| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २४ ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
चतुर्विंशोऽध्यायः
चतुर्विंशः अध्यायः
caturviṃśaḥ adhyāyaḥ
समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता । पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ १॥
समासतस् तु प्रकृतिः त्रिविधा परिकीर्तिता । पुरुषाणाम् अथ स्त्रीणाम् उत्तम-अधम-मध्यमा ॥ १॥
samāsatas tu prakṛtiḥ trividhā parikīrtitā . puruṣāṇām atha strīṇām uttama-adhama-madhyamā .. 1..
जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा । दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥२॥
जित-इन्द्रिय ज्ञानवती नाना शिल्प-विचक्षणा । दक्षिण-अध महा-लक्ष्या भीतानाम् परिसान्त्वनी ॥२॥
jita-indriya jñānavatī nānā śilpa-vicakṣaṇā . dakṣiṇa-adha mahā-lakṣyā bhītānām parisāntvanī ..2..
नानाशास्त्रार्थसम्पन्ना गाम्भीर्यौदार्यशालिनी । स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ ३॥
नाना शास्त्र-अर्थ-सम्पन्ना गाम्भीर्य-औदार्य-शालिनी । स्थैर्य-त्याग-गुण-उपेता ज्ञेया प्रकृतिः उत्तमा ॥ ३॥
nānā śāstra-artha-sampannā gāmbhīrya-audārya-śālinī . sthairya-tyāga-guṇa-upetā jñeyā prakṛtiḥ uttamā .. 3..
लोकोपचारचतुरा शिल्पशास्त्रविशारदा । विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ ४॥
लोक-उपचार-चतुरा शिल्प-शास्त्र-विशारदा । विज्ञान-माधुर्य-युता मध्यमा प्रकृतिः स्मृता ॥ ४॥
loka-upacāra-caturā śilpa-śāstra-viśāradā . vijñāna-mādhurya-yutā madhyamā prakṛtiḥ smṛtā .. 4..
रूक्षवाचोऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः । क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ ५॥
रूक्ष-वाचः अथ दुःशीलाः कु सत्त्वाः स्थूल-बुद्धयः । क्रोधन-आघातकाः च एव मित्र-घ्नाः छिद्र-मानिनः ॥ ५॥
rūkṣa-vācaḥ atha duḥśīlāḥ ku sattvāḥ sthūla-buddhayaḥ . krodhana-āghātakāḥ ca eva mitra-ghnāḥ chidra-māninaḥ .. 5..
पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः । मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ ६॥
पिशुनाः तु उद्धतैः वाक्यैः अकृतज्ञाः तथा अलसाः । मान्य-अमान्याः स्त्री-लोलाः कलह-प्रियाः ॥ ६॥
piśunāḥ tu uddhataiḥ vākyaiḥ akṛtajñāḥ tathā alasāḥ . mānya-amānyāḥ strī-lolāḥ kalaha-priyāḥ .. 6..
सूचकाः पापकर्माणः परद्रव्यापहारिणः । एभिर्दोषैस्तुसम्पन्ना भवन्तीहाधमा नराः ॥ ७॥
सूचकाः पाप-कर्माणः पर-द्रव्य-अपहारिणः । एभिः दोषैः तु सम्पन्नाः भवन्ति इह अधमाः नराः ॥ ७॥
sūcakāḥ pāpa-karmāṇaḥ para-dravya-apahāriṇaḥ . ebhiḥ doṣaiḥ tu sampannāḥ bhavanti iha adhamāḥ narāḥ .. 7..
एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता । स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ ८॥
एवम् तु शीलतः नॄणाम् प्रकृतिः त्रिविधा स्मृता । स्त्रीणाम् पुनर् च प्रकृतिम् व्याख्यास्यामि अनुपूर्वशस् ॥ ८॥
evam tu śīlataḥ nṝṇām prakṛtiḥ trividhā smṛtā . strīṇām punar ca prakṛtim vyākhyāsyāmi anupūrvaśas .. 8..
मृदुभाबा चाचपला स्मितभाषिण्यनिष्ठुरा । गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ ९॥
च अचपला स्मित-भाषिणी अनिष्ठुरा । गुरूणाम् वचने दक्षा स लज्जा विनय-अन्विता ॥ ९॥
ca acapalā smita-bhāṣiṇī aniṣṭhurā . gurūṇām vacane dakṣā sa lajjā vinaya-anvitā .. 9..
रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता । गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ १०॥
रूप-अभिजन-माधुर्यैः गुणैः स्वाभाविकेः युता । गाम्भीर्य-धैर्य-सम्पन्ना विज्ञेया प्रमदा-उत्तमा ॥ १०॥
rūpa-abhijana-mādhuryaiḥ guṇaiḥ svābhāvikeḥ yutā . gāmbhīrya-dhairya-sampannā vijñeyā pramadā-uttamā .. 10..
नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः । अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ ११॥
न अति उत्कृष्टैः अनिखिलैः एभिः एव अन्विताः गुणैः । अल्प-दोष-अनुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ ११॥
na ati utkṛṣṭaiḥ anikhilaiḥ ebhiḥ eva anvitāḥ guṇaiḥ . alpa-doṣa-anuviddhā ca madhyamā prakṛtiḥ smṛtā .. 11..
अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता । विज्ञेया सैव नारीणामधमानां समासतः ॥ १२॥
अधमा प्रकृतिः या तु पुरुषाणाम् प्रकीर्तिता । विज्ञेया सा एव नारीणाम् अधमानाम् समासतस् ॥ १२॥
adhamā prakṛtiḥ yā tu puruṣāṇām prakīrtitā . vijñeyā sā eva nārīṇām adhamānām samāsatas .. 12..
नपुंसकस्तु विज्ञेयः सङ्कीर्णोऽधम एव च । प्रेष्यादिरपि विज्ञेया सङ्कीर्णा प्रकृतिद्विजाः ॥ १३॥
नपुंसकः तु विज्ञेयः सङ्कीर्णः अधमः एव च । प्रेष्य-आदिः अपि विज्ञेया सङ्कीर्णा प्रकृति-द्विजाः ॥ १३॥
napuṃsakaḥ tu vijñeyaḥ saṅkīrṇaḥ adhamaḥ eva ca . preṣya-ādiḥ api vijñeyā saṅkīrṇā prakṛti-dvijāḥ .. 13..
शकारश्च विटश्चैव ये चान्येप्येवमादयः । सङ्कीर्णास्तेऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ १४॥
शकारः च विटः च एव ये च अन्ये अपि एवमादयः । सङ्कीर्णाः ते अपि विज्ञेयाः हि अधमाः नाटके बुधैः ॥ १४॥
śakāraḥ ca viṭaḥ ca eva ye ca anye api evamādayaḥ . saṅkīrṇāḥ te api vijñeyāḥ hi adhamāḥ nāṭake budhaiḥ .. 14..
एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः । आसां तु सम्प्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ १५॥
एताः ज्ञेयाः प्रकृतयः पुरुष-स्त्री-नपुंसकैः । आसाम् तु सम्प्रवक्ष्यामि विधानम् शील-संश्रयम् ॥ १५॥
etāḥ jñeyāḥ prakṛtayaḥ puruṣa-strī-napuṃsakaiḥ . āsām tu sampravakṣyāmi vidhānam śīla-saṃśrayam .. 15..
अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः । मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ १६॥
अत्र चत्वारः एव स्युः नायकाः परिकीर्तिताः । मध्यम-उत्तम-प्रकृतौ नाना लक्षण-लक्षिताः ॥ १६॥
atra catvāraḥ eva syuḥ nāyakāḥ parikīrtitāḥ . madhyama-uttama-prakṛtau nānā lakṣaṇa-lakṣitāḥ .. 16..
धीरोद्धता धीरललिता धीरोदात्तास्तथैव च । धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ १७॥
धीर-उद्धताः धीर-ललिताः धीर-उदात्ताः तथा एव च । धीर-प्रशान्तकाः च एव नायकाः परिकीर्तिताः ॥ १७॥
dhīra-uddhatāḥ dhīra-lalitāḥ dhīra-udāttāḥ tathā eva ca . dhīra-praśāntakāḥ ca eva nāyakāḥ parikīrtitāḥ .. 17..
देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ १८॥
देवाः धीर-उद्धताः ज्ञेयाः स्युः धीर-ललिताः नृपाः । सेनापतिः अमात्यः च धीर-उदात्तौ प्रकीर्तितौ ॥ १८॥
devāḥ dhīra-uddhatāḥ jñeyāḥ syuḥ dhīra-lalitāḥ nṛpāḥ . senāpatiḥ amātyaḥ ca dhīra-udāttau prakīrtitau .. 18..
धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा । एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ १९॥
धीर-प्रशान्ताः विज्ञेयाः ब्राह्मणाः वाणिजः तथा । एतेषाम् तु पुनर् ज्ञेयाः चत्वारः तु विदूषकः ॥ १९॥
dhīra-praśāntāḥ vijñeyāḥ brāhmaṇāḥ vāṇijaḥ tathā . eteṣām tu punar jñeyāḥ catvāraḥ tu vidūṣakaḥ .. 19..
लिङ्गी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् । देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ २०॥
लिङ्गी द्विजः राज-जीवी शिष्यः च इति यथाक्रमम् । देव-क्षितिभृताम् अमात्य-ब्राह्मणानाम् प्रयोजयेत् ॥ २०॥
liṅgī dvijaḥ rāja-jīvī śiṣyaḥ ca iti yathākramam . deva-kṣitibhṛtām amātya-brāhmaṇānām prayojayet .. 20..
विप्रलम्भसुहृदोमी सङ्कथालापपेशलाः । व्यसनी प्राप्य दुःखं वा युज्यतेऽभ्युदयेन यः ॥ २१॥
विप्रलम्भ-सुहृदाः उमी सङ्कथा-आलाप-पेशलाः । व्यसनी प्राप्य दुःखम् वा युज्यते अभ्युदयेन यः ॥ २१॥
vipralambha-suhṛdāḥ umī saṅkathā-ālāpa-peśalāḥ . vyasanī prāpya duḥkham vā yujyate abhyudayena yaḥ .. 21..
तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः । यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ २२॥
तथा पुरुषम् आहुः तम् प्रधानम् नायकम् बुधाः । यत्र अनेकस्य भवतः व्यसन-अभ्युदयौ पुनर् ॥ २२॥
tathā puruṣam āhuḥ tam pradhānam nāyakam budhāḥ . yatra anekasya bhavataḥ vyasana-abhyudayau punar .. 22..
सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः । दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ २३॥
स पुष्टौ यत्र तौ स्याताम् न भवेत् तत्र नायकः । दिव्या च नृप-पत्नी च कुल-स्त्री गणिका तथा ॥ २३॥
sa puṣṭau yatra tau syātām na bhavet tatra nāyakaḥ . divyā ca nṛpa-patnī ca kula-strī gaṇikā tathā .. 23..
एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः । धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ २४॥
एताः तु नायिकाः नाना प्रकृति-लक्षणाः । धीरा च ललिता च स्यात् उदात्ता निभृता तथा ॥ २४॥
etāḥ tu nāyikāḥ nānā prakṛti-lakṣaṇāḥ . dhīrā ca lalitā ca syāt udāttā nibhṛtā tathā .. 24..
दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि । उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ २५॥
दिव्याः राज-अङ्गनाः च एव गुणैः युक्ताः भवन्ति हि । उदात्ता निभृता च एव भवेत् तु कुल-जा अङ्गना ॥ २५॥
divyāḥ rāja-aṅganāḥ ca eva guṇaiḥ yuktāḥ bhavanti hi . udāttā nibhṛtā ca eva bhavet tu kula-jā aṅganā .. 25..
ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके । [प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ॥ २६॥
ललिते च अभ्युदात्ते च गणिका-शिल्प-कारिके । [प्रकृतीनाम् तु सर्वासाम् उपचारात् द्विधा स्मृताः ॥ २६॥
lalite ca abhyudātte ca gaṇikā-śilpa-kārike . [prakṛtīnām tu sarvāsām upacārāt dvidhā smṛtāḥ .. 26..
बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् । तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ २७॥
बाह्यः च अभ्यन्तरः च एव तयोः वक्ष्यामि लक्षणम् । तत्र राज-उपचारः यः भवेत् आभ्यन्तरः हि सः ॥ २७॥
bāhyaḥ ca abhyantaraḥ ca eva tayoḥ vakṣyāmi lakṣaṇam . tatra rāja-upacāraḥ yaḥ bhavet ābhyantaraḥ hi saḥ .. 27..
ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते । अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ २८॥
ततस् वाक्य-उपचारः तु यस्य बाह्यः सः उच्यते । अथ राज-उपचारे च राज्ञाम् अन्तःपुर-आश्रितम् ॥ २८॥
tatas vākya-upacāraḥ tu yasya bāhyaḥ saḥ ucyate . atha rāja-upacāre ca rājñām antaḥpura-āśritam .. 28..
स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । ] राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ २९॥
स्त्री-विभागम् प्रवक्ष्यामि विभक्तम् उपचारतः । ] राज-उपचारम् वक्ष्यामि हि अन्तःपुर-समाश्रयम् ॥ २९॥
strī-vibhāgam pravakṣyāmi vibhaktam upacārataḥ . ] rāja-upacāram vakṣyāmi hi antaḥpura-samāśrayam .. 29..
महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि । भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥३०॥
महादेवी तथा देव्यः स्वामिन्यः स्थापिताः अपि । भोगिन्यः शिल्प-कारिण्यः नाटकीयाः स नर्तकाः ॥३०॥
mahādevī tathā devyaḥ svāminyaḥ sthāpitāḥ api . bhoginyaḥ śilpa-kāriṇyaḥ nāṭakīyāḥ sa nartakāḥ ..30..
अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः । तथा सञ्चारिकाश्चैव तथा प्रेषणकारिकाः ॥ ३१॥
अनुचारिकाः च विज्ञेयाः तथा च परिचारिकाः । तथा सञ्चारिकाः च एव तथा प्रेषण-कारिकाः ॥ ३१॥
anucārikāḥ ca vijñeyāḥ tathā ca paricārikāḥ . tathā sañcārikāḥ ca eva tathā preṣaṇa-kārikāḥ .. 31..
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि । आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ ३२॥
महत्तर्यः प्रतीहार्यः कुमार्यः स्थविराः अपि । आयुक्तिकाः च नृपतेः अयम् अन्तःपुरः जनः ॥ ३२॥
mahattaryaḥ pratīhāryaḥ kumāryaḥ sthavirāḥ api . āyuktikāḥ ca nṛpateḥ ayam antaḥpuraḥ janaḥ .. 32..
अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता । गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ ३३॥
अत्र मूर्धाभिषिक्ता या कुल-शील-समन्विता । गुणैः युक्ता वयःस्था च मध्यस्था क्रोधना तथा ॥ ३३॥
atra mūrdhābhiṣiktā yā kula-śīla-samanvitā . guṇaiḥ yuktā vayaḥsthā ca madhyasthā krodhanā tathā .. 33..
मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा । शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ ३४॥
मुक्ता-ईर्ष्या नृप-शील-ज्ञा सुख-दुःख-सहा समा । शान्ति-स्वस्त्ययनैः भर्तुः सततम् मङ्गल-एषिणी ॥ ३४॥
muktā-īrṣyā nṛpa-śīla-jñā sukha-duḥkha-sahā samā . śānti-svastyayanaiḥ bhartuḥ satatam maṅgala-eṣiṇī .. 34..
शान्ता पतिव्रता धीरा अन्तःपुरहिते रता । एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ ३५॥
शान्ता पतिव्रता धीरा अन्तःपुर-हिते रता । एभिः गुणैः तु संयुक्ता महदेवी इति उदाहृता ॥ ३५॥
śāntā pativratā dhīrā antaḥpura-hite ratā . ebhiḥ guṇaiḥ tu saṃyuktā mahadevī iti udāhṛtā .. 35..
एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः । गर्विताश्चातिसौभाग्याः पतिसम्भोगतत्पराः । ३६॥
एभिः एव गुणैः युक्ताः तद्-संस्कार-विवर्जिताः । गर्विताः च अति सौभाग्याः पति-सम्भोग-तत्पराः । ३६॥
ebhiḥ eva guṇaiḥ yuktāḥ tad-saṃskāra-vivarjitāḥ . garvitāḥ ca ati saubhāgyāḥ pati-sambhoga-tatparāḥ . 36..
शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः । वयोरूपगुणाढ्या यास्ता देव्य इति भाषिताः ॥ ३७॥
शुचि-नित्य-उज्वल-आकाराः पति-पक्ष-अभ्यसूयकाः । वयः-रूप-गुण-आढ्याः याः ताः देव्यः इति भाषिताः ॥ ३७॥
śuci-nitya-ujvala-ākārāḥ pati-pakṣa-abhyasūyakāḥ . vayaḥ-rūpa-guṇa-āḍhyāḥ yāḥ tāḥ devyaḥ iti bhāṣitāḥ .. 37..
सेनापतेरमात्यानां भृत्यानामथवा पुनः । भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ ३८॥
सेनापतेः अमात्यानाम् भृत्यानाम् अथवा पुनर् । भवेयुः तनयाः याः तु प्रतिसम्मान-वर्जिताः ॥ ३८॥
senāpateḥ amātyānām bhṛtyānām athavā punar . bhaveyuḥ tanayāḥ yāḥ tu pratisammāna-varjitāḥ .. 38..
शीलरूपगुणैर्यास्तु सम्पन्ना नृपतेर्हिताः । स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ ३९॥
शील-रूप-गुणैः याः तु सम्पन्नाः नृपतेः हिताः । स्व-गुणैः लब्ध-सम्माना स्वामिन्यः इति ताः स्मृताः ॥ ३९॥
śīla-rūpa-guṇaiḥ yāḥ tu sampannāḥ nṛpateḥ hitāḥ . sva-guṇaiḥ labdha-sammānā svāminyaḥ iti tāḥ smṛtāḥ .. 39..
रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः । रतिसम्भोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ ४०॥
रूप-यौवन-शालिन्यः कर्कशाः विभ्रम-अन्विताः । रति-सम्भोग-कुशलाः प्रतिपक्ष-अभ्यसूयकाः ॥ ४०॥
rūpa-yauvana-śālinyaḥ karkaśāḥ vibhrama-anvitāḥ . rati-sambhoga-kuśalāḥ pratipakṣa-abhyasūyakāḥ .. 40..
दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा । नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ ४१॥
दक्षाः भर्तुः च चित्त-ज्ञाः गन्ध-माल्य-उज्वलाः सदा । नृपतेः छन्द-वर्तिन्यः न हि ईर्ष्या-मान-गर्विताः ॥ ४१॥
dakṣāḥ bhartuḥ ca citta-jñāḥ gandha-mālya-ujvalāḥ sadā . nṛpateḥ chanda-vartinyaḥ na hi īrṣyā-māna-garvitāḥ .. 41..
उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः । मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ ४२॥
उत्थिताः च प्रमत्ताः च त्यक्त-आलस्याः न निष्ठुराः । मान्य-अमान्य-विशेष-ज्ञाः स्थापिताः इति ताः स्मृताः ॥ ४२॥
utthitāḥ ca pramattāḥ ca tyakta-ālasyāḥ na niṣṭhurāḥ . mānya-amānya-viśeṣa-jñāḥ sthāpitāḥ iti tāḥ smṛtāḥ .. 42..
कुलशीललब्धपूजामृदवो नातिचोद्भटाः । मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ ४३॥
कुल-शील-लब्ध-पूजा-मृदवः न अति च उद्भटाः । मध्यस्थाः निभृताः क्षान्ताः भोगिन्यः इति ताः स्मृताः ॥ ४३॥
kula-śīla-labdha-pūjā-mṛdavaḥ na ati ca udbhaṭāḥ . madhyasthāḥ nibhṛtāḥ kṣāntāḥ bhoginyaḥ iti tāḥ smṛtāḥ .. 43..
नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः । गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ ४४॥
नाना कला-विशेष-ज्ञाः नाना शिल्प-विचक्षणाः । गन्ध-पुष्प-विभाग-ज्ञाः लेख्य-आलेख्य-विकल्पिकाः ॥ ४४॥
nānā kalā-viśeṣa-jñāḥ nānā śilpa-vicakṣaṇāḥ . gandha-puṣpa-vibhāga-jñāḥ lekhya-ālekhya-vikalpikāḥ .. 44..
शयनासनभागज्ञाश्चतुरा मधुरास्तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ ४५॥
शयन-आसन-भाग-ज्ञाः चतुराः मधुराः तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठाः निभृताः शिल्प-कारिकाः ॥ ४५॥
śayana-āsana-bhāga-jñāḥ caturāḥ madhurāḥ tathā . dakṣāḥ saumyāḥ sphuṭāḥ śliṣṭhāḥ nibhṛtāḥ śilpa-kārikāḥ .. 45..
ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः । चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ ४६॥
ग्रह-मोक्ष-लय-ज्ञाः याः रस-भाव-विकल्पिकाः । चतुर-आनाट्य-कुशलाः च ऊह-अपोह-विचक्षणाः ॥ ४६॥
graha-mokṣa-laya-jñāḥ yāḥ rasa-bhāva-vikalpikāḥ . catura-ānāṭya-kuśalāḥ ca ūha-apoha-vicakṣaṇāḥ .. 46..
रूपयौवनसम्पन्ना नाटकीयास्तु ताः स्मृताः । हेलाभावविशेषाढ्या सत्वेनाभिनयेन च । ४७॥
रूप-यौवन-सम्पन्नाः नाटकीयाः तु ताः स्मृताः । हेला-भाव-विशेष-आढ्या सत्त्वेन अभिनयेन च । ४७॥
rūpa-yauvana-sampannāḥ nāṭakīyāḥ tu tāḥ smṛtāḥ . helā-bhāva-viśeṣa-āḍhyā sattvena abhinayena ca . 47..
माधुर्येन च सम्पन्ना ह्यातोद्यकुशला तथा । अङ्गप्रत्यङ्गसम्पन्ना चतुष्षष्ठिकलान्विता ॥ ४८॥
माधुर्येन च सम्पन्ना हि आतोद्य-कुशला तथा । अङ्ग-प्रत्यङ्ग-सम्पन्ना चतुःषष्ठि-कला-अन्विता ॥ ४८॥
mādhuryena ca sampannā hi ātodya-kuśalā tathā . aṅga-pratyaṅga-sampannā catuḥṣaṣṭhi-kalā-anvitā .. 48..
चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ ४९॥
चतुराः प्रश्नया उपेताः स्त्री-दोषैः च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्त-आलस्या जित-श्रमा ॥ ४९॥
caturāḥ praśnayā upetāḥ strī-doṣaiḥ ca vivarjitāḥ . sadā pragalbhā ca tathā tyakta-ālasyā jita-śramā .. 49..
नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा । अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसम्पन्ना ॥ ५०॥
नाना शिल्प-प्रयोग-ज्ञा नृत्त-गीत-विचक्षणा । अथ रूप-गुण-औदार्य-धैर्य-सौभाग्य-शील-सम्पन्ना ॥ ५०॥
nānā śilpa-prayoga-jñā nṛtta-gīta-vicakṣaṇā . atha rūpa-guṇa-audārya-dhairya-saubhāgya-śīla-sampannā .. 50..
पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च । समागतासु नारीषु रूपयौवनकन्तिभिः ॥ ५१॥
पेशल-मधुर-स्निग्ध-अनुनादि-कल-चित्र-कण्ठा च । समागतासु नारीषु रूप-यौवन-कन्तिभिः ॥ ५१॥
peśala-madhura-snigdha-anunādi-kala-citra-kaṇṭhā ca . samāgatāsu nārīṣu rūpa-yauvana-kantibhiḥ .. 51..
न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता । सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्। ॥ ५२॥
न दृश्यते गुणैः स्तुल्या यस्याः सा नर्तकी स्मृता । सर्व-अवस्था-उपचारेषु या न मुञ्चति पर्थिवम्। ॥ ५२॥
na dṛśyate guṇaiḥ stulyā yasyāḥ sā nartakī smṛtā . sarva-avasthā-upacāreṣu yā na muñcati parthivam. .. 52..
विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका । शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ ५३॥
विज्ञेया दक्षिणा दक्षा नाट्य-ज्ञैः अनुचारिका । शय्या-पाली छत्र-धारी तथा व्यजन-धारिणी ॥ ५३॥
vijñeyā dakṣiṇā dakṣā nāṭya-jñaiḥ anucārikā . śayyā-pālī chatra-dhārī tathā vyajana-dhāriṇī .. 53..
संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका । तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ ५४॥
संवाहिका गन्ध-योक्त्री तथा च एव प्रसाधिका । तथा आभरण-योक्त्री च माल्य-संयोजिका तथा ॥ ५४॥
saṃvāhikā gandha-yoktrī tathā ca eva prasādhikā . tathā ābharaṇa-yoktrī ca mālya-saṃyojikā tathā .. 54..
एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः । नानाकक्ष्या विचारिण्यः तथोअपवनसञ्चराः ॥ ५५॥
एवंविधाः भवेयुः याः ताः ज्ञेयाः परिचारिकाः । नाना कक्ष्याः विचारिण्यः ॥ ५५॥
evaṃvidhāḥ bhaveyuḥ yāḥ tāḥ jñeyāḥ paricārikāḥ . nānā kakṣyāḥ vicāriṇyaḥ .. 55..
देवतायतनक्रीडा प्रासादपरिचारिकाः । यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ ५६॥
देवतायतन-क्रीडा प्रासाद-परिचारिकाः । यामकिन्यः तथा च एव याः च एवम् लक्षणाः स्त्रियः ॥ ५६॥
devatāyatana-krīḍā prāsāda-paricārikāḥ . yāmakinyaḥ tathā ca eva yāḥ ca evam lakṣaṇāḥ striyaḥ .. 56..
सञ्चारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः । प्रेषणेऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ ५७॥
सञ्चारिकाः तु विज्ञेयाः नाट्य-ज्ञैः समुदाहृताः । प्रेषणे अकाम-संयुक्ते गुह्य-अ गुह्य-समुत्थिते ॥ ५७॥
sañcārikāḥ tu vijñeyāḥ nāṭya-jñaiḥ samudāhṛtāḥ . preṣaṇe akāma-saṃyukte guhya-a guhya-samutthite .. 57..
नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ ५८॥
नृपैः याः तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्व-अन्तःपुर-रक्षासु स्तुति-स्वस्त्ययनेन च ॥ ५८॥
nṛpaiḥ yāḥ tu niyujyante tāḥ jñeyāḥ paricārikāḥ . sarva-antaḥpura-rakṣāsu stuti-svastyayanena ca .. 58..
या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः । सन्धिविग्रहसम्बद्धनानाचारसमुत्थितम् ॥ ५९॥
याः वृद्धिम् अभिनन्दन्ति ताः विज्ञेयाः महत्तराः । सन्धि-विग्रह-सम्बद्ध-नाना आचार-समुत्थितम् ॥ ५९॥
yāḥ vṛddhim abhinandanti tāḥ vijñeyāḥ mahattarāḥ . sandhi-vigraha-sambaddha-nānā ācāra-samutthitam .. 59..
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः । अप्राप्तरससम्भोगा न सम्भ्रान्ता न चोद्भटाः ॥ ६०॥
निवेदयन्ति याः कार्यम् प्रतिहार्यः तु ताः स्मृताः । अप्राप्त-रस-सम्भोगाः न सम्भ्रान्ताः न च उद्भटाः ॥ ६०॥
nivedayanti yāḥ kāryam pratihāryaḥ tu tāḥ smṛtāḥ . aprāpta-rasa-sambhogāḥ na sambhrāntāḥ na ca udbhaṭāḥ .. 60..
निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः । पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ ६१॥
निभृताः च स लज्जाः च कुमार्यः बालिकाः स्मृताः । पुर्वराजन-यज्ञाः याः पुर्वराज-अभिपूजिताः ॥ ६१॥
nibhṛtāḥ ca sa lajjāḥ ca kumāryaḥ bālikāḥ smṛtāḥ . purvarājana-yajñāḥ yāḥ purvarāja-abhipūjitāḥ .. 61..
पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः । भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ ६२॥
पुर्व-राज-अनुचरिताः ताः वृद्धाः इति सु ज्ञिताः । भाण्डागारेषु अधिकृताः च आयुध-अधिकृताः तथा ॥ ६२॥
purva-rāja-anucaritāḥ tāḥ vṛddhāḥ iti su jñitāḥ . bhāṇḍāgāreṣu adhikṛtāḥ ca āyudha-adhikṛtāḥ tathā .. 62..
फलमूलौषधीनां च तथा चैवान्ववेक्षकी । गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ ६३॥
फल-मूल-ओषधीनाम् च तथा च एव अन्ववेक्षकी । गन्ध-आभरण-वस्त्राणाम् माल्यानाम् च एव चिन्तिका ॥ ६३॥
phala-mūla-oṣadhīnām ca tathā ca eva anvavekṣakī . gandha-ābharaṇa-vastrāṇām mālyānām ca eva cintikā .. 63..
बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः । इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ ६४॥
बहु-आश्रये तथा युक्ताः ज्ञेयाः हि आयुक्तिकाः तु ताः । इति अन्तःपुर-चारिण्यः स्त्रियः प्रोक्ता समासतस् ॥ ६४॥
bahu-āśraye tathā yuktāḥ jñeyāḥ hi āyuktikāḥ tu tāḥ . iti antaḥpura-cāriṇyaḥ striyaḥ proktā samāsatas .. 64..
विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः । अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ ६५॥
विशेषण-विशेषेण तासाम् वक्ष्यामि वै द्विजाः । अनुरक्ताः च भक्ताः च नाना पार्श्व-समुत्थिताः ॥ ६५॥
viśeṣaṇa-viśeṣeṇa tāsām vakṣyāmi vai dvijāḥ . anuraktāḥ ca bhaktāḥ ca nānā pārśva-samutthitāḥ .. 65..
या नियुक्ता नियोगेषु कार्येषु विविधेषु च । न चोद्भटा असम्भ्रान्ता न लुब्धा नापि निष्ठुराः ॥ ६६॥
याः नियुक्ताः नियोगेषु कार्येषु विविधेषु च । न च उद्भटाः असम्भ्रान्ताः न लुब्धाः न अपि निष्ठुराः ॥ ६६॥
yāḥ niyuktāḥ niyogeṣu kāryeṣu vividheṣu ca . na ca udbhaṭāḥ asambhrāntāḥ na lubdhāḥ na api niṣṭhurāḥ .. 66..
दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः । अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ ६७॥
दान्ताः क्षान्ताः प्रसन्नाः च जित-क्रोधाः जित-इन्द्रियाः । अकामाः लोभ-डीनाः च स्त्री-दोषैः च विवर्जिताः ॥ ६७॥
dāntāḥ kṣāntāḥ prasannāḥ ca jita-krodhāḥ jita-indriyāḥ . akāmāḥ lobha-ḍīnāḥ ca strī-doṣaiḥ ca vivarjitāḥ .. 67..
सा त्वन्तःपुरसञ्चारे योज्या पार्थिववेश्मनि । कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ ६८॥
सा तु अन्तःपुर-सञ्चारे योज्या पार्थिव-वेश्मनि । कारुकाः कञ्चुकीयाः च तथा वर्षवराः पुनर् ॥ ६८॥
sā tu antaḥpura-sañcāre yojyā pārthiva-veśmani . kārukāḥ kañcukīyāḥ ca tathā varṣavarāḥ punar .. 68..
औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि । रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ ६९॥
औपस्थायिक-निर्मुण्डा स्त्रीणा प्रेषण-कर्मणि । रक्षणम् च कुमारीणाम् बालिकानाम् प्रयोजयेत् ॥ ६९॥
aupasthāyika-nirmuṇḍā strīṇā preṣaṇa-karmaṇi . rakṣaṇam ca kumārīṇām bālikānām prayojayet .. 69..
अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् । सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ ७०॥
अन्तःपुर-अधिकारेषु राज-चर्या-अनुवर्त्तिनाम् । सर्व-वृत्तान्त-संवाहाः पति-आगारे नियोजयेत् ॥ ७०॥
antaḥpura-adhikāreṣu rāja-caryā-anuvarttinām . sarva-vṛttānta-saṃvāhāḥ pati-āgāre niyojayet .. 70..
विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः । जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ७१॥
विनीताः सु अल्प-सत्त्वाः ये क्लीबाः वै स्त्री-स्वभाविकाः । जात्याः न दोषिणः च एव ते वै वर्षवराः स्मृताः॥
vinītāḥ su alpa-sattvāḥ ye klībāḥ vai strī-svabhāvikāḥ . jātyāḥ na doṣiṇaḥ ca eva te vai varṣavarāḥ smṛtāḥ..
ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः । प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ ७२॥
ब्रह्माणाः कुशलाः वृद्धाः काम-दोष-विवर्जिताः । प्रयोजनेषु देवीनाम् प्रयोक्तव्या नृपैः सदा ॥ ७२॥
brahmāṇāḥ kuśalāḥ vṛddhāḥ kāma-doṣa-vivarjitāḥ . prayojaneṣu devīnām prayoktavyā nṛpaiḥ sadā .. 72..
एतदष्टादशविधं प्रोक्तमन्तःपुरं मया । अतः परं प्रवक्ष्यामि बाह्यं पुरुषसम्भवम् ॥ ७३॥
एतत् अष्टादशविधम् प्रोक्तम् अन्तःपुरम् मया । अतस् परम् प्रवक्ष्यामि बाह्यम् पुरुष-सम्भवम् ॥ ७३॥
etat aṣṭādaśavidham proktam antaḥpuram mayā . atas param pravakṣyāmi bāhyam puruṣa-sambhavam .. 73..
राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा । सचिवाः प्राड्विवाकाश्च कुमाराधिकृतास्तथा ॥ ७४॥
राजा सेनापतिः च एव पुरोधाः मन्त्रिणः तथा । सचिवाः प्राड्विवाकाः च कुमार-अधिकृताः तथा ॥ ७४॥
rājā senāpatiḥ ca eva purodhāḥ mantriṇaḥ tathā . sacivāḥ prāḍvivākāḥ ca kumāra-adhikṛtāḥ tathā .. 74..
एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु । वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ ७५॥
एके च अन्ये च बहवः मान्याः ज्ञेयाः नृपस्य तु । वेशेषम् एषाम् वक्ष्यामि लक्षणेन निबोधत ॥ ७५॥
eke ca anye ca bahavaḥ mānyāḥ jñeyāḥ nṛpasya tu . veśeṣam eṣām vakṣyāmi lakṣaṇena nibodhata .. 75..
बलवान् बुद्धिसम्पन्नः सत्यवादी जितेन्द्रियः । दक्षः प्रगल्भो धृतिमान् विक्रान्तो मतिमाञ्छुचिः ॥ ७६॥
बलवान् बुद्धि-सम्पन्नः सत्य-वादी जित-इन्द्रियः । दक्षः प्रगल्भः धृतिमान् विक्रान्तः मतिमान् शुचिः ॥ ७६॥
balavān buddhi-sampannaḥ satya-vādī jita-indriyaḥ . dakṣaḥ pragalbhaḥ dhṛtimān vikrāntaḥ matimān śuciḥ .. 76..
दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः । लोकपालव्रतधरः कर्ममार्गविशारदः ॥ ७७॥
दीर्घदर्शी महा-उत्साहः कृतज्ञः प्रिय-वाच् मृदुः । ॥ ७७॥
dīrghadarśī mahā-utsāhaḥ kṛtajñaḥ priya-vāc mṛduḥ . .. 77..
उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् । परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ ७८॥
उत्थितः च अप्रमत्तः च वृद्ध-सेवी अर्थशास्त्र-विद् । पर-भाव-इङ्गित-अभिज्ञः शूरः रक्षा-समन्वितः ॥ ७८॥
utthitaḥ ca apramattaḥ ca vṛddha-sevī arthaśāstra-vid . para-bhāva-iṅgita-abhijñaḥ śūraḥ rakṣā-samanvitaḥ .. 78..
ऊहापोहविचारी च नानाशिल्पप्रयोजकः । नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ ७९॥
ऊह-अपोह-विचारी च नाना शिल्प-प्रयोजकः । नीति-शास्त्र-अर्थ-कुशलः तथा च एव अनुरागवान् ॥ ७९॥
ūha-apoha-vicārī ca nānā śilpa-prayojakaḥ . nīti-śāstra-artha-kuśalaḥ tathā ca eva anurāgavān .. 79..
धर्मज्ञोऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः । कुलीना बुद्धिसम्पन्ना नानाशास्त्रविपश्चिताः ॥ ८०॥
धर्म-ज्ञः अव्यसनी च एव गुणैः एतेः भवेत् नृपः । कुलीनाः बुद्धि-सम्पन्नाः नाना शास्त्र-विपश्चिताः ॥ ८०॥
dharma-jñaḥ avyasanī ca eva guṇaiḥ eteḥ bhavet nṛpaḥ . kulīnāḥ buddhi-sampannāḥ nānā śāstra-vipaścitāḥ .. 80..
स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः । अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ ८१॥
स्निग्धा परेः अहार्यः च न प्रमत्ताः च देश-जाः । अलुब्धाः च विनीताः च शुचयः धार्मिकाः तथा ॥ ८१॥
snigdhā pareḥ ahāryaḥ ca na pramattāḥ ca deśa-jāḥ . alubdhāḥ ca vinītāḥ ca śucayaḥ dhārmikāḥ tathā .. 81..
पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि । बुद्धिमान्नीतिसम्पन्नस्त्यक्तालस्यः प्रियंवदः ॥ ८२॥
पुरोधः मन्त्रिणः तु एभिः गुणैः युक्ताः भवन्ति हि । बुद्धिमान् नीति-सम्पन्नः त्यक्त-आलस्यः प्रियंवदः ॥ ८२॥
purodhaḥ mantriṇaḥ tu ebhiḥ guṇaiḥ yuktāḥ bhavanti hi . buddhimān nīti-sampannaḥ tyakta-ālasyaḥ priyaṃvadaḥ .. 82..
पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् । अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ ८३॥
पर-रन्ध्र-विधि-ज्ञः च यात्रा-काल-विशेष-विद् । अर्थ-शास्त्र-अर्थ-कुशलः हि अनुरक्तः कुल-उद्भवः ॥ ८३॥
para-randhra-vidhi-jñaḥ ca yātrā-kāla-viśeṣa-vid . artha-śāstra-artha-kuśalaḥ hi anuraktaḥ kula-udbhavaḥ .. 83..
देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा । व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ ८४॥
देश-विद् काल-विद् च एव कर्तव्यः क्षितिपैः सदा । व्यवहार-अर्थ-तत्त्व-ज्ञाः बुद्धिमन्तः बहु-श्रुताः ॥ ८४॥
deśa-vid kāla-vid ca eva kartavyaḥ kṣitipaiḥ sadā . vyavahāra-artha-tattva-jñāḥ buddhimantaḥ bahu-śrutāḥ .. 84..
मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः । क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ ८५॥
मध्यस्थाः धार्मिकाः धीराः कार्य-अकार्य-विवेकिनः । क्षान्ता दान्ता जित-क्रोधा सर्वत्र सम-दर्शिनः ॥ ८५॥
madhyasthāḥ dhārmikāḥ dhīrāḥ kārya-akārya-vivekinaḥ . kṣāntā dāntā jita-krodhā sarvatra sama-darśinaḥ .. 85..
ईदृशः प्राड्विवाकास्तु स्थाप्या धर्मासने द्विजाः । उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ ८६॥
ईदृशः प्राड्विवाकाः तु स्थाप्याः धर्म-आसने द्विजाः । उत्थिताः च प्रमत्ताः च त्यक्त-आलस्याः जित-श्रमाः ॥ ८६॥
īdṛśaḥ prāḍvivākāḥ tu sthāpyāḥ dharma-āsane dvijāḥ . utthitāḥ ca pramattāḥ ca tyakta-ālasyāḥ jita-śramāḥ .. 86..
स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा । नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ ८७॥
शान्ताः विनीताः च मध्यस्थाः निपुणाः तथा । नय-ज्ञाः विनय-ज्ञाः च ऊह-अपोह-विचक्षणाः ॥ ८७॥
śāntāḥ vinītāḥ ca madhyasthāḥ nipuṇāḥ tathā . naya-jñāḥ vinaya-jñāḥ ca ūha-apoha-vicakṣaṇāḥ .. 87..
सर्वशात्रार्थसम्पन्नाः कुमाराधिकृतास्तथा । बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ ८८॥
सर्व-शात्रा-अर्थ-सम्पन्नाः कुमार-अधिकृताः तथा । बृहस्पति-मतात् एषाम् गुणान् च अभिकांक्षयेत् ॥ ८८॥
sarva-śātrā-artha-sampannāḥ kumāra-adhikṛtāḥ tathā . bṛhaspati-matāt eṣām guṇān ca abhikāṃkṣayet .. 88..
विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् । इत्येष वो मया प्रोक्तः प्राड्विवाकनिर्णयः ॥ ८९॥
विज्ञेयम् च उपहार्यम् च सभ्यानाम् च विकल्पनम् । इति एष वः मया प्रोक्तः प्राड्विवाक-निर्णयः ॥ ८९॥
vijñeyam ca upahāryam ca sabhyānām ca vikalpanam . iti eṣa vaḥ mayā proktaḥ prāḍvivāka-nirṇayaḥ .. 89..
अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः ॥
अतस् ऊर्ध्वम् प्रवक्ष्यामि चित्र-अभिनयनम् पुनर् ॥
atas ūrdhvam pravakṣyāmi citra-abhinayanam punar ..
इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः ॥
इति भारतीये नाट्य-शास्रे पुंस्त्र्युपचारः नाम अध्यायः चतुर्विंशः ॥
iti bhāratīye nāṭya-śāsre puṃstryupacāraḥ nāma adhyāyaḥ caturviṃśaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In