमी ॥ ४५॥
āsām aṃśāḥ tu vijñeyāḥ ṣaḍja-madhyama-pañcamāḥ . yathāsvam durbalataram vyatyāsāt tu atra pañcamī .. 45..
शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते । पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ ४६॥
शुद्धाः विकृताः च एव हि समवायात् जातयः तु जायन्ते । पुनर् एव अशुद्ध-कृताः भवन्ति अथ एकादशा अन्याः तु ॥ ४६॥
śuddhāḥ vikṛtāḥ ca eva hi samavāyāt jātayaḥ tu jāyante . punar eva aśuddha-kṛtāḥ bhavanti atha ekādaśā anyāḥ tu .. 46..
तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः । तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ ४७॥
तासाम् यत् निर्वृत्ताः स्वरेषु अथ अंशेषु जातिषु च जातिः । तत् वक्ष्यामि यथावत् संक्षेपेण क्रमेण इह ॥ ४७॥
tāsām yat nirvṛttāḥ svareṣu atha aṃśeṣu jātiṣu ca jātiḥ . tat vakṣyāmi yathāvat saṃkṣepeṇa krameṇa iha .. 47..
परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः । पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः स्वराश्रयाः ॥ ४८॥
परस्पर-विनिष्पन्नाः ज्ञेयाः हि एवम् तु जातयः । पृथक् लक्षण-संयुक्ताः द्वैग्रामिकाः स्वर-आश्रयाः ॥ ४८॥
paraspara-viniṣpannāḥ jñeyāḥ hi evam tu jātayaḥ . pṛthak lakṣaṇa-saṃyuktāḥ dvaigrāmikāḥ svara-āśrayāḥ .. 48..
चतस्रो जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः । चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ॥ ४९॥
चतस्रः जातयः नित्यम् ज्ञेयाः सप्त-स्वराः बुधैः । चतस्रः षष्-स्वराः ज्ञेयाः स्मृताः पञ्च-स्वराः दश ॥ ४९॥
catasraḥ jātayaḥ nityam jñeyāḥ sapta-svarāḥ budhaiḥ . catasraḥ ṣaṣ-svarāḥ jñeyāḥ smṛtāḥ pañca-svarāḥ daśa .. 49..
मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी । कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी ॥ ५०॥
च एव तथा वै षड्ज-कैशिकी । कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी ॥ ५०॥
ca eva tathā vai ṣaḍja-kaiśikī . kārmāravī ca sampūrṇā tathā gāndhārapañcamī .. 50..
षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा । चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ॥ ५१॥
षाड्जी आन्ध्री नन्दयन्ती च गान्धारा उदीच्यवा तथा । चतस्रः षष्-स्वराः हि एताः ज्ञेयाः पञ्च-स्वराः दश ॥ ५१॥
ṣāḍjī āndhrī nandayantī ca gāndhārā udīcyavā tathā . catasraḥ ṣaṣ-svarāḥ hi etāḥ jñeyāḥ pañca-svarāḥ daśa .. 51..
नैषादी चार्षभी चैव धैवती षड्जमध्यमा । षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ॥ ५२॥
नैषादी च आर्षभी च एव धैवती षड्ज-मध्यमा । षड्ज-उदीच्यवती च एव पञ्च षड्ज-आश्रिताः स्मृताः ॥ ५२॥
naiṣādī ca ārṣabhī ca eva dhaivatī ṣaḍja-madhyamā . ṣaḍja-udīcyavatī ca eva pañca ṣaḍja-āśritāḥ smṛtāḥ .. 52..
गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥ ५३॥
गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी च एव पञ्च एताः मध्यमग्राम-संश्रयाः ॥ ५३॥
gāndhārī raktagāndhārī madhyamā pañcamī tathā . kaiśikī ca eva pañca etāḥ madhyamagrāma-saṃśrayāḥ .. 53..
यास्ताः सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः । कदाचित् षाडवीभूताः कदाचिच्चौडुवे मताः । ५४॥
याः ताः सप्त-स्वराः ज्ञेयाः याः च एताः षष्-स्वराः स्मृताः । कदाचिद् षाडवीभूताः कदाचिद् च औडुवे मताः । ५४॥
yāḥ tāḥ sapta-svarāḥ jñeyāḥ yāḥ ca etāḥ ṣaṣ-svarāḥ smṛtāḥ . kadācid ṣāḍavībhūtāḥ kadācid ca auḍuve matāḥ . 54..
षड्जग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षट्स्वरा चैव विज्ञेया षाड्जी गान्धारयोगतः । ५५॥
षड्ज-ग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षष्-स्वरा च एव विज्ञेया षाड्जी गान्धार-योगतः । ५५॥
ṣaḍja-grāme tu sampūrṇā vijñeyā ṣaḍjakaiśikī . ṣaṣ-svarā ca eva vijñeyā ṣāḍjī gāndhāra-yogataḥ . 55..
गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः । ५६॥
गान्धारपञ्चमी च एव मध्यमा उदीच्यवा तथा । पुनर् च षष्-स्वराः ज्ञेयाः गान्धार-उदीच्यवाः बुधैः । ५६॥
gāndhārapañcamī ca eva madhyamā udīcyavā tathā . punar ca ṣaṣ-svarāḥ jñeyāḥ gāndhāra-udīcyavāḥ budhaiḥ . 56..
आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः । एवमेता बुधैर्ज्ञेया द्वैग्रामिक्योऽपि जातयः ॥ ५७॥
आन्ध्री च नन्दयन्ती च मध्यमग्राम-संश्रयाः । एवम् एताः बुधैः ज्ञेयाः द्वैग्रामिक्यः अपि जातयः ॥ ५७॥
āndhrī ca nandayantī ca madhyamagrāma-saṃśrayāḥ . evam etāḥ budhaiḥ jñeyāḥ dvaigrāmikyaḥ api jātayaḥ .. 57..
अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् । षट्स्वराः सप्तमे ह्यंशे नेष्यन्ते षड्जमध्यमाः ॥ ५८॥
अतस् ऊर्ध्वम् प्रवक्ष्यामि तासाम् अंश-विकल्पनम् । षष्-स्वराः सप्तमे हि अंशे न इष्यन्ते षड्ज-मध्यमाः ॥ ५८॥
atas ūrdhvam pravakṣyāmi tāsām aṃśa-vikalpanam . ṣaṣ-svarāḥ saptame hi aṃśe na iṣyante ṣaḍja-madhyamāḥ .. 58..
संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते । गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ॥ ५९॥
संवाद्य-लोपात् गान्धारे तद्वत् एव हि न इष्यते । गान्धारी-रक्त-गान्धारी-कैशिकीनाम् तु पञ्चमः ॥ ५९॥
saṃvādya-lopāt gāndhāre tadvat eva hi na iṣyate . gāndhārī-rakta-gāndhārī-kaiśikīnām tu pañcamaḥ .. 59..
षड्जायां चैव गान्धारमंशकं विद्धि षाडवम् । षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ॥ ६०॥
षड्जायाम् च एव गान्धारम् अंशकम् विद्धि षाडवम् । षाडवम् धैवते न अस्ति षड्ज-उदीच्याम् अथ अंशके ॥ ६०॥
ṣaḍjāyām ca eva gāndhāram aṃśakam viddhi ṣāḍavam . ṣāḍavam dhaivate na asti ṣaḍja-udīcyām atha aṃśake .. 60..
संवाद्यलोपात्सप्तैताः षाट्स्वर्येण विवर्जिताः । गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥ ६१॥
संवाद्य-लोपात् सप्ता एताः षाट्स्वर्येण विवर्जिताः । गान्धारी-रक्तगान्धार्योः षड्ज-मध्यम-पञ्चमाः ॥ ६१॥
saṃvādya-lopāt saptā etāḥ ṣāṭsvaryeṇa vivarjitāḥ . gāndhārī-raktagāndhāryoḥ ṣaḍja-madhyama-pañcamāḥ .. 61..
सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् । द्वौ षड्जमध्यमांशो तु गान्धारोऽथ निषादवान् ॥ ६२॥
सप्तमः च एव विज्ञेयः येषु न औडुवितम् भवेत् । तु गान्धारः अथ निषादवान् ॥ ६२॥
saptamaḥ ca eva vijñeyaḥ yeṣu na auḍuvitam bhavet . tu gāndhāraḥ atha niṣādavān .. 62..
ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ॥ ६३॥
ऋषभः च एव पञ्चम्याम् कैशिक्याम् च एव धैवतः । एवम् तु द्वादश एव इह वर्ज्याः पञ्च स्वराः सदा ॥ ६३॥
ṛṣabhaḥ ca eva pañcamyām kaiśikyām ca eva dhaivataḥ . evam tu dvādaśa eva iha varjyāḥ pañca svarāḥ sadā .. 63..
तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः । सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ ६४॥
ताः तु अनौडुविताः नित्यम् कर्तव्याः हि स्वर-आश्रयाः । सर्व-स्वराणाम् नाशः तु विहितः तु अथ जातिषु ॥ ६४॥
tāḥ tu anauḍuvitāḥ nityam kartavyāḥ hi svara-āśrayāḥ . sarva-svarāṇām nāśaḥ tu vihitaḥ tu atha jātiṣu .. 64..
न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ ६५॥
न मध्यमस्य नाशः तु कर्तव्यः हि कदाचन । सर्व-स्वराणाम् प्रवरः हि अनाशी मध्यमः स्मृतः । गान्धर्व-कल्पे विहितः सामसु अपि च मध्यमः ॥ ६५॥
na madhyamasya nāśaḥ tu kartavyaḥ hi kadācana . sarva-svarāṇām pravaraḥ hi anāśī madhyamaḥ smṛtaḥ . gāndharva-kalpe vihitaḥ sāmasu api ca madhyamaḥ .. 65..
दशकं जातिलक्षणम् - ग्रहांशौ तारमन्द्रौ च न्यासोऽपन्यास एव च । अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ॥ ६६॥
दशकम् जाति-लक्षणम् ग्रह-अंशौ तार-मन्द्रौ च न्यासः अपन्यासः एव च । अल्पत्वम् च बहु-त्वम् च षाडव-औडुविते तथा ॥ ६६॥
daśakam jāti-lakṣaṇam graha-aṃśau tāra-mandrau ca nyāsaḥ apanyāsaḥ eva ca . alpatvam ca bahu-tvam ca ṣāḍava-auḍuvite tathā .. 66..
अथ ग्रहाः । ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यत्प्रवृत्तं भवेद्गेयमंशो ग्रहविकल्पितः ॥ ६७॥
अथ ग्रहाः । ग्रहाः तु सर्व-जातीनाम् अंश-वत् परिकीर्तिताः । यत् प्रवृत्तम् भवेत् गेयम् अंशः ग्रह-विकल्पितः ॥ ६७॥
atha grahāḥ . grahāḥ tu sarva-jātīnām aṃśa-vat parikīrtitāḥ . yat pravṛttam bhavet geyam aṃśaḥ graha-vikalpitaḥ .. 67..
तत्रांशो नाम - यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते । मन्द्रश्च तारमन्द्रश्च योऽत्यर्थं चोपलभ्यते ॥ ६८॥
तत्र अंशः नाम यस्मिन् भवति रागः च यस्मात् च एव प्रवर्तते । मन्द्रः च तार-मन्द्रः च यः अत्यर्थम् च उपलभ्यते ॥ ६८॥
tatra aṃśaḥ nāma yasmin bhavati rāgaḥ ca yasmāt ca eva pravartate . mandraḥ ca tāra-mandraḥ ca yaḥ atyartham ca upalabhyate .. 68..
ग्रहापन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यस्येह सोंऽशः स्याद्दशलक्षणः ॥ ६९॥
। अनुवृत्तः च यस्य इह सः ॐ शः स्यात् दश-लक्षणः ॥ ६९॥
. anuvṛttaḥ ca yasya iha saḥ oṃ śaḥ syāt daśa-lakṣaṇaḥ .. 69..
पञ्चस्वरपरा तारगतिर्यथा अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह । आ पञ्चमात्पञ्चमाद्वा नातःपरमिहेष्यते ॥ ७०॥
पञ्च-स्वर-परा तार-गतिः यथा अंशात् तार-गतिम् विद्यात् आ चतुर्थ-स्वरात् इह । आ पञ्चमात् पञ्चमात् वा न अतस् परम् इह इष्यते ॥ ७०॥
pañca-svara-parā tāra-gatiḥ yathā aṃśāt tāra-gatim vidyāt ā caturtha-svarāt iha . ā pañcamāt pañcamāt vā na atas param iha iṣyate .. 70..
त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति । मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ॥ ७१॥
त्रिधा मन्द्र-गतिः । अंश-परा न्यास-परा अपर-न्यास-परा च इति । मन्द्रः तु अंश-परः न अस्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यास-लिङ्गे तु दृष्टम् आर्षभ-सेवनम् ॥ ७१॥
tridhā mandra-gatiḥ . aṃśa-parā nyāsa-parā apara-nyāsa-parā ca iti . mandraḥ tu aṃśa-paraḥ na asti nyāsau tu dvau vyavasthitau . gāndhāranyāsa-liṅge tu dṛṣṭam ārṣabha-sevanam .. 71..
अथ न्यास एकविंशतिसङ्ख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्सङ्ख्यः । यथा - न्यासोऽङ्गसमाप्तौ स चैकविंशतिसङ्ख्यस्तथा । १६ अक्षराणि षट्पञ्चाशत्सङ्ख्योऽपन्यासोऽङ्गमध्ये भवेत् ॥ ७२॥
अथ न्यासः एकविंशति-सङ्ख्यः । अङ्ग-समाप्तौ न्यासः । तद्वत् अपन्यासः हि अङ्ग-मध्ये षट्पञ्चाशत्-सङ्ख्यः । यथा न्यासः अङ्ग-समाप्तौ स च एकविंशति-सङ्ख्यः तथा । १६ अक्षराणि षट्पञ्चाशत्-सङ्ख्यः अपन्यासः अङ्ग-मध्ये भवेत् ॥ ७२॥
atha nyāsaḥ ekaviṃśati-saṅkhyaḥ . aṅga-samāptau nyāsaḥ . tadvat apanyāsaḥ hi aṅga-madhye ṣaṭpañcāśat-saṅkhyaḥ . yathā nyāsaḥ aṅga-samāptau sa ca ekaviṃśati-saṅkhyaḥ tathā . 16 akṣarāṇi ṣaṭpañcāśat-saṅkhyaḥ apanyāsaḥ aṅga-madhye bhavet .. 72..
तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्तस्तु । विवदनशीलं मुक्त्वा संन्यासः सोऽभिधातव्यः । कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ॥ ७३॥
तत्र प्रथमम् विदारी-मध्ये न्यास-स्वर-प्रयुक्तः तु । विवदन-शीलम् मुक्त्वा संन्यासः सः अभिधातव्यः । कृत्वा पद-अवसाने विन्यासात् क्वापि विन्यासः ॥ ७३॥
tatra prathamam vidārī-madhye nyāsa-svara-prayuktaḥ tu . vivadana-śīlam muktvā saṃnyāsaḥ saḥ abhidhātavyaḥ . kṛtvā pada-avasāne vinyāsāt kvāpi vinyāsaḥ .. 73..
तथा - अल्पत्वेऽथ बहुत्वे बलवदबलता विनिश्चयादेव । जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ॥ ७४॥
तथा -अथ बहुत्वे बलवत्-अबल-ता विनिश्चयात् एव । जाति-स्वरैः तु नित्यम् जाति-अल्पत्वम् द्विविधम् एतत् ॥ ७४॥
tathā -atha bahutve balavat-abala-tā viniścayāt eva . jāti-svaraiḥ tu nityam jāti-alpatvam dvividham etat .. 74..
सञ्चारांशे बलस्थानामल्पत्वे दुर्बलासु च । न्यासश्चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ ७५॥
सञ्चार-अंशे बलस्थानाम् अल्पत्वे दुर्बलासु च । न्यासः च अन्तर-मार्गः तु जातीनाम् व्यक्ति-कारकः ॥ ७५॥
sañcāra-aṃśe balasthānām alpatve durbalāsu ca . nyāsaḥ ca antara-mārgaḥ tu jātīnām vyakti-kārakaḥ .. 75..
पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ॥ ७६॥
पञ्च-स्वरम् औडुवितम् विज्ञेयम् दशविधम् प्रयोग-ज्ञैः । त्रिंशत्-प्रकार-विहितम् पूर्व-उक्तम् लक्षणम् च अस्य ॥ ७६॥
pañca-svaram auḍuvitam vijñeyam daśavidham prayoga-jñaiḥ . triṃśat-prakāra-vihitam pūrva-uktam lakṣaṇam ca asya .. 76..
षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगोऽपि ह्यवकृष्टध्रुवास्विह ॥ ७७॥
षष्-स्वरस्य प्रयोगः अस्ति तथा पञ्च-स्वरस्य च । चतुर्-स्वर-प्रयोगः अपि हि अवकृष्ट-ध्रुवासु इह ॥ ७७॥
ṣaṣ-svarasya prayogaḥ asti tathā pañca-svarasya ca . catur-svara-prayogaḥ api hi avakṛṣṭa-dhruvāsu iha .. 77..
द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः । अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ ७८॥
द्वैग्रामिकीणाम् जातीनाम् सर्वासाम् अपि नित्यशस् । अंशाः त्रिषष्टिः विज्ञेयाः तेषाम् च एव अंश-वत् ग्रहाः ॥ ७८॥
dvaigrāmikīṇām jātīnām sarvāsām api nityaśas . aṃśāḥ triṣaṣṭiḥ vijñeyāḥ teṣām ca eva aṃśa-vat grahāḥ .. 78..
अंशग्रहमिदानीं वक्ष्यामः । तत्र - मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च । तथा गान्धारपञ्चम्याः पञ्चमोंऽशो ग्रहस्तथा ॥ ७९॥
अंश-ग्रहम् इदानीम् वक्ष्यामः । तत्र मध्यम-उदीच्य-वायाः तु नन्दयन्त्याः तथा एव च । तथा गान्धार-पञ्चम्याः पञ्चमः ऊंऽऊः अशः ग्रहः तथा ॥ ७९॥
aṃśa-graham idānīm vakṣyāmaḥ . tatra madhyama-udīcya-vāyāḥ tu nandayantyāḥ tathā eva ca . tathā gāndhāra-pañcamyāḥ pañcamaḥ ūṃ'ūḥ aśaḥ grahaḥ tathā .. 79..
धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ । पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ॥ ८०॥
धैवत्याः च तथा हि अंशौ विज्ञेयौ धैवत-ऋषभौ । पञ्चम्याः च तथा ज्ञेयौ ग्रह-अंशौ पञ्चम-ऋषभौ ॥ ८०॥
dhaivatyāḥ ca tathā hi aṃśau vijñeyau dhaivata-ṛṣabhau . pañcamyāḥ ca tathā jñeyau graha-aṃśau pañcama-ṛṣabhau .. 80..
गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ । आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः ॥ ८१॥
गान्धार-उदीच्य-वायाः तु ग्रह-अंशौ षड्ज-मध्यमौ । आर्षभ्याः च ग्रहाः अंशाः धैवत-ऋषभ-सप्तमाः ॥ ८१॥
gāndhāra-udīcya-vāyāḥ tu graha-aṃśau ṣaḍja-madhyamau . ārṣabhyāḥ ca grahāḥ aṃśāḥ dhaivata-ṛṣabha-saptamāḥ .. 81..
गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः । निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ॥ ८२॥
गान्धारः च निषादः च हि आर्षभः च तथा अपरः । निषादिन्याः त्रयः हि एते ग्रहाः अंशाः च कीर्तिताः ॥ ८२॥
gāndhāraḥ ca niṣādaḥ ca hi ārṣabhaḥ ca tathā aparaḥ . niṣādinyāḥ trayaḥ hi ete grahāḥ aṃśāḥ ca kīrtitāḥ .. 82..
षड्जपञ्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः । अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ॥ ८३॥
षड्ज-पञ्चम-गान्धारैः त्रिभिः एव प्रकीर्तिताः । अंशैः ग्रहैः तथा च एव विज्ञेया षड्जकैशिकी ॥ ८३॥
ṣaḍja-pañcama-gāndhāraiḥ tribhiḥ eva prakīrtitāḥ . aṃśaiḥ grahaiḥ tathā ca eva vijñeyā ṣaḍjakaiśikī .. 83..
षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ॥ ८४॥
षड्जः च मध्यमः च एव निषादः धैवतः तथा । षड्ज-उदीच्यवती-जातेः ग्रहाः अंशाः च कीर्तिताः ॥ ८४॥
ṣaḍjaḥ ca madhyamaḥ ca eva niṣādaḥ dhaivataḥ tathā . ṣaḍja-udīcyavatī-jāteḥ grahāḥ aṃśāḥ ca kīrtitāḥ .. 84..
पञ्चमश्चार्षभश्चैव निषादो धैवतस्तथा । कार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥ ८५॥
पञ्चमः च आर्षभः च एव निषादः धैवतः तथा । कार्मारव्याः बुधैः अंशाः ग्रहाः च परिकीर्तिताः ॥ ८५॥
pañcamaḥ ca ārṣabhaḥ ca eva niṣādaḥ dhaivataḥ tathā . kārmāravyāḥ budhaiḥ aṃśāḥ grahāḥ ca parikīrtitāḥ .. 85..
गान्धारश्चार्षभश्चैव पञ्चमोऽथ निषादवान् । चत्वरोंशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ॥ ८६॥
गान्धारः च आर्षभः च एव पञ्चमः अथ निषादवान् । चत्वर-ऊंशाः भवन्ति आन्ध्र्याः ग्रहाः च एव तथा एव हि ॥ ८६॥
gāndhāraḥ ca ārṣabhaḥ ca eva pañcamaḥ atha niṣādavān . catvara-ūṃśāḥ bhavanti āndhryāḥ grahāḥ ca eva tathā eva hi .. 86..
षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा । मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ॥ ८७॥
षड्जः च अथ ऋषभः च एव मध्यमः पञ्चमः तथा । मध्यमायाः ग्रहाः ज्ञेयाः अंशाः च एव स धैवताः ॥ ८७॥
ṣaḍjaḥ ca atha ṛṣabhaḥ ca eva madhyamaḥ pañcamaḥ tathā . madhyamāyāḥ grahāḥ jñeyāḥ aṃśāḥ ca eva sa dhaivatāḥ .. 87..
निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा । गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ ८८॥
निषाद-षड्ज-गान्धार-मध्यमाः पञ्चमः तथा । गान्धारी-रक्तगान्धार्योः ग्रहाः अंशाः प्रकीर्तिताः ॥ ८८॥
niṣāda-ṣaḍja-gāndhāra-madhyamāḥ pañcamaḥ tathā . gāndhārī-raktagāndhāryoḥ grahāḥ aṃśāḥ prakīrtitāḥ .. 88..
षड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः । ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ॥ ८९॥
षड्जी धैवत-गान्धार-षड्ज-मध्यम-पञ्चमैः । ग्रहैः अंशैः च विज्ञेया विकृता स्वर-योगतः ॥ ८९॥
ṣaḍjī dhaivata-gāndhāra-ṣaḍja-madhyama-pañcamaiḥ . grahaiḥ aṃśaiḥ ca vijñeyā vikṛtā svara-yogataḥ .. 89..
कैशिक्याश्चार्षभं हित्वा ग्रहांशाः षट् स्वराः स्मृताः । सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ॥ ९०॥
कैशिक्याः च आर्षभम् हित्वा ग्रह-अंशाः षट् स्वराः स्मृताः । सप्त-स्वर-ग्रह-अंशा तु विज्ञेया षड्ज-मध्यमा ॥ ९०॥
kaiśikyāḥ ca ārṣabham hitvā graha-aṃśāḥ ṣaṭ svarāḥ smṛtāḥ . sapta-svara-graha-aṃśā tu vijñeyā ṣaḍja-madhyamā .. 90..
एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु । अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ॥ ९१॥
एते त्रिषष्टिः विज्ञेयाः सर्वासु अंशाः तु जातिषु । अंश-वत् च ग्रहाः तासाम् सर्वासाम् एव नित्यशस् ॥ ९१॥
ete triṣaṣṭiḥ vijñeyāḥ sarvāsu aṃśāḥ tu jātiṣu . aṃśa-vat ca grahāḥ tāsām sarvāsām eva nityaśas .. 91..
सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः । ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ ९२॥
सर्वासाम् एव जातीनाम् त्रिजातिः तु गणः स्मृतः । ते च सप्त गणाः ज्ञेयाः वर्धमान-स्वराः बुधैः ॥ ९२॥
sarvāsām eva jātīnām trijātiḥ tu gaṇaḥ smṛtaḥ . te ca sapta gaṇāḥ jñeyāḥ vardhamāna-svarāḥ budhaiḥ .. 92..
एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्वरः । पञ्चस्वरश्चतुर्था स्यादेकधा सप्तषट्स्वरौ ॥ ९३॥
एक-स्वरः द्वि-स्वरः च त्रि-स्वरः अथ चतुर्-स्वरः । पञ्च-स्वरः चतुर्था स्यात् एकधा सप्त-षष्-स्वरौ ॥ ९३॥
eka-svaraḥ dvi-svaraḥ ca tri-svaraḥ atha catur-svaraḥ . pañca-svaraḥ caturthā syāt ekadhā sapta-ṣaṣ-svarau .. 93..
एतदुक्तं मया त्वासां ग्रहांशपरिकल्पनम् । पुनश्चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ ९४॥
एतत् उक्तम् मया तु आसाम् ग्रह-अंश-परिकल्पनम् । पुनर् च एव प्रवक्ष्यामि न्यास-अपन्यास-योगतः ॥ ९४॥
etat uktam mayā tu āsām graha-aṃśa-parikalpanam . punar ca eva pravakṣyāmi nyāsa-apanyāsa-yogataḥ .. 94..
पञ्चांशा तु भवेत् षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ॥ ९५॥
पञ्च-अंशा तु भवेत् षाड्जी निषाद-ऋषभ-वर्जिता । अपन्यासः भवेत् अत्र गान्धारः पञ्चमः तथा ॥ ९५॥
pañca-aṃśā tu bhavet ṣāḍjī niṣāda-ṛṣabha-varjitā . apanyāsaḥ bhavet atra gāndhāraḥ pañcamaḥ tathā .. 95..
न्यासश्चात्र भवेत् षड्जो लोप्यः सप्तम एव च । षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ॥ ९६॥
न्यासः च अत्र भवेत् षड्जः लोप्यः सप्तमः एव च । षड्ज-गान्धार-सञ्चारः षड्ज-धैवतयोः तथा ॥ ९६॥
nyāsaḥ ca atra bhavet ṣaḍjaḥ lopyaḥ saptamaḥ eva ca . ṣaḍja-gāndhāra-sañcāraḥ ṣaḍja-dhaivatayoḥ tathā .. 96..
षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तुभिः ॥ ९७॥
षाडवम् सप्तम-उपेतम् अल्पौ वै सप्तम-ऋषभौ । गान्धारस्य च बाहुल्यम् तु अत्र कार्यम् प्रयोक्तुभिः ॥ ९७॥
ṣāḍavam saptama-upetam alpau vai saptama-ṛṣabhau . gāndhārasya ca bāhulyam tu atra kāryam prayoktubhiḥ .. 97..
आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः । षट्पञ्चस्वरता चात्र षड्जपञ्चमयोर्विना ॥ ९८॥
आर्षभ्याम् ऋषभः तु अंशः निषादः धैवतः तथा । एते एव हि अपन्यासाः न्यासः च अपि ऋषभः स्मृतः । षष्-पञ्च-स्वर-ता च अत्र षड्ज-पञ्चमयोः विना ॥ ९८॥
ārṣabhyām ṛṣabhaḥ tu aṃśaḥ niṣādaḥ dhaivataḥ tathā . ete eva hi apanyāsāḥ nyāsaḥ ca api ṛṣabhaḥ smṛtaḥ . ṣaṣ-pañca-svara-tā ca atra ṣaḍja-pañcamayoḥ vinā .. 98..
धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ ९९॥
धैवत्याम् धैवतः न्यासः तु अंशावृषभधैवतः । अपन्यासाः भवन्ति अत्र धैवत-आर्षभ-मध्यमाः ॥ ९९॥
dhaivatyām dhaivataḥ nyāsaḥ tu aṃśāvṛṣabhadhaivataḥ . apanyāsāḥ bhavanti atra dhaivata-ārṣabha-madhyamāḥ .. 99..
षड्जपञ्चमहीनं तु पाञ्च्स्वर्यं विधीयते । पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ १००॥
षड्ज-पञ्चम-हीनम् तु पाञ्च्स्वर्यम् विधीयते । पञ्चमेन विना च एव षाडवम् परिकीर्तितम् ॥ १००॥
ṣaḍja-pañcama-hīnam tu pāñcsvaryam vidhīyate . pañcamena vinā ca eva ṣāḍavam parikīrtitam .. 100..
आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च । निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ॥ १०१॥
आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथा एव च । निषादः च ऋषभः च एव गान्धारः बलवान् तथा ॥ १०१॥
ārohiṇau ca tau kāryau laṅghanīyau tathā eva ca . niṣādaḥ ca ṛṣabhaḥ ca eva gāndhāraḥ balavān tathā .. 101..
निषादिन्यां निषादोंऽशो सगान्धारर्षभस्तथा । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ १०२॥
निषादिन्याम् स गान्धार-ऋषभः तथा । एते एव हि अपन्यासाः न्यासः च एव अत्र सप्तमः ॥ १०२॥
niṣādinyām sa gāndhāra-ṛṣabhaḥ tathā . ete eva hi apanyāsāḥ nyāsaḥ ca eva atra saptamaḥ .. 102..
धैवत्या इव कर्तव्ये षाडवौडुविते तथा । तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ॥ १०३॥
धैवत्याः इव कर्तव्ये षाडव-औडुविते तथा । तद्वत् च लङ्घनीयौ तु बलवन्तौ तथा एव च ॥ १०३॥
dhaivatyāḥ iva kartavye ṣāḍava-auḍuvite tathā . tadvat ca laṅghanīyau tu balavantau tathā eva ca .. 103..
अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ॥ १०४॥
अंशाः तु षड्ज-कैशिक्याः षड्ज-गान्धार-पञ्चमाः । अपन्यासाः भवन्ति अत्र षड्ज-पञ्चम-सप्तमाः ॥ १०४॥
aṃśāḥ tu ṣaḍja-kaiśikyāḥ ṣaḍja-gāndhāra-pañcamāḥ . apanyāsāḥ bhavanti atra ṣaḍja-pañcama-saptamāḥ .. 104..
गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु । दौर्बल्यं चात्र कर्तव्यं धैवत(मध्यम) स्यार्षभस्य च ॥ १०५॥
गान्धारः च भवेत् न्यासः हैनस्वर्यम् न च अत्र तु । दौर्बल्यम् च अत्र कर्तव्यम् धैवत(च ॥ १०५॥
gāndhāraḥ ca bhavet nyāsaḥ hainasvaryam na ca atra tu . daurbalyam ca atra kartavyam dhaivata(ca .. 105..
षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । स्युः षड्जोदीच्यवांशास्तु न्यासश्चैव तु मध्यमः ॥ १०६॥
षड्जः च मध्यमः च एव निषादः धैवतः तथा । स्युः षड्ज-उदीच्य-वांशाः तु न्यासः च एव तु मध्यमः ॥ १०६॥
ṣaḍjaḥ ca madhyamaḥ ca eva niṣādaḥ dhaivataḥ tathā . syuḥ ṣaḍja-udīcya-vāṃśāḥ tu nyāsaḥ ca eva tu madhyamaḥ .. 106..
अपन्यासो भवत्यस्य धैवतः षड्ज एव च । परस्परांशगमनमिष्टतश्च विधीयते ॥ १०७॥
अपन्यासः भवति अस्य धैवतः षड्जः एव च । परस्पर-अंश-गमनम् इष्टतः च विधीयते ॥ १०७॥
apanyāsaḥ bhavati asya dhaivataḥ ṣaḍjaḥ eva ca . paraspara-aṃśa-gamanam iṣṭataḥ ca vidhīyate .. 107..
षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः । पञ्चमार्षभहीनं तु पाञ्चस्वर्यं तु तत्र वै ॥ १०८॥
षाट्स्वर्यम् ऋषभ-अपेतम् कार्यम् गान्धर्व-वेदिभिः । पञ्चम-आर्षभ-हीनम् तु पाञ्चस्वर्यम् तु तत्र वै ॥ १०८॥
ṣāṭsvaryam ṛṣabha-apetam kāryam gāndharva-vedibhiḥ . pañcama-ārṣabha-hīnam tu pāñcasvaryam tu tatra vai .. 108..
षड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् । गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ १०९॥
षड्जः च अपि ऋषभः च एव गान्धारः च बली भवेत् । गान्धारस्य च बाहुल्यम् मन्द्र-स्थाने विधीयते ॥ १०९॥
ṣaḍjaḥ ca api ṛṣabhaḥ ca eva gāndhāraḥ ca balī bhavet . gāndhārasya ca bāhulyam mandra-sthāne vidhīyate .. 109..
सर्वेंशाः षड्जमध्यायामपन्यासास्तथैव च । षड्जश्च मध्यमश्चापि न्यासौ नार्यौ प्रयोक्तृभिः ॥ ११०॥
सर्व-इंशाः षड्ज-मध्यायाम् अपन्यासाः तथा एव च । षड्जः च मध्यमः च अपि न्यासौ नार्यौ प्रयोक्तृभिः ॥ ११०॥
sarva-iṃśāḥ ṣaḍja-madhyāyām apanyāsāḥ tathā eva ca . ṣaḍjaḥ ca madhyamaḥ ca api nyāsau nāryau prayoktṛbhiḥ .. 110..
गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं सप्तमापेतं कार्यं चात्र प्रयोगतः ॥ १११॥
गान्धार-सप्तम-अपेतम् पाञ्चस्वर्यम् विधीयते । षाडवम् सप्तम-अपेतम् कार्यम् च अत्र प्रयोगतः ॥ १११॥
gāndhāra-saptama-apetam pāñcasvaryam vidhīyate . ṣāḍavam saptama-apetam kāryam ca atra prayogataḥ .. 111..
सर्वस्वराणां सञ्चार इष्टतस्तु विधीयते । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्त जातयः ॥ ११२॥
सर्व-स्वराणाम् सञ्चारः इष्टतः तु विधीयते । षड्ज-ग्राम-आश्रिताः हि एताः विज्ञेयाः सप्त जातयः ॥ ११२॥
sarva-svarāṇām sañcāraḥ iṣṭataḥ tu vidhīyate . ṣaḍja-grāma-āśritāḥ hi etāḥ vijñeyāḥ sapta jātayaḥ .. 112..
अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ॥ ११३॥
अतस् परम् प्रवक्ष्यामि मध्यमग्राम-संश्रयाः । गान्धार्याः पञ्च एव अंशाः धैवत-ऋषभ-वर्जिताः ॥ ११३॥
atas param pravakṣyāmi madhyamagrāma-saṃśrayāḥ . gāndhāryāḥ pañca eva aṃśāḥ dhaivata-ṛṣabha-varjitāḥ .. 113..
षड्जश्च पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ॥ ११४॥
षड्जः च पञ्चमः च एव हि अपन्यासौ प्रकीर्तितौ । गान्धारः च भवेत् न्यासः षाडवम् च ऋषभम् विना ॥ ११४॥
ṣaḍjaḥ ca pañcamaḥ ca eva hi apanyāsau prakīrtitau . gāndhāraḥ ca bhavet nyāsaḥ ṣāḍavam ca ṛṣabham vinā .. 114..
धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् । लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् । विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ ११५॥
धैवत-ऋषभयोः हीनम् तथा च ओडुवितम् भवेत् । लङ्घनीयौ च तौ नित्यम् आर्षभात् हैवतम् व्रजेत् । विहितः तु इति गान्धार्याः स्वरन्यास-अंश-गोचरः ॥ ११५॥
dhaivata-ṛṣabhayoḥ hīnam tathā ca oḍuvitam bhavet . laṅghanīyau ca tau nityam ārṣabhāt haivatam vrajet . vihitaḥ tu iti gāndhāryāḥ svaranyāsa-aṃśa-gocaraḥ .. 115..
लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् । धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ ११६॥
लक्षणम् रक्त-गान्धार्याः गान्धार्याः एव यत् स्मृतम् । धैवतः बलवान् अत्र दौर्बल्यम् तस्य लोपतः ॥ ११६॥
lakṣaṇam rakta-gāndhāryāḥ gāndhāryāḥ eva yat smṛtam . dhaivataḥ balavān atra daurbalyam tasya lopataḥ .. 116..
गान्धारषड्जयोश्चात्र सञ्चारश्चार्षभाद्विना । अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ ११७॥
गान्धार-षड्जयोः च अत्र सञ्चारः च आर्षभात् विना । अपन्यासः तथा च एव मध्यमः तु विधीयते ॥ ११७॥
gāndhāra-ṣaḍjayoḥ ca atra sañcāraḥ ca ārṣabhāt vinā . apanyāsaḥ tathā ca eva madhyamaḥ tu vidhīyate .. 117..
गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्जमध्यमौ । पाञ्चस्वर्यं न चैवात्र षाट्स्वर्यमृषभं विना ॥ ११८॥
गान्धार-उदीच्य-वांशौ तु विज्ञेयौ षड्ज-मध्यमौ । पाञ्चस्वर्यम् न च एव अत्र षाट्स्वर्यम् ऋषभम् विना ॥ ११८॥
gāndhāra-udīcya-vāṃśau tu vijñeyau ṣaḍja-madhyamau . pāñcasvaryam na ca eva atra ṣāṭsvaryam ṛṣabham vinā .. 118..
कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च । षड्जोदीच्यवतीवत्तु पाञ्चस्वर्येण जातुचित् ॥ ११९॥
कार्यः च अन्तर-मार्गः च न्यास-उपन्यासः एव च । षड्ज-उदीच्यवती-वत् तु पाञ्च-स्वर्येण जातुचित् ॥ ११९॥
kāryaḥ ca antara-mārgaḥ ca nyāsa-upanyāsaḥ eva ca . ṣaḍja-udīcyavatī-vat tu pāñca-svaryeṇa jātucit .. 119..
मध्यमाया भवन्त्यंशा विना गान्धारसप्तमौ । एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ॥ १२०॥
मध्यमायाः भवन्ति अंशाः विना गान्धार-सप्तमौ । एते एव हि अपन्यासाः न्यासः च एव तु मध्यमः ॥ १२०॥
madhyamāyāḥ bhavanti aṃśāḥ vinā gāndhāra-saptamau . ete eva hi apanyāsāḥ nyāsaḥ ca eva tu madhyamaḥ .. 120..
गान्धारसप्तमापेतं पाञ्चस्वर्यं विधीयते । षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ १२१॥
गान्धार-सप्तम-अपेतम् पाञ्चस्वर्यम् विधीयते । षाडवम् च अपि अ गान्धारम् कर्तव्यम् तु प्रयोगतः ॥ १२१॥
gāndhāra-saptama-apetam pāñcasvaryam vidhīyate . ṣāḍavam ca api a gāndhāram kartavyam tu prayogataḥ .. 121..
षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि । गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्तृभिः ॥ १२२॥
षड्ज-मध्यमयोः च अत्र कार्यम् बाहुल्यम् एव हि । गान्धार-लङ्घनम् च अत्र कार्यम् नित्यम् प्रयोक्तृभिः ॥ १२२॥
ṣaḍja-madhyamayoḥ ca atra kāryam bāhulyam eva hi . gāndhāra-laṅghanam ca atra kāryam nityam prayoktṛbhiḥ .. 122..
मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्चमः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ १२३॥
पूर्णाः हि अंशः एकः तु पञ्चमः । शेषः विधिः तु कर्तव्यः गान्धार-उदीच्य-वाम् गतः ॥ १२३॥
pūrṇāḥ hi aṃśaḥ ekaḥ tu pañcamaḥ . śeṣaḥ vidhiḥ tu kartavyaḥ gāndhāra-udīcya-vām gataḥ .. 123..
द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा । स(ऋ)निषादावपन्यासौ न्यासश्चैव तु पञ्चमः ॥ १२४॥
द्वौ अंशौ अथ पञ्चम्याम् ऋषभः पञ्चमः तथा । स(ऋ निषाद-अपन्यासौ न्यासः च एव तु पञ्चमः ॥ १२४॥
dvau aṃśau atha pañcamyām ṛṣabhaḥ pañcamaḥ tathā . sa(ṛ niṣāda-apanyāsau nyāsaḥ ca eva tu pañcamaḥ .. 124..
मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा । दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ॥ १२५॥
मध्यमा-वत् तु कर्तव्ये षाडव-औडुविते तथा । दौर्बल्यम् च अत्र कर्तव्यम् षड्ज-गान्धार-मध्यमैः ॥ १२५॥
madhyamā-vat tu kartavye ṣāḍava-auḍuvite tathā . daurbalyam ca atra kartavyam ṣaḍja-gāndhāra-madhyamaiḥ .. 125..
कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च । गान्धारगमनं चैव कार्यं त्वल्पश्च (ल्पं च) सप्तमः (मात्) ॥ १२६॥
कुर्यात् अपि अत्र सञ्चारम् पञ्चमस्य आर्षभस्य च । गान्धार-गमनम् च एव कार्यम् तु अल्पः च (ल्पम् च सप्तमः (मात् ॥ १२६॥
kuryāt api atra sañcāram pañcamasya ārṣabhasya ca . gāndhāra-gamanam ca eva kāryam tu alpaḥ ca (lpam ca saptamaḥ (māt .. 126..
अथ गान्धारपञ्चम्याः पञ्चमोंऽशः प्रकीर्तितः । तारगत्या तु षड्जोऽपि कदाचिन्नातिवर्तते ॥ १२७॥
अथ गान्धार-पञ्चम्याः पञ्चमः । तार-गत्या तु षड्जः अपि कदाचिद् न अतिवर्तते ॥ १२७॥
atha gāndhāra-pañcamyāḥ pañcamaḥ . tāra-gatyā tu ṣaḍjaḥ api kadācid na ativartate .. 127..
ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥
ऋषभः पञ्चमः च एव हि अपन्यासौ प्रकीर्तितौ । न्यासः च एव तु सा च पूर्ण-स्वरा सदा । पञ्चम्याः यः च गान्धार्याः सञ्चारः स विधीयते ॥ १२८॥
ṛṣabhaḥ pañcamaḥ ca eva hi apanyāsau prakīrtitau . nyāsaḥ ca eva tu sā ca pūrṇa-svarā sadā . pañcamyāḥ yaḥ ca gāndhāryāḥ sañcāraḥ sa vidhīyate .. 128..
पञ्चमश्चार्षभश्चैव गान्धारोऽथ निषादवान् । चत्वारोंऽशा भवन्त्यान्ध्र्यामपन्यासास्त एव हि ॥ १२९॥
पञ्चमः च आर्षभः च एव गान्धारः अथ निषादवान् । चत्वारः ॐऽशाः भवन्ति आन्ध्र्याम् अपन्यासाः ते एव हि ॥ १२९॥
pañcamaḥ ca ārṣabhaḥ ca eva gāndhāraḥ atha niṣādavān . catvāraḥ oṃ'śāḥ bhavanti āndhryām apanyāsāḥ te eva hi .. 129..
गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् । गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ॥ १३०॥
गान्धारः च भवेत् न्यासः षड्ज-अपेतम् तु षाडवम् । गान्धार-आर्षभयोः च अपि सञ्चारः तु परस्परम् ॥ १३०॥
gāndhāraḥ ca bhavet nyāsaḥ ṣaḍja-apetam tu ṣāḍavam . gāndhāra-ārṣabhayoḥ ca api sañcāraḥ tu parasparam .. 130..
सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ॥ १३१॥
सप्तमस्य च षष्ठस्य न्यासः गति-अनुपूर्वशस् । षड्जस्य लङ्घनम् च अत्र न अस्ति चौडुवितम् सदा ॥ १३१॥
saptamasya ca ṣaṣṭhasya nyāsaḥ gati-anupūrvaśas . ṣaḍjasya laṅghanam ca atra na asti cauḍuvitam sadā .. 131..
नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः । गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ॥ १३२॥
। गान्धारः मध्यमः च एव पञ्चमः च एव नित्यशस् ॥ १३२॥
. gāndhāraḥ madhyamaḥ ca eva pañcamaḥ ca eva nityaśas .. 132..
षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ॥ १३३॥
षड्जः लोप्यः च लङ्घ्यः च न आन्ध्री-सञ्चरणम् भवेत् । लङ्घनम् हि ऋषभस्य अपि तत् च मन्द्र-गतम् स्मृतम् ॥ १३३॥
ṣaḍjaḥ lopyaḥ ca laṅghyaḥ ca na āndhrī-sañcaraṇam bhavet . laṅghanam hi ṛṣabhasya api tat ca mandra-gatam smṛtam .. 133..
तारगत्या तु षड्जस्तु कदाचिन्नातिवर्तते । गान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ॥ १३४॥
तार-गत्या तु षड्जः तु कदाचिद् न अतिवर्तते । गान्धारः वा ग्रहः कार्यः तथा न्यासः च नित्यशस् ॥ १३४॥
tāra-gatyā tu ṣaḍjaḥ tu kadācid na ativartate . gāndhāraḥ vā grahaḥ kāryaḥ tathā nyāsaḥ ca nityaśas .. 134..
कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा । धैवतश्च निषादश्चाप्यपन्यासास्त एव तु । पञ्चमश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ॥ १३५॥
कार्मारव्याः स्मृताः हि अंशाः आर्षभः पञ्चमः तथा । धैवतः च निषादः च अपि अपन्यासाः ते एव तु । पञ्चमः च भवेत् न्यासः न च अत्र तु ॥ १३५॥
kārmāravyāḥ smṛtāḥ hi aṃśāḥ ārṣabhaḥ pañcamaḥ tathā . dhaivataḥ ca niṣādaḥ ca api apanyāsāḥ te eva tu . pañcamaḥ ca bhavet nyāsaḥ na ca atra tu .. 135..
गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ १३६॥
गान्धारस्य विशेषेण सर्वतस् गमनम् भवेत् ॥ १३६॥
gāndhārasya viśeṣeṇa sarvatas gamanam bhavet .. 136..
कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना । एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ॥ १३७॥
कैशिक्याः तु तथा हि अंशाः सर्वे च एव आर्षभम् विना । एते एव हि अपन्यासाः न्यासौ गान्धार-सप्तमौ ॥ १३७॥
kaiśikyāḥ tu tathā hi aṃśāḥ sarve ca eva ārṣabham vinā . ete eva hi apanyāsāḥ nyāsau gāndhāra-saptamau .. 137..
धैवतेंशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचित्तु ऋषभोऽपि विधीयते ॥ १३८॥
धैवत-इंशे निषादे च न्यासः पञ्चमः इष्यते । अपन्यासः कदाचिद् तु ऋषभः अपि विधीयते ॥ १३८॥
dhaivata-iṃśe niṣāde ca nyāsaḥ pañcamaḥ iṣyate . apanyāsaḥ kadācid tu ṛṣabhaḥ api vidhīyate .. 138..
आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् । तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्चमौ ॥ १३९॥
आर्षभे षाडवम् च अत्र धैवत-ऋषभ-वर्जितम् । तथा च ओडुवितम् कुर्यात् बलिनौ च अन्त्य-पञ्चमौ ॥ १३९॥
ārṣabhe ṣāḍavam ca atra dhaivata-ṛṣabha-varjitam . tathā ca oḍuvitam kuryāt balinau ca antya-pañcamau .. 139..
दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः । अंशवत् कल्पितश्चान्यैः षाडवे तु विधीयते । षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ॥ १४०॥
दौर्बल्यम् ऋषभस्य अत्र लङ्घनम् च विशेषतः । अंश-वत् कल्पितः च अन्यैः षाडवे तु विधीयते । सञ्चारः तु भवेत् इह ॥ १४०॥
daurbalyam ṛṣabhasya atra laṅghanam ca viśeṣataḥ . aṃśa-vat kalpitaḥ ca anyaiḥ ṣāḍave tu vidhīyate . sañcāraḥ tu bhavet iha .. 140..
एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः । यथा यस्मिन् रसे याश्च गदतो मे निबोधत ॥ १४१॥
एवम् एताः बुधैः ज्ञेयाः जातयः दश-लक्षणाः । यथा यस्मिन् रसे याः च गदतः मे निबोधत ॥ १४१॥
evam etāḥ budhaiḥ jñeyāḥ jātayaḥ daśa-lakṣaṇāḥ . yathā yasmin rase yāḥ ca gadataḥ me nibodhata .. 141..
॥ इति जातिविकल्पाध्यायोऽष्टाविंशः समाप्तः॥
॥ इति जातिविकल्प-अध्यायः अष्टाविंशः समाप्तः॥
.. iti jātivikalpa-adhyāyaḥ aṣṭāviṃśaḥ samāptaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In