| |
|

This overlay will guide you through the buttons:

नाट्यशास्त्रम् अध्याय ४ ॥
nāṭyaśāstram adhyāya 4 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ चतुर्थोऽध्यायः ।
atha caturtho'dhyāyaḥ .
एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ १॥
evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ . ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām .. 1..
ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ २॥
tato'smyukto bhagavatā yojayāmṛtamanthanam . etadutsāhajananaṃ suraprītikaraṃ tathā .. 2..
योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ ३॥
yo'yaṃ samavakārastu dharmakāmārthasādhakaḥ . mayā prāggrathito vidvansa prayogaḥ prayujyatām .. 3..
तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ ४॥
tasminsamavakāre tu prayukte devadānavāḥ . hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt .. 4..
कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥ ५॥
kasyacitvatha kālasya māmāhāmbujasambhavaḥ nāṭyaṃ sandarśayāmo'dya trinetrāya mahātmane .. 5..
ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ ६॥
tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam . samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ .. 6..
मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ ७॥
mayā samavākarastu yo'yaṃ sṛṣṭaḥ surottama . śravaṇe darśane cāsya prasādaṃ kartumarhasi .. 7..
पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ ८॥
paśyāma iti deveśo druhiṇaṃ vākyamabravīt . tato māmāha bhagavān sajjo bhava mahāmate .. 8..
ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥ ९॥
tato himavataḥ pṛṣṭhe nānānāgasamākule . bahubhūtagaṇākīrṇe ramyakandaranirzhare .. 9..
पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसन्ज्ञः प्रयोजितः ॥ १०॥
pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ . tathā tripuradāhaśca ḍimasanjñaḥ prayojitaḥ .. 10..
ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ ११॥
tato bhūtagaṇā hṛṣṭāḥ karnabhāvānukīrtanāt . mahādevaśca suprītaḥ pitāmahamathābravīt .. 11..
अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ १२॥
aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate . yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam .. 12..
मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ १३॥
mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā . nānākaraṇasaṃyuktairaṅgahārairvibhūṣitam .. 13..
पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ १४॥
pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām . vardhamānakayogeṣu gīteṣvāsāriteṣu ca .. 14..
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ १५॥
mahāgīteṣu caivārthānsamyagevābhineṣyasi . yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ .. 15..
एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयम्भुवा ॥ १६॥
ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati . śrutvā maheśvaravacaḥ pratyuktastu svayambhuvā .. 16..
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ १७॥
prayogamaṅgahārāṇāmācakṣva surasattama . tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ .. 17..
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना॥ १८॥
prayogamaṅgahārāṇāmācakṣva bharatāya vai . tato ye taṇḍunā proktāstvaṅgahārā mahātmanā.. 18..
तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ १९॥
tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān . sthirahasto'ṅgahārastu tathā paryastakaḥ smṛtaḥ .. 19..
सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ २०॥
sūcividdhastathā caiva hyapaviddhastathaiva ca . ākṣiptako'tha vijñeyastathā coddhaṭṭitaḥ smṛtaḥ .. 20..
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥ २१॥
viṣkambhaścaiva samproktastathā caivāparājitaḥ . viṣkambhāpasṛtaścaiava mattākrīḍastathaiva ca .. 21..
स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ २२॥
svastiko recitaścaiva pārśvasvastika eva ca . vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ .. 22..
मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ २३॥
mattaskhalitakaścaiva madādvilasitastathā . gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca .. 23..
परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ २४॥
parivṛttacito'tha syāttathā vaiśākharecitaḥ . parāvṛtto'tha vijñeyastathā caivāpyalātakaḥ .. 24..
पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥ २५॥
pārśvacchedo'tha samprokto vidyudbhrāntastathaiva ca . ūrūdvṛttastathā caiva syādālīḍhastathaiva ca .. 25..
रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ २६॥
recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ . ākṣiptarecitaścaiva sambhrāntaśca tathāparaḥ .. 26..
अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ २७॥
apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ . dvātriṃśadete samproktā aṅgahārāstu nāmataḥ .. 27..
एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ २८॥
eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam . hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ .. 28..
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ २९॥
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ . sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ .. 29..
तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ ३०॥
tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā . hastapādasamāyogo nṛtyasya karaṇaṃ bhavet .. 30..
द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ ३१॥
dve nṛttakaraṇe caiva bhavato nṛttamātṛkā . dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ .. 31..
त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ ३२॥
tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet . pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ .. 32..
षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ ३३॥
ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā . karaṇairiha saṃyuktā aṅgahārāḥ prakīrtāḥ .. 33..
एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ ३४॥
eteṣāmeva vakṣyāmi hastapādavikalpanam . talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca .. 34..
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ ३५॥
apaviddhaṃ samanakhaṃ līnaṃ svastikarecitam . maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca .. 35..
तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ ३६॥
tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca . ardharecitakaṃ caiva vakṣaḥsvastikameva ca .. 36..
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्स्वस्तिकमलातं च तथैव च कटीसमम् ॥ ३७॥
unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca . diksvastikamalātaṃ ca tathaiva ca kaṭīsamam .. 37..
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ ३८॥
ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā . ardhasvastikamuddiṣṭamañcitaṃ ca tathāparam .. 38..
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ ३९॥
bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca . nikuñcitaṃ ca mattalli tvardhamattalli caiva hi .. 39..
स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ ४०॥
syādrecakanikkuṭṭaṃ ca tathā pādāpaviddhakam . valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam .. 40..
दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥
daṇḍapakṣaṃ tathā caiva bhujaṅgatrastarecitam . nūpuraṃ caiva samproktaṃ tathā vaiśākharecitam .. 41..
भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥
bhramaraṃ caturaṃ caiva bhujaṅgāñcitameva ca . daṇḍarecitakaṃ caiva tathā vṛścikakuṭṭitam ..42..
कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥
kaṭibhrāntaṃ tathā caiva latāvṛścikameva ca . chinnaṃ ca karaṇaṃ proktaṃ tathā vṛścikarecitam .. 43..
वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥
vṛścikaṃ vyaṃsitaṃ caiva tathā pārśvanikuṭṭakam . lalāṭatilakaṃ krāntaṃ kuñcitaṃ cakramaṇḍalam .. 44..
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥
uromaṇḍalamākṣiptaṃ tathā talavilāsitam . argalaṃ cātha vikṣiptamāvṛttaṃ dolapādakam .. 45..
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ ४६॥
vivṛttaṃ vinivṛttaṃ ca pārśvakrāntaṃ niśumbhitam . vidyutbhrāntamatikrāntaṃ vivartitakameva ca .. 46..
गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ ४७॥
gajakrīḍitakaṃ caiva talasaṃsphoṭitaṃ tathā . garuḍaplutakaṃ caiva gaṇḍasūci tathāparam .. 47..
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ ४८॥
parivṛttaṃ samuddiṣṭaṃ pārśvajānu tathaiva ca . gṛdhrāvalīnakaṃ caiva sannataṃ sūcyathāpi ca .. 48..
अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ ४९॥
ardhasūcīti karaṇaṃ sūcividdhaṃ tathaiva ca . apakrāntaṃ ca samproktaṃ mayūralalitaṃ tathā .. 49..
सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ ५०॥
sarpitaṃ daṇḍapādaṃ ca hariṇaplutameva ca . preṅkholitaṃ nitambaṃ ca skhalitaṃ karihastakam .. 50..
प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ ५१॥
prasarpitakamuddiṣṭaṃ siṃhavikrīḍataṃ tathā . siṃhākarṣitamudvṛttaṃ tathopasṛtameva ca .. 51..
तलसङ्घट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥ ५२॥
talasaṅghaṭṭitaṃ caiva janitaṃ cāvahitthakam . niveśamelakākrīḍamūrūdvṛttaṃ tathaiva ca .. 52..
मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ ५३॥
madaskhalitakaṃ caiva viṣṇukrāntamathāpi ca . sambhrāntamatha viṣkambhamudghaṭṭitamathāpi ca .. 53..
वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ ५४॥
vṛṣabhakrīḍitaṃ caiva lolitaṃ ca tathāparam . nāgāpasarpitaṃ caiva śakaṭāsyaṃ tathaiva ca .. 54..
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ ५५॥
gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam . aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam .. 55..
नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ ५६॥
nṛtye yuddhe niyuddhe ca tatha gatiparikrame . gatipracāre vakṣyāmi yuddhacārīvikalpanam .. 56..
यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ ५७॥
yatra tatrāpi saṃyojyamācāryairnāṭyaśaktinaḥ . prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ .. 57..
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ ५८॥
caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ . hastapādapracārantu kaṭipārśvorusaṃyutam .. 58..
उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ ५९॥
uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata . yāni sthānāni yāścāryo nṛtyahastāstathaiva ca .. 59..
सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ ६०॥
sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet . kaṭī karṇasamā yatra korparāṃsaśirastathā .. 60..
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥ ६१॥
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet . vāme puṣpapuṭaḥ pārśve pādo'gratalasañcaraḥ .. 61..
तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ ६२॥
tathā ca sannataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet . kuñcitau maṇibandhe tu vyāvṛttaparivartitau .. 62..
हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ ६३॥
hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat . śukatuṇḍau yadā hastau vyāvṛttaparivartitau .. 63..
उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ ६४॥
urū ca valitau yasminvalitorukamucyate . āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet .. 64..
वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ ६५॥
vāmahataśca vakṣaḥstho'pyapaviddhaṃ tu tadbhavet . śliṣṭau samanakhau padau karau cāpi pralimbitau .. 65..
देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥ ६६॥
dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat . patākāñjali vakṣaḥsthaṃ prasāritaśirodharam .. 66..
निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ ६७॥
nihañcitāṃsakūṭaṃ ca tallinaṃ karaṇaṃ smṛtam . svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau .. 67..
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ ६८॥
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam . svastikau tu karau kṛtvā prāṅgamukhordhvatalau samau .. 68..
तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥ ६९॥
tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat . nikuṭṭitau yadā hastau svabāhuśiraso'ntare .. 69..
पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ ७०॥
pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam . añcitau bāhuśirasi hastastvabhimukhāṅguliḥ .. 70..
निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ ७१॥
nikuñcitārdhayogena bhavedarthanikuṭṭakam . paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau .. 71..
पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ ७२॥
punaḥpunaśca karaṇaṃ kaṭicchinaṃ tu tadbhavet . apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ .. 72..
संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ ७३॥
saṃnnataṃ yatra pārśvaṃ ca tadbhaveardharecitam . svastikau caraṇau yatra karau vakṣasi recitau .. 73..
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥ ७४॥
nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat . āñcitena tu pādena recitau tu karau yadā .. 74..
उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ ७५॥
unmataṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ . hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā .. 75..
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ ७६॥
tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ . vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā .. 76..
अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ ७७॥
apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet . pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet .. 77..
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ ७८॥
svastikau hastapādābhyāṃ taddiksvastikamucyate . alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam .. 78..
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ ७९॥
ūrdhvajānukramaṃ kuryādalātakamiti smṛtam . svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau .. 79..
पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥८०॥
pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam . hastau hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ ..80..
रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ ८१॥
recitaścāpaviddhaśca tatsyādākṣiptarecitam . vikṣiptaṃ hastapādaṃ ca tasaivākṣepaṇaṃ punaḥ .. 81..
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ ८२॥
yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptaptakaṃ dvijāḥ . svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam .. 82..
वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ ८३॥
vakṣasthāne tathā vāmamardhasvastikamādiśet . vyāvṛttaparivṛttastu sa eva tu karo yadā .. 83..
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ ८४॥
añcito nāsikāgre tu tadañcitamudāhṛtam . kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet .. 84..
कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ ८५॥
kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet . kuñcitaṃ pādamutkṣipya janustanasamaṃ nyaset .. 85..
प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ ८६॥
prayogavaśagau hastāvūrdhvajānu prakīrtitam . vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet .. 86..
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥८७॥
nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam . vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ ..87..
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ ८८॥
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam . sskhalitāpasṛtau pādau vāmahastaśca recitaḥ .. 88..
सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ ८९॥
savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam . recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ .. 89..
दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ ९०॥
dolā caiva bhavedvāmastadrecitanikuṭṭitam . kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau .. 90..
सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ ९१॥
sūcīviddhāvapakrāntau pādau pādāpaviddhake . apaviddho bhaveddhastaḥ sūcīpādastathaiava ca .. 91..
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ ९२॥
tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet . vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ .. 92..
स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ ९३॥
svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat . karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ .. 93..
बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ ९४॥
bahuśaḥ kuṭṭitaḥ pado jñeyaṃ tallalitaṃ budhaiḥ . ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset .. 94..
दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ ९५॥
daṇḍpakṣaṃ tatproktaṃ karṇaṃ nṛtyavedibhiḥ . bhujañgatrāsitaṃ kṛtvā yatrobhāvapi recitau .. 95..
वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ ९६॥
vāmapārśvasthtau hastau bhujaṅgatrastarecitam . trikaṃ suvalitaṃ kṛtvā latārecitakau karau .. 96..
नूपुर्श्च तथा पादः करण्E नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ ९७॥
nūpurśca tathā pādaḥ karaṇE nūpure nyaset . recitau hastapādau ca kaṭī grīvā ca recitā .. 97..
वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ ९८॥
vaiśākhasthānakenaitadbhavevaiśākharecitam . ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā .. 98..
त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ ९९॥
trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat . añcitaḥ syātkaro vāmaḥ savyaścatura eva tu .. 99..
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ १००॥
dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam . bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ .. 100..
लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ १०१॥
latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet . vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat .. 101..
रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ १०२॥
recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam . vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau .. 102..
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ १०३॥
vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam . sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset .. 103..
रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ १०४॥
recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate . añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ .. 104..
लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ १०५॥
latākhyaśca karo vāmastallatāvṛścikaṃ bhavet . alapadmaḥ kaṭīdeśe chinnā paryāyaśaḥ kaṭī .. 105..
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ १०६॥
vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet . vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau .. 106..
रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥ १०७॥
recitau viprakīrṇau ca karau vṛścikarecitam . bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā .. 107..
दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥ १०८॥
dūrasannatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam . ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau .. 108..
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ १०९॥
ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat . hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ .. 109..
यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ ११०॥
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam . vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu .. 110..
ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ १११॥
lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat . pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ .. 111..
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ ११२॥
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ . ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ .. 112..
उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ ११३॥
uttāno vāmapārśvasthastatkuñcitamudāhṛtam . pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca .. 113..
अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ ११४॥
abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam . svastikāpasṛtau pādāvapaviddhakramau yadā .. 114..
उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ ११५॥
uromaṇḍalakau hastāvuromaṇḍalikastu tat . ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ .. 115..
आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ ११६॥
ākṣiotaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ . ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ .. 116..
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ ११७॥
prakuryādañcitatalau hastau talavilāsite . pṛṣṭhataḥ prasṛtaḥ pādau dvau tālāvardhameva ca .. 117..
तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥ ११८॥
tasyeva cānugo hastaḥ puratastvargalaṃ tu tat . vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato'pi vā .. 118..
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ ११९॥
ekamārgagataṃ yatra tadvikṣiptamudāhṛtam . prasārya kuñcitaṃ pādaṃ punarāvartayet drutam .. 119..
प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ १२०॥
prayogavaśagau hastau tadāvartamudāhṛtam . kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet .. 120..
प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ १२१॥
prayogavaśagau hastau ḍolāpādaṃ taducyate . ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet .. 121..
रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ १२२॥
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ . sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet .. 122..
करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ १२३॥
karau ca recitau kāryau vinivṛtte dvijottamaḥ . pārśvakrāntakramaṃ kṛtvā purastādatha pātayet .. 123..
प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ १२४॥
prayogavaśagau hastau pārśvakrāntaṃ taducyate . pṛṣṭhataḥ kuñcitaḥ pādau vakṣaścaiva samunnatam .. 124..
तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ १२५॥
tilake ca karaḥ sthāpyastannistambhitamucyate . pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet .. 125..
सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् ॥ १२६॥
sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate . atikrāntakramaṃ kṛtvā purastātsamprasārayet .. 126..
प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ १२७॥
prayogavaśagau hastāvatikrānte prakīrtitau . ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam .. 127..
द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ १२८॥
dvitīyo recito hasto vivartitakameva tat . karṇe'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ .. 128..
दोलापादस्तथा चैव गजक्रीडितकं भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ १२९॥
dolāpādastathā caiva gajakrīḍitakaṃ bhavet . drutamutkṣipya caraṇaṃ purastādatha pātayet .. 129..
तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ १३०॥
talasaṃsphoṭitau hastau talasaṃsphoṭite matau . pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau .. 130..
समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ १३१॥
samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet . sūcipādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ .. 131..
द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते , ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ १३२॥
dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate , ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ .. 132..
परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः ॥ १३३॥
parivṛttatrikaṃ caiva parivṛttaṃ taducyate . ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito'paraḥ .. 133..
मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ १३४॥
muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate . pṛṣṭhaprasāritaḥ pādaḥ kiñcitañcita jānukaḥ .. 134..
यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ १३५॥
yatra prasārito bāhū tatsyāt gṛdhrāvalīnakam . utplutya caraṇau kāryāvagrataḥ svastikasthitau .. 135..
सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ १३६॥
sannatau ca tathā hastau sannataṃ tadudāhṛtam . kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi .. 136..
प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ १३७॥
prayogavaśagau hastau sā sūcī parikīrtitā . alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ .. 137..
यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ १३८॥
yatra tatkaraṇaṃ jñeayamardhasūcīti nāmataḥ . pādasūcyā yadā pādo dvitīyastu pravidhyate .. 138..
कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ १३९॥
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate . kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset .. 139..
प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ १४०॥
prayogavaśagau hastavapakrāntaṃ taducyate . vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau .. 140..
तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ १४१॥
tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet . añcitāpasṛtau pādau śiraśca parivāhitam .. 141..
रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ १४२॥
recitau ca tathā hastau tatsarpitamudāhṛtam . nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet .. 142..
क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ १४३॥
kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate . atikrāntakramaṃ kṛtvā samutplutya nipātayet .. 143..
जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् । डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥१४४॥
jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam . ḍolāpādakramaṃ kṛtvā samutplutya nipātayet ..144..
परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ( धो ) मुखाङ्गुली ॥ १४५॥
parivṛttatrikaṃ caiva tatpreṅkholitamucyate . bhujāvūrdhvaviniṣkrāntau hastau cābhi ( dho ) mukhāṅgulī .. 145..
बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ १४६॥
baddhā cārī tatha caiva nitambe karaṇe bhavet . dolāpādakramaṃ kṛtvā hastau tadanugāvubhaua .. 146..
रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः ॥ १४७॥
recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet . eko vakṣaḥsthito hastaḥ prodveṣṭitatalo'paraḥ .. 147..
अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ १४८॥
añcitaścaraṇaścaiva prayojyaḥ karihastake . ekastu recito hasto latākhyastu tathā paraḥ .. 148..
प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ १४९॥
prasarpitatalau pādau prasarpitakameva tat . alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam .. 149..
हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ १५०॥
hastau pādānugau cāpi siṃhavikrīḍite smṛtau . pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau .. 150..
पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ १५१॥
punastathaiva kartavyau siṃhākarṣtake dvijāḥ . ākṣiptahastamākṣiptadehamākṣiptapādakam .. 151..
अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ १५२॥
advṛttagātramityetadudvṛtāṃ karaṇaṃ smṛtam . ākṣiptacaraṇaścaiko hastau tasyaiva cānugau .. 152..
आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ १५३॥
ānataṃ ca tatha gātraṃ tayopasṛtakaṃ bhavet dolāpādakramaṃ kṛtvā talasaṅghaṭṭitau karau .. 153..
रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ १५४॥
recayecca karaṃ vāmaṃ talasaṅghaṭṭite sadā . eko vakṣaḥsthito hasto dvtīyaśca pralambitaḥ .. 154..
तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ १५५॥
talāgrasaṃsthitaḥ pādo janite karaṇe bhavet . janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī .. 155..
शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ १५६॥
śanairnipatito caiva jñeyaṃ tadavahitthakam . karau vakṣaḥsthitau kāryāvurau nirbhugnameva ca .. 156..
मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥१५७॥
maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat . talasañcarapādābhyāmutplutya patanaṃ bhavet ..157..
संनतं वलितं गात्रमेलकाक्रीडितं तु तत् । करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् ॥ १५८॥
saṃnataṃ valitaṃ gātramelakākrīḍitaṃ tu tat . karamāvṛttakaraṇamūrupṛṣṭhe'ñcitaṃ nyaset .. 158..
जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ १५९॥
jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet . karau pralambitau kāryo śiraśca parivāhitam .. 159..
पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ १६०॥
pādau ca valitāvidhdaua madaskhalitake dvijāḥ . puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ .. 160..
करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥१६१॥
karau ca recitau yatra viṣṇukrāntaṃ taducyate . karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet ..161..
ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ १६२॥
ūruścaiva tathāviddhaḥ sambhrāntaṃ karaṇaṃ tu tat . apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ .. 162..
वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ १६३॥
vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet . pādāvuddhaṭṭitau kāryau talasaṅghaṭṭitau karau .. 163..
नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ १६४॥
nataśca pārśvaṃ kartavyaṃ budhairuddhaṭṭite sadā . prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet .. 164..
कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ १६५॥
kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā . recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ .. 165..
उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्॥ १६६॥
ubhayoḥpārśvayoryatra tallolitamudāhṛtam . svastikāpasṛtau pādau śiraśca parivāhitam.. 166..
रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ १६७॥
recitau ca tathā hastau syātāṃ nāgāpasarpite . niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram .. 167..
उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ १६८॥
udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet . ūrdhvāṅgulitalau pādau tripatākāvadhomukhau .. 168..
हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ १६९॥
hastau śirassannataṃ ca gaṅgāvataraṇaṃ tviti . yāni sthānāni yāścāryo vyāyāme kathitāni tu .. 169..
पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ १७०॥
pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet . ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi .. 170..
तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ १७१॥
teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate . prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ .. 171..
चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ १७२॥
caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ . cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca .. 172..
सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ १७३॥
sā mātṛketi vijñeyā tadbhedātkaraṇāni tu . aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam .. 173..
अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ १७४॥
ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam . prasāryotkṣipya ca karau samapādaṃ prayojayet .. 174..
व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् ॥ १७५॥
vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet . pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam .. 175..
ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ १७६॥
ūrūdvṛttaṃ tataḥ kuryādakṣiptaṃ svastikaṃ tataḥ . nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ .. 176..
स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ १७७॥
sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ . talapuṣpāpaviddhe dve vartitaṃ saṃnikuṭṭikam .. 177..
ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १७८॥
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca . nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca .. 178..
एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥१७९॥
eṣa paryastako nāma hyaṅgahāro harodbhavaḥ . alapallavasūcīṃ ca kṛtvā vikṣiptameva ca ..179..
आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ १८९॥
āvartitaṃ tataḥ kuryāttathaiava ca nikuṭṭakam . ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca .. 189..
करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ १८१॥
karihastaṃ kaṭicchinnaṃ sūcīviddho bhavedayam . apaviddhaṃ tu karaṇaṃ sūcīviddhaṃ tathaiva ca .. 181..
उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ १८२॥
udveṣṭitena hastena trikaṃ tu parivartayet . uromaṇḍalakau hastau kaṭicchinnaṃ tathaiva ca .. 182..
अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ १८३॥
apaviddho'ṅgahārāśca vijñeyo'yaṃ prayoktṛbhiḥ . karaṇaṃ nūpuraṃ kṛtvā vikṣiptālātake punaḥ .. 183..
पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १८४॥
punarākṣiptakaṃ kuryāduromaṇḍalakaṃ tathā . nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca .. 184..
आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ १८५॥
ākṣiptakaḥ sa vijñeyo hyaṅgahāraḥ prayoktṛbhiḥ . udveṣṭitāpaviddhastu karaḥ pādo nikuṭṭitaḥ .. 185..
पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ १८६
punastainaiva yogena vāmapārśve bhavedatha . uromaṇḍalakau hastau nitambaṃ karihastakam .. 186
कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ १८७॥
kartavyaṃ sakaṭicchinnaṃ nṛtye tūddhaṭṭite sadā . paryāyodveṣṭitau hastau pādau caiva nikuṭṭitau .. 187..
कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ १८८॥
kuñcitāvañcitaua caiva hyūrūdvṛttaṃ tathaiva ca . caturaśraṃ karaṃ kṛtvā pādena ca nikuṭṭakam .. 188..
भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ १८९॥
bhujaṅgatrāsitaṃ caiva karaṃ codviṣṭitaṃ punaḥ . paricchinnaṃ ca kartavyaṃ trikaṃ bhramarakeṇa tu .. 189..
करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ १९०॥
karihastaṃ kaṭicchinnaṃ viṣkambhe parikīrtitam . daṇḍapādaṃ karaṃ caiva vikṣipyākṣipya caiva hi .. 190..
व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ १९१॥
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet . nikuṭṭakadvayaṃ kāryamākṣiptaṃ maṇḍalorasi .. 191..
करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ १९२॥
karihastaṃ kaṭicchinnaṃ kartavyamaparājite . kuṭṭitaṃ karaṇaṃ kṛtvā bhujaṅgatrāsitaṃ tathā .. 192..
रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ १९३॥
recitena tu hastena patākaṃ hastamādiśet . ākṣiptakaṃ prayuñjīta hyuromaṇḍalakaṃ tathā .. 193..
लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ १९४॥
latākhyaṃ sakaṭakacchinnaṃ viṣkambhāpasṛte bhavet . trikaṃ suvalitaṃ kṛtvā nūpuraṃ karaṇaṃ tathā .. 194..
भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ १९५॥
bhujaṅgatrāsitaṃ savyaṃ tathā vaiśākharecitam . ākṣiptakaṃ tataḥ kṛtvā paricchinnaṃ tathaiva ca .. 195..
बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ १९६॥
bāhyabhramarakaṃ kuryāduromaṇḍalameva ca . nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca .. 196..
मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ १९७॥
mattākrīḍo bhavedeṣa hyaṅgahāro harapriyaḥ . recitaṃ hastapādaṃ ca kṛtvā vṛścikameva ca .. 197..
पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥१९८॥
punastenaiva yogena vṛścikaṃ samprayojayet . nikuṭṭakaṃ tathā caiva savyāsavyakṛtaṃ kramāt ..198..
लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ १९९॥
latākhyaḥ sakaṭicchedo bhavetsvastikarecite . pārśve tu svastikaṃ baddhvā kāryaṃ tvatha nikuṭṭakam .. 199..
द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ २००॥
dvitīyasya ca pārśvasya vidhiḥ syādyameva hi . tataśca karamāvartya hyūrūpṛṣṭhe nipātayet .. 200..
ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २०१॥
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ punareva hi . nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca .. 201..
पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ २०२॥
pārśvasvastika ityeṣa hyaṅgahāraḥ prakīrtitaḥ . vṛścikaṃ karaṇaṃ kṛtvā latākhyaṃ hastameva ca .. 202..
तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ २०३॥
tameva ca karaṃ bhūyo nāsāgre sannikuñcayet . tamevodveṣṭitaṃ kṛtvā nitambaṃ parivartayet .. 203..
करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ २०४॥
karihastaṃ kaṭicchinnaṃ vṛścikāpasṛte bhavet . kṛtvā nūpurapādaṃ tu tathākṣiptakameva ca .. 204..
परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ २०५ ॥
paricchinnaṃ ca kartavyaṃ sūcīpādaṃ tathaiva ca . nitambaṃ karihastaṃ cāpyuromaṇḍalakaṃ tathā .. 205 ..
कटीच्छिन्नं ततश्चैव भ्रमरः स तु सन्ज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ १०६॥
kaṭīcchinnaṃ tataścaiva bhramaraḥ sa tu sanjñitaḥ . matallikaraṇaṃ kṛtvā karamāvartya dakṣiṇam .. 106..
कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ २०७॥
kapolasya pradeśe tu kāryaṃ samyaṅnikuñcitam apaviddhaṃ drutaṃ caiva talasaṃsphoṭasaṃyutam .. 207..
करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ २०८॥
karihastaṃ kaṭicchinnaṃ mattaskhalitake bhavet . dolaiḥ karaiḥ pracalitaiḥ svastikāpasṛtaiḥ padaiḥ .. 208..
अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ २०९॥
añcitairvalitairhastaistalasaṅghaṭṭitaistathā . nikuṭṭitaṃ ca kartavyamūrūdvṛtaṃ tathaiva ca .. 209..
करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ २१०॥
karihastaṃ kaṭicchinnaṃ madādvilasite bhavet . maṇḍalaṃ sthānakaṃ kṛtvā tathā hastau ca recitau .. 210..
उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ २११॥
udghaṭṭitena pādena mattallikaraṇaṃ bhavet . ākṣiptaṃ karaṇaṃ caiva hyuromaṇḍalameva ca .. 211..
कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ २१२॥
kaṭicchinnaṃ tathā caiva bhavettu gatimaṇḍale . samapādaṃ prayujyātha paricchinnaṃ tvanantaram .. 212..
आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ २१३॥
āviddhena tu pādena bāhyabhramarakaṃ tathā . vāmasūcyā tvatikrāntaṃ bhujaṅgatrāsitaṃ tathā .. 213..
करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ । २१४॥
karihastaṃ kaṭicchinnaṃ paricchinne vidhīyate . śirasastūpari sthāpyau svastiakau vicyutau karau . 214..
ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ २१५॥
tataḥ savyaṃ karaṃ cāpi gātramānamya recayet . punarutthāpayettatra gātramunnamya recitam .. 215..
लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ २१६॥
latākhyau ca karau kṛtvā vṛścikaṃ samprayojayet . recitaṃ karihastaṃ ca bhujaṅgatrāsitaṃ tathā .. 216..
आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ २१७॥
ākṣiptakaṃ prayuñjīta svastikaṃ pādameva ca . parāṅgmukhavidhirbhūya evameva bhavediha .. 217..
करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ २१८॥
karihastaṃ kaṭicchinnaṃ parivṛttakarecitī . recitau saha gātreṇa hyapaviddhau karau yadā .. 218..
पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ २१९॥
punastenaiva deśena gātramunnamya recayet . kuryānnūpurapādaṃ ca bhujaṅgatrāsitaṃ tathā .. 219..
रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ २२०॥
recitaṃ maṇḍalaṃ caiva bāhuśīrṣe nikuñcayet . ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca .. 220..
करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥२२१॥
karihastaṃ kaṭicchinnaṃ kuryādvaiśākharecite . ādyaṃ tu janitaṃ kṛtvā pādamekaṃ prasārayet ..221..
तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ २२२॥
tathaivālātakaṃ kuryāt trikaṃ tu parivartayet . añcitaṃ vāmahastaṃ ca gaṇḍadeśe nikuṭṭayet .. 222..
कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ २२३॥
kaṭicchinnaṃ tathā caiva parāvṛtte prayojayet . svastikaṃ karaṇaṃ kṛtvā vyaṃsitau ca karau punaḥ .. 223..
अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ २२४॥
alātakaṃ prayuñjīta hyūrdhvajānu nikuñcitam . ardhasūcī ca vikṣiptamudvṛttākṣiptake tathā .. 224..
करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ २२५॥
karihastaṃ kaṭicchinnamaṅgahāre hyalātake . nikuṭya vakṣasi karāvūrdhvajānu prayojayet .. 225..
आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ २२६॥
ākṣiptasvastikaṃ kṛtvā trikaṃ tu parivartayet . uromaṇḍalakau hastau nitambaṃ karihastakam .. 226..
कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ २२७॥
kaṭicchinnaṃ tathā caiva pārśvacchede vidhīyate . sūcīvāmapadaṃ dadhyādvidyudbhrāntaṃ ca dakṣiṇam .. 227..
दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ २२८॥
dakṣiṇena punaḥ sūcī vidyudbhrāntaṃ ca vāmataḥ . paricchinnaṃ tathā caiva hyatikrāntaṃ ca vāmakam .. 228..
लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ २२९॥
latākhyaṃ sakaṭicchinnaṃ vidyudbhrāntaśca sa smṛtaḥ . kṛtvā nūpurapādaṃ tu savyavāmau pralambitau .. 229..
करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ २३०॥
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet . tābhyāṃ sūcī tathā caiva trikaṃ tu parivartayet .. 230..
लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ २३१॥
latākhyaṃ sakaṭicchinnaṃ kurtādudvṛttake sadā . ālīḍhavyaṃsitau hastau bāhuśīrṣe nikuṭṭayet .. 231..
नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥२३२॥
nūpuraścaraṇo vāmastathālātaśca dakṣiṇaḥ . tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau ..232..
करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ २३३॥
karihastaṃ kaṭicchinnamālīḍhe samprayojayet . hastaṃ tu recitaṃ kṛtvā pārśvamānasya recayet .. 233..
पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ २३४॥
punastenaiva yogena gātramānasya recayet . recitaṃ karaṇaṃ kāryamuromaṇḍalameva ca .. 234..
कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥२३५॥
kaṭicchinnaṃ tu kartavyamaṅgahāre tu recite . nūpuraṃ caraṇaṃ kṛtvā trikaṃ tu parivartayet ..235..
व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥२३६॥
vyaṃsitena tu hastena trikameva vivartayet . vāmaṃ cālātakaṃ kṛtvā sūcīmatraiva yojayet ..236..
करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ २३७॥
karihastaṃ kaṭicchinnaṃ kuryādācchurite sadā . recitau svastikau pādau recitau svastikau karau .. 237..
कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ २३८॥
kṛtvā viśleṣamevaṃ tu tenaiva vidhinā punaḥ . punarutkṣepaṇaṃ caiva recitaireva kārayet .. 238..
उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ २३९॥
udvṛttākṣiptake caiva hyuromaṇḍalameva ca . nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca .. 239..
आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ २४०॥
ākṣiptarecito hyeṣa karaṇānāṃ vidhiḥ smṛtaḥ . vikṣipta karaṇaṃ kṛtvā hastapādaṃ mukhāgamam .. 240..
वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ २४१॥
vāmasūcisahakṛtaṃ vikṣipedvāmakaṃ karam . vakṣaḥsthāne bhavetsavyo valitaṃ trikameva ca .. 241..
नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ २४२॥
nūpurākṣiptake caiva hyardhasvastikameva ca . nitambaṃ karihastaṃ ca hyuromaṇḍalakaṃ tathā .. 242..
कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ २४३॥
kaṭicchinnaṃ ca kartavyaṃ sambhrānte nṛttayoktṛbhiḥ . apakrāntakramaṃ kṛtvā vyaṃsitaṃ hastameva ca .. 243..
कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ २४४॥
kuryādudveṣṭitaṃ caiva hyardhasūcīṃ tathaiva ca . vikṣiptaṃ sakaṭicchinnamudvṛttākṣiptake tathā .. 244..
करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ २४५॥
karihastaṃ kaṭicchinnaṃ kartavyamapasarpite . kṛtvā nūpurapādaṃ ca drutamākṣipya ca kramam .. 245..
पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ २४६॥
pādasya cānugau hastau trikaṃ ca parivartayet . nikuṭya karapādaṃ cāpyuromaṇḍalakaṃ punaḥ .. 246..
करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ २४७॥
karihastaṃ kaṭicchinnaṃ kāryamardhanikuṭṭake . dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ .. 247..
चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ २४८॥
caturo recakāṃścāpi gadato me nibodhata . pādarecaka ekaḥ syāt dvitīyaḥ kaṭirecakaḥ .. 248..
कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ २४९॥
kararecakastṛtīyastu caturthaḥ kaṇṭharecakaḥ . recakairaṅgahāraiśca nṛtyantaṃ vīkṣya śaṅkaram .. 249..
[रेचिताख्यः पृथग्भावे वलने चाभिधीयते ॥ उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः । पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः ॥ विविधैश्चैव पादस्य पादरेचक उच्यते । त्रिकस्योद्वर्तनं चैव छटीवलनमेव च ॥ तथाऽपसर्पणं चैव कटिरेचक उच्यते । उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् ॥ विसर्पणं च हस्तस्य हस्तरेचक उच्यते । उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः ॥ भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः । ]
[recitākhyaḥ pṛthagbhāve valane cābhidhīyate .. udvāhanātpṛthagbhāvāccalanāccāpi recakaḥ . pārśvātpārśve tu gamanaṃ skhalitaiścalitaiḥ padaiḥ .. vividhaiścaiva pādasya pādarecaka ucyate . trikasyodvartanaṃ caiva chaṭīvalanameva ca .. tathā'pasarpaṇaṃ caiva kaṭirecaka ucyate . udvartanaṃ parikṣepo vikṣepaḥ parivartanam .. visarpaṇaṃ ca hastasya hastarecaka ucyate . udvāhanaṃ sannamanaṃ tathā pārśvasya sannatiḥ .. bhramaṇaṃ cāpi vijñeyo grīvāyā recako budhaiḥ . ]
सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥२५०॥
sukumāraprayogeṇa nṛtyantīṃ caiva pārvatīm . mṛdañgabherīpaṭahairbhāṇḍaḍiṇḍimagomukhaiḥ ..250..
पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ २५१॥
paṇavairdaduraiścaiva sarvātodyaiḥ pravāditaiḥ . dakṣayajñe vinihate sandhyākāle maheśvaraḥ .. 251..
नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ २५२॥
nānāṅgahāraiḥ prānṛtyallayatālavaśānugaiaḥ . piṇḍibandhāṃstato dṛṣṭvā nandibhadramukhā gaṇāḥ .. 252..
चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥ २५३॥
cakruste nāma piṇḍīnāṃ bandhamāsāṃ salakṣaṇam . īśvarasyeśvarī pinḍī nandinaścāpi paṭṭasī .. 253..
चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयम्भुवः ॥ २५४॥
caṇḍikāyā bhavetpiṇḍī tathā vai siṃhavāhinī . tārkṣyapiṇḍī bhavedviṣṇoḥ padmapiṇḍī svayambhuvaḥ .. 254..
शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ २५५॥
śakrasyairāvatī piṇḍī jhaṣapiṇḍī tu mānmathī . śikhipiṇḍī kumārasya rūpapiṇḍī bhavecchriyaḥ .. 255..
धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च ॥ वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ २५६॥
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca .. vāruṇī ca nadīpiṇḍī yākṣī syāddhanadasya tu .. 256..
हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी॥२५७॥
halapiṇḍī balasyāpi sarpapiṇḍī tu bhoginām . gāṇeśvarī mahāpiṇḍī dakṣayajñavimardinī..257..
त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ २५८॥
triśūlākṛtisaṃsthānā raudrī syādandhakadviṣaḥ . evamanyāsvapi tathā devatāsu yathākramam .. 258..
ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ २५९॥
dhvajabhūtāḥ prayoktavyāḥ piṇḍībandhāḥ sucihnitāḥ . recakā aṅgahārāśca piṇḍībandhātasthaiva ca .. 259..
सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ २६०॥
sṛṣṭvā bhagavatā dattāstaṇḍave munaye tadā . tenāpi hi tataḥ samyaggānabhāṇḍasamanvitaḥ .. 260..
नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ २६१॥
nṛttaprayogaḥ sṛṣṭo yaḥ sa tāṇḍava iti smṛtaḥ . yadā prāptyarthamarthānāṃ tajjñairabhinayaḥ kṛtaḥ .. 261..
कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ २६२॥
kasmānṛttaṃ kṛtaṃ hyetatkaṃ svabhāvamapekṣate . na gītakārthasambaddhaṃ na cāpyarthasya bhāvakam .. 262..
कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ २६३॥
kasmānnṛttaṃ kṛtaṃ hyetadgīteṣvāsāriteṣu ca . bharataḥ - atrocyate na khalvarthaṃ kañcinnṛttamapekṣate .. 263..
किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ २६४॥
kiṃ tu śobhāṃ prajanayediti nṛttaṃ pravartitam . prāyeṇa sarvalokasya nṛttamiṣṭaṃ svabhāvataḥ .. 264..
मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ २६५॥
maṅgalamiti kṛtvā ca nṛttametatprakīrtitam . vivāhaprasavāvāhapramodābhyuadayādiṣu .. 265..
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः॥ २६६॥
vinodakāraṇaṃ ceti nṛttametatpravartitam . ataścaiva pratikṣepādbhūtasaṅghaiḥ pravartitāḥ.. 266..
ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः। देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ २६७॥
ye gītakādau yujyante samyaṅnṛttavibhāgakāḥ. devena cāpi samproktastaṇḍustāṇḍavapūrvakam .. 267..
गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥२६८॥
gītaprayogamāśritya nṛttametatpravartyatām . prāyeṇa tāṇḍavavidhirdevastutyāśrayo bhavet ..268..
सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्॥२६९॥
sukumāraprayogaśca śṛṅgārarasasambhavaḥ . tasya taṇḍuprayuktasya tāṇḍavasya vidhikriyām..269..
वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ २७०॥
vardhamānakamāsādya sampravakṣyami lakṣaṇam . kalānāṃ vṛddhimāsādya hyakṣarāṇāṃ ca vardhanāt .. 270..
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ २७१॥
layasya vardhanāccāpi vardhamānakamucyate . kṛttvā kutapavinyāsaṃ yathāvaddvijasattamāḥ .. 271..
आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ २७२॥
āsāritaprayogastu tataḥ kāryaḥ prayoktṛbhiḥ . tatra tūpohanaṃ kṛttvā tantrīgānasamanvitam .. 272..
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥२७३॥
kāryaḥ praveśo nartakyā bhāṇḍavādyasamanvitaḥ . viśuddhakaraṇāyāṃ tu jātyāṃ vādyaṃ prayojayet ..273..
गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ २७४॥
gatyā vādyānusāriṇyā tasyāścārīṃ prayojayet . vaiśākhasthānakeneha sarvarecakacāriṇī .. 274..
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥ २७५॥
puṣpāñjalidharā bhūtvā praviśedraṅgamaṇḍapam . puṣpāñjaliṃ visṛjyātha raṅgapīṭhaṃ parītya ca .. 275..
प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ २७६॥
praṇamya devatābhyaśca tato'bhinayamācaret . yatrābhineyaṃ gītaṃ syāttatra vādyaṃ na yojayet .. 276..
अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥२७७॥
aṅgahāraprayoge tu bhāṇḍavādyaṃ vidhīyate . samaṃ raktaṃ vibhaktaṃ ca sphuṭaṃ śuddhaprahārajam ..277..
नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ २७८॥
nṛttāṅgagrāhi vādyajñairvādyaṃ yojyaṃ tu tāṇḍave . prayujya gītavādye tu niṣkrāmennartakī tataḥ .. 278..
अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ २७९॥
anenaiva vidhānena praviśantyaparāḥ pṛthak . anyāścānukrameṇātha piṇḍīṃ badhnanti yāḥ striyaḥ .. 279..
तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ २८०॥
tāvatparyastakaḥ kāryo yāvatpiṇḍī na badhyate . piṇḍīṃ baddhvā tataḥ sarvā niṣkrāmeyuḥ striyastu tāḥ .. 280..
पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ २८१॥
piṇḍībandheṣu vādyaṃ tu kartavyamiha vādakaiaḥ . paryastakapramāṇena citraughakaraṇānvitam .. 281..
तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ २८२॥
tatropavāhanaṃ bhūyaḥ kāryaṃ pūrvavadeva hi . tataścāsāritaṃ bhūyo gāyanaṃ tu prayojayet .. 282..
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ २८३॥
pūrveṇaiva vidhānena praviśeccāpi nartakī . gītakārthaṃ tvabhinayed dvitīyāsāritasya tu .. 283..
तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ २८४॥
tadeva ca punarvastu nṛttenāpi pradarśayet . āsārite samāpte tu niṣkrāmennartakī tataḥ .. 284..
पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ २८५॥
pūrvavatpraviśantyanyāḥ prayogaḥ syātsa eva hi . evaṃ pade pade kāryo vidhirāsāritasya tu .. 285..
भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ २८६॥
bhāṇḍavādyakṛte caiva tathā gānakṛte'pi ca . ekā tu prathamaṃ yojyā dve dvitīyaṃ tathaiva ca .. 286..
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ २८७॥
tisro vastu tṛtīyaṃ tu catasrastu caturthakam . piṇḍīnāṃ vidhayaścaiva catvāraḥ samprakīrtitāḥ .. 287..
पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ २८८॥
piṇḍī śṛṅkhalikā caiva latābandho'tha bhedyakaḥ . piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet .. 288..
जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ २८९॥
jālopanaddhā ca latā sanṛtto bhedyakaḥ smṛtaḥ . piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu layāntare .. 289..
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ २९०॥
madhyame ca latābandho jyeṣṭhe caivātha bhedyakaḥ . piṇḍīnāṃ vividhā yoniryantraṃ bhadrāsanaṃ tathā .. 290..
शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ २९१॥
śikṣāyogastathā caiva prayoktavyaḥ prayoktṛbhiḥ . evaṃ prayogaḥ kartavyo vardhamāne tapodhanāḥ .. 291..
गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ २९२॥
gītānāṃ chandakānāṃ ca bhūyo vakṣyāmyahaṃ vidhim . yāni vastunibaddhāni yāni cāṅgikṛtāni tu .. 292..
गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ २९३॥
gītāni teṣāṃ vakṣyāmi prayogaṃ nṛttavādyayoḥ . tatrāvataraṇaṃ kāryaṃ nartakyāḥ sārvabhāṇḍikam .. 293..
क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ २९४
kṣepapratikṣepakṛtaṃ bhāṇḍopohanasaṃskṛtam . prathamaṃ tvabhineyaṃ syadgītake sarvavastukam .. 294
तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ २९५॥
tadeva ca punarvastu nṛttīnāpi pradarśeyat . yo vidhiḥ pūrvamuktastu nṛttābhinayavādite .. 295..
आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ २९६॥
āsāritavidhau sa syādgītānāṃ vastukeṣvapi . evaṃ vastunibandhānāṃ gītakānāṃ vidhiḥ smṛtaḥ .. 296..
शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ २९७॥
śṛṇutāṅganibaddhānāṃ gītānāmapi lakṣaṇam . ya eva vastukavidhirnṛttābhinayavādite .. 297..
तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ २९८॥
tamevāṅganibaddheṣu cchandakeṣvapi yojayet . vādyaṃ gurvakṣarakṛtaṃ tathālpākṣarameva ca .. 298..
मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ २९९॥
mukhe sopohane kuryādvarṇānāṃ viprakarṣataḥ . yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate .. 299..
तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ ३००॥
tatrādyamabhineyaṃ syāccheṣaṃ nṛttena yojayet . yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate .. 300..
त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ ३०१॥
tripāṇilayasaṃyuktaṃ tatra vādyaṃ prayojayet . yathā layastathā vādyaṃ kartavyamiha vādakaiḥ .. 301..
[ ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं (तं) प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् ॥ अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ॥]
[ tataṃ cānugataṃ cāpi oghaṃ ca karaṇānvitam . sthire tattvaṃ (taṃ) prayoktavyaṃ madhye cānugataṃ bhavet .. bhūyaścaughaḥ prayoktavyastveṣa vādyagato vidhiḥ . chandogītakamāsādya tvaṅgāni parivartayet .. eṣa kāryo vidhirnityaṃ nṛttābhinayavādite . yāni vastunibaddhāni teṣāmante graho bhavet .. aṅgānāṃ tu parāvṛttāvādāveva graho mataḥ ..]
एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ ३०२॥
evameṣa vidhiḥ kāryo gīteṣvāsāriteṣvapi . devastutyāśrayaṃ hyetatsukumāraṃ nibodhata .. 302..
स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ ३०३॥
strīpuṃsayostu saṃlāpo yastu kāmasamudbhavaḥ . tajjñeyaṃ sukumāraṃ hi śṛṅgārarasasambhavam .. 303..
यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ ३०४॥
yasyāṃ yasyāmavasthāyāṃ nṛttaṃ yojyaṃ prayoktṛbhiḥ . tatsarvaṃṃ sampravakṣyāmi tacca me śṛṇuta dvijāḥ .. 304..
अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ ३०५॥
aṅgavastunivṛttau tu tathā varṇanivṛttiṣu . tathā cābhudayasthāne nṛttaṃ tajjñaḥ prayojayet .. 305..
यत्तु सन्दृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ ३०६॥
yattu sandṛśyate kiñciddampatyormadanāśrayam . nṛttaṃ tatra prayoktavyaṃ praharṣārthaguṇodbhavam .. 306..
यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसम्बद्धं नृत्तं तत्रापि चेष्यते ॥ ३०७॥
yatra sannihite kānte ṛtukālādidarśanam . gītakārthābhisambaddhaṃ nṛttaṃ tatrāpi ceṣyate .. 307..
खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥३०८॥
khaṇḍiatā vipralabdhā vā kalahāntaritāpi vā . yasminnaṅge tu yuvatirna nṛttaṃ tatra na yojayet ..308..
सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ ३०९॥
sakhīpravṛtte saṃlāpe tathā'sannihite priye . na hi nṛttaṃ prayoktavyaṃ yasyā na proṣitaḥ priyaḥ .. 309..
[ दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासम्बद्धं न नृत्तं तत्र योजयेत् ॥]
[ dūtyāśrayaṃ yadā tu syādṛtukālādi darśanam . autsukyacintāsambaddhaṃ na nṛttaṃ tatra yojayet ..]
यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ ३१०॥
yasminnaṅge prasādaṃ tu gṛhnīyānnāyikā kramāt . tataḥprabhṛti nṛttaṃ tu śeṣeṣvaṅgeṣu yojayet .. 310..
देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥३११॥
devastutyāśrayakṛtaṃ yadaṅgaṃ tu bhavedatha . māheśvarairaṅgahārairuddhataistatprayojayet ..311..
यत्तु शृङ्गारसम्बद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ ३१२॥
yattu śṛṅgārasambaddhaṃ gānaṃ strīpuruṣāśrayam . devīkṛtairaṅgahārairlalitaistatprayojayet .. 312..
चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ ३१३॥
catuṣpadā narkuṭake khañjake parigītake . vidhānaṃ sampravakṣyāmi bhāṇḍavādyavidhiṃ prati .. 313..
खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ३१४॥
khañjanarkuṭasaṃyuktā bhasvedyā tu catuṣpadā . pādānte sannipāte tu tasyā bhāṇḍagraho bhavet .. 314..
या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥३१५॥
yā dhruvā chandasā yaktā samapādā samākṣarā . tasyāḥ pādāvasāne tu pradeśinyā graho bhavet ..315..
कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥३१६॥
kṛtvaikaṃ parivartaṃ tu gānasyābhinayasya ca . punaḥ pādanivṛttiṃ tu bhāṇḍavādyena yojayet ..316..
अऽङ्गवस्तुनिवृतौ तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ ३१७॥
a'ṅgavastunivṛtau tu varṇāntaranivṛttiṣu . tathopasthāpane caiva bhāṇḍavādyaṃ prayojayet .. 317..
येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ ३१८
ye'pi cāntaramārgāssyuḥ tantrivākkaraṇaiḥ kṛtāḥ . teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave .. 318
महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ३१९॥
maheśvarasya caritaṃ ya idaṃ samprayojayet . sarvapāpaviśuddhātmā śivalokaṃ sa gacchati .. 319..
एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ ३२०॥
evameṣa vidhiḥ sṛ(rdṛ)ṣṭastāṇḍavasya prayogataḥ . bhūyaḥ kiṃ kathyatāmanyannāṭyavedavidhiṃ prati .. 320..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In