| |
|

This overlay will guide you through the buttons:

नाट्यशास्त्रम् अध्याय ४ ॥
नाट्य-शास्त्रम् अध्याय ॥
nāṭya-śāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ चतुर्थोऽध्यायः ।
अथ चतुर्थः अध्यायः ।
atha caturthaḥ adhyāyaḥ .
एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १॥
एवम् तु पूजनम् कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रम् कः प्रयोगः प्रयुज्यताम् ॥ १॥
evam tu pūjanam kṛtvā mayā proktaḥ pitāmahaḥ . ājñāpaya prabho kṣipram kaḥ prayogaḥ prayujyatām .. 1..
ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ २॥
ततस् अस्मि उक्तः भगवता योजय अमृत-मन्थनम् । एतत् उत्साह-जननम् सुर-प्रीति-करम् तथा ॥ २॥
tatas asmi uktaḥ bhagavatā yojaya amṛta-manthanam . etat utsāha-jananam sura-prīti-karam tathā .. 2..
योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ३॥
यः अयम् समवकारः तु धर्म-काम-अर्थ-साधकः । मया प्राक् ग्रथितः विद्वन् स प्रयोगः प्रयुज्यताम् ॥ ३॥
yaḥ ayam samavakāraḥ tu dharma-kāma-artha-sādhakaḥ . mayā prāk grathitaḥ vidvan sa prayogaḥ prayujyatām .. 3..
तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४॥
तस्मिन् समवकारे तु प्रयुक्ते देव-दानवाः । हृष्टाः समभवन् सर्वे कर्म-भाव-अनुदर्शनात् ॥ ४॥
tasmin samavakāre tu prayukte deva-dānavāḥ . hṛṣṭāḥ samabhavan sarve karma-bhāva-anudarśanāt .. 4..
कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ५॥
कस्यचिद् तु अथ कालस्य माम् आह अम्बुजसम्भवः नाट्यम् सन्दर्शयामः अद्य त्रिनेत्राय महात्मने ॥ ५॥
kasyacid tu atha kālasya mām āha ambujasambhavaḥ nāṭyam sandarśayāmaḥ adya trinetrāya mahātmane .. 5..
ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६॥
ततस् सार्धम् सुरैः गत्वा वृषभाङ्क-निवेशनम् । समभ्यर्च्य शिवम् पश्चात् उवाच इदम् पितामहः ॥ ६॥
tatas sārdham suraiḥ gatvā vṛṣabhāṅka-niveśanam . samabhyarcya śivam paścāt uvāca idam pitāmahaḥ .. 6..
मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७॥
मया समवाकरः तु यः अयम् सृष्टः सुर-उत्तम । श्रवणे दर्शने च अस्य प्रसादम् कर्तुम् अर्हसि ॥ ७॥
mayā samavākaraḥ tu yaḥ ayam sṛṣṭaḥ sura-uttama . śravaṇe darśane ca asya prasādam kartum arhasi .. 7..
पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ ८॥
पश्यामः इति देवेशः द्रुहिणम् वाक्यम् अब्रवीत् । ततस् माम् आह भगवान् सज्जः भव महामते ॥ ८॥
paśyāmaḥ iti deveśaḥ druhiṇam vākyam abravīt . tatas mām āha bhagavān sajjaḥ bhava mahāmate .. 8..
ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥ ९॥
ततस् हिमवतः पृष्ठे नाना नाग-समाकुले । बहु-भूत-गण-आकीर्णे रम्य-कन्दर-निर्ज़्हरे ॥ ९॥
tatas himavataḥ pṛṣṭhe nānā nāga-samākule . bahu-bhūta-gaṇa-ākīrṇe ramya-kandara-nirzhare .. 9..
पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसन्ज्ञः प्रयोजितः ॥ १०॥
पूर्वरङ्गः कृतः पूर्वम् तत्र अयम् द्विजसत्तमाः । तथा त्रिपुर-दाहः च डिम-सन्ज्ञः प्रयोजितः ॥ १०॥
pūrvaraṅgaḥ kṛtaḥ pūrvam tatra ayam dvijasattamāḥ . tathā tripura-dāhaḥ ca ḍima-sanjñaḥ prayojitaḥ .. 10..
ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ११॥
ततस् भूत-गणाः हृष्टाः । महादेवः च सु प्रीतः पितामहम् अथ अब्रवीत् ॥ ११॥
tatas bhūta-gaṇāḥ hṛṣṭāḥ . mahādevaḥ ca su prītaḥ pitāmaham atha abravīt .. 11..
अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ १२॥
अहो नाट्यम् इदम् सम्यक् त्वया सृष्टम् महामते । यशस्यम् च शुभ-अर्थम् च पुण्यम् बुद्धि-विवर्धनम् ॥ १२॥
aho nāṭyam idam samyak tvayā sṛṣṭam mahāmate . yaśasyam ca śubha-artham ca puṇyam buddhi-vivardhanam .. 12..
मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १३॥
मया अपि इदम् स्मृतम् नृत्यम् सन्ध्या-कालेषु नृत्यता । नाना करण-संयुक्तैः अङ्गहारैः विभूषितम् ॥ १३॥
mayā api idam smṛtam nṛtyam sandhyā-kāleṣu nṛtyatā . nānā karaṇa-saṃyuktaiḥ aṅgahāraiḥ vibhūṣitam .. 13..
पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ १४॥
पूर्वरङ्ग-विधौ अस्मिन् त्वया सम्यक् प्रयोज्यताम् । वर्धमानक-योगेषु गीतेषु आसारितेषु च ॥ १४॥
pūrvaraṅga-vidhau asmin tvayā samyak prayojyatām . vardhamānaka-yogeṣu gīteṣu āsāriteṣu ca .. 14..
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ १५॥
महा-गीतेषु च एव अर्थान् सम्यक् एव अभिनेष्यसि । यः च अयम् पूर्वरङ्गः तु त्वया शुद्धः प्रयोजितः ॥ १५॥
mahā-gīteṣu ca eva arthān samyak eva abhineṣyasi . yaḥ ca ayam pūrvaraṅgaḥ tu tvayā śuddhaḥ prayojitaḥ .. 15..
एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयम्भुवा ॥ १६॥
एभिः विमिश्रितः च अयम् चित्रः नाम भविष्यति । श्रुत्वा महेश्वर-वचः प्रत्युक्तः तु स्वयम्भुवा ॥ १६॥
ebhiḥ vimiśritaḥ ca ayam citraḥ nāma bhaviṣyati . śrutvā maheśvara-vacaḥ pratyuktaḥ tu svayambhuvā .. 16..
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥
प्रयोगम् अङ्गहाराणाम् आचक्ष्व सुर-सत्तम । ततस् तण्डुम् समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥
prayogam aṅgahārāṇām ācakṣva sura-sattama . tatas taṇḍum samāhūya proktavān bhuvaneśvaraḥ .. 17..
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना॥ १८॥
प्रयोगम् अङ्गहाराणाम् आचक्ष्व भरताय वै । ततस् ये तण्डुना प्रोक्ताः तु अङ्गहाराः महात्मना॥ १८॥
prayogam aṅgahārāṇām ācakṣva bharatāya vai . tatas ye taṇḍunā proktāḥ tu aṅgahārāḥ mahātmanā.. 18..
तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ १९॥
तान् वः करण-संयुक्तान् व्याख्यास्यामि स रेचकान् । स्थिर-हस्तः अङ्गहारः तु तथा पर्यस्तकः स्मृतः ॥ १९॥
tān vaḥ karaṇa-saṃyuktān vyākhyāsyāmi sa recakān . sthira-hastaḥ aṅgahāraḥ tu tathā paryastakaḥ smṛtaḥ .. 19..
सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ २०॥
सूचि-विद्धः तथा च एव हि अपविद्धः तथा एव च । आक्षिप्तकः अथ विज्ञेयः तथा च उद्धट्टितः स्मृतः ॥ २०॥
sūci-viddhaḥ tathā ca eva hi apaviddhaḥ tathā eva ca . ākṣiptakaḥ atha vijñeyaḥ tathā ca uddhaṭṭitaḥ smṛtaḥ .. 20..
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ २१॥
विष्कम्भः च एव सम्प्रोक्तः तथा च एव अपराजितः । विष्कम्भ-अपसृतः च एव मत्त-आक्रीडः तथा एव च ॥ २१॥
viṣkambhaḥ ca eva samproktaḥ tathā ca eva aparājitaḥ . viṣkambha-apasṛtaḥ ca eva matta-ākrīḍaḥ tathā eva ca .. 21..
स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ २२॥
स्वस्तिकः रेचितः च एव पार्श्वस्वस्तिकः एव च । वृश्चिकापसृतः प्रोक्तः भ्रमरः च तथा अपरः ॥ २२॥
svastikaḥ recitaḥ ca eva pārśvasvastikaḥ eva ca . vṛścikāpasṛtaḥ proktaḥ bhramaraḥ ca tathā aparaḥ .. 22..
मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ २३॥
मत्तस्खलितकः च एव मदात् विलसितः तथा । गति-मण्डलकः ज्ञेयः परिच्छिन्नः तथा एव च ॥ २३॥
mattaskhalitakaḥ ca eva madāt vilasitaḥ tathā . gati-maṇḍalakaḥ jñeyaḥ paricchinnaḥ tathā eva ca .. 23..
परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ २४॥
परिवृत्त-चितः अथ स्यात् तथा वैशाख-रेचितः । परावृत्तः अथ विज्ञेयः तथा च एव अपि अलातकः ॥ २४॥
parivṛtta-citaḥ atha syāt tathā vaiśākha-recitaḥ . parāvṛttaḥ atha vijñeyaḥ tathā ca eva api alātakaḥ .. 24..
पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ २५॥
पार्श्वच्छेदः अथ सम्प्रोक्तः विद्युद्भ्रान्तः तथा एव च । ऊरूद्वृत्तः तथा च एव स्यात् आलीढः तथा एव च ॥ २५॥
pārśvacchedaḥ atha samproktaḥ vidyudbhrāntaḥ tathā eva ca . ūrūdvṛttaḥ tathā ca eva syāt ālīḍhaḥ tathā eva ca .. 25..
रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ २६॥
रेचितः च अपि विज्ञेयः तथा एव आच्छुरितः स्मृतः । आक्षिप्त-रेचितः च एव सम्भ्रान्तः च तथा अपरः ॥ २६॥
recitaḥ ca api vijñeyaḥ tathā eva ācchuritaḥ smṛtaḥ . ākṣipta-recitaḥ ca eva sambhrāntaḥ ca tathā aparaḥ .. 26..
अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ २७॥
अपसर्पः तु विज्ञेयः तथा च अर्धनिकुट्टकः । द्वात्रिंशत् एते सम्प्रोक्ताः अङ्गहाराः तु नामतः ॥ २७॥
apasarpaḥ tu vijñeyaḥ tathā ca ardhanikuṭṭakaḥ . dvātriṃśat ete samproktāḥ aṅgahārāḥ tu nāmataḥ .. 27..
एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ २८॥
एतेषाम् तु प्रवक्ष्यामि प्रयोगम् करण-आश्रयम् । हस्त-पाद-प्रचारः च यथा योज्यः प्रयोक्तृभिः ॥ २८॥
eteṣām tu pravakṣyāmi prayogam karaṇa-āśrayam . hasta-pāda-pracāraḥ ca yathā yojyaḥ prayoktṛbhiḥ .. 28..
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ २९॥
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषाम् अङ्गहाराणाम् निष्पत्तिः करणैः यतस् ॥ २९॥
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ . sarveṣām aṅgahārāṇām niṣpattiḥ karaṇaiḥ yatas .. 29..
तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ३०॥
तानि अतस् सम्प्रवक्ष्यामि नामतः कर्मतः तथा । हस्त-पाद-समायोगः नृत्यस्य करणम् भवेत् ॥ ३०॥
tāni atas sampravakṣyāmi nāmataḥ karmataḥ tathā . hasta-pāda-samāyogaḥ nṛtyasya karaṇam bhavet .. 30..
द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ३१॥
द्वे नृत्त-करणे च एव भवतः नृत्तमातृका । द्वाभ्याम् त्रिभिः चतुर्भिः वा अपि अङ्गहारः तु मातृभिः ॥ ३१॥
dve nṛtta-karaṇe ca eva bhavataḥ nṛttamātṛkā . dvābhyām tribhiḥ caturbhiḥ vā api aṅgahāraḥ tu mātṛbhiḥ .. 31..
त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ३२॥
त्रिभिः कलापकम् च एव चतुर्भिः षण्डकम् भवेत् । पञ्च एव करणानि स्युः सङ्घातकः इति स्मृतः ॥ ३२॥
tribhiḥ kalāpakam ca eva caturbhiḥ ṣaṇḍakam bhavet . pañca eva karaṇāni syuḥ saṅghātakaḥ iti smṛtaḥ .. 32..
षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ३३॥
षड्भिः वा सप्तभिः वा अपि अष्टभिः नवभिः तथा । करणैः इह संयुक्ताः अङ्गहाराः प्रकीर्ताः ॥ ३३॥
ṣaḍbhiḥ vā saptabhiḥ vā api aṣṭabhiḥ navabhiḥ tathā . karaṇaiḥ iha saṃyuktāḥ aṅgahārāḥ prakīrtāḥ .. 33..
एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ३४॥
एतेषाम् एव वक्ष्यामि हस्त-पाद-विकल्पनम् । तल-पुष्प-पुटम् पूर्वम् वर्तितम् वलित-ऊरु च ॥ ३४॥
eteṣām eva vakṣyāmi hasta-pāda-vikalpanam . tala-puṣpa-puṭam pūrvam vartitam valita-ūru ca .. 34..
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ३५॥
अपविद्धम् सम-नखम् लीनम् स्वस्तिक-रेचितम् । मण्डलस्वस्तिकम् च एव निकुट्टकम् अथ अपि च ॥ ३५॥
apaviddham sama-nakham līnam svastika-recitam . maṇḍalasvastikam ca eva nikuṭṭakam atha api ca .. 35..
तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ३६॥
तथा एव अर्धनिकुट्टम् च कटिच्छिन्नम् तथा एव च । अर्धरेचितकम् च एव वक्षःस्वस्तिकम् एव च ॥ ३६॥
tathā eva ardhanikuṭṭam ca kaṭicchinnam tathā eva ca . ardharecitakam ca eva vakṣaḥsvastikam eva ca .. 36..
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्स्वस्तिकमलातं च तथैव च कटीसमम् ॥ ३७॥
उन्मत्तम् स्वस्तिकम् च एव पृष्ठ-स्वस्तिकम् एव च । च तथा एव च कटी-समम् ॥ ३७॥
unmattam svastikam ca eva pṛṣṭha-svastikam eva ca . ca tathā eva ca kaṭī-samam .. 37..
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ३८॥
आक्षिप्तरेचितम् च एव विक्षिप्ताक्षिप्तकम् तथा । अर्धस्वस्तिकम् उद्दिष्टम् अञ्चितम् च तथा अपरम् ॥ ३८॥
ākṣiptarecitam ca eva vikṣiptākṣiptakam tathā . ardhasvastikam uddiṣṭam añcitam ca tathā aparam .. 38..
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ३९॥
भुजङ्गत्रासितम् प्रोक्तम् ऊर्ध्वजानु तथा एव च । निकुञ्चितम् च मत्तल्लि तु अर्धमत्तल्लि च एव हि ॥ ३९॥
bhujaṅgatrāsitam proktam ūrdhvajānu tathā eva ca . nikuñcitam ca mattalli tu ardhamattalli ca eva hi .. 39..
स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४०॥
स्यात् रेचकनिक्कुट्टम् च तथा पादापविद्धकम् । वलितम् घूर्णितम् च एव ललितम् च तथा अपरम् ॥ ४०॥
syāt recakanikkuṭṭam ca tathā pādāpaviddhakam . valitam ghūrṇitam ca eva lalitam ca tathā aparam .. 40..
दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥
दण्ड-पक्षम् तथा च एव भुजङ्ग-त्रस्त-रेचितम् । नूपुरम् च एव सम्प्रोक्तम् तथा वैशाख-रेचितम् ॥ ४१॥
daṇḍa-pakṣam tathā ca eva bhujaṅga-trasta-recitam . nūpuram ca eva samproktam tathā vaiśākha-recitam .. 41..
भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥
भ्रमरम् चतुरम् च एव भुजङ्ग-अञ्चितम् एव च । दण्डरेचितकम् च एव तथा वृश्चिककुट्टितम् ॥४२॥
bhramaram caturam ca eva bhujaṅga-añcitam eva ca . daṇḍarecitakam ca eva tathā vṛścikakuṭṭitam ..42..
कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥
कटि-भ्रान्तम् तथा च एव लता-वृश्चिकम् एव च । छिन्नम् च करणम् प्रोक्तम् तथा वृश्चिक-रेचितम् ॥ ४३॥
kaṭi-bhrāntam tathā ca eva latā-vṛścikam eva ca . chinnam ca karaṇam proktam tathā vṛścika-recitam .. 43..
वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥
वृश्चिकम् व्यंसितम् च एव तथा पार्श्वनिकुट्टकम् । ललाट-तिलकम् क्रान्तम् कुञ्चितम् चक्र-मण्डलम् ॥ ४४॥
vṛścikam vyaṃsitam ca eva tathā pārśvanikuṭṭakam . lalāṭa-tilakam krāntam kuñcitam cakra-maṇḍalam .. 44..
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥
उरः-मण्डलम् आक्षिप्तम् तथा तल-विलासितम् । अर्गलम् च अथ विक्षिप्तम् आवृत्तम् दोल-पादकम् ॥ ४५॥
uraḥ-maṇḍalam ākṣiptam tathā tala-vilāsitam . argalam ca atha vikṣiptam āvṛttam dola-pādakam .. 45..
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥
विवृत्तम् विनिवृत्तम् च पार्श्व-क्रान्तम् निशुम्भितम् । विद्युत्भ्रान्तम् अतिक्रान्तम् विवर्तितकम् एव च ॥ ४६॥
vivṛttam vinivṛttam ca pārśva-krāntam niśumbhitam . vidyutbhrāntam atikrāntam vivartitakam eva ca .. 46..
गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥
गजक्रीडितकम् च एव तलसंस्फोटितम् तथा । गरुडप्लुतकम् च एव गण्डसूचि तथा अपरम् ॥ ४७॥
gajakrīḍitakam ca eva talasaṃsphoṭitam tathā . garuḍaplutakam ca eva gaṇḍasūci tathā aparam .. 47..
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥
परिवृत्तम् समुद्दिष्टम् पार्श्व-जानु तथा एव च । गृध्रावलीनकम् च एव सन्नतम् सूचि अथ अपि च ॥ ४८॥
parivṛttam samuddiṣṭam pārśva-jānu tathā eva ca . gṛdhrāvalīnakam ca eva sannatam sūci atha api ca .. 48..
अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥
अर्धसूची इति करणम् सूचि-विद्धम् तथा एव च । अपक्रान्तम् च सम्प्रोक्तम् मयूरललितम् तथा ॥ ४९॥
ardhasūcī iti karaṇam sūci-viddham tathā eva ca . apakrāntam ca samproktam mayūralalitam tathā .. 49..
सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥
सर्पितम् दण्ड-पादम् च हरिण-प्लुतम् एव च । प्रेङ्खोलितम् नितम्बम् च स्खलितम् करि-हस्तकम् ॥ ५०॥
sarpitam daṇḍa-pādam ca hariṇa-plutam eva ca . preṅkholitam nitambam ca skhalitam kari-hastakam .. 50..
प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥
प्रसर्पितकम् उद्दिष्टम् सिंहविक्रीडतम् तथा । सिंह-आकर्षितम् उद्वृत्तम् तथा उपसृतम् एव च ॥ ५१॥
prasarpitakam uddiṣṭam siṃhavikrīḍatam tathā . siṃha-ākarṣitam udvṛttam tathā upasṛtam eva ca .. 51..
तलसङ्घट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥
तल-सङ्घट्टितम् च एव जनितम् च अवहित्थकम् । निवेश-मेलक-आक्रीडम् ऊरु-उद्वृत्तम् तथा एव च ॥ ५२॥
tala-saṅghaṭṭitam ca eva janitam ca avahitthakam . niveśa-melaka-ākrīḍam ūru-udvṛttam tathā eva ca .. 52..
मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥
मदस्खलितकम् च एव विष्णुक्रान्तम् अथ अपि च । सम्भ्रान्तम् अथ विष्कम्भम् उद्घट्टितम् अथ अपि च ॥ ५३॥
madaskhalitakam ca eva viṣṇukrāntam atha api ca . sambhrāntam atha viṣkambham udghaṭṭitam atha api ca .. 53..
वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥
वृषभक्रीडितम् च एव लोलितम् च तथा अपरम् । नाग-अपसर्पितम् च एव शकटास्यम् तथा एव च ॥ ५४॥
vṛṣabhakrīḍitam ca eva lolitam ca tathā aparam . nāga-apasarpitam ca eva śakaṭāsyam tathā eva ca .. 54..
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥
गङ्गा-अवतरणम् च एव इति उक्तम् अष्ट-अधिकम् शतम् । अष्टोत्तरशतम् हि एतत् करणानाम् मया उदितम् ॥ ५५॥
gaṅgā-avataraṇam ca eva iti uktam aṣṭa-adhikam śatam . aṣṭottaraśatam hi etat karaṇānām mayā uditam .. 55..
नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ५६॥
नृत्ये युद्धे नियुद्धे च गति-परिक्रमे । गति-प्रचारे वक्ष्यामि युद्ध-चारी-विकल्पनम् ॥ ५६॥
nṛtye yuddhe niyuddhe ca gati-parikrame . gati-pracāre vakṣyāmi yuddha-cārī-vikalpanam .. 56..
यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ५७॥
यत्र तत्र अपि संयोज्यम् आचार्यैः नाट्य-शक्तिनः । प्रायेण करणे कार्यः वामः वक्षः-स्थितः करः ॥ ५७॥
yatra tatra api saṃyojyam ācāryaiḥ nāṭya-śaktinaḥ . prāyeṇa karaṇe kāryaḥ vāmaḥ vakṣaḥ-sthitaḥ karaḥ .. 57..
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ५८॥
चरणस्य अनुगः च अपि दक्षिणः तु भवेत् करः । कटि-पार्श्व-ऊरु-संयुतम् ॥ ५८॥
caraṇasya anugaḥ ca api dakṣiṇaḥ tu bhavet karaḥ . kaṭi-pārśva-ūru-saṃyutam .. 58..
उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ५९॥
उरः-पृष्ठ-उदर-उपेतम् वक्ष्यमाणम् निबोधत । यानि स्थानानि याः चार्यः नृत्य-हस्ताः तथा एव च ॥ ५९॥
uraḥ-pṛṣṭha-udara-upetam vakṣyamāṇam nibodhata . yāni sthānāni yāḥ cāryaḥ nṛtya-hastāḥ tathā eva ca .. 59..
सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ६०॥
सा मातृका इति विज्ञेया तद्-योगात् करणम् भवेत् । कटी कर्ण-समा यत्र कोर्पर-अंस-शिरः तथा ॥ ६०॥
sā mātṛkā iti vijñeyā tad-yogāt karaṇam bhavet . kaṭī karṇa-samā yatra korpara-aṃsa-śiraḥ tathā .. 60..
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ६१॥
समुन्नतम् उरः च एव सौष्ठवम् नाम तत् भवेत् । वामे पुष्प-पुटः पार्श्वे पादः अग्र-तल-सञ्चरः ॥ ६१॥
samunnatam uraḥ ca eva sauṣṭhavam nāma tat bhavet . vāme puṣpa-puṭaḥ pārśve pādaḥ agra-tala-sañcaraḥ .. 61..
तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ६२॥
तथा च सत्-नतम् पार्श्वम् तल-पुष्प-पुटम् भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्त-परिवर्तितौ ॥ ६२॥
tathā ca sat-natam pārśvam tala-puṣpa-puṭam bhavet . kuñcitau maṇibandhe tu vyāvṛtta-parivartitau .. 62..
हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ६३॥
हस्तौ निपतितौ च ऊर्वोः वर्तितम् करणम् तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्त-परिवर्तितौ ॥ ६३॥
hastau nipatitau ca ūrvoḥ vartitam karaṇam tu tat . śukatuṇḍau yadā hastau vyāvṛtta-parivartitau .. 63..
उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ६४॥
उरू च वलितौ यस्मिन् वलितोरुकम् उच्यते । आवर्त्य शुकतुण्ड-आख्यम् ऊरु-पृष्ठे निपातयेत् ॥ ६४॥
urū ca valitau yasmin valitorukam ucyate . āvartya śukatuṇḍa-ākhyam ūru-pṛṣṭhe nipātayet .. 64..
वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ६५॥
वाम-हतः च वक्षः-स्थः अपि अपविद्धम् तु तत् भवेत् । श्लिष्टौ सम-नखौ पदौ करौ च अपि प्रलिम्बितौ ॥ ६५॥
vāma-hataḥ ca vakṣaḥ-sthaḥ api apaviddham tu tat bhavet . śliṣṭau sama-nakhau padau karau ca api pralimbitau .. 65..
देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ६६॥
देहः स्वाभाविकः यत्र भवेत् सम-नखम् तु तत् । पताका-अञ्जलि वक्षः-स्थम् प्रसारित-शिरोधरम् ॥ ६६॥
dehaḥ svābhāvikaḥ yatra bhavet sama-nakham tu tat . patākā-añjali vakṣaḥ-stham prasārita-śirodharam .. 66..
निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ६७॥
च तत् लिनम् करणम् स्मृतम् । स्वस्तिकौ रेचित-आविद्धौ विश्लिष्टौ कटि-संश्रितौ ॥ ६७॥
ca tat linam karaṇam smṛtam . svastikau recita-āviddhau viśliṣṭau kaṭi-saṃśritau .. 67..
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ६८॥
यत्र तत् करणम् ज्ञेयम् बुधैः स्वस्तिक-रेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्ग-मुख-ऊर्ध्व-तलौ समौ ॥ ६८॥
yatra tat karaṇam jñeyam budhaiḥ svastika-recitam . svastikau tu karau kṛtvā prāṅga-mukha-ūrdhva-talau samau .. 68..
तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ६९॥
तथा च मण्डलम् स्थानम् मण्डल-स्वस्तिकम् तु तत् । निकुट्टितौ यदा हस्तौ स्व-बाहु-शिरसः अन्तरे ॥ ६९॥
tathā ca maṇḍalam sthānam maṇḍala-svastikam tu tat . nikuṭṭitau yadā hastau sva-bāhu-śirasaḥ antare .. 69..
पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ७०॥
पादौ निकुट्टितौ च एव ज्ञेयम् तत् तु निकुट्टकम् । अञ्चितौ बाहु-शिरसि हस्तः तु अभिमुख-अङ्गुलिः ॥ ७०॥
pādau nikuṭṭitau ca eva jñeyam tat tu nikuṭṭakam . añcitau bāhu-śirasi hastaḥ tu abhimukha-aṅguliḥ .. 70..
निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥
भवेत् । पर्यायशः कटिः छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥
bhavet . paryāyaśaḥ kaṭiḥ chinnā bāhvoḥ śirasi pallavau .. 71..
पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ७२॥
पुनर् पुनर् च करणम् कटिच्छिनम् तु तत् भवेत् । अपविद्ध-करः सूच्या पादः च एव निकुट्टितः ॥ ७२॥
punar punar ca karaṇam kaṭicchinam tu tat bhavet . apaviddha-karaḥ sūcyā pādaḥ ca eva nikuṭṭitaḥ .. 72..
संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥
संन्नतम् यत्र पार्श्वम् च तत् भवे अर्ध-रेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥
saṃnnatam yatra pārśvam ca tat bhave ardha-recitam . svastikau caraṇau yatra karau vakṣasi recitau .. 73..
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥
निकुञ्चितम् तथा वक्षः वक्षः स्वस्तिकम् एव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥
nikuñcitam tathā vakṣaḥ vakṣaḥ svastikam eva tat . āñcitena tu pādena recitau tu karau yadā .. 74..
उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ७५॥
उन्मतम् करणम् तत् तु विज्ञेयम् नृत्य-कोविदैः । हस्ताभ्याम् अथ पादाभ्याम् भवतः स्वस्तिकौ यदा ॥ ७५॥
unmatam karaṇam tat tu vijñeyam nṛtya-kovidaiḥ . hastābhyām atha pādābhyām bhavataḥ svastikau yadā .. 75..
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ७६॥
तत् स्वस्तिकम् इति प्रोक्तम् करणम् करण-अर्थिभिः । विक्षिप्त-आक्षिप्त-बाहुभ्याम् स्वस्तिकौ चरणौ यदा ॥ ७६॥
tat svastikam iti proktam karaṇam karaṇa-arthibhiḥ . vikṣipta-ākṣipta-bāhubhyām svastikau caraṇau yadā .. 76..
अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ७७॥
अपक्रान्त-अर्ध-सूचिभ्याम् तद्-पृष्ठ-स्वस्तिकम् भवेत् । पार्श्वयोः अग्रतस् च एव यत्र श्लिष्टः करः भवेत् ॥ ७७॥
apakrānta-ardha-sūcibhyām tad-pṛṣṭha-svastikam bhavet . pārśvayoḥ agratas ca eva yatra śliṣṭaḥ karaḥ bhavet .. 77..
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ७८॥
स्वस्तिकौ हस्त-पादाभ्याम् तद्-दिश्-स्वस्तिकम् उच्यते । अलातम् चरणम् कृत्वा व्यंसयेत् दक्षिणम् करम् ॥ ७८॥
svastikau hasta-pādābhyām tad-diś-svastikam ucyate . alātam caraṇam kṛtvā vyaṃsayet dakṣiṇam karam .. 78..
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ७९॥
ऊर्ध्व-ज-अनुक्रमम् कुर्यात् अलातकम् इति स्मृतम् । स्वस्तिक-अपसृतः पादः करौ नाभि-कटि-स्थितौ ॥ ७९॥
ūrdhva-ja-anukramam kuryāt alātakam iti smṛtam . svastika-apasṛtaḥ pādaḥ karau nābhi-kaṭi-sthitau .. 79..
पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥८०॥
पार्श्वम् उद्वाहितम् च एव करणम् तत् कटी-समम् । हस्तौ हृदि भवेत् वामः सव्यः च आक्षिप्त-रेचितः ॥८०॥
pārśvam udvāhitam ca eva karaṇam tat kaṭī-samam . hastau hṛdi bhavet vāmaḥ savyaḥ ca ākṣipta-recitaḥ ..80..
रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ८१॥
रेचितः च अपविद्धः च तत् स्यात् आक्षिप्तरेचितम् । विक्षिप्तम् हस्त-पादम् च तसा एव आक्षेपणम् पुनर् ॥ ८१॥
recitaḥ ca apaviddhaḥ ca tat syāt ākṣiptarecitam . vikṣiptam hasta-pādam ca tasā eva ākṣepaṇam punar .. 81..
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥
यत्र तत् करणम् ज्ञेयम् विक्षिप्त-आक्षिप्त-प्तकम् द्विजाः । स्वस्तिकौ चरणौ कृत्वा करि-हस्तम् च दक्षिणम् ॥ ८२॥
yatra tat karaṇam jñeyam vikṣipta-ākṣipta-ptakam dvijāḥ . svastikau caraṇau kṛtvā kari-hastam ca dakṣiṇam .. 82..
वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ८३॥
वक्ष-स्थाने तथा वामम् अर्धस्वस्तिकम् आदिशेत् । व्यावृत्त-परिवृत्तः तु सः एव तु करः यदा ॥ ८३॥
vakṣa-sthāne tathā vāmam ardhasvastikam ādiśet . vyāvṛtta-parivṛttaḥ tu saḥ eva tu karaḥ yadā .. 83..
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥
अञ्चितः नासिका-अग्रे तु तत् अञ्चितम् उदाहृतम् । कुञ्चितम् पादम् उत्क्षिप्य त्रि-अश्रम् ऊरुम् विवर्तयेत् ॥ ८४॥
añcitaḥ nāsikā-agre tu tat añcitam udāhṛtam . kuñcitam pādam utkṣipya tri-aśram ūrum vivartayet .. 84..
कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ८५॥
कटि-जानु-विवर्तात् च भुजङ्ग-त्रासितम् भवेत् । कुञ्चितम् पादम् उत्क्षिप्य जनु-स्तन-समम् न्यसेत् ॥ ८५॥
kaṭi-jānu-vivartāt ca bhujaṅga-trāsitam bhavet . kuñcitam pādam utkṣipya janu-stana-samam nyaset .. 85..
प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ८६॥
प्रयोग-वश-गौ हस्तौ ऊर्ध्व-जानु प्रकीर्तितम् । वृश्चिकम् चरणम् कृत्वा करम् पार्श्वे निकुञ्चयेत् ॥ ८६॥
prayoga-vaśa-gau hastau ūrdhva-jānu prakīrtitam . vṛścikam caraṇam kṛtvā karam pārśve nikuñcayet .. 86..
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥८७॥
नासा-अग्रे दक्षिणम् च एव ज्ञेयम् तत् तु निकुञ्चितम् । वाम-दक्षिण-पादाभ्याम् घूर्णमान-उपसर्पणैः ॥८७॥
nāsā-agre dakṣiṇam ca eva jñeyam tat tu nikuñcitam . vāma-dakṣiṇa-pādābhyām ghūrṇamāna-upasarpaṇaiḥ ..87..
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ८८॥
उद्वेष्टित-अपविद्धैः च हस्तैः मत्तल्ली-उदाहृतम् । पादौ वाम-हस्तः च रेचितः ॥ ८८॥
udveṣṭita-apaviddhaiḥ ca hastaiḥ mattallī-udāhṛtam . pādau vāma-hastaḥ ca recitaḥ .. 88..
सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ८९॥
सव्य-हस्तः कटि-स्थः स्यात् अर्धमत्तल्लि तत् स्मृतम् । रेचितः दक्षिणः हस्तः पादः सव्यः निकुट्टितः ॥ ८९॥
savya-hastaḥ kaṭi-sthaḥ syāt ardhamattalli tat smṛtam . recitaḥ dakṣiṇaḥ hastaḥ pādaḥ savyaḥ nikuṭṭitaḥ .. 89..
दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ९०॥
दोला च एव भवेत् वामः तद्-रेचित-निकुट्टितम् । कार्यौ नाभि-तटे हस्तौ प्राच्-मुखौ खटका-मुखौ ॥ ९०॥
dolā ca eva bhavet vāmaḥ tad-recita-nikuṭṭitam . kāryau nābhi-taṭe hastau prāc-mukhau khaṭakā-mukhau .. 90..
सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥
सूची-विद्धौ अपक्रान्तौ पादौ पाद-अपविद्धके । अपविद्धः भवेत् हस्तः सूची-पादः च ॥ ९१॥
sūcī-viddhau apakrāntau pādau pāda-apaviddhake . apaviddhaḥ bhavet hastaḥ sūcī-pādaḥ ca .. 91..
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥
तथा त्रिकम् विवृत्तम् च वलितम् नाम तत् भवेत् । वर्तित-आघूर्णितः सव्यः हस्तः वामः च दोलितः ॥ ९२॥
tathā trikam vivṛttam ca valitam nāma tat bhavet . vartita-āghūrṇitaḥ savyaḥ hastaḥ vāmaḥ ca dolitaḥ .. 92..
स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ९३॥
स्वस्तिक-अपसृतः पादः करणम् घूर्णितम् तु तत् । करि-हस्तः भवेत् वामः दक्षिणः च विवर्तितः ॥ ९३॥
svastika-apasṛtaḥ pādaḥ karaṇam ghūrṇitam tu tat . kari-hastaḥ bhavet vāmaḥ dakṣiṇaḥ ca vivartitaḥ .. 93..
बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ९४॥
बहुशस् कुट्टितः पदः ज्ञेयम् तत् ललितम् बुधैः । ऊर्ध्व-जानुम् विधाय अथ तस्य उपरि लताम् न्यसेत् ॥ ९४॥
bahuśas kuṭṭitaḥ padaḥ jñeyam tat lalitam budhaiḥ . ūrdhva-jānum vidhāya atha tasya upari latām nyaset .. 94..
दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥
दण्ड-पक्षम् तद्-प्रोक्तम् कर्णम् नृत्य-वेदिभिः । भुजञ्ग-त्रासितम् कृत्वा यत्र उभौ अपि रेचितौ ॥ ९५॥
daṇḍa-pakṣam tad-proktam karṇam nṛtya-vedibhiḥ . bhujañga-trāsitam kṛtvā yatra ubhau api recitau .. 95..
वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ९६॥
वाम-पार्श्व-स्थ्तौ हस्तौ भुजङ्ग-त्रस्त-रेचितम् । त्रिकम् सु वलितम् कृत्वा लता-रेचितकौ करौ ॥ ९६॥
vāma-pārśva-sthtau hastau bhujaṅga-trasta-recitam . trikam su valitam kṛtvā latā-recitakau karau .. 96..
नूपुर्श्च तथा पादः करण्E नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ९७॥
नूपुर् च तथा पादः करणे नूपुरे न्यसेत् । रेचितौ हस्त-पादौ च कटी ग्रीवा च रेचिता ॥ ९७॥
nūpur ca tathā pādaḥ karaṇe nūpure nyaset . recitau hasta-pādau ca kaṭī grīvā ca recitā .. 97..
वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ९८॥
वैशाख-स्थानकेन एतत् भवे वैशाख-रेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ च उद्वेष्टितौ तथा ॥ ९८॥
vaiśākha-sthānakena etat bhave vaiśākha-recitam . ākṣiptaḥ svastikaḥ pādaḥ karau ca udveṣṭitau tathā .. 98..
त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥
त्रिकस्य वलनात् च एव ज्ञेयम् भ्रमरकम् तु तत् । अञ्चितः स्यात् करः वामः सव्यः चतुरः एव तु ॥ ९९॥
trikasya valanāt ca eva jñeyam bhramarakam tu tat . añcitaḥ syāt karaḥ vāmaḥ savyaḥ caturaḥ eva tu .. 99..
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ १००॥
दक्षिणः कुट्टितः पादः चतुरम् तत् प्रकीर्तितम् । भुजङ्ग-त्रासितः पादः दक्षिणः रेचितः करः ॥ १००॥
dakṣiṇaḥ kuṭṭitaḥ pādaḥ caturam tat prakīrtitam . bhujaṅga-trāsitaḥ pādaḥ dakṣiṇaḥ recitaḥ karaḥ .. 100..
लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ १०१॥
लता-आख्यः च करः वामः भुजङ्ग-आञ्चितकम् भवेत् । विक्षिप्तम् हस्त-पादम् तु समन्तात् यत्र दण्ड-वत् ॥ १०१॥
latā-ākhyaḥ ca karaḥ vāmaḥ bhujaṅga-āñcitakam bhavet . vikṣiptam hasta-pādam tu samantāt yatra daṇḍa-vat .. 101..
रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ १०२॥
रेच्यते तत् हि करणम् ज्ञेयम् दण्डक-रेचितम् । वृश्चिकम् चरणम् कृत्वा द्वौ अपि अथ निकुट्टितौ ॥ १०२॥
recyate tat hi karaṇam jñeyam daṇḍaka-recitam . vṛścikam caraṇam kṛtvā dvau api atha nikuṭṭitau .. 102..
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥
विधातव्यौ करौ तत् तु ज्ञेयम् वृश्चिककुट्टितम् । सूचिम् कृत्वा अपविद्धम् च दक्षिणम् चरणम् न्यसेत् ॥ १०३॥
vidhātavyau karau tat tu jñeyam vṛścikakuṭṭitam . sūcim kṛtvā apaviddham ca dakṣiṇam caraṇam nyaset .. 103..
रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥
रेचिता च कटिः यत्र कटि-भ्रान्तम् तत् उच्यते । अञ्चितः पृष्ठतस् पादः कुञ्चित-ऊर्ध्व-तल-अङ्गुलिः ॥ १०४॥
recitā ca kaṭiḥ yatra kaṭi-bhrāntam tat ucyate . añcitaḥ pṛṣṭhatas pādaḥ kuñcita-ūrdhva-tala-aṅguliḥ .. 104..
लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ १०५॥
लता-आख्यः च करः वामः तत् लतावृश्चिकम् भवेत् । अलपद्मः कटी-देशे छिन्ना पर्यायशः कटी ॥ १०५॥
latā-ākhyaḥ ca karaḥ vāmaḥ tat latāvṛścikam bhavet . alapadmaḥ kaṭī-deśe chinnā paryāyaśaḥ kaṭī .. 105..
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ १०६॥
वैशाख-स्थानकेन इह तत् छिन्नम् करणम् भवेत् । वृश्चिकम् चरणम् कृत्वा स्वस्तिकौ च करौ उभौ ॥ १०६॥
vaiśākha-sthānakena iha tat chinnam karaṇam bhavet . vṛścikam caraṇam kṛtvā svastikau ca karau ubhau .. 106..
रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ १०७॥
रेचितौ विप्रकीर्णौ च करौ वृश्चिक-रेचितम् । बाहु-शीर्ष-अञ्चितौ हस्तौ पादः पृष्ठ-अञ्चितः तथा ॥ १०७॥
recitau viprakīrṇau ca karau vṛścika-recitam . bāhu-śīrṣa-añcitau hastau pādaḥ pṛṣṭha-añcitaḥ tathā .. 107..
दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ १०८॥
दूर-सन्नत-पृष्ठम् च वृश्चिकम् तत् प्रकीर्तितम् । आलीढम् स्थानकम् यत्र करौ वक्षसि रेचितौ ॥ १०८॥
dūra-sannata-pṛṣṭham ca vṛścikam tat prakīrtitam . ālīḍham sthānakam yatra karau vakṣasi recitau .. 108..
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ १०९॥
ऊर्ध्व-अधस् विप्रकीर्णौ च व्यंसितम् करणम् तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादः निकुट्टितः ॥ १०९॥
ūrdhva-adhas viprakīrṇau ca vyaṃsitam karaṇam tu tat . hastau tu svastikau pārśve tathā pādaḥ nikuṭṭitaḥ .. 109..
यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥
यत्र तत् करणम् ज्ञेयम् बुधैः पार्श्व-निकुट्टितम् । वृश्चिकम् चरणम् कृत्वा पादस्य अङ्गुष्ठकेन तु ॥ ११०॥
yatra tat karaṇam jñeyam budhaiḥ pārśva-nikuṭṭitam . vṛścikam caraṇam kṛtvā pādasya aṅguṣṭhakena tu .. 110..
ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥
ललाटे तिलकम् कुर्यात् ललाट-तिलकम् तु तत् । पृष्ठतस् कुञ्चितम् कृत्वा व्यतिक्रान्त-क्रमम् ततस् ॥ १११॥
lalāṭe tilakam kuryāt lalāṭa-tilakam tu tat . pṛṣṭhatas kuñcitam kṛtvā vyatikrānta-kramam tatas .. 111..
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादः नतः कार्यः सव्य-हस्तः च कुञ्चितः ॥ ११२॥
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ . ādyaḥ pādaḥ nataḥ kāryaḥ savya-hastaḥ ca kuñcitaḥ .. 112..
उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ११३॥
उत्तानः वाम-पार्श्व-स्थः तत् कुञ्चितम् उदाहृतम् । प्रलम्बिताभ्याम् बाहुभ्याम् यत् गात्रेण आनतेन च ॥ ११३॥
uttānaḥ vāma-pārśva-sthaḥ tat kuñcitam udāhṛtam . pralambitābhyām bāhubhyām yat gātreṇa ānatena ca .. 113..
अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ११४॥
अभ्यन्तर-अपविद्धः स्यात् तत् ज्ञेयम् चक्र-मण्डलम् । स्वस्तिक-अपसृतौ पादौ अपविद्ध-क्रमौ यदा ॥ ११४॥
abhyantara-apaviddhaḥ syāt tat jñeyam cakra-maṇḍalam . svastika-apasṛtau pādau apaviddha-kramau yadā .. 114..
उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ११५॥
उरोमण्डलकौ हस्तौ उरोमण्डलिकः तु तत् । आक्षिप्तम् हस्त-पादम् च क्रियते यत्र वेगतः ॥ ११५॥
uromaṇḍalakau hastau uromaṇḍalikaḥ tu tat . ākṣiptam hasta-pādam ca kriyate yatra vegataḥ .. 115..
आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ११६॥
आक्षिओतम् नाम करणम् विज्ञेयम् तत् द्विजोत्तमाः । ऊर्ध्व-अङ्गुलि-तलः पादः पार्श्वेन ऊर्ध्वम् प्रसारितः ॥ ११६॥
ākṣiotam nāma karaṇam vijñeyam tat dvijottamāḥ . ūrdhva-aṅguli-talaḥ pādaḥ pārśvena ūrdhvam prasāritaḥ .. 116..
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ११७॥
प्रकुर्यात् अञ्चित-तलौ हस्तौ तल-विलासिते । पृष्ठतस् प्रसृतः पादौ द्वौ तालौ अर्धम् एव च ॥ ११७॥
prakuryāt añcita-talau hastau tala-vilāsite . pṛṣṭhatas prasṛtaḥ pādau dvau tālau ardham eva ca .. 117..
तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ११८॥
तस्य इव च अनुगः हस्तः पुरतस् तु अर्गलम् तु तत् । विक्षिप्तम् हस्त-पादम् च पृष्ठतस् पार्श्वतस् अपि वा ॥ ११८॥
tasya iva ca anugaḥ hastaḥ puratas tu argalam tu tat . vikṣiptam hasta-pādam ca pṛṣṭhatas pārśvatas api vā .. 118..
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ ११९॥
एक-मार्ग-गतम् यत्र तत् विक्षिप्तम् उदाहृतम् । प्रसार्य कुञ्चितम् पादम् पुनर् आवर्तयेत् द्रुतम् ॥ ११९॥
eka-mārga-gatam yatra tat vikṣiptam udāhṛtam . prasārya kuñcitam pādam punar āvartayet drutam .. 119..
प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ १२०॥
प्रयोग-वशगौ हस्तौ तत् आवर्तम् उदाहृतम् । कुञ्चितम् पादम् उत्क्षिप्य पार्श्वात् पार्श्वम् तु ॥ १२०॥
prayoga-vaśagau hastau tat āvartam udāhṛtam . kuñcitam pādam utkṣipya pārśvāt pārśvam tu .. 120..
प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ १२१॥
प्रयोग-वशगौ हस्तौ डोलापादम् तत् उच्यते । आक्षिप्तम् हस्त-पादम् च त्रिकम् च एव विवर्तयेत् ॥ १२१॥
prayoga-vaśagau hastau ḍolāpādam tat ucyate . ākṣiptam hasta-pādam ca trikam ca eva vivartayet .. 121..
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ १२२॥
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूची-विद्धम् विधाय अथ त्रिकम् तु विनिवर्तयेत् ॥ १२२॥
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ . sūcī-viddham vidhāya atha trikam tu vinivartayet .. 122..
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ १२३॥
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्व-क्रान्त-क्रमम् कृत्वा पुरस्तात् अथ पातयेत् ॥ १२३॥
karau ca recitau kāryau vinivṛtte dvijottamaḥ . pārśva-krānta-kramam kṛtvā purastāt atha pātayet .. 123..
प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥
प्रयोग-वशगौ हस्तौ पार्श्वक्रान्तम् तत् उच्यते । पृष्ठतस् कुञ्चितः पादौ वक्षः च एव समुन्नतम् ॥ १२४॥
prayoga-vaśagau hastau pārśvakrāntam tat ucyate . pṛṣṭhatas kuñcitaḥ pādau vakṣaḥ ca eva samunnatam .. 124..
तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ १२५॥
तिलके च करः स्थाप्यः तत् निस्तम्भितम् उच्यते । पृष्ठतः वलितम् पादम् शिरः-घृष्टम् प्रसारयेत् ॥ १२५॥
tilake ca karaḥ sthāpyaḥ tat nistambhitam ucyate . pṛṣṭhataḥ valitam pādam śiraḥ-ghṛṣṭam prasārayet .. 125..
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् ॥ १२६॥
सर्वतस् मण्डल-आविद्धम् विद्युत्-भ्रान्तम् तत् उच्यते । अतिक्रान्त-क्रमम् कृत्वा पुरस्तात् सम्प्रसारयेत् ॥ १२६॥
sarvatas maṇḍala-āviddham vidyut-bhrāntam tat ucyate . atikrānta-kramam kṛtvā purastāt samprasārayet .. 126..
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ १२७॥
प्रयोग-वश-गौ हस्तौ अतिक्रान्ते प्रकीर्तितौ । आक्षिप्तम् हस्त-पादम् च त्रिकम् च एव विवर्तितम् ॥ १२७॥
prayoga-vaśa-gau hastau atikrānte prakīrtitau . ākṣiptam hasta-pādam ca trikam ca eva vivartitam .. 127..
द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ १२८॥
द्वितीयः रेचितः हस्तः विवर्तितकम् एव तत् । कर्णे अञ्चितः करः वामः लता-हस्तः च दक्षिणः ॥ १२८॥
dvitīyaḥ recitaḥ hastaḥ vivartitakam eva tat . karṇe añcitaḥ karaḥ vāmaḥ latā-hastaḥ ca dakṣiṇaḥ .. 128..
दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ १२९॥
दोलापादः तथा च एव गजक्रीडितकम् भवेत् । द्रुतम् उत्क्षिप्य चरणम् पुरस्तात् अथ पातयेत् ॥ १२९॥
dolāpādaḥ tathā ca eva gajakrīḍitakam bhavet . drutam utkṣipya caraṇam purastāt atha pātayet .. 129..
तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ १३०॥
तल-संस्फोटितौ हस्तौ तल-संस्फोटिते मतौ । पृष्ठ-प्रसारितः पादः लता-रेचितकौ करौ ॥ १३०॥
tala-saṃsphoṭitau hastau tala-saṃsphoṭite matau . pṛṣṭha-prasāritaḥ pādaḥ latā-recitakau karau .. 130..
समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ १३१॥
समुन्नतम् शिरः च एव गरुडप्लुतकम् भवेत् । सूचि-पादः नतम् पार्श्वम् एकः वक्षः-स्थितः करः ॥ १३१॥
samunnatam śiraḥ ca eva garuḍaplutakam bhavet . sūci-pādaḥ natam pārśvam ekaḥ vakṣaḥ-sthitaḥ karaḥ .. 131..
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते , ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ १३२॥
द्वितीयः च आञ्चितः गण्डे गण्डसूची तत् उच्यते , ऊर्ध्व-अपवेष्टितौ हस्तौ सूची-पादः विवर्तितः ॥ १३२॥
dvitīyaḥ ca āñcitaḥ gaṇḍe gaṇḍasūcī tat ucyate , ūrdhva-apaveṣṭitau hastau sūcī-pādaḥ vivartitaḥ .. 132..
परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ १३३॥
परिवृत्त-त्रिकम् च एव परिवृत्तम् तत् उच्यते । एकः समस्थितः पादः ऊरु-पृष्ठे स्थितः अपरः ॥ १३३॥
parivṛtta-trikam ca eva parivṛttam tat ucyate . ekaḥ samasthitaḥ pādaḥ ūru-pṛṣṭhe sthitaḥ aparaḥ .. 133..
मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ १३४॥
मुष्टि-हस्तः च वक्षः-स्थः पार्श्वजानु तत् उच्यते । पृष्ठ-प्रसारितः पादः जानुकः ॥ १३४॥
muṣṭi-hastaḥ ca vakṣaḥ-sthaḥ pārśvajānu tat ucyate . pṛṣṭha-prasāritaḥ pādaḥ jānukaḥ .. 134..
यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ १३५॥
यत्र प्रसारितः बाहू तत् स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यौ अग्रतः स्वस्तिक-स्थितौ ॥ १३५॥
yatra prasāritaḥ bāhū tat syāt gṛdhrāvalīnakam . utplutya caraṇau kāryau agrataḥ svastika-sthitau .. 135..
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ १३६॥
सन्नतौ च तथा हस्तौ सन्नतम् तत् उदाहृतम् । कुञ्चितम् पादम् उत्क्षिप्य कुर्यात् अग्र-स्थितम् भुवि ॥ १३६॥
sannatau ca tathā hastau sannatam tat udāhṛtam . kuñcitam pādam utkṣipya kuryāt agra-sthitam bhuvi .. 136..
प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ १३७॥
प्रयोग-वशगौ हस्तौ सा सूची परिकीर्तिता । अल-पद्मः शिरः-हस्तः सूची-पादः च दक्षिणः ॥ १३७॥
prayoga-vaśagau hastau sā sūcī parikīrtitā . ala-padmaḥ śiraḥ-hastaḥ sūcī-pādaḥ ca dakṣiṇaḥ .. 137..
यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ १३८॥
यत्र तत् करणम् अर्धसूची इति नामतः । पाद-सूच्या यदा पादः द्वितीयः तु प्रविध्यते ॥ १३८॥
yatra tat karaṇam ardhasūcī iti nāmataḥ . pāda-sūcyā yadā pādaḥ dvitīyaḥ tu pravidhyate .. 138..
कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ १३९॥
कटि-वक्षः-स्थितौ हस्तौ सूचीविधम् तत् उच्यते । कृत्वा ऊरु-वलितम् पादम् अपक्रान्त-क्रमम् न्यसेत् ॥ १३९॥
kaṭi-vakṣaḥ-sthitau hastau sūcīvidham tat ucyate . kṛtvā ūru-valitam pādam apakrānta-kramam nyaset .. 139..
प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ १४०॥
प्रयोग-वशगौ तत् उच्यते । वृश्चिकम् चरणम् कृत्वा रेचितौ च तथा करौ ॥ १४०॥
prayoga-vaśagau tat ucyate . vṛścikam caraṇam kṛtvā recitau ca tathā karau .. 140..
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ १४१॥
तथा त्रिकम् विवृत्तम् च मयूरललितम् भवेत् । अञ्चित-अपसृतौ पादौ शिरः च परिवाहितम् ॥ १४१॥
tathā trikam vivṛttam ca mayūralalitam bhavet . añcita-apasṛtau pādau śiraḥ ca parivāhitam .. 141..
रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ १४२॥
रेचितौ च तथा हस्तौ तत् सर्पितम् उदाहृतम् । नूपुरम् चरणम् कृत्वा दण्ड-पादम् प्रसारयेत् ॥ १४२॥
recitau ca tathā hastau tat sarpitam udāhṛtam . nūpuram caraṇam kṛtvā daṇḍa-pādam prasārayet .. 142..
क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥
क्षिप्र-आविद्ध-करम् च एव दण्डपादम् तत् उच्यते । अतिक्रान्त-क्रमम् कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥
kṣipra-āviddha-karam ca eva daṇḍapādam tat ucyate . atikrānta-kramam kṛtvā samutplutya nipātayet .. 143..
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥
जङ्घा-आञ्चिता उपरि क्षिप्ता तत् विद्यात् हरिणप्लुतम् । दोला-पाद-क्रमम् कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥
jaṅghā-āñcitā upari kṣiptā tat vidyāt hariṇaplutam . dolā-pāda-kramam kṛtvā samutplutya nipātayet ..144..
परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो ) मुखाङ्गुली ॥ १४५॥
परिवृत्त-त्रिकम् च एव तत् प्रेङ्खोलितम् उच्यते । भुजौ ऊर्ध्व-विनिष्क्रान्तौ हस्तौ च अभि ( मुख-अङ्गुली ॥ १४५॥
parivṛtta-trikam ca eva tat preṅkholitam ucyate . bhujau ūrdhva-viniṣkrāntau hastau ca abhi ( mukha-aṅgulī .. 145..
बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ १४६॥
बद्धा च एव नितम्बे करणे भवेत् । दोला-पाद-क्रमम् कृत्वा हस्तौ तद्-अनुगौ उभौ ॥ १४६॥
baddhā ca eva nitambe karaṇe bhavet . dolā-pāda-kramam kṛtvā hastau tad-anugau ubhau .. 146..
रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ १४७॥
रेचितौ घूर्णितौ वा अपि स्खलितम् करणम् भवेत् । एकः वक्षः-स्थितः हस्तः प्रोद्वेष्टित-तलः अपरः ॥ १४७॥
recitau ghūrṇitau vā api skhalitam karaṇam bhavet . ekaḥ vakṣaḥ-sthitaḥ hastaḥ prodveṣṭita-talaḥ aparaḥ .. 147..
अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ १४८॥
अञ्चितः चरणः च एव प्रयोज्यः करि-हस्तके । एकः तु रेचितः हस्तः लता-आख्यः तु तथा परः ॥ १४८॥
añcitaḥ caraṇaḥ ca eva prayojyaḥ kari-hastake . ekaḥ tu recitaḥ hastaḥ latā-ākhyaḥ tu tathā paraḥ .. 148..
प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ १४९॥
प्रसर्पित-तलौ पादौ प्रसर्पितकम् एव तत् । अलातम् च पुरस् कृत्वा द्वितीयम् च द्रुत-क्रमम् ॥ १४९॥
prasarpita-talau pādau prasarpitakam eva tat . alātam ca puras kṛtvā dvitīyam ca druta-kramam .. 149..
हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ १५०॥
हस्तौ पाद-अनुगौ च अपि सिंह-विक्रीडिते स्मृतौ । पृष्ठ-प्रसर्पितः पादः तथा हस्तौ निकुञ्चितौ ॥ १५०॥
hastau pāda-anugau ca api siṃha-vikrīḍite smṛtau . pṛṣṭha-prasarpitaḥ pādaḥ tathā hastau nikuñcitau .. 150..
पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ १५१॥
पुनर् तथा एव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्त-हस्तम् आक्षिप्त-देहम् आक्षिप्त-पादकम् ॥ १५१॥
punar tathā eva kartavyau siṃhākarṣtake dvijāḥ . ākṣipta-hastam ākṣipta-deham ākṣipta-pādakam .. 151..
अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ १५२॥
अद्वृत्त-गात्रम् इति एतत् उद्वृताम् करणम् स्मृतम् । आक्षिप्त-चरणः च एकः हस्तौ तस्य एव च अनुगौ ॥ १५२॥
advṛtta-gātram iti etat udvṛtām karaṇam smṛtam . ākṣipta-caraṇaḥ ca ekaḥ hastau tasya eva ca anugau .. 152..
आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ १५३॥
आनतम् च गात्रम् भवेत् दोला-पाद-क्रमम् कृत्वा तल-सङ्घट्टितौ करौ ॥ १५३॥
ānatam ca gātram bhavet dolā-pāda-kramam kṛtvā tala-saṅghaṭṭitau karau .. 153..
रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ १५४॥
रेचयेत् च करम् वामम् तल-सङ्घट्टिते सदा । एकः वक्षः-स्थितः हस्तः द्व्तीयः च प्रलम्बितः ॥ १५४॥
recayet ca karam vāmam tala-saṅghaṭṭite sadā . ekaḥ vakṣaḥ-sthitaḥ hastaḥ dvtīyaḥ ca pralambitaḥ .. 154..
तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥
तल-अग्र-संस्थितः पादः जनिते करणे भवेत् । जनितम् करणम् कृत्वा हस्तौ च अभिमुख-अङ्गुली ॥ १५५॥
tala-agra-saṃsthitaḥ pādaḥ janite karaṇe bhavet . janitam karaṇam kṛtvā hastau ca abhimukha-aṅgulī .. 155..
शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ १५६॥
च एव ज्ञेयम् तत् अवहित्थकम् । करौ वक्षः-स्थितौ कार्यौ उरौ निर्भुग्नम् एव च ॥ १५६॥
ca eva jñeyam tat avahitthakam . karau vakṣaḥ-sthitau kāryau urau nirbhugnam eva ca .. 156..
मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥१५७॥
मण्डल-स्थानकम् च एव निवेशम् करणम् तु तत् । तल-सञ्चर-पादाभ्याम् उत्प्लुत्य पतनम् भवेत् ॥१५७॥
maṇḍala-sthānakam ca eva niveśam karaṇam tu tat . tala-sañcara-pādābhyām utplutya patanam bhavet ..157..
संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ १५८॥
संनतम् वलितम् गात्र-मेलक-आक्रीडितम् तु तत् । करम् आवृत्त-करणम् ऊरु-पृष्ठे अञ्चितम् न्यसेत् ॥ १५८॥
saṃnatam valitam gātra-melaka-ākrīḍitam tu tat . karam āvṛtta-karaṇam ūru-pṛṣṭhe añcitam nyaset .. 158..
जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ १५९॥
जङ्घा-आञ्चिता तथा उद्वृत्ता हि ऊरु-उद्वृत्तम् तु तत् भवेत् । करौ प्रलम्बितौ कार्यौ शिरः च परिवाहितम् ॥ १५९॥
jaṅghā-āñcitā tathā udvṛttā hi ūru-udvṛttam tu tat bhavet . karau pralambitau kāryau śiraḥ ca parivāhitam .. 159..
पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ १६०॥
पादौ च मद-स्खलितके द्विजाः । पुरस् प्रसारितः पादः कुञ्चितः गगन-उन्मुखः ॥ १६०॥
pādau ca mada-skhalitake dvijāḥ . puras prasāritaḥ pādaḥ kuñcitaḥ gagana-unmukhaḥ .. 160..
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥१६१॥
करौ च रेचितौ यत्र विष्णुक्रान्तम् तत् उच्यते । करम् आवर्तितम् कृत्वा हि ऊरु-पृष्ठे निकुञ्चयेत् ॥१६१॥
karau ca recitau yatra viṣṇukrāntam tat ucyate . karam āvartitam kṛtvā hi ūru-pṛṣṭhe nikuñcayet ..161..
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥
ऊरुः च एव तथा आविद्धः सम्भ्रान्तम् करणम् तु तत् । अपविद्धः करः सूच्या पादः च एव निकुट्टितः ॥ १६२॥
ūruḥ ca eva tathā āviddhaḥ sambhrāntam karaṇam tu tat . apaviddhaḥ karaḥ sūcyā pādaḥ ca eva nikuṭṭitaḥ .. 162..
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ १६३॥
वक्षः-स्थः च करः वामः विष्कम्भे करणे भवेत् । पादौ उद्धट्टितौ कार्यौ तल-सङ्घट्टितौ करौ ॥ १६३॥
vakṣaḥ-sthaḥ ca karaḥ vāmaḥ viṣkambhe karaṇe bhavet . pādau uddhaṭṭitau kāryau tala-saṅghaṭṭitau karau .. 163..
नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ १६४॥
नतः च पार्श्वम् कर्तव्यम् बुधैः उद्धट्टिते सदा । प्रयुज्य अलातकम् पूर्वम् हस्तौ च अपि हि रेचयेत् ॥ १६४॥
nataḥ ca pārśvam kartavyam budhaiḥ uddhaṭṭite sadā . prayujya alātakam pūrvam hastau ca api hi recayet .. 164..
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ १६५॥
कुञ्चितौ अञ्चितौ च एव वृषभ-क्रीडिते सदा । रेचितौ अञ्चितौ हस्तौ लोलितम् वर्तितम् शिरः ॥ १६५॥
kuñcitau añcitau ca eva vṛṣabha-krīḍite sadā . recitau añcitau hastau lolitam vartitam śiraḥ .. 165..
उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्॥ १६६॥
उभयोः पार्श्वयोः यत्र तत् लोलितम् उदाहृतम् । स्वस्तिक-अपसृतौ पादौ शिरः च परिवाहितम्॥ १६६॥
ubhayoḥ pārśvayoḥ yatra tat lolitam udāhṛtam . svastika-apasṛtau pādau śiraḥ ca parivāhitam.. 166..
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥
रेचितौ च तथा हस्तौ स्याताम् नाग-अपसर्पिते । निषण्ण-अङ्गः तु चरणम् प्रसार्य तल-सञ्चरम् ॥ १६७॥
recitau ca tathā hastau syātām nāga-apasarpite . niṣaṇṇa-aṅgaḥ tu caraṇam prasārya tala-sañcaram .. 167..
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ १६८॥
उद्वाहितम् उरः कृत्वा शकटास्यम् प्रयोजयेत् । ऊर्ध्व-अङ्गुलि-तलौ पादौ त्रि-पताकौ अधोमुखौ ॥ १६८॥
udvāhitam uraḥ kṛtvā śakaṭāsyam prayojayet . ūrdhva-aṅguli-talau pādau tri-patākau adhomukhau .. 168..
हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ १६९॥
हस्तौ शिरः सन्नतम् च गङ्गा-अवतरणम् तु इति । यानि स्थानानि याः चार्यः व्यायामे कथितानि तु ॥ १६९॥
hastau śiraḥ sannatam ca gaṅgā-avataraṇam tu iti . yāni sthānāni yāḥ cāryaḥ vyāyāme kathitāni tu .. 169..
पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ १७०॥
पाद-प्रचारः तु एषाम् तु करणानाम् अयम् भवेत् । ये च अपि नृत्त-हस्ताः तु गदिताः नृत्त-कर्मणि ॥ १७०॥
pāda-pracāraḥ tu eṣām tu karaṇānām ayam bhavet . ye ca api nṛtta-hastāḥ tu gaditāḥ nṛtta-karmaṇi .. 170..
तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ १७१॥
तेषाम् समासतस् योगः करणेषु विभाव्यते । प्रायेण करणे कार्यः वामः वक्षः-स्थितः करः ॥ १७१॥
teṣām samāsatas yogaḥ karaṇeṣu vibhāvyate . prāyeṇa karaṇe kāryaḥ vāmaḥ vakṣaḥ-sthitaḥ karaḥ .. 171..
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ १७२॥
चरणः च अनुगः च अपि दक्षिणः तु भवेत् करः । चार्यः च एव तु याः प्रोक्ताः नृत्त-हस्ताः तथा एव च ॥ १७२॥
caraṇaḥ ca anugaḥ ca api dakṣiṇaḥ tu bhavet karaḥ . cāryaḥ ca eva tu yāḥ proktāḥ nṛtta-hastāḥ tathā eva ca .. 172..
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ १७३॥
सा मातृका इति विज्ञेया तद्-भेदात् करणानि तु । अष्टोत्तरशतम् हि एतत् करणानाम् मया उदितम् ॥ १७३॥
sā mātṛkā iti vijñeyā tad-bhedāt karaṇāni tu . aṣṭottaraśatam hi etat karaṇānām mayā uditam .. 173..
अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ १७४॥
अतस् परम् प्रवक्ष्यामि हि अङ्गहार-विकल्पनम् । प्रसार्य उत्क्षिप्य च करौ सम-पादम् प्रयोजयेत् ॥ १७४॥
atas param pravakṣyāmi hi aṅgahāra-vikalpanam . prasārya utkṣipya ca karau sama-pādam prayojayet .. 174..
व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् ॥ १७५॥
व्यंसित-अपसृतम् सव्यम् हस्तम् ऊर्ध्वम् प्रसारयेत् । प्रत्यालीढम् ततस् कुर्यात् तथा एव च निकुट्टकम् ॥ १७५॥
vyaṃsita-apasṛtam savyam hastam ūrdhvam prasārayet . pratyālīḍham tatas kuryāt tathā eva ca nikuṭṭakam .. 175..
ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥
ऊरु-उद्वृत्तम् ततस् कुर्यात् अक्षिप्तम् स्वस्तिकम् ततस् । नितम्बम् करि हस्तम् च कटिच्छिन्नम् च योगतः ॥ १७६॥
ūru-udvṛttam tatas kuryāt akṣiptam svastikam tatas . nitambam kari hastam ca kaṭicchinnam ca yogataḥ .. 176..
स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ १७७॥
स्थिर-हस्तः भवेत् एष तु अङ्गहारः हर-प्रियः । तल-पुष्प-अपविद्धे द्वे वर्तितम् संनिकुट्टिकम् ॥ १७७॥
sthira-hastaḥ bhavet eṣa tu aṅgahāraḥ hara-priyaḥ . tala-puṣpa-apaviddhe dve vartitam saṃnikuṭṭikam .. 177..
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १७८॥
ऊरु-उद्वृत्तम् तथा आक्षिप्तम् उरः-मण्डलम् एव च । नितम्बम् करि-हस्तम् च कटि-छिन्नम् तथा एव च ॥ १७८॥
ūru-udvṛttam tathā ākṣiptam uraḥ-maṇḍalam eva ca . nitambam kari-hastam ca kaṭi-chinnam tathā eva ca .. 178..
एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥१७९॥
एष पर्यस्तकः नाम हि अङ्गहारः हर-उद्भवः । अल-पल्लव-सूचीम् च कृत्वा विक्षिप्तम् एव च ॥१७९॥
eṣa paryastakaḥ nāma hi aṅgahāraḥ hara-udbhavaḥ . ala-pallava-sūcīm ca kṛtvā vikṣiptam eva ca ..179..
आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १८९॥
आवर्तितम् ततस् कुर्यात् च निकुट्टकम् । ऊरु-उद्वृत्तम् तथा आक्षिप्तम् उरः-मण्डलम् एव च ॥ १८९॥
āvartitam tatas kuryāt ca nikuṭṭakam . ūru-udvṛttam tathā ākṣiptam uraḥ-maṇḍalam eva ca .. 189..
करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ १८१॥
करि-हस्तम् कटि-छिन्नम् सूची-विद्धः भवेत् अयम् । अपविद्धम् तु करणम् सूचीविद्धम् तथा एव च ॥ १८१॥
kari-hastam kaṭi-chinnam sūcī-viddhaḥ bhavet ayam . apaviddham tu karaṇam sūcīviddham tathā eva ca .. 181..
उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ १८२॥
उद्वेष्टितेन हस्तेन त्रिकम् तु परिवर्तयेत् । उरः-मण्डलकौ हस्तौ कटिच्छिन्नम् तथा एव च ॥ १८२॥
udveṣṭitena hastena trikam tu parivartayet . uraḥ-maṇḍalakau hastau kaṭicchinnam tathā eva ca .. 182..
अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ १८३॥
अपविद्धः अङ्गहाराः च विज्ञेयः अयम् प्रयोक्तृभिः । करणम् नूपुरम् कृत्वा विक्षिप्त-अलातके पुनर् ॥ १८३॥
apaviddhaḥ aṅgahārāḥ ca vijñeyaḥ ayam prayoktṛbhiḥ . karaṇam nūpuram kṛtvā vikṣipta-alātake punar .. 183..
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १८४॥
पुनर् आक्षिप्तकम् कुर्यात् उरोमण्डलकम् तथा । नितम्बम् करि-हस्तम् च कटि-छिन्नम् तथा एव च ॥ १८४॥
punar ākṣiptakam kuryāt uromaṇḍalakam tathā . nitambam kari-hastam ca kaṭi-chinnam tathā eva ca .. 184..
आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ १८५॥
आक्षिप्तकः स विज्ञेयः हि अङ्गहारः प्रयोक्तृभिः । उद्वेष्टित-अपविद्धः तु करः पादः निकुट्टितः ॥ १८५॥
ākṣiptakaḥ sa vijñeyaḥ hi aṅgahāraḥ prayoktṛbhiḥ . udveṣṭita-apaviddhaḥ tu karaḥ pādaḥ nikuṭṭitaḥ .. 185..
पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ १८६
पुनर् तैन एव योगेन वाम-पार्श्वे भवेत् अथ । उरः-मण्डलकौ हस्तौ नितम्बम् करि-हस्तकम् ॥ १८६
punar taina eva yogena vāma-pārśve bhavet atha . uraḥ-maṇḍalakau hastau nitambam kari-hastakam .. 186
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ १८७॥
कर्तव्यम् स कटिच्छिन्नम् नृत्ये तु उद्धट्टिते सदा । पर्याय-उद्वेष्टितौ हस्तौ पादौ च एव निकुट्टितौ ॥ १८७॥
kartavyam sa kaṭicchinnam nṛtye tu uddhaṭṭite sadā . paryāya-udveṣṭitau hastau pādau ca eva nikuṭṭitau .. 187..
कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ १८८॥
च एव हि ऊरु-उद्वृत्तम् तथा एव च । चतुरश्रम् करम् कृत्वा पादेन च निकुट्टकम् ॥ १८८॥
ca eva hi ūru-udvṛttam tathā eva ca . caturaśram karam kṛtvā pādena ca nikuṭṭakam .. 188..
भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ १८९॥
भुजङ्ग-त्रासितम् च एव करम् च उद्विष्टितम् पुनर् । परिच्छिन्नम् च कर्तव्यम् त्रिकम् भ्रमरकेण तु ॥ १८९॥
bhujaṅga-trāsitam ca eva karam ca udviṣṭitam punar . paricchinnam ca kartavyam trikam bhramarakeṇa tu .. 189..
करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ १९०॥
करि-हस्तम् कटि-छिन्नम् विष्कम्भे परिकीर्तितम् । दण्ड-पादम् करम् च एव विक्षिप्य आक्षिप्य च एव हि ॥ १९०॥
kari-hastam kaṭi-chinnam viṣkambhe parikīrtitam . daṇḍa-pādam karam ca eva vikṣipya ākṣipya ca eva hi .. 190..
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ १९१॥
व्यंसितम् वाम-हस्तम् च सह पादेन सर्पयेत् । निकुट्टक-द्वयम् कार्यम् आक्षिप्तम् मण्डल-उरसि ॥ १९१॥
vyaṃsitam vāma-hastam ca saha pādena sarpayet . nikuṭṭaka-dvayam kāryam ākṣiptam maṇḍala-urasi .. 191..
करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ १९२॥
करि-हस्तम् कटि-छिन्नम् कर्तव्यम् अपराजिते । कुट्टितम् करणम् कृत्वा भुजङ्ग-त्रासितम् तथा ॥ १९२॥
kari-hastam kaṭi-chinnam kartavyam aparājite . kuṭṭitam karaṇam kṛtvā bhujaṅga-trāsitam tathā .. 192..
रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ १९३॥
रेचितेन तु हस्तेन पताकम् हस्तम् आदिशेत् । आक्षिप्तकम् प्रयुञ्जीत हि उरोमण्डलकम् तथा ॥ १९३॥
recitena tu hastena patākam hastam ādiśet . ākṣiptakam prayuñjīta hi uromaṇḍalakam tathā .. 193..
लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ १९४॥
लताख्यम् सकटक-छिन्नम् विष्कम्भ-अपसृते भवेत् । त्रिकम् सु वलितम् कृत्वा नूपुरम् करणम् तथा ॥ १९४॥
latākhyam sakaṭaka-chinnam viṣkambha-apasṛte bhavet . trikam su valitam kṛtvā nūpuram karaṇam tathā .. 194..
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ १९५॥
भुजङ्ग-त्रासितम् सव्यम् तथा वैशाख-रेचितम् । आक्षिप्तकम् ततस् कृत्वा परिच्छिन्नम् तथा एव च ॥ १९५॥
bhujaṅga-trāsitam savyam tathā vaiśākha-recitam . ākṣiptakam tatas kṛtvā paricchinnam tathā eva ca .. 195..
बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १९६॥
बाह्यभ्रमरकम् कुर्यात् उरः-मण्डलम् एव च । नितम्बम् करि-हस्तम् च कटि-छिन्नम् तथा एव च ॥ १९६॥
bāhyabhramarakam kuryāt uraḥ-maṇḍalam eva ca . nitambam kari-hastam ca kaṭi-chinnam tathā eva ca .. 196..
मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ १९७॥
मत्त-आक्रीडः भवेत् एष हि अङ्गहारः हरप्रियः । रेचितम् हस्त-पादम् च कृत्वा वृश्चिकम् एव च ॥ १९७॥
matta-ākrīḍaḥ bhavet eṣa hi aṅgahāraḥ harapriyaḥ . recitam hasta-pādam ca kṛtvā vṛścikam eva ca .. 197..
पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥१९८॥
पुनर् तेन एव योगेन वृश्चिकम् सम्प्रयोजयेत् । निकुट्टकम् तथा च एव सव्य-असव्य-कृतम् क्रमात् ॥१९८॥
punar tena eva yogena vṛścikam samprayojayet . nikuṭṭakam tathā ca eva savya-asavya-kṛtam kramāt ..198..
लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ १९९॥
लता-आख्यः स कटिच्छेदः भवेत् स्वस्तिक-रेचिते । पार्श्वे तु स्वस्तिकम् बद्ध्वा कार्यम् तु अथ निकुट्टकम् ॥ १९९॥
latā-ākhyaḥ sa kaṭicchedaḥ bhavet svastika-recite . pārśve tu svastikam baddhvā kāryam tu atha nikuṭṭakam .. 199..
द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ २००॥
द्वितीयस्य च पार्श्वस्य विधिः स्यात् यम् एव हि । ततस् च करम् आवर्त्य हि ऊरु-पृष्ठे निपातयेत् ॥ २००॥
dvitīyasya ca pārśvasya vidhiḥ syāt yam eva hi . tatas ca karam āvartya hi ūru-pṛṣṭhe nipātayet .. 200..
ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २०१॥
ऊरु-उद्वृत्तम् ततस् कुर्यात् आक्षिप्तम् पुनर् एव हि । नितम्बम् करि-हस्तम् च कटि-छिन्नम् तथा एव च ॥ २०१॥
ūru-udvṛttam tatas kuryāt ākṣiptam punar eva hi . nitambam kari-hastam ca kaṭi-chinnam tathā eva ca .. 201..
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ २०२॥
पार्श्वस्वस्तिकः इति एष हि अङ्गहारः प्रकीर्तितः । वृश्चिकम् करणम् कृत्वा लता-आख्यम् हस्तम् एव च ॥ २०२॥
pārśvasvastikaḥ iti eṣa hi aṅgahāraḥ prakīrtitaḥ . vṛścikam karaṇam kṛtvā latā-ākhyam hastam eva ca .. 202..
तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ २०३॥
तम् एव च करम् भूयस् नासा-अग्रे सन्निकुञ्चयेत् । तम् एव उद्वेष्टितम् कृत्वा नितम्बम् परिवर्तयेत् ॥ २०३॥
tam eva ca karam bhūyas nāsā-agre sannikuñcayet . tam eva udveṣṭitam kṛtvā nitambam parivartayet .. 203..
करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ २०४॥
करि-हस्तम् कटि-छिन्नम् वृश्चिक-अपसृते भवेत् । कृत्वा नूपुर-पादम् तु तथा आक्षिप्तकम् एव च ॥ २०४॥
kari-hastam kaṭi-chinnam vṛścika-apasṛte bhavet . kṛtvā nūpura-pādam tu tathā ākṣiptakam eva ca .. 204..
परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ २०५ ॥
परिच्छिन्नम् च कर्तव्यम् सूची-पादम् तथा एव च । नितम्बम् करि-हस्तम् च अपि उरः-मण्डलकम् तथा ॥ २०५ ॥
paricchinnam ca kartavyam sūcī-pādam tathā eva ca . nitambam kari-hastam ca api uraḥ-maṇḍalakam tathā .. 205 ..
कटीच्छिन्नं ततश्चैव भ्रमरः स तु सन्ज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ १०६॥
कटी-छिन्नम् ततस् च एव भ्रमरः स तु सन्ज्ञितः । कृत्वा करम् आवर्त्य दक्षिणम् ॥ १०६॥
kaṭī-chinnam tatas ca eva bhramaraḥ sa tu sanjñitaḥ . kṛtvā karam āvartya dakṣiṇam .. 106..
कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ २०७॥
कपोलस्य प्रदेशे तु कार्यम् सम्यक् निकुञ्चितम् अपविद्धम् द्रुतम् च एव तल-संस्फोट-संयुतम् ॥ २०७॥
kapolasya pradeśe tu kāryam samyak nikuñcitam apaviddham drutam ca eva tala-saṃsphoṭa-saṃyutam .. 207..
करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ २०८॥
करि-हस्तम् कटि-छिन्नम् मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिक-अपसृतैः पदैः ॥ २०८॥
kari-hastam kaṭi-chinnam mattaskhalitake bhavet . dolaiḥ karaiḥ pracalitaiḥ svastika-apasṛtaiḥ padaiḥ .. 208..
अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ २०९॥
अञ्चितैः वलितैः हस्तैः तल-सङ्घट्टितैः तथा । निकुट्टितम् च कर्तव्यम् ऊरु-उद्वृतम् तथा एव च ॥ २०९॥
añcitaiḥ valitaiḥ hastaiḥ tala-saṅghaṭṭitaiḥ tathā . nikuṭṭitam ca kartavyam ūru-udvṛtam tathā eva ca .. 209..
करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥
करि-हस्तम् कटि-छिन्नम् मदात् विलसिते भवेत् । मण्डलम् स्थानकम् कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥
kari-hastam kaṭi-chinnam madāt vilasite bhavet . maṇḍalam sthānakam kṛtvā tathā hastau ca recitau .. 210..
उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ २११॥
उद्घट्टितेन पादेन मत्तल्लि-करणम् भवेत् । आक्षिप्तम् करणम् च एव हि उरः-मण्डलम् एव च ॥ २११॥
udghaṭṭitena pādena mattalli-karaṇam bhavet . ākṣiptam karaṇam ca eva hi uraḥ-maṇḍalam eva ca .. 211..
कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ २१२॥
कटिच्छिन्नम् तथा च एव भवेत् तु गति-मण्डले । सम-पादम् प्रयुज्य अथ परिच्छिन्नम् तु अनन्तरम् ॥ २१२॥
kaṭicchinnam tathā ca eva bhavet tu gati-maṇḍale . sama-pādam prayujya atha paricchinnam tu anantaram .. 212..
आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ २१३॥
आविद्धेन तु पादेन बाह्य-भ्रमरकम् तथा । वाम-सूच्या तु अतिक्रान्तम् भुजङ्ग-त्रासितम् तथा ॥ २१३॥
āviddhena tu pādena bāhya-bhramarakam tathā . vāma-sūcyā tu atikrāntam bhujaṅga-trāsitam tathā .. 213..
करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥
करि-हस्तम् कटि-छिन्नम् परिच्छिन्ने विधीयते । शिरसः तु उपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥
kari-hastam kaṭi-chinnam paricchinne vidhīyate . śirasaḥ tu upari sthāpyau svastiakau vicyutau karau . 214..
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ २१५॥
ततस् सव्यम् करम् च अपि गात्रम् आनम्य रेचयेत् । पुनर् उत्थापयेत् तत्र गात्रम् उन्नम्य रेचितम् ॥ २१५॥
tatas savyam karam ca api gātram ānamya recayet . punar utthāpayet tatra gātram unnamya recitam .. 215..
लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ २१६॥
लता-आख्यौ च करौ कृत्वा वृश्चिकम् सम्प्रयोजयेत् । रेचितम् करि-हस्तम् च भुजङ्ग-त्रासितम् तथा ॥ २१६॥
latā-ākhyau ca karau kṛtvā vṛścikam samprayojayet . recitam kari-hastam ca bhujaṅga-trāsitam tathā .. 216..
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ २१७॥
आक्षिप्तकम् प्रयुञ्जीत स्वस्तिकम् पादम् एव च । पराङ्ग्मुख-विधिः भूयस् एवम् एव भवेत् इह ॥ २१७॥
ākṣiptakam prayuñjīta svastikam pādam eva ca . parāṅgmukha-vidhiḥ bhūyas evam eva bhavet iha .. 217..
करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ २१८॥
करि-हस्तम् कटि-छिन्नम् परिवृत्त-कर-चिती । रेचितौ सह गात्रेण हि अपविद्धौ करौ यदा ॥ २१८॥
kari-hastam kaṭi-chinnam parivṛtta-kara-citī . recitau saha gātreṇa hi apaviddhau karau yadā .. 218..
पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ २१९॥
पुनर् तेन एव देशेन गात्रम् उन्नम्य रेचयेत् । कुर्यात् नूपुर-पादम् च भुजङ्ग-त्रासितम् तथा ॥ २१९॥
punar tena eva deśena gātram unnamya recayet . kuryāt nūpura-pādam ca bhujaṅga-trāsitam tathā .. 219..
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ २२०॥
रेचितम् मण्डलम् च एव बाहु-शीर्षे निकुञ्चयेत् । ऊरु-उद्वृत्तम् तथा आक्षिप्तम् उरः-मण्डलम् एव च ॥ २२०॥
recitam maṇḍalam ca eva bāhu-śīrṣe nikuñcayet . ūru-udvṛttam tathā ākṣiptam uraḥ-maṇḍalam eva ca .. 220..
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥२२१॥
करि-हस्तम् कटि-छिन्नम् कुर्यात् वैशाख-रेचिते । आद्यम् तु जनितम् कृत्वा पादम् एकम् प्रसारयेत् ॥२२१॥
kari-hastam kaṭi-chinnam kuryāt vaiśākha-recite . ādyam tu janitam kṛtvā pādam ekam prasārayet ..221..
तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ २२२॥
तथा एव अलातकम् कुर्यात् त्रिकम् तु परिवर्तयेत् । अञ्चितम् वाम-हस्तम् च गण्ड-देशे निकुट्टयेत् ॥ २२२॥
tathā eva alātakam kuryāt trikam tu parivartayet . añcitam vāma-hastam ca gaṇḍa-deśe nikuṭṭayet .. 222..
कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ २२३॥
कटिच्छिन्नम् तथा च एव परावृत्ते प्रयोजयेत् । स्वस्तिकम् करणम् कृत्वा व्यंसितौ च करौ पुनर् ॥ २२३॥
kaṭicchinnam tathā ca eva parāvṛtte prayojayet . svastikam karaṇam kṛtvā vyaṃsitau ca karau punar .. 223..
अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ २२४॥
अलातकम् प्रयुञ्जीत हि ऊर्ध्व-जानु निकुञ्चितम् । अर्धसूची च विक्षिप्तम् उद्वृत्त-आक्षिप्तके तथा ॥ २२४॥
alātakam prayuñjīta hi ūrdhva-jānu nikuñcitam . ardhasūcī ca vikṣiptam udvṛtta-ākṣiptake tathā .. 224..
करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २२५॥
करि-हस्तम् कटि-छिन्नम् अङ्गहारे हि अलातके । निकुट्य वक्षसि करौ ऊर्ध्व-जानु प्रयोजयेत् ॥ २२५॥
kari-hastam kaṭi-chinnam aṅgahāre hi alātake . nikuṭya vakṣasi karau ūrdhva-jānu prayojayet .. 225..
आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २२६॥
आक्षिप्त-स्वस्तिकम् कृत्वा त्रिकम् तु परिवर्तयेत् । उरः-मण्डलकौ हस्तौ नितम्बम् करि-हस्तकम् ॥ २२६॥
ākṣipta-svastikam kṛtvā trikam tu parivartayet . uraḥ-maṇḍalakau hastau nitambam kari-hastakam .. 226..
कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ २२७॥
कटिच्छिन्नम् तथा च एव पार्श्वच्छेदे विधीयते । सूची-वाम-पदम् दध्यात् विद्युत्-भ्रान्तम् च दक्षिणम् ॥ २२७॥
kaṭicchinnam tathā ca eva pārśvacchede vidhīyate . sūcī-vāma-padam dadhyāt vidyut-bhrāntam ca dakṣiṇam .. 227..
दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ २२८॥
दक्षिणेन पुनर् सूची विद्युत्-भ्रान्तम् च वामतस् । परिच्छिन्नम् तथा च एव हि अतिक्रान्तम् च वामकम् ॥ २२८॥
dakṣiṇena punar sūcī vidyut-bhrāntam ca vāmatas . paricchinnam tathā ca eva hi atikrāntam ca vāmakam .. 228..
लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ २२९॥
लताख्यम् स कटिच्छिन्नम् विद्युद्भ्रान्तः च स स्मृतः । कृत्वा नूपुर-पादम् तु सव्य-वामौ प्रलम्बितौ ॥ २२९॥
latākhyam sa kaṭicchinnam vidyudbhrāntaḥ ca sa smṛtaḥ . kṛtvā nūpura-pādam tu savya-vāmau pralambitau .. 229..
करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ २३०॥
करौ पार्श्वे ततस् ताभ्याम् विक्षिप्तम् सम्प्रयोजयेत् । ताभ्याम् सूची तथा च एव त्रिकम् तु परिवर्तयेत् ॥ २३०॥
karau pārśve tatas tābhyām vikṣiptam samprayojayet . tābhyām sūcī tathā ca eva trikam tu parivartayet .. 230..
लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ २३१॥
लता-आख्यम् स कटिच्छिन्नम् कुर्तात् उद्वृत्तके सदा । आलीढ-व्यंसितौ हस्तौ बाहु-शीर्षे निकुट्टयेत् ॥ २३१॥
latā-ākhyam sa kaṭicchinnam kurtāt udvṛttake sadā . ālīḍha-vyaṃsitau hastau bāhu-śīrṣe nikuṭṭayet .. 231..
नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥२३२॥
नूपुरः चरणः वामः तथा अलातः च दक्षिणः । तेन एव आक्षिप्तकम् कुर्यात् उरस्-मण्डलकौ करौ ॥२३२॥
nūpuraḥ caraṇaḥ vāmaḥ tathā alātaḥ ca dakṣiṇaḥ . tena eva ākṣiptakam kuryāt uras-maṇḍalakau karau ..232..
करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ २३३॥
करि-हस्तम् कटि-छिन्नम् आलीढे सम्प्रयोजयेत् । हस्तम् तु रेचितम् कृत्वा पार्श्व-मानस्य रेचयेत् ॥ २३३॥
kari-hastam kaṭi-chinnam ālīḍhe samprayojayet . hastam tu recitam kṛtvā pārśva-mānasya recayet .. 233..
पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ २३४॥
पुनर् तेन एव योगेन गात्र-मानस्य रेचयेत् । रेचितम् करणम् कार्यम् उरः-मण्डलम् एव च ॥ २३४॥
punar tena eva yogena gātra-mānasya recayet . recitam karaṇam kāryam uraḥ-maṇḍalam eva ca .. 234..
कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥२३५॥
कटिच्छिन्नम् तु कर्तव्यम् अङ्गहारे तु रेचिते । नूपुरम् चरणम् कृत्वा त्रिकम् तु परिवर्तयेत् ॥२३५॥
kaṭicchinnam tu kartavyam aṅgahāre tu recite . nūpuram caraṇam kṛtvā trikam tu parivartayet ..235..
व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥२३६॥
व्यंसितेन तु हस्तेन त्रिकम् एव विवर्तयेत् । वामम् च अलातकम् कृत्वा सूचीम् अत्र एव योजयेत् ॥२३६॥
vyaṃsitena tu hastena trikam eva vivartayet . vāmam ca alātakam kṛtvā sūcīm atra eva yojayet ..236..
करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥
करि-हस्तम् कटि-छिन्नम् कुर्यात् आच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥
kari-hastam kaṭi-chinnam kuryāt ācchurite sadā . recitau svastikau pādau recitau svastikau karau .. 237..
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ २३८॥
कृत्वा विश्लेषम् एवम् तु तेन एव विधिना पुनर् । पुनर् उत्क्षेपणम् च एव रेचितैः एव कारयेत् ॥ २३८॥
kṛtvā viśleṣam evam tu tena eva vidhinā punar . punar utkṣepaṇam ca eva recitaiḥ eva kārayet .. 238..
उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २३९॥
उद्वृत्त-आक्षिप्तके च एव हि उरः-मण्डलम् एव च । नितम्बम् करि-हस्तम् च कटि-छिन्नम् तथा एव च ॥ २३९॥
udvṛtta-ākṣiptake ca eva hi uraḥ-maṇḍalam eva ca . nitambam kari-hastam ca kaṭi-chinnam tathā eva ca .. 239..
आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ २४०॥
आक्षिप्तरेचितः हि एष करणानाम् विधिः स्मृतः । विक्षिप्त करणम् कृत्वा हस्त-पादम् मुख-आगमम् ॥ २४०॥
ākṣiptarecitaḥ hi eṣa karaṇānām vidhiḥ smṛtaḥ . vikṣipta karaṇam kṛtvā hasta-pādam mukha-āgamam .. 240..
वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ २४१॥
वाम-सूचि-सहकृतम् विक्षिपेत् वामकम् करम् । वक्षः-स्थाने भवेत् सव्यः वलितम् त्रिकम् एव च ॥ २४१॥
vāma-sūci-sahakṛtam vikṣipet vāmakam karam . vakṣaḥ-sthāne bhavet savyaḥ valitam trikam eva ca .. 241..
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ २४२॥
नूपुर-आक्षिप्तके च एव हि अर्धस्वस्तिकम् एव च । नितम्बम् करि-हस्तम् च हि उरः-मण्डलकम् तथा ॥ २४२॥
nūpura-ākṣiptake ca eva hi ardhasvastikam eva ca . nitambam kari-hastam ca hi uraḥ-maṇḍalakam tathā .. 242..
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ २४३॥
कटि-छिन्नम् च कर्तव्यम् सम्भ्रान्ते नृत्त-योक्तृभिः । अपक्रान्त-क्रमम् कृत्वा व्यंसितम् हस्तम् एव च ॥ २४३॥
kaṭi-chinnam ca kartavyam sambhrānte nṛtta-yoktṛbhiḥ . apakrānta-kramam kṛtvā vyaṃsitam hastam eva ca .. 243..
कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ २४४॥
कुर्यात् उद्वेष्टितम् च एव हि अर्धसूचीम् तथा एव च । विक्षिप्तम् स कटिच्छिन्नम् उद्वृत्त-आक्षिप्तके तथा ॥ २४४॥
kuryāt udveṣṭitam ca eva hi ardhasūcīm tathā eva ca . vikṣiptam sa kaṭicchinnam udvṛtta-ākṣiptake tathā .. 244..
करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ २४५॥
करि-हस्तम् कटि-छिन्नम् कर्तव्यम् अपसर्पिते । कृत्वा नूपुर-पादम् च द्रुतम् आक्षिप्य च क्रमम् ॥ २४५॥
kari-hastam kaṭi-chinnam kartavyam apasarpite . kṛtvā nūpura-pādam ca drutam ākṣipya ca kramam .. 245..
पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ २४६॥
पादस्य च अनुगौ हस्तौ त्रिकम् च परिवर्तयेत् । निकुट्य कर-पादम् च अपि उरः-मण्डलकम् पुनर् ॥ २४६॥
pādasya ca anugau hastau trikam ca parivartayet . nikuṭya kara-pādam ca api uraḥ-maṇḍalakam punar .. 246..
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ २४७॥
करि-हस्तम् कटि-छिन्नम् कार्यम् अर्धनिकुट्टके । द्वात्रिंशत् एते सम्प्रोक्ताः हि अङ्गहाराः द्विजोत्तमाः ॥ २४७॥
kari-hastam kaṭi-chinnam kāryam ardhanikuṭṭake . dvātriṃśat ete samproktāḥ hi aṅgahārāḥ dvijottamāḥ .. 247..
चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥
चतुरः रेचकान् च अपि गदतः मे निबोधत । पादरेचकः एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥
caturaḥ recakān ca api gadataḥ me nibodhata . pādarecakaḥ ekaḥ syāt dvitīyaḥ kaṭirecakaḥ .. 248..
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ २४९॥
कर-रेचकः तृतीयः तु चतुर्थः कण्ठ-रेचकः । रेचकैः अङ्गहारैः च नृत्यन्तम् वीक्ष्य शङ्करम् ॥ २४९॥
kara-recakaḥ tṛtīyaḥ tu caturthaḥ kaṇṭha-recakaḥ . recakaiḥ aṅgahāraiḥ ca nṛtyantam vīkṣya śaṅkaram .. 249..
[रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥ उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः । पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥ विविधैश्चैव पादस्य पादरेचक उच्यते । त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥ तथाऽपसर्पणं चैव कटिरेचक उच्यते । उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥ विसर्पणं च हस्तस्य हस्तरेचक उच्यते । उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥ भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ]
[रेचित-आख्यः पृथग्भावे वलने च अभिधीयते ॥ उद्वाहनात् पृथग्भावात् चलनात् च अपि रेचकः । पार्श्वात् पार्श्वे तु गमनम् स्खलितैः चलितैः पदैः ॥ विविधैः च एव पादस्य पादरेचकः उच्यते । त्रिकस्य उद्वर्तनम् च एव छटी-वलनम् एव च ॥ तथा अपसर्पणम् च एव कटिरेचकः उच्यते । उद्वर्तनम् परिक्षेपः विक्षेपः परिवर्तनम् ॥ विसर्पणम् च हस्तस्य हस्तरेचकः उच्यते । उद्वाहनम् सन्नमनम् तथा पार्श्वस्य सन्नतिः ॥ भ्रमणम् च अपि विज्ञेयः ग्रीवायाः रेचकः बुधैः । ]
[recita-ākhyaḥ pṛthagbhāve valane ca abhidhīyate .. udvāhanāt pṛthagbhāvāt calanāt ca api recakaḥ . pārśvāt pārśve tu gamanam skhalitaiḥ calitaiḥ padaiḥ .. vividhaiḥ ca eva pādasya pādarecakaḥ ucyate . trikasya udvartanam ca eva chaṭī-valanam eva ca .. tathā apasarpaṇam ca eva kaṭirecakaḥ ucyate . udvartanam parikṣepaḥ vikṣepaḥ parivartanam .. visarpaṇam ca hastasya hastarecakaḥ ucyate . udvāhanam sannamanam tathā pārśvasya sannatiḥ .. bhramaṇam ca api vijñeyaḥ grīvāyāḥ recakaḥ budhaiḥ . ]
सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥२५०॥
सुकुमार-प्रयोगेण नृत्यन्तीम् च एव पार्वतीम् । मृदञ्ग-भेरी-पटहैः भाण्ड-डिण्डिम-गोमुखैः ॥२५०॥
sukumāra-prayogeṇa nṛtyantīm ca eva pārvatīm . mṛdañga-bherī-paṭahaiḥ bhāṇḍa-ḍiṇḍima-gomukhaiḥ ..250..
पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥
पणवैः ददुरैः च एव सर्व-आतोद्यैः प्रवादितैः । दक्ष-यज्ञे विनिहते सन्ध्या-काले महेश्वरः ॥ २५१॥
paṇavaiḥ daduraiḥ ca eva sarva-ātodyaiḥ pravāditaiḥ . dakṣa-yajñe vinihate sandhyā-kāle maheśvaraḥ .. 251..
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥
नाना अङ्गहारैः । पिण्डि-बन्धान् ततस् दृष्ट्वा नन्दि-भद्र-मुखाः गणाः ॥ २५२॥
nānā aṅgahāraiḥ . piṇḍi-bandhān tatas dṛṣṭvā nandi-bhadra-mukhāḥ gaṇāḥ .. 252..
चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥ २५३॥
चक्रुः ते नाम पिण्डीनाम् बन्धम् आसाम् स लक्षणम् । ईश्वरस्य ईश्वरी पिन्डी नन्दिनः च अपि पट्टसी ॥ २५३॥
cakruḥ te nāma piṇḍīnām bandham āsām sa lakṣaṇam . īśvarasya īśvarī pinḍī nandinaḥ ca api paṭṭasī .. 253..
चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः ॥ २५४॥
चण्डिकायाः भवेत् पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्य-पिण्डी भवेत् विष्णोः पद्म-पिण्डी स्वयम्भुवः ॥ २५४॥
caṇḍikāyāḥ bhavet piṇḍī tathā vai siṃhavāhinī . tārkṣya-piṇḍī bhavet viṣṇoḥ padma-piṇḍī svayambhuvaḥ .. 254..
शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥
शक्रस्य ऐरावती पिण्डी झषपिण्डी तु मान्मथी । शिखि-पिण्डी कुमारस्य रूप-पिण्डी भवेत् श्रियः ॥ २५५॥
śakrasya airāvatī piṇḍī jhaṣapiṇḍī tu mānmathī . śikhi-piṇḍī kumārasya rūpa-piṇḍī bhavet śriyaḥ .. 255..
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ च स्यात् ॥ २५६॥
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca .. ca syāt .. 256..
हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी॥२५७॥
हलपिण्डी बलस्य अपि सर्पपिण्डी तु भोगिनाम् । ॥२५७॥
halapiṇḍī balasya api sarpapiṇḍī tu bhoginām . ..257..
त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ २५८॥
त्रिशूल-आकृति-संस्थाना रौद्री स्यात् अन्धकद्विषः । एवम् अन्यासु अपि तथा देवतासु यथाक्रमम् ॥ २५८॥
triśūla-ākṛti-saṃsthānā raudrī syāt andhakadviṣaḥ . evam anyāsu api tathā devatāsu yathākramam .. 258..
ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ २५९॥
ध्वज-भूताः प्रयोक्तव्याः पिण्डी-बन्धाः सु चिह्निताः । रेचकाः अङ्गहाराः च च ॥ २५९॥
dhvaja-bhūtāḥ prayoktavyāḥ piṇḍī-bandhāḥ su cihnitāḥ . recakāḥ aṅgahārāḥ ca ca .. 259..
सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ २६०॥
सृष्ट्वा भगवता दत्ताः तण्डवे मुनये तदा । तेन अपि हि ततस् सम्यक् गान-भाण्ड-समन्वितः ॥ २६०॥
sṛṣṭvā bhagavatā dattāḥ taṇḍave munaye tadā . tena api hi tatas samyak gāna-bhāṇḍa-samanvitaḥ .. 260..
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ २६१॥
नृत्त-प्रयोगः सृष्टः यः स ताण्डवः इति स्मृतः । यदा प्राप्ति-अर्थम् अर्थानाम् तद्-ज्ञैः अभिनयः कृतः ॥ २६१॥
nṛtta-prayogaḥ sṛṣṭaḥ yaḥ sa tāṇḍavaḥ iti smṛtaḥ . yadā prāpti-artham arthānām tad-jñaiḥ abhinayaḥ kṛtaḥ .. 261..
कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ २६२॥
कस्मात् अ नृत्तम् कृतम् हि एतत् कम् स्वभावम् अपेक्षते । न गीतक-अर्थ-सम्बद्धम् न च अपि अर्थस्य भावकम् ॥ २६२॥
kasmāt a nṛttam kṛtam hi etat kam svabhāvam apekṣate . na gītaka-artha-sambaddham na ca api arthasya bhāvakam .. 262..
कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ २६३॥
कस्मात् नृत्तम् कृतम् हि एतत् गीतेषु आसारितेषु च । भरतः अत्र उच्यते न खलु अर्थम् कञ्चिद् नृत्तम् अपेक्षते ॥ २६३॥
kasmāt nṛttam kṛtam hi etat gīteṣu āsāriteṣu ca . bharataḥ atra ucyate na khalu artham kañcid nṛttam apekṣate .. 263..
किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ २६४॥
किम् तु शोभाम् प्रजनयेत् इति नृत्तम् प्रवर्तितम् । प्रायेण सर्व-लोकस्य नृत्तम् इष्टम् स्वभावतः ॥ २६४॥
kim tu śobhām prajanayet iti nṛttam pravartitam . prāyeṇa sarva-lokasya nṛttam iṣṭam svabhāvataḥ .. 264..
मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ २६५॥
मङ्गलम् इति कृत्वा च नृत्तम् एतत् प्रकीर्तितम् । विवाह-प्रसव-आवाह-प्रमोद-अभ्युअदय-आदिषु ॥ २६५॥
maṅgalam iti kṛtvā ca nṛttam etat prakīrtitam . vivāha-prasava-āvāha-pramoda-abhyuadaya-ādiṣu .. 265..
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः॥ २६६॥
विनोद-कारणम् च इति नृत्तम् एतत् प्रवर्तितम् । अतस् च एव प्रतिक्षेपात् भूत-सङ्घैः प्रवर्तिताः॥ २६६॥
vinoda-kāraṇam ca iti nṛttam etat pravartitam . atas ca eva pratikṣepāt bhūta-saṅghaiḥ pravartitāḥ.. 266..
ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः। देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ २६७॥
ये गीतक-आदौ युज्यन्ते सम्यक् नृत्त-विभागकाः। देवेन च अपि सम्प्रोक्तः तण्डुः ताण्डव-पूर्वकम् ॥ २६७॥
ye gītaka-ādau yujyante samyak nṛtta-vibhāgakāḥ. devena ca api samproktaḥ taṇḍuḥ tāṇḍava-pūrvakam .. 267..
गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥२६८॥
गीत-प्रयोगम् आश्रित्य नृत्तम् एतत् प्रवर्त्यताम् । प्रायेण ताण्डव-विधिः देव-स्तुति-आश्रयः भवेत् ॥२६८॥
gīta-prayogam āśritya nṛttam etat pravartyatām . prāyeṇa tāṇḍava-vidhiḥ deva-stuti-āśrayaḥ bhavet ..268..
सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्॥२६९॥
सुकुमार-प्रयोगः च शृङ्गार-रस-सम्भवः । तस्य तण्डु-प्रयुक्तस्य ताण्डवस्य विधि-क्रियाम्॥२६९॥
sukumāra-prayogaḥ ca śṛṅgāra-rasa-sambhavaḥ . tasya taṇḍu-prayuktasya tāṇḍavasya vidhi-kriyām..269..
वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ २७०॥
वर्धमानकम् आसाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानाम् वृद्धिम् आसाद्य हि अक्षराणाम् च वर्धनात् ॥ २७०॥
vardhamānakam āsādya sampravakṣyami lakṣaṇam . kalānām vṛddhim āsādya hi akṣarāṇām ca vardhanāt .. 270..
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ २७१॥
लयस्य वर्धनात् च अपि वर्धमानकम् उच्यते । कृत्त्वा कुतप-विन्यासम् यथावत् द्विजसत्तमाः ॥ २७१॥
layasya vardhanāt ca api vardhamānakam ucyate . kṛttvā kutapa-vinyāsam yathāvat dvijasattamāḥ .. 271..
आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ २७२॥
आसारित-प्रयोगः तु ततस् कार्यः प्रयोक्तृभिः । तत्र तु उपोहनम् कृत्त्वा तन्त्री-गान-समन्वितम् ॥ २७२॥
āsārita-prayogaḥ tu tatas kāryaḥ prayoktṛbhiḥ . tatra tu upohanam kṛttvā tantrī-gāna-samanvitam .. 272..
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥२७३॥
कार्यः प्रवेशः नर्तक्याः भाण्ड-वाद्य-समन्वितः । विशुद्ध-करणायाम् तु जात्याम् वाद्यम् प्रयोजयेत् ॥२७३॥
kāryaḥ praveśaḥ nartakyāḥ bhāṇḍa-vādya-samanvitaḥ . viśuddha-karaṇāyām tu jātyām vādyam prayojayet ..273..
गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ २७४॥
गत्या वाद्य-अनुसारिण्या तस्याः चारीम् प्रयोजयेत् । वैशाख-स्थानकेन इह सर्व-रेचक-चारिणी ॥ २७४॥
gatyā vādya-anusāriṇyā tasyāḥ cārīm prayojayet . vaiśākha-sthānakena iha sarva-recaka-cāriṇī .. 274..
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ २७५॥
पुष्प-अञ्जलि-धरा भूत्वा प्रविशेत् रङ्ग-मण्डपम् । पुष्प-अञ्जलिम् विसृज्य अथ रङ्ग-पीठम् परीत्य च ॥ २७५॥
puṣpa-añjali-dharā bhūtvā praviśet raṅga-maṇḍapam . puṣpa-añjalim visṛjya atha raṅga-pīṭham parītya ca .. 275..
प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ २७६॥
प्रणम्य देवताभ्यः च ततस् अभिनयम् आचरेत् । यत्र अभिनेयम् गीतम् स्यात् तत्र वाद्यम् न योजयेत् ॥ २७६॥
praṇamya devatābhyaḥ ca tatas abhinayam ācaret . yatra abhineyam gītam syāt tatra vādyam na yojayet .. 276..
अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥२७७॥
अङ्गहार-प्रयोगे तु भाण्ड-वाद्यम् विधीयते । समम् रक्तम् विभक्तम् च स्फुटम् शुद्ध-प्रहार-जम् ॥२७७॥
aṅgahāra-prayoge tu bhāṇḍa-vādyam vidhīyate . samam raktam vibhaktam ca sphuṭam śuddha-prahāra-jam ..277..
नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ २७८॥
नृत्त-अङ्ग-ग्राहि वाद्य-ज्ञैः वाद्यम् योज्यम् तु ताण्डवे । प्रयुज्य गीत-वाद्ये तु निष्क्रामेत् नर्तकी ततस् ॥ २७८॥
nṛtta-aṅga-grāhi vādya-jñaiḥ vādyam yojyam tu tāṇḍave . prayujya gīta-vādye tu niṣkrāmet nartakī tatas .. 278..
अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ २७९॥
अनेन एव विधानेन प्रविशन्ति अपराः पृथक् । अन्याः च अनुक्रमेण अथ पिण्डीम् बध्नन्ति याः स्त्रियः ॥ २७९॥
anena eva vidhānena praviśanti aparāḥ pṛthak . anyāḥ ca anukrameṇa atha piṇḍīm badhnanti yāḥ striyaḥ .. 279..
तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ २८०॥
तावत्-पर्यस्तकः कार्यः यावत् पिण्डी न बध्यते । पिण्डीम् बद्ध्वा ततस् सर्वाः निष्क्रामेयुः स्त्रियः तु ताः ॥ २८०॥
tāvat-paryastakaḥ kāryaḥ yāvat piṇḍī na badhyate . piṇḍīm baddhvā tatas sarvāḥ niṣkrāmeyuḥ striyaḥ tu tāḥ .. 280..
पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ २८१॥
पिण्डीबन्धेषु वाद्यम् तु कर्तव्यम् इह वादकैअः । पर्यस्तक-प्रमाणेन चित्र-ओघ-करण-अन्वितम् ॥ २८१॥
piṇḍībandheṣu vādyam tu kartavyam iha vādakaiaḥ . paryastaka-pramāṇena citra-ogha-karaṇa-anvitam .. 281..
तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ २८२॥
तत्र उपवाहनम् भूयस् कार्यम् पूर्ववत् एव हि । ततस् च आसारितम् भूयस् गायनम् तु प्रयोजयेत् ॥ २८२॥
tatra upavāhanam bhūyas kāryam pūrvavat eva hi . tatas ca āsāritam bhūyas gāyanam tu prayojayet .. 282..
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ २८३॥
पूर्वेण एव विधानेन प्रविशेत् च अपि नर्तकी । गीतक-अर्थम् तु अभिनयेत् द्वितीय-आसारितस्य तु ॥ २८३॥
pūrveṇa eva vidhānena praviśet ca api nartakī . gītaka-artham tu abhinayet dvitīya-āsāritasya tu .. 283..
तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ २८४॥
तत् एव च पुनर् वस्तु नृत्तेन अपि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेत् नर्तकी ततस् ॥ २८४॥
tat eva ca punar vastu nṛttena api pradarśayet . āsārite samāpte tu niṣkrāmet nartakī tatas .. 284..
पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ २८५॥
पूर्ववत् प्रविशन्ति अन्याः प्रयोगः स्यात् सः एव हि । एवम् पदे पदे कार्यः विधिः आसारितस्य तु ॥ २८५॥
pūrvavat praviśanti anyāḥ prayogaḥ syāt saḥ eva hi . evam pade pade kāryaḥ vidhiḥ āsāritasya tu .. 285..
भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ २८६॥
भाण्ड-वाद्य-कृते च एव तथा गान-कृते अपि च । एका तु प्रथमम् योज्या द्वे द्वितीयम् तथा एव च ॥ २८६॥
bhāṇḍa-vādya-kṛte ca eva tathā gāna-kṛte api ca . ekā tu prathamam yojyā dve dvitīyam tathā eva ca .. 286..
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥
तिस्रः वः तु तृतीयम् तु चतस्रः तु चतुर्थकम् । पिण्डीनाम् विधयः च एव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥
tisraḥ vaḥ tu tṛtīyam tu catasraḥ tu caturthakam . piṇḍīnām vidhayaḥ ca eva catvāraḥ samprakīrtitāḥ .. 287..
पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ २८८॥
पिण्डी शृङ्खलिका च एव लताबन्धः अथ भेद्यकः । पिण्डीबन्धः तु पिण्ड-त्वात् गुल्मः शृङ्खलिका भवेत् ॥ २८८॥
piṇḍī śṛṅkhalikā ca eva latābandhaḥ atha bhedyakaḥ . piṇḍībandhaḥ tu piṇḍa-tvāt gulmaḥ śṛṅkhalikā bhavet .. 288..
जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ २८९॥
जालोपनद्धा च लता स नृत्तः भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लय-अन्तरे ॥ २८९॥
jālopanaddhā ca latā sa nṛttaḥ bhedyakaḥ smṛtaḥ . piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu laya-antare .. 289..
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ २९०॥
मध्यमे च लता-बन्धः ज्येष्ठे च एव अथ भेद्यकः । पिण्डीनाम् विविधा योनिः यन्त्रम् भद्रासनम् तथा ॥ २९०॥
madhyame ca latā-bandhaḥ jyeṣṭhe ca eva atha bhedyakaḥ . piṇḍīnām vividhā yoniḥ yantram bhadrāsanam tathā .. 290..
शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ २९१॥
शिक्षा-योगः तथा च एव प्रयोक्तव्यः प्रयोक्तृभिः । एवम् प्रयोगः कर्तव्यः वर्धमाने तपोधनाः ॥ २९१॥
śikṣā-yogaḥ tathā ca eva prayoktavyaḥ prayoktṛbhiḥ . evam prayogaḥ kartavyaḥ vardhamāne tapodhanāḥ .. 291..
गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ २९२॥
गीतानाम् छन्दकानाम् च भूयस् वक्ष्यामि अहम् विधिम् । यानि वस्तुनिबद्धानि यानि च अङ्गिकृतानि तु ॥ २९२॥
gītānām chandakānām ca bhūyas vakṣyāmi aham vidhim . yāni vastunibaddhāni yāni ca aṅgikṛtāni tu .. 292..
गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥
गीतानि तेषाम् वक्ष्यामि प्रयोगम् नृत्त-वाद्ययोः । तत्र अवतरणम् कार्यम् नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥
gītāni teṣām vakṣyāmi prayogam nṛtta-vādyayoḥ . tatra avataraṇam kāryam nartakyāḥ sārvabhāṇḍikam .. 293..
क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ २९४
क्षेप-प्रतिक्षेप-कृतम् भाण्ड-उपोहन-संस्कृतम् । प्रथमम् तु अभिनेयम् स्यत्-गीतके सर्ववस्तुकम् ॥ २९४
kṣepa-pratikṣepa-kṛtam bhāṇḍa-upohana-saṃskṛtam . prathamam tu abhineyam syat-gītake sarvavastukam .. 294
तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ २९५॥
तत् एव च पुनर् वस्तु । यः विधिः पूर्वम् उक्तः तु नृत्त-अभिनय-वादिते ॥ २९५॥
tat eva ca punar vastu . yaḥ vidhiḥ pūrvam uktaḥ tu nṛtta-abhinaya-vādite .. 295..
आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ २९६॥
आसारित-विधौ स स्यात् गीतानाम् वस्तुकेषु अपि । एवम् वस्तुनिबन्धानाम् गीतकानाम् विधिः स्मृतः ॥ २९६॥
āsārita-vidhau sa syāt gītānām vastukeṣu api . evam vastunibandhānām gītakānām vidhiḥ smṛtaḥ .. 296..
शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ २९७॥
शृणुत अङ्ग-निबद्धानाम् गीतानाम् अपि लक्षणम् । यः एव वस्तुक-विधिः नृत्त-अभिनय-वादिते ॥ २९७॥
śṛṇuta aṅga-nibaddhānām gītānām api lakṣaṇam . yaḥ eva vastuka-vidhiḥ nṛtta-abhinaya-vādite .. 297..
तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ २९८॥
तम् एव अङ्ग-निबद्धेषु छन्दकेषु अपि योजयेत् । वाद्यम् गुरु-अक्षर-कृतम् तथा अल्प-अक्षरम् एव च ॥ २९८॥
tam eva aṅga-nibaddheṣu chandakeṣu api yojayet . vādyam guru-akṣara-kṛtam tathā alpa-akṣaram eva ca .. 298..
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ २९९॥
मुखे स उपोहने कुर्यात् वर्णानाम् विप्रकर्षतः । यदा गीति-वशात् अङ्गम् भूयस् भूयस् निवर्तते ॥ २९९॥
mukhe sa upohane kuryāt varṇānām viprakarṣataḥ . yadā gīti-vaśāt aṅgam bhūyas bhūyas nivartate .. 299..
तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ३००॥
तत्र आद्यम् अभिनेयम् स्यात् शेषम् नृत्तेन योजयेत् । यदा गीति-वशात् अङ्गम् भूयस् भूयस् निवर्तते ॥ ३००॥
tatra ādyam abhineyam syāt śeṣam nṛttena yojayet . yadā gīti-vaśāt aṅgam bhūyas bhūyas nivartate .. 300..
त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ३०१॥
त्रिपाणि-लय-संयुक्तम् तत्र वाद्यम् प्रयोजयेत् । यथा लयः तथा वाद्यम् कर्तव्यम् इह वादकैः ॥ ३०१॥
tripāṇi-laya-saṃyuktam tatra vādyam prayojayet . yathā layaḥ tathā vādyam kartavyam iha vādakaiḥ .. 301..
[ ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं (तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ॥ अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ॥]
[ ततम् च अनुगतम् च अपि ओघम् च करण-अन्वितम् । स्थिरे तत्त्वम् (प्रयोक्तव्यम् मध्ये च अनुगतम् भवेत् ॥ भूयस् च ओघः प्रयोक्तव्यः तु एष वाद्य-गतः विधिः । छन्दोगीतकम् आसाद्य तु अङ्गानि परिवर्तयेत् ॥ एष कार्यः विधिः नित्यम् नृत्त-अभिनय-वादिते । यानि वस्तु-निबद्धानि तेषाम् अन्ते ग्रहः भवेत् ॥ अङ्गानाम् तु परावृत्तौ आदौ एव ग्रहः मतः ॥]
[ tatam ca anugatam ca api ogham ca karaṇa-anvitam . sthire tattvam (prayoktavyam madhye ca anugatam bhavet .. bhūyas ca oghaḥ prayoktavyaḥ tu eṣa vādya-gataḥ vidhiḥ . chandogītakam āsādya tu aṅgāni parivartayet .. eṣa kāryaḥ vidhiḥ nityam nṛtta-abhinaya-vādite . yāni vastu-nibaddhāni teṣām ante grahaḥ bhavet .. aṅgānām tu parāvṛttau ādau eva grahaḥ mataḥ ..]
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ३०२॥
एवम् एष विधिः कार्यः गीतेषु आसारितेषु अपि । देव-स्तुति-आश्रयम् हि एतत् सुकुमारम् निबोधत ॥ ३०२॥
evam eṣa vidhiḥ kāryaḥ gīteṣu āsāriteṣu api . deva-stuti-āśrayam hi etat sukumāram nibodhata .. 302..
स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ ३०३॥
स्त्रीपुंसयोः तु संलापः यः तु काम-समुद्भवः । तत् ज्ञेयम् सुकुमारम् हि शृङ्गार-रस-सम्भवम् ॥ ३०३॥
strīpuṃsayoḥ tu saṃlāpaḥ yaḥ tu kāma-samudbhavaḥ . tat jñeyam sukumāram hi śṛṅgāra-rasa-sambhavam .. 303..
यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ ३०४॥
यस्याम् यस्याम् अवस्थायाम् नृत्तम् योज्यम् प्रयोक्तृभिः । तत् सर्वम् सम्प्रवक्ष्यामि तत् च मे शृणुत द्विजाः ॥ ३०४॥
yasyām yasyām avasthāyām nṛttam yojyam prayoktṛbhiḥ . tat sarvam sampravakṣyāmi tat ca me śṛṇuta dvijāḥ .. 304..
अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ३०५॥
अङ्ग-वस्तु-निवृत्तौ तु तथा वर्ण-निवृत्तिषु । तथा च अभुदय-स्थाने नृत्तम् तद्-ज्ञः प्रयोजयेत् ॥ ३०५॥
aṅga-vastu-nivṛttau tu tathā varṇa-nivṛttiṣu . tathā ca abhudaya-sthāne nṛttam tad-jñaḥ prayojayet .. 305..
यत्तु सन्दृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ३०६॥
यत् तु सन् दृश्यते किञ्चिद् दम्पत्योः मदन-आश्रयम् । नृत्तम् तत्र प्रयोक्तव्यम् प्रहर्ष-अर्थ-गुण-उद्भवम् ॥ ३०६॥
yat tu san dṛśyate kiñcid dampatyoḥ madana-āśrayam . nṛttam tatra prayoktavyam praharṣa-artha-guṇa-udbhavam .. 306..
यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसम्बद्धं नृत्तं तत्रापि चेष्यते ॥ ३०७॥
यत्र सन्निहिते कान्ते ऋतु-काल-आदि-दर्शनम् । गीतक-अर्थ-अभिसम्बद्धम् नृत्तम् तत्र अपि च इष्यते ॥ ३०७॥
yatra sannihite kānte ṛtu-kāla-ādi-darśanam . gītaka-artha-abhisambaddham nṛttam tatra api ca iṣyate .. 307..
खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥३०८॥
विप्रलब्धा वा कलह-अन्तरिता अपि वा । यस्मिन् अङ्गे तु युवतिः न नृत्तम् तत्र न योजयेत् ॥३०८॥
vipralabdhā vā kalaha-antaritā api vā . yasmin aṅge tu yuvatiḥ na nṛttam tatra na yojayet ..308..
सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ३०९॥
सखी-प्रवृत्ते संलापे तथा असन्निहिते प्रिये । न हि नृत्तम् प्रयोक्तव्यम् यस्याः न प्रोषितः प्रियः ॥ ३०९॥
sakhī-pravṛtte saṃlāpe tathā asannihite priye . na hi nṛttam prayoktavyam yasyāḥ na proṣitaḥ priyaḥ .. 309..
[ दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासम्बद्धं न नृत्तं तत्र योजयेत् ॥]
[ दूती-आश्रयम् यदा तु स्यात् ऋतु-काल-आदि दर्शनम् । औत्सुक्य-चिन्ता-सम्बद्धम् न नृत्तम् तत्र योजयेत् ॥]
[ dūtī-āśrayam yadā tu syāt ṛtu-kāla-ādi darśanam . autsukya-cintā-sambaddham na nṛttam tatra yojayet ..]
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ३१०॥
यस्मिन् अङ्गे प्रसादम् तु गृह्नीयात् नायिका क्रमात् । ततस् प्रभृति नृत्तम् तु शेषेषु अङ्गेषु योजयेत् ॥ ३१०॥
yasmin aṅge prasādam tu gṛhnīyāt nāyikā kramāt . tatas prabhṛti nṛttam tu śeṣeṣu aṅgeṣu yojayet .. 310..
देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥३११॥
देव-स्तुति-आश्रय-कृतम् यत् अङ्गम् तु भवेत् अथ । माहेश्वरैः अङ्गहारैः उद्धतैः तत् प्रयोजयेत् ॥३११॥
deva-stuti-āśraya-kṛtam yat aṅgam tu bhavet atha . māheśvaraiḥ aṅgahāraiḥ uddhataiḥ tat prayojayet ..311..
यत्तु शृङ्गारसम्बद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ३१२॥
यत् तु शृङ्गार-सम्बद्धम् गानम् स्त्री-पुरुष-आश्रयम् । देवी-कृतैः अङ्गहारैः ललितैः तत् प्रयोजयेत् ॥ ३१२॥
yat tu śṛṅgāra-sambaddham gānam strī-puruṣa-āśrayam . devī-kṛtaiḥ aṅgahāraiḥ lalitaiḥ tat prayojayet .. 312..
चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ३१३॥
चतुष्पदाः नर्कुटके खञ्जके परिगीतके । विधानम् सम्प्रवक्ष्यामि भाण्ड-वाद्य-विधिम् प्रति ॥ ३१३॥
catuṣpadāḥ narkuṭake khañjake parigītake . vidhānam sampravakṣyāmi bhāṇḍa-vādya-vidhim prati .. 313..
खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ३१४॥
तु । पाद-अन्ते सन्निपाते तु तस्याः भाण्डग्रहः भवेत् ॥ ३१४॥
tu . pāda-ante sannipāte tu tasyāḥ bhāṇḍagrahaḥ bhavet .. 314..
या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥३१५॥
या ध्रुवा छन्दसा यक्ता सम-पादा सम-अक्षरा । तस्याः पाद-अवसाने तु प्रदेशिन्याः ग्रहः भवेत् ॥३१५॥
yā dhruvā chandasā yaktā sama-pādā sama-akṣarā . tasyāḥ pāda-avasāne tu pradeśinyāḥ grahaḥ bhavet ..315..
कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥३१६॥
कृत्वा एकम् परिवर्तम् तु गानस्य अभिनयस्य च । पुनर् पाद-निवृत्तिम् तु भाण्ड-वाद्येन योजयेत् ॥३१६॥
kṛtvā ekam parivartam tu gānasya abhinayasya ca . punar pāda-nivṛttim tu bhāṇḍa-vādyena yojayet ..316..
अऽङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ३१७॥
अ अङ्ग-वस्तु-निवृतौ तु वर्ण-अन्तर-निवृत्तिषु । तथा उपस्थापने च एव भाण्ड-वाद्यम् प्रयोजयेत् ॥ ३१७॥
a aṅga-vastu-nivṛtau tu varṇa-antara-nivṛttiṣu . tathā upasthāpane ca eva bhāṇḍa-vādyam prayojayet .. 317..
येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८
ये अपि च अन्तर-मार्गाः स्युः तन्त्रि-वाच्-करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८
ye api ca antara-mārgāḥ syuḥ tantri-vāc-karaṇaiḥ kṛtāḥ . teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave .. 318
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३१९॥
महेश्वरस्य चरितम् यः इदम् सम्प्रयोजयेत् । सर्व-पाप-विशुद्ध-आत्मा शिव-लोकम् स गच्छति ॥ ३१९॥
maheśvarasya caritam yaḥ idam samprayojayet . sarva-pāpa-viśuddha-ātmā śiva-lokam sa gacchati .. 319..
एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३२०॥
एवम् एष विधिः(र्दृष्टः ताण्डवस्य प्रयोगतः । भूयस् किम् कथ्यताम् अन्यत् नाट्य-वेद-विधिम् प्रति ॥ ३२०॥
evam eṣa vidhiḥ(rdṛṣṭaḥ tāṇḍavasya prayogataḥ . bhūyas kim kathyatām anyat nāṭya-veda-vidhim prati .. 320..
॥ नाट्यशास्त्रम् अध्याय १४ ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ चतुर्दशोऽध्यायः
अथ चतुर्दशः अध्यायः
atha caturdaśaḥ adhyāyaḥ
यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ १॥
यः वाच्-अभिनयः प्रोक्तः मया पूर्वम् द्विजोत्तमाः । लक्षणम् तस्य वक्ष्यामि स्वर-व्यञ्जन-सम्भवम् ॥ १॥
yaḥ vāc-abhinayaḥ proktaḥ mayā pūrvam dvijottamāḥ . lakṣaṇam tasya vakṣyāmi svara-vyañjana-sambhavam .. 1..
वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ २॥
वाचि यत्नः तु कर्तव्यः नाट्यस्य इयम् तनुः स्मृता । अङ्ग-नेपथ्य-सत्त्वानि वाक्य-अर्थम् व्यञ्जयन्ति हि ॥ २॥
vāci yatnaḥ tu kartavyaḥ nāṭyasya iyam tanuḥ smṛtā . aṅga-nepathya-sattvāni vākya-artham vyañjayanti hi .. 2..
वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ ३॥
वाच्-मयानि इह शास्त्राणि वाच्-निष्ठानि तथा एव च । तस्मात् वाचः परम् न अस्ति वाच् हि सर्वस्य कारणम् ॥ ३॥
vāc-mayāni iha śāstrāṇi vāc-niṣṭhāni tathā eva ca . tasmāt vācaḥ param na asti vāc hi sarvasya kāraṇam .. 3..
आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ ४॥
आगम-नाम-आख्यात-निपात-उपसर्ग-समास-तद्धितैः युक्तः । सन्धि-वचन-विभक्ति-उपग्रह-नियुक्तः वाचिक-अभिनयः ॥ ४॥
āgama-nāma-ākhyāta-nipāta-upasarga-samāsa-taddhitaiḥ yuktaḥ . sandhi-vacana-vibhakti-upagraha-niyuktaḥ vācika-abhinayaḥ .. 4..
द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ ५॥
द्विविधम् हि स्मृतम् पाठ्यम् संस्कृतम् प्राकृतम् तथा । तयोः विभागम् वक्ष्यामि यथावत् अनुपूर्वशस् ॥ ५॥
dvividham hi smṛtam pāṭhyam saṃskṛtam prākṛtam tathā . tayoḥ vibhāgam vakṣyāmi yathāvat anupūrvaśas .. 5..
व्यञ्जनानि स्वराश्चैव सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ ६॥
व्यञ्जनानि स्वराः च एव सन्धयः अथ विभक्तयः । नाम-आख्यात-उपसर्गाः च निपाताः तद्धिताः तथा ॥ ६॥
vyañjanāni svarāḥ ca eva sandhayaḥ atha vibhaktayaḥ . nāma-ākhyāta-upasargāḥ ca nipātāḥ taddhitāḥ tathā .. 6..
एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ ७॥
एतैः अङ्गैः समासैः च नाना धातु-समाश्रयम् । विज्ञेयम् संस्कृतम् पाठ्यम् प्रयोगञ्च च निबोधत ॥ ७॥
etaiḥ aṅgaiḥ samāsaiḥ ca nānā dhātu-samāśrayam . vijñeyam saṃskṛtam pāṭhyam prayogañca ca nibodhata .. 7..
अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ ८॥
अकार-आद्याः स्वराः ज्ञेयाः औकार-अन्ताः चतुर्दश । हकार-अन्तानि क-आदीनि व्यञ्जनानि विदुः बुधाः ॥ ८॥
akāra-ādyāḥ svarāḥ jñeyāḥ aukāra-antāḥ caturdaśa . hakāra-antāni ka-ādīni vyañjanāni viduḥ budhāḥ .. 8..
तत्र स्वराश्चतुर्दश - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ इति स्वरा ज्ञेयाः ॥
तत्र स्वराः चतुर्दश अ आ इ ई उ ऊ ऋ ऌ ऌ ए ऐ ओ औ इति स्वराः ज्ञेयाः ॥
tatra svarāḥ caturdaśa a ā i ī u ū ṛ ḷ ḷ e ai o au iti svarāḥ jñeyāḥ ..
कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः ।
क-आदीनि व्यञ्जनानि यथा क-ख-ग-घ-ङ-च छ-ज-झ ञ ट-ठ-ड-ढ-ण-त-थ-द-ध-न प-फ-ब-भ-म-य-र-ल-व श-ष-स-ह इति व्यञ्जन-वर्गः ।
ka-ādīni vyañjanāni yathā ka-kha-ga-gha-ṅa-ca cha-ja-jha ña ṭa-ṭha-ḍa-ḍha-ṇa-ta-tha-da-dha-na pa-pha-ba-bha-ma-ya-ra-la-va śa-ṣa-sa-ha iti vyañjana-vargaḥ .
वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः सम्प्रकीर्तिताः ॥ ९॥
वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्राक् अवस्थितौ । अघोषाः इति ये तु अन्ये स घोषाः सम्प्रकीर्तिताः ॥ ९॥
varge varge samākhyātau dvau varṇau prāk avasthitau . aghoṣāḥ iti ye tu anye sa ghoṣāḥ samprakīrtitāḥ .. 9..
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १०॥
अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा । जिह्वा-मूलः च दन्ताः च नासिका-उष्ठौ च तालु च ॥ १०॥
aṣṭau sthānāni varṇānām uraḥ kaṇṭhaḥ śiraḥ tathā . jihvā-mūlaḥ ca dantāḥ ca nāsikā-uṣṭhau ca tālu ca .. 10..
अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । ^प ^फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । ^क ^ख इति कखाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयोऽपरे । अघोषा घोषवन्तस्तु ततोऽन्ये परिकीर्तिताः ॥ ११॥
अ कु-ह-विसर्जनीयाः कण्ठ्याः । इ चु य-शास्तालव्याः । ऋ टु-र-षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीयाः ओष्ठ्याः । इति प्राक् उपध्मानीयः । इति । ए ऐ कण्ठ्य-तालव्यौ । ओ औ कण्ठ्य-ओष्ठ्यौ । वकारः दन्ती-ओष्ठ्यः । ङ-ञ-ण-न-मा अनुनासिकाः । विसर्जनीयः औरस्यः इति एके । सर्व-वर्णानाम् मुखम् स्थानम् इति अपरे । द्वौ द्वौ वर्णौ तु वर्ग-आद्यौ श-ष-साः च त्रयः अपरे । अघोषाः घोषवन्तः तु ततस् अन्ये परिकीर्तिताः ॥ ११॥
a ku-ha-visarjanīyāḥ kaṇṭhyāḥ . i cu ya-śāstālavyāḥ . ṛ ṭu-ra-ṣā mūrdhanyāḥ . ḷ tu la sā dantyāḥ . u pūpadhmānīyāḥ oṣṭhyāḥ . iti prāk upadhmānīyaḥ . iti . e ai kaṇṭhya-tālavyau . o au kaṇṭhya-oṣṭhyau . vakāraḥ dantī-oṣṭhyaḥ . ṅa-ña-ṇa-na-mā anunāsikāḥ . visarjanīyaḥ aurasyaḥ iti eke . sarva-varṇānām mukham sthānam iti apare . dvau dvau varṇau tu varga-ādyau śa-ṣa-sāḥ ca trayaḥ apare . aghoṣāḥ ghoṣavantaḥ tu tatas anye parikīrtitāḥ .. 11..
एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ १२॥
एते घोष-अघोषाः कण्ठ्य-ओष्ठ्याः दन्त्य-जिह्वा-अनुनासिक्याः । ऊष्माणः तालव्याः विसर्जनीयाः च बोद्धव्याः ॥ १२॥
ete ghoṣa-aghoṣāḥ kaṇṭhya-oṣṭhyāḥ dantya-jihvā-anunāsikyāḥ . ūṣmāṇaḥ tālavyāḥ visarjanīyāḥ ca boddhavyāḥ .. 12..
गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ १३॥
गघङ-जझञ-डढण-दधन-बभम-तथा एव यरलवाः मताः घोषाः । क-ख-च-छ-ट-ठ-त-थ-प-फ इति वर्गेषु अ घोषाः स्युः ॥ १३॥
gaghaṅa-jajhaña-ḍaḍhaṇa-dadhana-babhama-tathā eva yaralavāḥ matāḥ ghoṣāḥ . ka-kha-ca-cha-ṭa-ṭha-ta-tha-pa-pha iti vargeṣu a ghoṣāḥ syuḥ .. 13..
कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ १४॥
क-ख-ग-घङाः कण्ठ-स्थाः तालु-स्थानाः तु च-छ-ज-झञाः । मूर्धन्याः तथ दधनाः च एव दन्त-स्थाः ॥ १४॥
ka-kha-ga-ghaṅāḥ kaṇṭha-sthāḥ tālu-sthānāḥ tu ca-cha-ja-jhañāḥ . mūrdhanyāḥ tatha dadhanāḥ ca eva danta-sthāḥ .. 14..
पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ १५॥
पफ-बभ-माः तु ओष्ठ्याः स्युः दन्त्याः ऌ-लसाः अहौ च कण्ठ-स्थौ । तालव्याः स्युः ऋ-टु-र-षाः मूर्ध-स्थिताः ज्ञेयाः ॥ १५॥
papha-babha-māḥ tu oṣṭhyāḥ syuḥ dantyāḥ ḷ-lasāḥ ahau ca kaṇṭha-sthau . tālavyāḥ syuḥ ṛ-ṭu-ra-ṣāḥ mūrdha-sthitāḥ jñeyāḥ .. 15..
ऌॡ दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ १६॥
ऌऌ दन्त्यौ ओऔ कण्ठ-उष्ठ्यौ ए अ ए कारौ च कण्ठ-तालव्यौ । कण्ठ्यः विसर्जनीयः जिह्वा-मूलम् उद्भवः क-खयोः ॥ १६॥
ḷḷ dantyau oau kaṇṭha-uṣṭhyau e a e kārau ca kaṇṭha-tālavyau . kaṇṭhyaḥ visarjanīyaḥ jihvā-mūlam udbhavaḥ ka-khayoḥ .. 16..
पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ १७॥
भवेत् उकारः स्वरः विवृतः । स्पृष्टाः क-आद्याः म-अन्ताः श-ष-सह काराः तथा विवृताः ॥ १७॥
bhavet ukāraḥ svaraḥ vivṛtaḥ . spṛṣṭāḥ ka-ādyāḥ ma-antāḥ śa-ṣa-saha kārāḥ tathā vivṛtāḥ .. 17..
अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ १८॥
अन्तस्थाः संवृत-जाः ङञ्-अण-नमाः नासिका-उद्भवाः ज्ञेयाः । ऊष्माणः च श-ष-सहाः य-र-ल-व-वर्णाः तथा एव च अन्तःस्थाः ॥ १८॥
antasthāḥ saṃvṛta-jāḥ ṅañ-aṇa-namāḥ nāsikā-udbhavāḥ jñeyāḥ . ūṣmāṇaḥ ca śa-ṣa-sahāḥ ya-ra-la-va-varṇāḥ tathā eva ca antaḥsthāḥ .. 18..
जिह्वामूलीयः ^कः ^प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ १९॥
जिह्वामूलीयः ज्ञेयः । क-च-ट-त-पा स्वरिताः स्युः ख-छ-ठ-थ-फा स्युः सदा क्रम्याः ॥ १९॥
jihvāmūlīyaḥ jñeyaḥ . ka-ca-ṭa-ta-pā svaritāḥ syuḥ kha-cha-ṭha-tha-phā syuḥ sadā kramyāḥ .. 19..
कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसम्प्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ २०॥
विद्यात् घ-झ-ढ-धभान् पाठ्य-सम्प्रयोगे तु । वेद्यः विसर्जनीयः जिह्वा-स्थाने स्थितः वर्णः ॥ २०॥
vidyāt gha-jha-ḍha-dhabhān pāṭhya-samprayoge tu . vedyaḥ visarjanīyaḥ jihvā-sthāne sthitaḥ varṇaḥ .. 20..
एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वराँस्तु भूयः प्रवक्ष्यामि ॥ २१॥
एते व्यञ्जन-वर्णाः समासतस् संज्ञया मया कथिताः । शब्द-विषय-प्रयोगे स्वरान् तु भूयस् प्रवक्ष्यामि ॥ २१॥
ete vyañjana-varṇāḥ samāsatas saṃjñayā mayā kathitāḥ . śabda-viṣaya-prayoge svarān tu bhūyas pravakṣyāmi .. 21..
यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञोऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घोऽवगन्तव्यः ॥ २२॥
यस्मिन् स्थाने स समः विज्ञेयः यः सवर्ण-संज्ञः असौ । ये इमे स्वराः चतुर्दश निर्दिष्टाः तत्र वै दश समानाः । पूर्वः ह्रस्वः तेषाम् परः च दीर्घः अवगन्तव्यः ॥ २२॥
yasmin sthāne sa samaḥ vijñeyaḥ yaḥ savarṇa-saṃjñaḥ asau . ye ime svarāḥ caturdaśa nirdiṣṭāḥ tatra vai daśa samānāḥ . pūrvaḥ hrasvaḥ teṣām paraḥ ca dīrghaḥ avagantavyaḥ .. 22..
इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ २३॥
इत्थम् व्यञ्जन-योगैः स्वरैः च स आख्यात-नामपद-विहितैः । काव्य-निबन्धाः च स्युः धातु-निपात-उपसर्गाः तु ॥ २३॥
ittham vyañjana-yogaiḥ svaraiḥ ca sa ākhyāta-nāmapada-vihitaiḥ . kāvya-nibandhāḥ ca syuḥ dhātu-nipāta-upasargāḥ tu .. 23..
एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ २४॥
एभिः व्यञ्जन-वर्गैः नाम-आख्यात-उपसर्ग-निपातैः । तद्धित-सन्धि-विभक्तिभिः अधिष्ठितः शब्दः इति उक्तः ॥ २४॥
ebhiḥ vyañjana-vargaiḥ nāma-ākhyāta-upasarga-nipātaiḥ . taddhita-sandhi-vibhaktibhiḥ adhiṣṭhitaḥ śabdaḥ iti uktaḥ .. 24..
पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात् सम्प्रवक्ष्यामि ॥ २५॥
पूर्व-आचार्यैः उक्तम् शब्दानाम् लक्षणम् समास-योगेन । विस्तरशः पुनर् एव प्रकरण-वशात् सम्प्रवक्ष्यामि ॥ २५॥
pūrva-ācāryaiḥ uktam śabdānām lakṣaṇam samāsa-yogena . vistaraśaḥ punar eva prakaraṇa-vaśāt sampravakṣyāmi .. 25..
अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ २६॥
अर्थ-प्रधानम् नाम स्यात् आख्यातम् तु क्रिया-कृतम् । द्योतयन्ति उपसर्गाः तु विशेषम् भाव-संश्रयम् ॥ २६॥
artha-pradhānam nāma syāt ākhyātam tu kriyā-kṛtam . dyotayanti upasargāḥ tu viśeṣam bhāva-saṃśrayam .. 26..
तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसम्प्रदानापदानप्रभृतिसंज्ञाभिः ॥ २७॥
तत् प्राहुः सप्तविधम् षष्-कारक-संयुतम् प्रथित-साध्यम् । निर्देश-सम्प्रदान-अपदान-प्रभृति-संज्ञाभिः ॥ २७॥
tat prāhuḥ saptavidham ṣaṣ-kāraka-saṃyutam prathita-sādhyam . nirdeśa-sampradāna-apadāna-prabhṛti-saṃjñābhiḥ .. 27..
नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमेऽच्युते ॥ २८॥
नाम-आख्यात-अर्थ-विषयम् विशेषम् द्योतयन्ति ते । पृथक् तत्र उपसर्गेभ्यः निपाताः नियमे अच्युते ॥ २८॥
nāma-ākhyāta-artha-viṣayam viśeṣam dyotayanti te . pṛthak tatra upasargebhyaḥ nipātāḥ niyame acyute .. 28..
सम्प्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ २९॥
सम्प्रति अतीत-काल-क्रिया-आदि-संयोजितम् प्रथित-साध्यम् । वचनम् न अगत-युक्तम् सु सदृश-संयोजन-विभक्तम् ॥ २९॥
samprati atīta-kāla-kriyā-ādi-saṃyojitam prathita-sādhyam . vacanam na agata-yuktam su sadṛśa-saṃyojana-vibhaktam .. 29..
पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ ३०॥
पञ्च-शत-धातु-युक्तम् पञ्चगुणम् पञ्चविधम् इदम् वा अपि । स्व-आदि-अधिकार-गुणैः अर्थ-विशेषैः विभूषित-न्यासम् । प्रातिपदिक-अर्थ-लिङ्गैः युक्तम् पञ्चविधम् इदम् ज्ञेयम् ॥ ३०॥
pañca-śata-dhātu-yuktam pañcaguṇam pañcavidham idam vā api . sva-ādi-adhikāra-guṇaiḥ artha-viśeṣaiḥ vibhūṣita-nyāsam . prātipadika-artha-liṅgaiḥ yuktam pañcavidham idam jñeyam .. 30..
आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ ३१॥
आख्यातम् पाठ्य-कृतम् ज्ञेयम् नाना अर्थ-आश्रय-विशेषम् । वचनम् नाम-समेतम् पुरुष-विभक्तम् तत् आख्यातम् ॥ ३१॥
ākhyātam pāṭhya-kṛtam jñeyam nānā artha-āśraya-viśeṣam . vacanam nāma-sametam puruṣa-vibhaktam tat ākhyātam .. 31..
प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रेऽस्मिन् ॥ ३२॥
प्रातिपदिक-अर्थ-युक्तान् धात्वर्थान् उपसृजन्ति ये स्व-अर्थैः । उपसर्गाः हि उपदिष्टाः तस्मात् संस्कार-शास्त्रे अस्मिन् ॥ ३२॥
prātipadika-artha-yuktān dhātvarthān upasṛjanti ye sva-arthaiḥ . upasargāḥ hi upadiṣṭāḥ tasmāt saṃskāra-śāstre asmin .. 32..
प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ ३३॥
प्रातिपदिक-अर्थ-योगात् धातु-छन्दः-निरुक्त-युक्त्या च । यस्मात् निपतन्ति पदे तस्मात् प्रोक्ताः निपाताः तु ॥ ३३॥
prātipadika-artha-yogāt dhātu-chandaḥ-nirukta-yuktyā ca . yasmāt nipatanti pade tasmāt proktāḥ nipātāḥ tu .. 33..
प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ ३४॥
प्रत्यय-विभाग-जनिताः प्रकर्ष-संयोग-सत्व-वचनैः च । यस्मात् पूरयते अर्थान् प्रत्ययः उक्तः ततस् तस्मात् ॥ ३४॥
pratyaya-vibhāga-janitāḥ prakarṣa-saṃyoga-satva-vacanaiḥ ca . yasmāt pūrayate arthān pratyayaḥ uktaḥ tatas tasmāt .. 34..
लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयतेऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ ३५॥
लोके प्रकृति-प्रत्यय-विभाग-संयोग-सत्त्व-वचनैः च । तान् तान् पूरयते अर्थान् तेषु यः तद्धितः तस्मात् ॥ ३५॥
loke prakṛti-pratyaya-vibhāga-saṃyoga-sattva-vacanaiḥ ca . tān tān pūrayate arthān teṣu yaḥ taddhitaḥ tasmāt .. 35..
एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः ॥ ३६॥
एकस्य बहूनाम् वा धातोः लिङ्गस्य वा पदानाम् वा । विभजन्ति अर्थम् यस्मात् विभक्तयः तेन ताः प्रोक्ताः ॥ ३६॥
ekasya bahūnām vā dhātoḥ liṅgasya vā padānām vā . vibhajanti artham yasmāt vibhaktayaḥ tena tāḥ proktāḥ .. 36..
विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः ॥ ३७॥
विशिष्टाः तु स्वराः यत्र व्यञ्जनम् वा अपि योगतः । सन्धीयते पदे यस्मात् तस्मात् सन्धिः प्रकीर्तितः ॥ ३७॥
viśiṣṭāḥ tu svarāḥ yatra vyañjanam vā api yogataḥ . sandhīyate pade yasmāt tasmāt sandhiḥ prakīrtitaḥ .. 37..
वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः ॥ ३८॥
वर्ण-पद-क्रम-सिद्धः पद-एक-योगात् च वर्ण-योगात् च । सन्धीयते च यस्मात् तस्मात् सन्धिः समुद्दिष्टः ॥ ३८॥
varṇa-pada-krama-siddhaḥ pada-eka-yogāt ca varṇa-yogāt ca . sandhīyate ca yasmāt tasmāt sandhiḥ samuddiṣṭaḥ .. 38..
लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासोऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ ३९॥
लुप्त-विभक्तिः नाम्नाम् एक-अर्थम् संहरत्-समासः अपि । तत्पुरुष-आदिक-संज्ञैः निर्दिष्टः षड्विधः विप्राः ॥ ३९॥
lupta-vibhaktiḥ nāmnām eka-artham saṃharat-samāsaḥ api . tatpuruṣa-ādika-saṃjñaiḥ nirdiṣṭaḥ ṣaḍvidhaḥ viprāḥ .. 39..
एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ ४०॥
एभिः शब्द-विधानैः विस्तार-व्यञ्जन-अर्थ-संयुक्तैः । पद-बन्धाः कर्तव्याः निबद्ध-बन्धाः तु चूर्णाः वा ॥ ४०॥
ebhiḥ śabda-vidhānaiḥ vistāra-vyañjana-artha-saṃyuktaiḥ . pada-bandhāḥ kartavyāḥ nibaddha-bandhāḥ tu cūrṇāḥ vā .. 40..
विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ ४१॥
विभक्ति-अन्तम् पदम् ज्ञेयम् निबद्धम् चूर्णम् एव च । तत्र चूर्ण-पदस्य इह सन् निबोधत लक्षणम् ॥ ४१॥
vibhakti-antam padam jñeyam nibaddham cūrṇam eva ca . tatra cūrṇa-padasya iha san nibodhata lakṣaṇam .. 41..
अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ ४२॥
अ निबद्ध-पदम् छन्दः-विधान-अ नियत-अक्षरम् । अर्थ-अपेक्षि अक्षर-स्यूतम् ज्ञेयम् चूर्णपदम् बुधैः ॥ ४२॥
a nibaddha-padam chandaḥ-vidhāna-a niyata-akṣaram . artha-apekṣi akṣara-syūtam jñeyam cūrṇapadam budhaiḥ .. 42..
निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ ४३॥
निबद्ध-अक्षर-संयुक्तम् यति-छेद-समन्वितम् । निबद्धम् तु पदम् ज्ञेयम् प्रमाण-नियत-आत्मकम् ॥ ४३॥
nibaddha-akṣara-saṃyuktam yati-cheda-samanvitam . nibaddham tu padam jñeyam pramāṇa-niyata-ātmakam .. 43..
एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ ४४॥
एवम् नाना अर्थ-संयुक्तैः पादैः वर्ण-विभूषितैः । चतुर्भिः तु भवेत् युक्तम् छन्दः वृत्त-अभिधान-वत् ॥ ४४॥
evam nānā artha-saṃyuktaiḥ pādaiḥ varṇa-vibhūṣitaiḥ . caturbhiḥ tu bhavet yuktam chandaḥ vṛtta-abhidhāna-vat .. 44..
षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि सङ्ख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ ४५॥
षड्विंशतिः स्मृता अन्येभिः पादैः छन्दसि सङ्ख्यया । तथा विषमम् एव च ॥ ४५॥
ṣaḍviṃśatiḥ smṛtā anyebhiḥ pādaiḥ chandasi saṅkhyayā . tathā viṣamam eva ca .. 45..
छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ ४६॥
छन्दः-युक्तम् समासेन त्रिविधम् वृत्तम् इष्यते । नाना वृत्ति-विनिष्पन्ना शब्दस्य एषा तनूः स्मृता ॥ ४६॥
chandaḥ-yuktam samāsena trividham vṛttam iṣyate . nānā vṛtti-viniṣpannā śabdasya eṣā tanūḥ smṛtā .. 46..
छन्दोहीनो न शब्दोऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ ४७॥
छन्दः-हीनः न शब्दः अस्ति न छन्दः शब्द-वर्जितम् । तस्मात् तु उभ्य-संयोगः नाट्यस्य उद्योतकः स्मृतः ॥ ४७॥
chandaḥ-hīnaḥ na śabdaḥ asti na chandaḥ śabda-varjitam . tasmāt tu ubhya-saṃyogaḥ nāṭyasya udyotakaḥ smṛtaḥ .. 47..
एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ ४८॥
एक-अक्षरम् भवेत् उक्तम् अत्युक्तम् द्वि-अक्षरम् भवेत् । मध्यम् त्रि-अक्षरम् इति आहुः प्रतिष्ठा चतुर्-अक्षरा ॥ ४८॥
eka-akṣaram bhavet uktam atyuktam dvi-akṣaram bhavet . madhyam tri-akṣaram iti āhuḥ pratiṣṭhā catur-akṣarā .. 48..
सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ ४९॥
सु प्रतिष्ठाः भवेत् पञ्च गायत्री षष् भवेत् इह । सप्त-अक्षरा भवेत् उष्णिह् अष्ट-अक्षरा अनुष्टुभ् उच्यते ॥ ४९॥
su pratiṣṭhāḥ bhavet pañca gāyatrī ṣaṣ bhavet iha . sapta-akṣarā bhavet uṣṇih aṣṭa-akṣarā anuṣṭubh ucyate .. 49..
नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा ॥ ५०॥
नव-अक्षरा तु बृहती पङ्क्तिः च एव दश-अक्षरा । एकादश-अक्षरा त्रिष्टुभ् जगती द्वादश-अक्षरा ॥ ५०॥
nava-akṣarā tu bṛhatī paṅktiḥ ca eva daśa-akṣarā . ekādaśa-akṣarā triṣṭubh jagatī dvādaśa-akṣarā .. 50..
त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडशाष्टिः प्रकीर्तिता ॥ ५१॥
त्रयोदशा अतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा षोडश-अष्टिः प्रकीर्तिता ॥ ५१॥
trayodaśā atijagatī śakvarī tu caturdaśā . atiśakvarī pañcadaśā ṣoḍaśa-aṣṭiḥ prakīrtitā .. 51..
अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ ५२॥
अत्यष्टिः स्यात् सप्तदशा धृतिः अष्टादश-अक्षरा । एकोनविंशतिः धृतिः कृतिः विंशतिः एव च ॥ ५२॥
atyaṣṭiḥ syāt saptadaśā dhṛtiḥ aṣṭādaśa-akṣarā . ekonaviṃśatiḥ dhṛtiḥ kṛtiḥ viṃśatiḥ eva ca .. 52..
प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च सङ्कृतिः ॥ ५३॥
प्रकृतिः च एकविंशत्या द्वाविंशति-आकृतिः तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च सङ्कृतिः ॥ ५३॥
prakṛtiḥ ca ekaviṃśatyā dvāviṃśati-ākṛtiḥ tathā . vikṛtiḥ syāt trayoviṃśā caturviṃśā ca saṅkṛtiḥ .. 53..
पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतोऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ ५४॥
पञ्चविंशति-अतिकृतिः षड्विंशति-उत्कृतिः भवेत् । अतस् अधिक-अक्षरम् छन्दः मालावृत्तम् तत् इष्यते ॥ ५४॥
pañcaviṃśati-atikṛtiḥ ṣaḍviṃśati-utkṛtiḥ bhavet . atas adhika-akṣaram chandaḥ mālāvṛttam tat iṣyate .. 54..
छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असङ्ख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ ५५॥
छन्दसाम् तु तथा हि एते भेदाः प्रस्तार-योगतः । असङ्ख्येय-प्रमाणानि वृत्तानि आहुः अतस् बुधाः ॥ ५५॥
chandasām tu tathā hi ete bhedāḥ prastāra-yogataḥ . asaṅkhyeya-pramāṇāni vṛttāni āhuḥ atas budhāḥ .. 55..
गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ ५६॥
गायत्री-प्रभृति तु एषाम् प्रमाणम् संविधीयते । प्रयोग-जानि सर्वाणि प्रायशस् न भवन्ति हि ॥ ५६॥
gāyatrī-prabhṛti tu eṣām pramāṇam saṃvidhīyate . prayoga-jāni sarvāṇi prāyaśas na bhavanti hi .. 56..
वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ ५७॥
वृत्तानि च चतुष्षष्टिः गायत्र्याम् कीर्तितानि तु । शतम् विंशतिः अष्टौ च वृत्तानि उष्णिही अथ उच्यते ॥ ५७॥
vṛttāni ca catuṣṣaṣṭiḥ gāyatryām kīrtitāni tu . śatam viṃśatiḥ aṣṭau ca vṛttāni uṣṇihī atha ucyate .. 57..
षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ ५८॥
षट्पञ्चाशत्-शते द्वे च वृत्तानाम् अपि अनुष्टुभि । शतानि पञ्च वृतानाम् बृहत्याम् द्वादश एव च ॥ ५८॥
ṣaṭpañcāśat-śate dve ca vṛttānām api anuṣṭubhi . śatāni pañca vṛtānām bṛhatyām dvādaśa eva ca .. 58..
पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट च ॥ ५९॥
पङ्क्त्याम् सहस्रम् वृत्तानाम् चतुर्विंशतिः एव च । त्रैष्टुभे द्वे सहस्रे च चत्वारिंशत् तथा अष्ट च ॥ ५९॥
paṅktyām sahasram vṛttānām caturviṃśatiḥ eva ca . traiṣṭubhe dve sahasre ca catvāriṃśat tathā aṣṭa ca .. 59..
सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ ६०॥
सहस्राणि अपि चत्वारि नवतिः च षड् उत्तरा । जगत्याम् सम-वर्णानाम् वृत्तानाम् इह सर्वशस् ॥ ६०॥
sahasrāṇi api catvāri navatiḥ ca ṣaḍ uttarā . jagatyām sama-varṇānām vṛttānām iha sarvaśas .. 60..
अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ ६१॥
अष्टौ सहस्राणि शतम् द्वि-अधिका नवतिः पुनर् । जगत्याम् अतिपूर्वायाम् वृत्तानाम् परिमाणतः ॥ ६१॥
aṣṭau sahasrāṇi śatam dvi-adhikā navatiḥ punar . jagatyām atipūrvāyām vṛttānām parimāṇataḥ .. 61..
शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसङ्ख्यया ॥ ६२॥
शतानि त्रीणि अशीतिः च सहस्राणि अपि षोडश । वृत्तानि च एव चत्वारि शक्वर्याः परिसङ्ख्यया ॥ ६२॥
śatāni trīṇi aśītiḥ ca sahasrāṇi api ṣoḍaśa . vṛttāni ca eva catvāri śakvaryāḥ parisaṅkhyayā .. 62..
द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ ६३॥
द्वात्रिंशत् च सहस्राणि सप्त च एव शतानि च । अष्टौ षष्टिः च वृत्तानि हि आश्रयन्ति अतिशक्वरीम् ॥ ६३॥
dvātriṃśat ca sahasrāṇi sapta ca eva śatāni ca . aṣṭau ṣaṣṭiḥ ca vṛttāni hi āśrayanti atiśakvarīm .. 63..
पञ्चषष्टिसहस्राणि सहस्रार्धञ्च सङ्ख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ ६४॥
पञ्च-षष्टि-सहस्राणि सहस्र-अर्धन् च सङ्ख्यया । षट्त्रिंशत् च एव वृत्तानि हि अष्ट्याम् निगदितानि च ॥ ६४॥
pañca-ṣaṣṭi-sahasrāṇi sahasra-ardhan ca saṅkhyayā . ṣaṭtriṃśat ca eva vṛttāni hi aṣṭyām nigaditāni ca .. 64..
एकत्रिंशत्सहस्राणि वृत्तानाञ्च द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ ६५॥
एकत्रिंशत्-सहस्राणि वृत्तानाम् च द्विसप्ततिः । तथा शत-सहस्रन् च छन्दांसि अत्यष्टि-संज्ञिते ॥ ६५॥
ekatriṃśat-sahasrāṇi vṛttānām ca dvisaptatiḥ . tathā śata-sahasran ca chandāṃsi atyaṣṭi-saṃjñite .. 65..
धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ ६६॥
धृत्याम् अपि हि पिण्डेन वृत्तानि आकल्पितानि तु । तद्-ज्ञैः शत-सहस्रे द्वे शतम् एकम् तथा एव च ॥ ६६॥
dhṛtyām api hi piṇḍena vṛttāni ākalpitāni tu . tad-jñaiḥ śata-sahasre dve śatam ekam tathā eva ca .. 66..
द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसङ्ख्याश्रयाणि तु ॥ ६७॥
द्विषष्टिः च सहस्राणि चत्वारिंशत् च योगतः । चत्वारि च एव वृत्तानि सम-सङ्ख्या-आश्रयाणि तु ॥ ६७॥
dviṣaṣṭiḥ ca sahasrāṇi catvāriṃśat ca yogataḥ . catvāri ca eva vṛttāni sama-saṅkhyā-āśrayāṇi tu .. 67..
अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ ६८॥
अतिधृत्याम् सहस्राणि चतुर्विंशतिः एव च । तथा शत-सहस्राणि पञ्च वृत्त-शत-द्वयम् ॥ ६८॥
atidhṛtyām sahasrāṇi caturviṃśatiḥ eva ca . tathā śata-sahasrāṇi pañca vṛtta-śata-dvayam .. 68..
अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि सङ्ख्यया ॥ ६९॥
अष्टाशीतिः च वृत्तानि वृत्त-ज्ञैः कथितानि च । कृतौ शत-सहस्राणि दश प्रोक्तानि सङ्ख्यया ॥ ६९॥
aṣṭāśītiḥ ca vṛttāni vṛtta-jñaiḥ kathitāni ca . kṛtau śata-sahasrāṇi daśa proktāni saṅkhyayā .. 69..
चत्वारिंशत्तथा चाष्टौ सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ ७०॥
चत्वारिंशत् तथा च अष्टौ सहस्राणि शतानि च । पञ्च-षट्सप्ततिः च एव वृत्तानाम् परिमाणतः ॥ ७०॥
catvāriṃśat tathā ca aṣṭau sahasrāṇi śatāni ca . pañca-ṣaṭsaptatiḥ ca eva vṛttānām parimāṇataḥ .. 70..
तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव सङ्ख्यया ॥ ७१॥
तथा शत-सहस्राणाम् प्रकृतौ विंशतिः भवेत् । सप्त वै गदिताः तु अत्र नवतिः च एव सङ्ख्यया ॥ ७१॥
tathā śata-sahasrāṇām prakṛtau viṃśatiḥ bhavet . sapta vai gaditāḥ tu atra navatiḥ ca eva saṅkhyayā .. 71..
सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ ७२॥
सहस्राणि शतम् च एकम् द्विपञ्चाशत् तथा एव च । वृत्तानि परिमाणेन वृत्त-ज्ञैः गदितानि तु ॥ ७२॥
sahasrāṇi śatam ca ekam dvipañcāśat tathā eva ca . vṛttāni parimāṇena vṛtta-jñaiḥ gaditāni tu .. 72..
चत्वारिंशत्तथैकञ्च लक्षाणामथ सङ्ख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ ७३॥
चत्वारिंशत् तथा एकम् च लक्षाणाम् अथ सङ्ख्यया । तथा च इह सहस्राणि नवतिः चतुर्-उत्तरा ॥ ७३॥
catvāriṃśat tathā ekam ca lakṣāṇām atha saṅkhyayā . tathā ca iha sahasrāṇi navatiḥ catur-uttarā .. 73..
शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ ७४॥
शत-त्रयम् समाख्यातम् हि आकृत्याम् चतुर्-उत्तरम् । ज्ञेया शत-सहस्राणाम् अशीतिः त्रि-अधिका बुधैः ॥ ७४॥
śata-trayam samākhyātam hi ākṛtyām catur-uttaram . jñeyā śata-sahasrāṇām aśītiḥ tri-adhikā budhaiḥ .. 74..
अष्टाशीति सहस्राणि वृत्तानां षट् शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ ७५॥
अष्टाशीति सहस्राणि वृत्तानाम् षड् शतानि च । अष्टौ च एव तु वृत्तानि विकृत्याम् गदितानि तु ॥ ७५॥
aṣṭāśīti sahasrāṇi vṛttānām ṣaḍ śatāni ca . aṣṭau ca eva tu vṛttāni vikṛtyām gaditāni tu .. 75..
तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ ७६॥
तथा शत-सहस्राणि सप्तषष्टिः च सप्ततिः । सप्त च एव सहस्राणि षोडशे द्वे शते तथा ॥ ७६॥
tathā śata-sahasrāṇi saptaṣaṣṭiḥ ca saptatiḥ . sapta ca eva sahasrāṇi ṣoḍaśe dve śate tathā .. 76..
कोटिश्चैवेह वृत्तानि सङ्कृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ ७७॥
कोटिः च एवा इह वृत्तानि सङ्कृतौ कथितानि वै । कोटि-त्रयम् च अभिकृत्याम् पञ्चत्रिंशद्भिः अन्वितम् ॥ ७७॥
koṭiḥ ca evā iha vṛttāni saṅkṛtau kathitāni vai . koṭi-trayam ca abhikṛtyām pañcatriṃśadbhiḥ anvitam .. 77..
पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ ७८॥
पञ्चाशद्भिः सहस्रैः च चतुर्भिः अधिकैः तथा । चतुष्टयम् शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ ७८॥
pañcāśadbhiḥ sahasraiḥ ca caturbhiḥ adhikaiḥ tathā . catuṣṭayam śatānām ca dvātriṃśadbhiḥ samanvitam .. 78..
षट् कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ ७९॥
षट् कोटयः तथा उत्कृत्याम् लक्षाणाम् एकसप्ततिः । चतुष्षष्टि-शतानि अष्टौ सहस्राणि अष्ट च एव हि ॥ ७९॥
ṣaṭ koṭayaḥ tathā utkṛtyām lakṣāṇām ekasaptatiḥ . catuṣṣaṣṭi-śatāni aṣṭau sahasrāṇi aṣṭa ca eva hi .. 79..
उक्तादुत्कृतिपर्यन्तवृत्तसङ्ख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ ८०॥
उक्तात् उत्कृति-पर्यन्त-वृत्त-सङ्ख्याम् विचक्षणः । एतेन च विकल्पेन वृत्तेषु एतेषु निर्दिशेत् ॥ ८०॥
uktāt utkṛti-paryanta-vṛtta-saṅkhyām vicakṣaṇaḥ . etena ca vikalpena vṛtteṣu eteṣu nirdiśet .. 80..
सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ ८१॥
सर्वेषाम् छन्दसाम् एवम् वृत्तानि कथितानि वै । तिस्रः कोटयः दश तथा सहस्राणाम् शतानि तु ॥ ८१॥
sarveṣām chandasām evam vṛttāni kathitāni vai . tisraḥ koṭayaḥ daśa tathā sahasrāṇām śatāni tu .. 81..
चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ ८२॥
चत्वारिंशत् तथा द्वे च सहस्राणि दश एव तु । सप्तभिः सहितानि एव सप्त च एव शतानि च ॥ ८२॥
catvāriṃśat tathā dve ca sahasrāṇi daśa eva tu . saptabhiḥ sahitāni eva sapta ca eva śatāni ca .. 82..
षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ ८३॥
षड्विंशतिः इह अन्यानि व्याख्यातानि समासतस् । समानि गणना-युक्तिम् आश्रित्य कथितानि वै ॥ ८३॥
ṣaḍviṃśatiḥ iha anyāni vyākhyātāni samāsatas . samāni gaṇanā-yuktim āśritya kathitāni vai .. 83..
सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । ज्ञेयाश्चाष्टौ त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ ८४॥
सर्वेषाम् छन्दसाम् एवम् त्रिकैः वृत्तम् प्रयोजयेत् । ज्ञेयाः च अष्टौ त्रिकाः तत्र संज्ञाभिः स्थानम् अच्शरम् ॥ ८४॥
sarveṣām chandasām evam trikaiḥ vṛttam prayojayet . jñeyāḥ ca aṣṭau trikāḥ tatra saṃjñābhiḥ sthānam acśaram .. 84..
त्रीण्यक्षराणि विज्ञेयस्त्रिकोऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ ८५॥
त्रीणि अक्षराणि विज्ञेयः त्रिकः अंशः परिकल्पितः । गुरु-लघु-अक्षर-कृतः सर्व-वृत्तेषु नित्यशस् ॥ ८५॥
trīṇi akṣarāṇi vijñeyaḥ trikaḥ aṃśaḥ parikalpitaḥ . guru-laghu-akṣara-kṛtaḥ sarva-vṛtteṣu nityaśas .. 85..
गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारोऽन्त्यगुरुस्तथा ॥ ८६॥
गुरु-पूर्वः भकारः स्यात् मकारे तु गुरु-त्रयम् । जकारः गुरु-मध्य-स्थः सकारः अन्त्य-गुरुः तथा ॥ ८६॥
guru-pūrvaḥ bhakāraḥ syāt makāre tu guru-trayam . jakāraḥ guru-madhya-sthaḥ sakāraḥ antya-guruḥ tathā .. 86..
लघुमध्यस्थितो रेफस्तकारोऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ ८७॥
लघु-मध्य-स्थितः रेफः तकारः अन्त्य-लघुः परः । लघु-पूर्वः यकारः तु नकारे तु लघु-त्रयम् ॥ ८७॥
laghu-madhya-sthitaḥ rephaḥ takāraḥ antya-laghuḥ paraḥ . laghu-pūrvaḥ yakāraḥ tu nakāre tu laghu-trayam .. 87..
एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ ८८॥
एते हि अष्टौ त्रिकाः प्राज्ञैः विज्ञेयाः ब्रह्म-सम्भवाः । लाघव-अर्थम् पुनर् अमी छन्दः-ज्ञानम् अवेक्ष्य च ॥ ८८॥
ete hi aṣṭau trikāḥ prājñaiḥ vijñeyāḥ brahma-sambhavāḥ . lāghava-artham punar amī chandaḥ-jñānam avekṣya ca .. 88..
एभिर्विनिर्गताश्चान्या जातयोऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ ८९॥
एभिः विनिर्गताः च अन्याः जातयः अथ सम-आदयः । अस्वराः स स्वराः च एव प्रोच्यन्ते वृत्त-लक्षणैः ॥ ८९॥
ebhiḥ vinirgatāḥ ca anyāḥ jātayaḥ atha sama-ādayaḥ . asvarāḥ sa svarāḥ ca eva procyante vṛtta-lakṣaṇaiḥ .. 89..
गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ ९०॥
गुरु एकम् गिति विज्ञेयम् तथा लघु लिति स्मृतम् । नियतः पद-विच्छेदः यतिः इति अभिधीयते ॥ ९०॥
guru ekam giti vijñeyam tathā laghu liti smṛtam . niyataḥ pada-vicchedaḥ yatiḥ iti abhidhīyate .. 90..
गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ ९१॥
गुरु दीर्घम् प्लुतम् च एव संयोग-परम् एव च । स अनुस्वार-विसर्गम् च तथा अन्त्यम् च लघु क्वचिद् ॥ ९१॥
guru dīrgham plutam ca eva saṃyoga-param eva ca . sa anusvāra-visargam ca tathā antyam ca laghu kvacid .. 91..
गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा । अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ ९२॥
गायत्र्याम् द्वौ त्रिकौ ज्ञेयौ उष्णिह् च एक-अधिक-अक्षरा । अनुष्टुभ् द्वि-अधिका च एव बृहत्याम् च त्रिकाः त्रयः ॥ ९२॥
gāyatryām dvau trikau jñeyau uṣṇih ca eka-adhika-akṣarā . anuṣṭubh dvi-adhikā ca eva bṛhatyām ca trikāḥ trayaḥ .. 92..
एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ ९३॥
एक-अक्षर-अधिका पङ्क्तिः त्रिष्टुभ् च द्वि-अधिक-अक्षरा । चतुर्-त्रिका तु जगती सा एका अतिजगती पुनर् ॥ ९३॥
eka-akṣara-adhikā paṅktiḥ triṣṭubh ca dvi-adhika-akṣarā . catur-trikā tu jagatī sā ekā atijagatī punar .. 93..
शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । एकाधिकाक्षराष्टिश्च द्व्यधिकात्यष्टिरुच्यते ॥ ९४॥
। एक-अधिक-अक्षर-अष्टिः च द्वि-अधिका अत्यष्टिः उच्यते ॥ ९४॥
. eka-adhika-akṣara-aṣṭiḥ ca dvi-adhikā atyaṣṭiḥ ucyate .. 94..
षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ ९५॥
षष्-त्रिकाः तु धृतिः प्रोक्ता सा एका च अतिधृतिः तथा । कृतिः च द्वि-अधिका प्रोक्ता प्रकृत्याम् सप्त वै त्रिकाः ॥ ९५॥
ṣaṣ-trikāḥ tu dhṛtiḥ proktā sā ekā ca atidhṛtiḥ tathā . kṛtiḥ ca dvi-adhikā proktā prakṛtyām sapta vai trikāḥ .. 95..
आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः सङ्कृतौ स्यात् सैका चाभिकृतिः पुनः ॥ ९६॥
आकृतिः तु अधिका एकेन द्वि-अधिका विकृतिः तथा । अष्टत्रिकाः सङ्कृतौ स्यात् सा एका च अभिकृतिः पुनर् ॥ ९६॥
ākṛtiḥ tu adhikā ekena dvi-adhikā vikṛtiḥ tathā . aṣṭatrikāḥ saṅkṛtau syāt sā ekā ca abhikṛtiḥ punar .. 96..
उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ ९७॥
उत्कृतिः द्वि-अधिका च एव विज्ञेया गण-मानतः । गुरु एकम् गः इति प्रोक्तम् गुरुणी गौ इति स्मृतौ । लघु एकम् लः इति ज्ञेयम् लघुनी लौ इति स्मृतौ ॥ ९७॥
utkṛtiḥ dvi-adhikā ca eva vijñeyā gaṇa-mānataḥ . guru ekam gaḥ iti proktam guruṇī gau iti smṛtau . laghu ekam laḥ iti jñeyam laghunī lau iti smṛtau .. 97..
सम्पद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ ९८॥
सम्पद्-विराम-पादाः च दैवत-स्थानम् अक्षरम् । वर्णः स्वरः विधिः वृत्तम् इति छन्दोगतः विधिः ॥ ९८॥
sampad-virāma-pādāḥ ca daivata-sthānam akṣaram . varṇaḥ svaraḥ vidhiḥ vṛttam iti chandogataḥ vidhiḥ .. 98..
नैवातिरिक्तं हीनं वा यत्र सम्पद्यते क्रमः । विधाने च्छन्दसामेष सम्पदित्यभिसंज्ञितः ॥ ९९॥
न एव अतिरिक्तम् हीनम् वा यत्र सम्पद्यते क्रमः । विधाने छन्दसाम् एष सम्पद् इति अभिसंज्ञितः ॥ ९९॥
na eva atiriktam hīnam vā yatra sampadyate kramaḥ . vidhāne chandasām eṣa sampad iti abhisaṃjñitaḥ .. 99..
यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ १००॥
यत्र अर्थस्य समाप्तिः स्यात् स विरामः इति स्मृतः । पादः च पद्यतेः धातोः चतुर्भागः इति स्मृतः ॥ १००॥
yatra arthasya samāptiḥ syāt sa virāmaḥ iti smṛtaḥ . pādaḥ ca padyateḥ dhātoḥ caturbhāgaḥ iti smṛtaḥ .. 100..
अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसम्भूतं दिगाश्रयमथापि च ॥ १०१॥
अग्नि-आदि-दैवतम् प्रोक्तम् स्थानम् द्विविधम् उच्यते । शरीर-आश्रय-सम्भूतम् दिश्-आश्रयम् अथ अपि च ॥ १०१॥
agni-ādi-daivatam proktam sthānam dvividham ucyate . śarīra-āśraya-sambhūtam diś-āśrayam atha api ca .. 101..
शारीरं मन्त्रसम्भूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ १०२॥
शारीरम् मन्त्र-सम्भूतम् छन्दः गायत्र-संज्ञितम् । क्रुष्टे मध्यम् दिनम् प्रोक्तम् त्रैष्टुभम् परिकीर्त्यते ॥ १०२॥
śārīram mantra-sambhūtam chandaḥ gāyatra-saṃjñitam . kruṣṭe madhyam dinam proktam traiṣṭubham parikīrtyate .. 102..
तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ १०३॥
तृतीयसवनम् च अपि शीर्षण्यम् जागतम् हि यत् । ह्रस्वम् दीर्घम् प्लुतम् च एव त्रिविधम् च अक्षरम् स्मृतम् ॥ १०३॥
tṛtīyasavanam ca api śīrṣaṇyam jāgatam hi yat . hrasvam dīrgham plutam ca eva trividham ca akṣaram smṛtam .. 103..
श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ १०४॥
श्वेत-आदयः तथा वर्णाः विज्ञेयाः छन्दसाम् इह । तारः च एव हि मन्द्रः च मध्यमः त्रिविधः स्वरः ॥ १०४॥
śveta-ādayaḥ tathā varṇāḥ vijñeyāḥ chandasām iha . tāraḥ ca eva hi mandraḥ ca madhyamaḥ trividhaḥ svaraḥ .. 104..
ध्रुवाविधाने चैवास्य सम्प्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ १०५॥
ध्रुवा-विधाने च एव अस्य सम्प्रवक्ष्यामि लक्षणम् । विधिः गण-कृतः च एव तथा एव अर्थ-कृतः भवेत् ॥ १०५॥
dhruvā-vidhāne ca eva asya sampravakṣyāmi lakṣaṇam . vidhiḥ gaṇa-kṛtaḥ ca eva tathā eva artha-kṛtaḥ bhavet .. 105..
छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः ॥ १०६॥
छन्दतः यस्य पादे स्यात् हीनम् वा अधिकम् एव वा । अक्षरम् निचृत् इति प्रोक्तम् च इति द्विजोत्तमाः ॥ १०६॥
chandataḥ yasya pāde syāt hīnam vā adhikam eva vā . akṣaram nicṛt iti proktam ca iti dvijottamāḥ .. 106..
अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं स्वराडिति विराडपि ॥ १०७॥
अक्षराभ्याम् सदा द्वाभ्याम् अधिकम् हीनम् एव वा । तत् छन्दः नामतः ज्ञेयम् स्वराज् इति विराज् अपि ॥ १०७॥
akṣarābhyām sadā dvābhyām adhikam hīnam eva vā . tat chandaḥ nāmataḥ jñeyam svarāj iti virāj api .. 107..
सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ १०८॥
सर्वेषाम् एव वृत्तानाम् तद्-ज्ञैः ज्ञेयाः गणाः त्रयः । दिव्यः दिव्येतरः च एव दिव्य-मानुषः एव च ॥ १०८॥
sarveṣām eva vṛttānām tad-jñaiḥ jñeyāḥ gaṇāḥ trayaḥ . divyaḥ divyetaraḥ ca eva divya-mānuṣaḥ eva ca .. 108..
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव दिव्योऽयं प्रथमो गणः ॥ १०९॥
गायत्री उष्णिह् अनुष्टुभ् च बृहती पङ्क्तिः एव च । त्रिष्टुभ् च जगती च एव दिव्यः अयम् प्रथमः गणः ॥ १०९॥
gāyatrī uṣṇih anuṣṭubh ca bṛhatī paṅktiḥ eva ca . triṣṭubh ca jagatī ca eva divyaḥ ayam prathamaḥ gaṇaḥ .. 109..
तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ ११०॥
तथा अतिजगती च एव शक्वरी च अतिशक्वरी । अष्टिः अत्यष्टिः अपि च धृतिः च अतिधृतिः गणः ॥ ११०॥
tathā atijagatī ca eva śakvarī ca atiśakvarī . aṣṭiḥ atyaṣṭiḥ api ca dhṛtiḥ ca atidhṛtiḥ gaṇaḥ .. 110..
कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । सङ्कृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ १११॥
कृतिः च प्रकृतिः च एव हि आकृतिः विकृतिः तथा । सङ्कृति-अभिकृती च एव उत्कृतिः दिव्य-मानुषा ॥ १११॥
kṛtiḥ ca prakṛtiḥ ca eva hi ākṛtiḥ vikṛtiḥ tathā . saṅkṛti-abhikṛtī ca eva utkṛtiḥ divya-mānuṣā .. 111..
एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं सम्प्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ ११२॥
एतेषाम् छन्दसाम् भूयस् प्रस्तार-विधि-संश्रयम् । लक्षणम् सम्प्रवक्ष्यामि नष्टम् उद्दिष्टम् एव च ॥ ११२॥
eteṣām chandasām bhūyas prastāra-vidhi-saṃśrayam . lakṣaṇam sampravakṣyāmi naṣṭam uddiṣṭam eva ca .. 112..
प्रस्तारोऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ ११३॥
प्रस्तारः अक्षर-निर्दिष्टः मात्रा-उक्तः च तथा एव हि । द्विकौ ग्लौ इति वर्ण-उक्तौ मिश्रौ च इति अपि मात्रिकौ ॥ ११३॥
prastāraḥ akṣara-nirdiṣṭaḥ mātrā-uktaḥ ca tathā eva hi . dvikau glau iti varṇa-uktau miśrau ca iti api mātrikau .. 113..
गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ ११४॥
गुरोः अधस्तात् आद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस् तु समादेयाः गुरवः पृष्ठतस् तथा ॥ ११४॥
guroḥ adhastāt ādyasya prastāre laghu vinyaset . agratas tu samādeyāḥ guravaḥ pṛṣṭhatas tathā .. 114..
प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ ११५॥
प्रथमम् गुरुभिः वर्णैः लघुभिः तु अवसान-जम् । वृत्तम् तु सर्व-छन्दस्सु प्रस्तार-विधिः एव तु ॥ ११५॥
prathamam gurubhiḥ varṇaiḥ laghubhiḥ tu avasāna-jam . vṛttam tu sarva-chandassu prastāra-vidhiḥ eva tu .. 115..
गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत् प्रस्तारमार्गोऽयमक्षरोक्तस्तु नित्यशः ॥ ११६॥
गुरु-अधस्तात् लघुम् न्यस्य तथा द्वि-द्वि यथा उदितम् । न्यस्येत् प्रस्तार-मार्गः अयम् अक्षर-उक्तः तु नित्यशस् ॥ ११६॥
guru-adhastāt laghum nyasya tathā dvi-dvi yathā uditam . nyasyet prastāra-mārgaḥ ayam akṣara-uktaḥ tu nityaśas .. 116..
मात्रासङ्ख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः ॥ ११७॥
मात्रा-सङ्ख्या-विनिर्दिष्टः गणः मात्रा-विकल्पितः । मिश्रौ ग्लौ इति विज्ञेयौ पृथक् लक्ष्य-विभागतः ॥ ११७॥
mātrā-saṅkhyā-vinirdiṣṭaḥ gaṇaḥ mātrā-vikalpitaḥ . miśrau glau iti vijñeyau pṛthak lakṣya-vibhāgataḥ .. 117..
मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ ११८॥
मात्रा-गणः गुरुः च एव लघुनी च एव लक्षिते । आर्याणाम् तु चतुर्-मात्रा-प्रस्तारः परिकल्पितः ॥ ११८॥
mātrā-gaṇaḥ guruḥ ca eva laghunī ca eva lakṣite . āryāṇām tu catur-mātrā-prastāraḥ parikalpitaḥ .. 118..
गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ ११९॥
गीतक-प्रभृतीनाम् तु पञ्च-मात्रः गणः स्मृतः । वैतालीयम् पुरस्कृत्य षष्-मात्र-आद्याः तथा एव च ॥ ११९॥
gītaka-prabhṛtīnām tu pañca-mātraḥ gaṇaḥ smṛtaḥ . vaitālīyam puraskṛtya ṣaṣ-mātra-ādyāḥ tathā eva ca .. 119..
त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ १२०॥
त्रि-अक्षराः तु त्रिकाः ज्ञेयाः लघु-गुरु-अक्षर-अन्विताः । मात्रा-गण-विभागः तु गुरु-लघु-अक्षर-आश्रयः ॥ १२०॥
tri-akṣarāḥ tu trikāḥ jñeyāḥ laghu-guru-akṣara-anvitāḥ . mātrā-gaṇa-vibhāgaḥ tu guru-laghu-akṣara-āśrayaḥ .. 120..
अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् । द्विगुणाञ्च लघोः कृत्वा सङ्ख्यां पिण्डेन योजयेत् ॥ १२१॥
अन्त्यात् द्वि-गुणितात् रूपात् द्वि-द्विस् एकम् गुरोः भवेत् । द्विगुणान् च लघोः कृत्वा सङ्ख्याम् पिण्डेन योजयेत् ॥ १२१॥
antyāt dvi-guṇitāt rūpāt dvi-dvis ekam guroḥ bhavet . dviguṇān ca laghoḥ kṛtvā saṅkhyām piṇḍena yojayet .. 121..
आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ १२२॥
आद्यम् सर्व-गुरु ज्ञेयम् वृत्तन्तु सम-संज्ञितम् । कोशम् तु सर्व-लघु-अन्त्यम् मिश्र-रूपाणि सर्वतस् ॥ १२२॥
ādyam sarva-guru jñeyam vṛttantu sama-saṃjñitam . kośam tu sarva-laghu-antyam miśra-rūpāṇi sarvatas .. 122..
वृत्तानां तु समानानां सङ्ख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ १२३॥
वृत्तानाम् तु समानानाम् सङ्ख्याम् संयोज्य तावतीम् । समासात् अभिनिर्दिशेत् ॥ १२३॥
vṛttānām tu samānānām saṅkhyām saṃyojya tāvatīm . samāsāt abhinirdiśet .. 123..
एकादिकां तथा सङ्ख्यां छन्दसो विनिवेश्य तु । यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ १२४॥
एक-आदिकाम् तथा सङ्ख्याम् छन्दसः विनिवेश्य तु । यावत् पूर्वेण पूरयेत् उत्तरम् गणम् ॥ १२४॥
eka-ādikām tathā saṅkhyām chandasaḥ viniveśya tu . yāvat pūrveṇa pūrayet uttaram gaṇam .. 124..
समानां विषमाणां च सङ्गुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ १२५॥
समानाम् विषमाणाम् च सङ्गुणय्य तथा स्फुटम् । राश्यूनाम् अभिजानीयात् विषमाणाम् समासतस् ॥ १२५॥
samānām viṣamāṇām ca saṅguṇayya tathā sphuṭam . rāśyūnām abhijānīyāt viṣamāṇām samāsatas .. 125..
एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ १२६॥
एवम् कृत्वा तु सर्वेषाम् परेषाम् पूर्व-पूरणम् । क्रमात् नैधनम् एकैकम् प्रतिलोमम् विसर्जयेत् ॥ १२६॥
evam kṛtvā tu sarveṣām pareṣām pūrva-pūraṇam . kramāt naidhanam ekaikam pratilomam visarjayet .. 126..
सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां सङ्ख्यां सङ्क्षेपतस्तथा ॥ १२७॥
सर्वेषाम् छन्दसाम् एवम् लघु-अक्षर-विनिश्चयम् । जानीत सम-वृत्तानाम् सङ्ख्याम् सङ्क्षेपतः तथा ॥ १२७॥
sarveṣām chandasām evam laghu-akṣara-viniścayam . jānīta sama-vṛttānām saṅkhyām saṅkṣepataḥ tathā .. 127..
वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ १२८॥
वृत्तस्य परिमाणम् तु छित्वा अर्धेन यथाक्रमम् । न्यसेत् लघु यथा स एकम् अक्षरम् गुरु च अपि अथ ॥ १२८॥
vṛttasya parimāṇam tu chitvā ardhena yathākramam . nyaset laghu yathā sa ekam akṣaram guru ca api atha .. 128..
एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ १२९॥
एवम् विन्यस्य वृत्तानाम् नष्ट-उद्दिष्ट-विभागतः । गुरु-लघु-अक्षराणि इह सर्व-छन्दस्सु दर्शयेत् ॥ १२९॥
evam vinyasya vṛttānām naṣṭa-uddiṣṭa-vibhāgataḥ . guru-laghu-akṣarāṇi iha sarva-chandassu darśayet .. 129..
इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १३०॥
इति छन्दांसि यानि इह मया उक्तानि द्विजोत्तमाः । वृत्तानि एतेषु नाट्ये अस्मिन् प्रयोज्यानि निबोधत ॥ १३०॥
iti chandāṃsi yāni iha mayā uktāni dvijottamāḥ . vṛttāni eteṣu nāṭye asmin prayojyāni nibodhata .. 130..
इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं
इति भरतीये नाट्य-शास्त्रे वाचिक-अभिनये छन्दः-विधानम्
iti bharatīye nāṭya-śāstre vācika-abhinaye chandaḥ-vidhānam
नाम चतुर्दशोऽध्यायः ।
नाम चतुर्दशः अध्यायः ।
nāma caturdaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In