| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १० ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ दशमोऽध्यायः ।
अथ दशमः अध्यायः ।
atha daśamaḥ adhyāyaḥ .
एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १॥
एवम् पादस्य जङ्घायाः ऊर्वोः कट्याः तथा एव च । समान-करणे चेष्टा सा चारी इति अभिधीयते ॥ १॥
evam pādasya jaṅghāyāḥ ūrvoḥ kaṭyāḥ tathā eva ca . samāna-karaṇe ceṣṭā sā cārī iti abhidhīyate .. 1..
विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् । यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ २॥
विधान-उपगताः च आर्यः व्यायच्छन्ते परस्परम् । यस्मात् अङ्ग-समायुक्ताः तस्मात् व्यायामः उच्यते ॥ २॥
vidhāna-upagatāḥ ca āryaḥ vyāyacchante parasparam . yasmāt aṅga-samāyuktāḥ tasmāt vyāyāmaḥ ucyate .. 2..
एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ ३॥
एक-पाद-प्रचारः यः सा चारी इति अभिसंज्ञिता । द्वि-पाद-क्रमणम् यत् तु करणम् नाम तत् भवेत् ॥ ३॥
eka-pāda-pracāraḥ yaḥ sā cārī iti abhisaṃjñitā . dvi-pāda-kramaṇam yat tu karaṇam nāma tat bhavet .. 3..
करणानां समायोगः खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ ४॥
करणानाम् समायोगः खण्डम् इति अभिधीयते । खण्डैः त्रिभिः चतुर्भिः वा संयुक्तम् मण्डलम् भवेत् ॥ ४॥
karaṇānām samāyogaḥ khaṇḍam iti abhidhīyate . khaṇḍaiḥ tribhiḥ caturbhiḥ vā saṃyuktam maṇḍalam bhavet .. 4..
चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ ५॥
चारीभिः प्रसृतम् नृत्तम् चारीभिः चेष्टितम् तथा । चारीभिः शस्त्र-मोक्षः च चार्यः युद्धे च कीर्तिताः ॥ ५॥
cārībhiḥ prasṛtam nṛttam cārībhiḥ ceṣṭitam tathā . cārībhiḥ śastra-mokṣaḥ ca cāryaḥ yuddhe ca kīrtitāḥ .. 5..
यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् । नहि चार्या विना किञ्चिन्नाट्येऽङ्गं सम्प्रवर्तते ॥ ६॥
यत् एतत् प्रस्तुतम् नाट्यम् तत् चारीषु एव संज्ञितम् । नहि चार्या विना किञ्चिद् नाट्ये अङ्गम् सम्प्रवर्तते ॥ ६॥
yat etat prastutam nāṭyam tat cārīṣu eva saṃjñitam . nahi cāryā vinā kiñcid nāṭye aṅgam sampravartate .. 6..
तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ ७॥
तस्मात् चारी-विधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिन् तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ ७॥
tasmāt cārī-vidhānasya sampravakṣyāmi lakṣaṇam . yā yasmin tu yathā yojyā nṛtte yuddhe gatau tathā .. 7..
समपादा स्थितावर्ता शकटास्या तथैव च । अध्यर्धिका चाषगतिर्विच्यवा च तथापरा ॥ ८॥
सम-पादा स्थित-आवर्ता शकट-आस्या तथा एव च । अध्यर्धिका चाष-गतिः विच्यवा च तथा अपरा ॥ ८॥
sama-pādā sthita-āvartā śakaṭa-āsyā tathā eva ca . adhyardhikā cāṣa-gatiḥ vicyavā ca tathā aparā .. 8..
एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता । उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ ९॥
एडक-आक्रीडिता बद्धा उरु-द्वृत्ता तथा अड्डिता । उत्स्पन्दिता च जनिता स्यन्दिता च अपस्यन्दिता ॥ ९॥
eḍaka-ākrīḍitā baddhā uru-dvṛttā tathā aḍḍitā . utspanditā ca janitā syanditā ca apasyanditā .. 9..
समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश । एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः ॥ १०॥
सम-उत्सरितमत्तल्ली मत्तल्ली च इति षोडश । एताः भौम्यः स्मृताः च आर्यः शृणुत आकाशिकीः पुनर् ॥ १०॥
sama-utsaritamattallī mattallī ca iti ṣoḍaśa . etāḥ bhaumyaḥ smṛtāḥ ca āryaḥ śṛṇuta ākāśikīḥ punar .. 10..
अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ ११॥
अतिक्रान्ता हि अपक्रान्ता पार्श्वक्रान्ता तथा एव च । ऊर्ध्व-जानुः च सूची च तथा नूपुर-पादिका ॥ ११॥
atikrāntā hi apakrāntā pārśvakrāntā tathā eva ca . ūrdhva-jānuḥ ca sūcī ca tathā nūpura-pādikā .. 11..
डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १२॥
तथा आक्षिप्ता आविद्ध-उद्वृत्त-संज्ञिते । विद्युद्भ्रान्ता हि अलाता च भुजङ्गत्रासिता तथा ॥ १२॥
tathā ākṣiptā āviddha-udvṛtta-saṃjñite . vidyudbhrāntā hi alātā ca bhujaṅgatrāsitā tathā .. 12..
मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३॥
मृगप्लुता च दण्डा च भ्रमरी च इति षोडश । आकाशिक्यः स्मृताः हि एताः लक्षणम् च निबोधत ॥ १३॥
mṛgaplutā ca daṇḍā ca bhramarī ca iti ṣoḍaśa . ākāśikyaḥ smṛtāḥ hi etāḥ lakṣaṇam ca nibodhata .. 13..
पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १४॥
पादैः निरन्तर-कृतैः तथा सम-नखैः अपि । समपादा स्मृता चारी विज्ञेया स्थान-संश्रया ॥ १४॥
pādaiḥ nirantara-kṛtaiḥ tathā sama-nakhaiḥ api . samapādā smṛtā cārī vijñeyā sthāna-saṃśrayā .. 14..
भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम्। पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १५॥
भूमि-घृष्टेन पादेन कृत्वा अभ्यन्तर-मण्डलम्। पुनर् उत्सादयेत् अन्यम् स्थितावर्त्ता तु सा स्मृता ॥ १५॥
bhūmi-ghṛṣṭena pādena kṛtvā abhyantara-maṇḍalam. punar utsādayet anyam sthitāvarttā tu sā smṛtā .. 15..
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्। उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥
निषण्ण-अङ्गः तु चरणम् प्रसार्य तल-सञ्चरम्। उद्वाहितम् उरः कृत्वा शकटास्याम् प्रयोजयेत् ॥ १६॥
niṣaṇṇa-aṅgaḥ tu caraṇam prasārya tala-sañcaram. udvāhitam uraḥ kṛtvā śakaṭāsyām prayojayet .. 16..
सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥
सव्यस्य पृष्ठतस् वामः चरणः तु यदा भवेत् । तस्य अपसर्पणम् च एव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥
savyasya pṛṣṭhatas vāmaḥ caraṇaḥ tu yadā bhavet . tasya apasarpaṇam ca eva jñeyā sādhyardhikā budhaiḥ .. 17..
पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १८॥
पादः प्रसारितः सव्यः पुनर् च एव उपसर्पितः । वामः सव्य-अपसर्पी च चाष-गत्याम् विधीयते ॥ १८॥
pādaḥ prasāritaḥ savyaḥ punar ca eva upasarpitaḥ . vāmaḥ savya-apasarpī ca cāṣa-gatyām vidhīyate .. 18..
विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्॥ १९॥
विच्यवात् सम-पादायाः विच्यवाम् सम्प्रयोजयेत् । निकुट्टयन् तल-अग्रेण पादस्य धरणी-तलम्॥ १९॥
vicyavāt sama-pādāyāḥ vicyavām samprayojayet . nikuṭṭayan tala-agreṇa pādasya dharaṇī-talam.. 19..
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ २०॥
तल-सञ्चर-पादाभ्याम् उत्प्लुत्य पतनम् तु यत् । पर्यायतः च क्रियते एडका-क्रीडिता तु सा ॥ २०॥
tala-sañcara-pādābhyām utplutya patanam tu yat . paryāyataḥ ca kriyate eḍakā-krīḍitā tu sā .. 20..
अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः । ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता ॥ २१॥
अन्योन्य-जङ्घा-संवेगात् कृत्वा तु स्वस्तिकम् ततस् । ऊरुभ्याम् वलनम् यस्मात् सा बद्धा चारी उदाहृता ॥ २१॥
anyonya-jaṅghā-saṃvegāt kṛtvā tu svastikam tatas . ūrubhyām valanam yasmāt sā baddhā cārī udāhṛtā .. 21..
तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा । जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ २२॥
तल-सञ्चर-पादस्य पार्ष्णिः बाह्य-उन्मुखी यदा । जङ्घा-आञ्चिता तथा उद्वृत्ता ऊरु-द्वृत्ता इति सा स्मृता ॥ २२॥
tala-sañcara-pādasya pārṣṇiḥ bāhya-unmukhī yadā . jaṅghā-āñcitā tathā udvṛttā ūru-dvṛttā iti sā smṛtā .. 22..
अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः । द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा॥ २३॥
अग्रतस् पृष्ठतस् वा अपि पादः तु तल-सञ्चरः । द्वितीय-पादः निर्घृष्टः यस्याम् स्यात् अड्डिता तु सा॥ २३॥
agratas pṛṣṭhatas vā api pādaḥ tu tala-sañcaraḥ . dvitīya-pādaḥ nirghṛṣṭaḥ yasyām syāt aḍḍitā tu sā.. 23..
शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च । यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ २४॥
शनैस् पादः निवर्तेत बाह्येन अभ्यन्तरेण च । यद्-रेचक-अनुसारेण सा चारी उत्स्यन्दिता स्मृता ॥ २४॥
śanais pādaḥ nivarteta bāhyena abhyantareṇa ca . yad-recaka-anusāreṇa sā cārī utsyanditā smṛtā .. 24..
मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तितः । तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ २५॥
मुष्टि-हस्तः च वक्षः-स्थः करः अन्यः च प्रवर्तितः । तलसञ्चरपादः च जनिता चारी उदाहृता ॥ २५॥
muṣṭi-hastaḥ ca vakṣaḥ-sthaḥ karaḥ anyaḥ ca pravartitaḥ . talasañcarapādaḥ ca janitā cārī udāhṛtā .. 25..
पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् । द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ २६॥
पञ्च-ताल-अन्तरम् पादम् प्रसार्य स्यन्दिताम् न्यसेत् । द्वितीयेन तु पादेन तथा अपस्यन्दिताम् अपि ॥ २६॥
pañca-tāla-antaram pādam prasārya syanditām nyaset . dvitīyena tu pādena tathā apasyanditām api .. 26..
तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः । समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ २७॥
तल-सञ्चर-पादाभ्याम् घूर्णमान-उपसर्पणैः । व्यायामे समुदाहृता ॥ २७॥
tala-sañcara-pādābhyām ghūrṇamāna-upasarpaṇaiḥ . vyāyāme samudāhṛtā .. 27..
उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ २८॥
उभाभ्याम् अपि पादाभ्याम् घूर्णमान-उपसर्पणैः । उद्वेष्टित-अपविद्धैः च हस्तैः मत्तल्ली उदाहृता ॥ २८॥
ubhābhyām api pādābhyām ghūrṇamāna-upasarpaṇaiḥ . udveṣṭita-apaviddhaiḥ ca hastaiḥ mattallī udāhṛtā .. 28..
एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः । आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ २९॥
एताः भौम्यः स्मृताः च अर्यः नियुद्ध-करण-आश्रयाः । आकाशकीनाम् चारीणाम् सम्प्रवक्ष्यामि लक्षणम् ॥ २९॥
etāḥ bhaumyaḥ smṛtāḥ ca aryaḥ niyuddha-karaṇa-āśrayāḥ . ākāśakīnām cārīṇām sampravakṣyāmi lakṣaṇam .. 29..
कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् । उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ ३०॥
कुञ्चितम् पादम् उत्क्षिप्य पुरतस् सम्प्रसारयेत् । उत्क्षिप्य पातयेत् च एनम् अतिक्रान्ता तु सा स्मृता ॥ ३०॥
kuñcitam pādam utkṣipya puratas samprasārayet . utkṣipya pātayet ca enam atikrāntā tu sā smṛtā .. 30..
ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ ३१॥
ऊरुभ्याम् वलनम् कृत्वा कुञ्चितम् पादम् उद्धरेत् । पार्श्वे विनिक्षिपेत् च एनम् अपक्रान्ता तु सा स्मृता ॥ ३१॥
ūrubhyām valanam kṛtvā kuñcitam pādam uddharet . pārśve vinikṣipet ca enam apakrāntā tu sā smṛtā .. 31..
कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् । उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ ३२॥
कुञ्चितम् पादम् उत्क्षिप्य पार्श्वेन उत्पतनम् न्यसेत् । उद्घट्टितेन पादेन पार्श्व-क्रान्ता विधीयते ॥ ३२॥
kuñcitam pādam utkṣipya pārśvena utpatanam nyaset . udghaṭṭitena pādena pārśva-krāntā vidhīyate .. 32..
कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् । द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ ३३॥
कुञ्चितम् पादम् उत्क्षिप्य जानु-स्तन-समम् न्यसेत् । द्वितीयम् च क्रमात् स्तब्धम् ऊर्ध्वजानुः प्रकीर्तिता ॥ ३३॥
kuñcitam pādam utkṣipya jānu-stana-samam nyaset . dvitīyam ca kramāt stabdham ūrdhvajānuḥ prakīrtitā .. 33..
कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् । पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ ३४॥
कुञ्चितम् पादम् उत्क्षिप्य जानु-ऊर्ध्वम् सम्प्रसारयेत् । पातयेत् च अग्र-योगेन सा सूची परिकीर्तिता ॥ ३४॥
kuñcitam pādam utkṣipya jānu-ūrdhvam samprasārayet . pātayet ca agra-yogena sā sūcī parikīrtitā .. 34..
पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ ३५॥
पृष्ठतस् हि अञ्चितम् कृत्वा पादम् अग्र-तलेन तु । द्रुतम् निर्यातयेत् भूमौ चारी नूपुर-पादिका ॥ ३५॥
pṛṣṭhatas hi añcitam kṛtvā pādam agra-talena tu . drutam niryātayet bhūmau cārī nūpura-pādikā .. 35..
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् । पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ ३६॥
कुञ्चितम् पादम् उत्क्षिप्य पार्श्वात् पार्श्वम् तु दोलयेत् । पातयेत् अञ्चितम् च एवम् दोलपादा तु सा स्मृता ॥ ३६॥
kuñcitam pādam utkṣipya pārśvāt pārśvam tu dolayet . pātayet añcitam ca evam dolapādā tu sā smṛtā .. 36..
कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् । जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ ३७॥
कुञ्चितम् पादम् उत्क्षिप्य आक्षिप्य तु अञ्चितम् न्यसेत् । जङ्घा-स्वस्तिक-संयुक्ता च आक्षिप्ता नाम सा स्मृता ॥ ३७॥
kuñcitam pādam utkṣipya ākṣipya tu añcitam nyaset . jaṅghā-svastika-saṃyuktā ca ākṣiptā nāma sā smṛtā .. 37..
स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ ३८॥
स्वस्तिकस्य अग्रतस् पादः कुञ्चितः तु प्रसारितः । निपतेत् अञ्चिताविद्धः आविद्धा नाम सा स्मृता ॥ ३८॥
svastikasya agratas pādaḥ kuñcitaḥ tu prasāritaḥ . nipatet añcitāviddhaḥ āviddhā nāma sā smṛtā .. 38..
पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ ३९॥
पादम् आविद्धम् आवेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयम् च सा उद्वृत्ता चारी उदाहृता ॥ ३९॥
pādam āviddham āveṣṭya samutkṣipya nipātayet . parivṛttya dvitīyam ca sā udvṛttā cārī udāhṛtā .. 39..
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् । सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ ४०॥
पृष्ठतः वलितम् पादम् शिरः-घृष्टम् प्रसारयेत् । सर्वतस् मण्डल-आविद्धम् विद्युत्-भ्रान्ता तु सा स्मृता ॥ ४०॥
pṛṣṭhataḥ valitam pādam śiraḥ-ghṛṣṭam prasārayet . sarvatas maṇḍala-āviddham vidyut-bhrāntā tu sā smṛtā .. 40..
पृष्ठः प्रसारितः पादो वलितोऽभ्यन्तरीकृतः । पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ ४१॥
पृष्ठः प्रसारितः पादः वलितः अभ्यन्तरीकृतः । पार्ष्णि-प्रपतितः च एव हि अलाता सम्प्रकीर्तिता ॥ ४१॥
pṛṣṭhaḥ prasāritaḥ pādaḥ valitaḥ abhyantarīkṛtaḥ . pārṣṇi-prapatitaḥ ca eva hi alātā samprakīrtitā .. 41..
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् । कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ ४२॥
कुञ्चितम् पादम् उत्क्षिप्य त्रि-अश्रम् ऊरुम् विवर्तयेत् । कटि-जानु-विवर्तात् च भुजङ्ग-त्रासिता भवेत् ॥ ४२॥
kuñcitam pādam utkṣipya tri-aśram ūrum vivartayet . kaṭi-jānu-vivartāt ca bhujaṅga-trāsitā bhavet .. 42..
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् । जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता ॥ ४३॥
अतिक्रान्त-क्रमम् कृत्वा समुत्प्लुत्य निपातयेत् । जङ्घा-आञ्चिता उपरि क्षिप्ता सा ज्ञेया हरिण-प्लुता ॥ ४३॥
atikrānta-kramam kṛtvā samutplutya nipātayet . jaṅghā-āñcitā upari kṣiptā sā jñeyā hariṇa-plutā .. 43..
नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ ४४॥
नूपुरम् चरणम् कृत्वा पुरतस् सम्प्रसारयेत् । क्षिप्रम् आविद्ध-करणम् दण्डपादा तु सा स्मृता ॥ ४४॥
nūpuram caraṇam kṛtvā puratas samprasārayet . kṣipram āviddha-karaṇam daṇḍapādā tu sā smṛtā .. 44..
अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ ४५॥
अतिक्रान्त-क्रमम् कृत्वा त्रिकम् तु परिवर्तयेत् । द्वितीय-पाद-भ्रमणात् तलेन भ्रमरी स्मृता ॥ ४५॥
atikrānta-kramam kṛtvā trikam tu parivartayet . dvitīya-pāda-bhramaṇāt talena bhramarī smṛtā .. 45..
आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः । धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ ४६॥
आकाशिक्यः स्मृताः हि एताः ललित-अङ्ग-क्रिया-आत्मकाः । धनुः-वज्र-असि-शस्त्राणाम् प्रयोक्तव्या प्रयोक्तृभिः ॥ ४६॥
ākāśikyaḥ smṛtāḥ hi etāḥ lalita-aṅga-kriyā-ātmakāḥ . dhanuḥ-vajra-asi-śastrāṇām prayoktavyā prayoktṛbhiḥ .. 46..
अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः । पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ ४७॥
अग्र-गौ पृष्ठ-गौ वा अपि हि अनुगौ च अपि योगतः । पादयोः तु द्विजाः हस्तौ कर्तव्यौ नाट्य-योक्तृभिः ॥ ४७॥
agra-gau pṛṣṭha-gau vā api hi anugau ca api yogataḥ . pādayoḥ tu dvijāḥ hastau kartavyau nāṭya-yoktṛbhiḥ .. 47..
यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् । पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ ४८॥
यतस् पादः ततस् हस्तः यतस् हस्तः ततस् त्रिकम् । पादस्य निर्गमम् ज्ञात्वा तथा उपाङ्गानि योजयेत् ॥ ४८॥
yatas pādaḥ tatas hastaḥ yatas hastaḥ tatas trikam . pādasya nirgamam jñātvā tathā upāṅgāni yojayet .. 48..
पादचार्यां यथा पादो धरणीमेव गच्छति । एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ ४९॥
पाद-चार्याम् यथा पादः धरणीम् एव गच्छति । एवम् हस्तः चरित्वा तु कटि-देशम् समाश्रयेत् ॥ ४९॥
pāda-cāryām yathā pādaḥ dharaṇīm eva gacchati . evam hastaḥ caritvā tu kaṭi-deśam samāśrayet .. 49..
एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः । स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ ५०॥
एताः च अर्यः मया प्रोक्ताः ललित-अङ्ग-क्रिया-आत्मकाः । स्थानानि आसाम् प्रवक्ष्यामि सर्व-शस्त्र-विमोक्षणे ॥ ५०॥
etāḥ ca aryaḥ mayā proktāḥ lalita-aṅga-kriyā-ātmakāḥ . sthānāni āsām pravakṣyāmi sarva-śastra-vimokṣaṇe .. 50..
वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथालीढं स्थानान्येतानि षण् नृणां ॥ ५१॥
वैष्णवम् सम-पादम् च वैशाखम् मण्डलम् तथा । प्रत्यालीढम् तथा आलीढम् स्थानानि एतानि षड् नृणाम् ॥ ५१॥
vaiṣṇavam sama-pādam ca vaiśākham maṇḍalam tathā . pratyālīḍham tathā ālīḍham sthānāni etāni ṣaḍ nṛṇām .. 51..
द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ॥ ५२॥
द्वौ तालौ अर्धतालः च पादयोः अन्तरम् भवेत् । तयोः सम-स्थितः तु एकः त्रि-अश्रः पक्ष-स्थितः अपरः ॥ ५२॥
dvau tālau ardhatālaḥ ca pādayoḥ antaram bhavet . tayoḥ sama-sthitaḥ tu ekaḥ tri-aśraḥ pakṣa-sthitaḥ aparaḥ .. 52..
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् । वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ ५३॥
किञ्चिद् अञ्चित-जङ्घम् च सौष्ठव-अङ्ग-पुरस्कृतम् । वैष्णवम् स्थानम् एतत् हि विष्णुः अत्र अधिदैवतम् ॥ ५३॥
kiñcid añcita-jaṅgham ca sauṣṭhava-aṅga-puraskṛtam . vaiṣṇavam sthānam etat hi viṣṇuḥ atra adhidaivatam .. 53..
स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः । नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ ५४॥
स्थानेन अनेन कर्तव्यः संलापः तु स्वभाव-जः । नाना कार्य-अन्तर-अपेतैः नृभिः उत्तम-मध्यमैः ॥ ५४॥
sthānena anena kartavyaḥ saṃlāpaḥ tu svabhāva-jaḥ . nānā kārya-antara-apetaiḥ nṛbhiḥ uttama-madhyamaiḥ .. 54..
चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा । धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ ५५॥
चक्रस्य मोक्षणे च एव धारणे धनुषः तथा । धैर्य-दान-अङ्ग-लीलासु तथा क्रोधे प्रयोजयेत् ॥ ५५॥
cakrasya mokṣaṇe ca eva dhāraṇe dhanuṣaḥ tathā . dhairya-dāna-aṅga-līlāsu tathā krodhe prayojayet .. 55..
इदमेव विपर्यस्तं प्रणयक्रोध इष्यते । उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ ५६॥
इदम् एव विपर्यस्तम् प्रणय-क्रोधः इष्यते । उपालम्भ-कृते च एव प्रणय-उद्वेगयोः तथा ॥ ५६॥
idam eva viparyastam praṇaya-krodhaḥ iṣyate . upālambha-kṛte ca eva praṇaya-udvegayoḥ tathā .. 56..
शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ ५७॥
शङ्का-असूया-उग्र-ता-चिन्ता-मति-स्मृतिषु च एव हि । दैन्ये चपलता-योगे गर्व-अभीष्टेषु शक्तिषु ॥ ५७॥
śaṅkā-asūyā-ugra-tā-cintā-mati-smṛtiṣu ca eva hi . dainye capalatā-yoge garva-abhīṣṭeṣu śaktiṣu .. 57..
शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५८॥
शृङ्गार-अद्भुत-बीभत्स-वीर-प्राधान्य-योजितम् । सम-पादे समौ पादौ ताल-मात्र-अन्तर-स्थितौ ॥ ५८॥
śṛṅgāra-adbhuta-bībhatsa-vīra-prādhānya-yojitam . sama-pāde samau pādau tāla-mātra-antara-sthitau .. 58..
स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ ५९॥
स्वभाव-सौष्ठव-उपेतौ ब्रह्मा च अत्र अधिदैवतम् । अनेन कार्यम् स्थानेन विप्र-मङ्गल-धारणम् ॥ ५९॥
svabhāva-sauṣṭhava-upetau brahmā ca atra adhidaivatam . anena kāryam sthānena vipra-maṅgala-dhāraṇam .. 59..
रूपणे पक्षिणां चैव वरं कौतुकमेव च । स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ ६०॥
रूपणे पक्षिणाम् च एव वरम् कौतुकम् एव च । स्व-स्थानम् स्यन्दन-स्थानाम् विमान-स्थायिनाम् अपि ॥ ६०॥
rūpaṇe pakṣiṇām ca eva varam kautukam eva ca . sva-sthānam syandana-sthānām vimāna-sthāyinām api .. 60..
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ ६१॥
लिङ्ग-स्थानाम् व्रत-स्थानाम् स्थानम् एतत् तु कारयेत् । तालाः त्रयः अर्ध-तालः च पादयोः अन्तरम् भवेत् ॥ ६१॥
liṅga-sthānām vrata-sthānām sthānam etat tu kārayet . tālāḥ trayaḥ ardha-tālaḥ ca pādayoḥ antaram bhavet .. 61..
तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् । त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ ६२॥
तालान् त्रीन् अर्ध-तालान् च निषण्ण-ऊरुम् प्रकल्पयेत् । त्रि-अश्रौ वक्षः-स्थितौ च एव तत्र पादौ प्रयोजयेत् ॥ ६२॥
tālān trīn ardha-tālān ca niṣaṇṇa-ūrum prakalpayet . tri-aśrau vakṣaḥ-sthitau ca eva tatra pādau prayojayet .. 62..
वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् । स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ ६३॥
वैशाख-स्थानम् एतत् हि स्कन्दः च अत्र अधिदैवतम् । स्थानेन अनेन कर्तव्यम् अश्वानाम् वाहनम् बुधैः ॥ ६३॥
vaiśākha-sthānam etat hi skandaḥ ca atra adhidaivatam . sthānena anena kartavyam aśvānām vāhanam budhaiḥ .. 63..
व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् । शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ ६४॥
व्यायाम-निर्गमः च एव स्थूल-पक्षि-निरूपणम् । शराणाम् च समुत्क्षेपः व्यायाम-करणे तथा ॥ ६४॥
vyāyāma-nirgamaḥ ca eva sthūla-pakṣi-nirūpaṇam . śarāṇām ca samutkṣepaḥ vyāyāma-karaṇe tathā .. 64..
रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ ६५॥
रेचकेषु च कर्तव्यम् इदम् एव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुर्-ताल-अन्तर-स्थितौ ॥ ६५॥
recakeṣu ca kartavyam idam eva prayoktṛbhiḥ . aindre tu maṇḍale pādau catur-tāla-antara-sthitau .. 65..
त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा । धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ ६६॥
त्रि-अश्रौ पक्षः-स्थितौ च एव कटि-जानू समौ तथा । धनुः-वज्र-असि-शस्त्राणि मण्डलेन प्रयोजयेत् ॥ ६६॥
tri-aśrau pakṣaḥ-sthitau ca eva kaṭi-jānū samau tathā . dhanuḥ-vajra-asi-śastrāṇi maṇḍalena prayojayet .. 66..
वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् । अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ ६७॥
वाहनम् कुञ्जराणाम् तु स्थूल-पक्षि-निरूपणम् । अस्य एव दक्षिणम् पादम् पञ्च तालान् प्रसार्य तु ॥ ६७॥
vāhanam kuñjarāṇām tu sthūla-pakṣi-nirūpaṇam . asya eva dakṣiṇam pādam pañca tālān prasārya tu .. 67..
आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् । अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ ६८॥
आलीढम् स्थानकम् कुर्यात् रुद्रः च अत्र अधिदैवतम् । अनेन कार्यम् स्थानेन वीर-रौद्र-कृतम् तु यत् ॥ ६८॥
ālīḍham sthānakam kuryāt rudraḥ ca atra adhidaivatam . anena kāryam sthānena vīra-raudra-kṛtam tu yat .. 68..
उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः । मल्लानाञ्चैव सम्फेटः शत्रूणां च निरूपणम् ॥ ६९॥
उत्तर-उत्तर-सञ्जल्पः रोष-अमर्ष-कृतः तु यः । मल्लानाम् च एव सम्फेटः शत्रूणाम् च निरूपणम् ॥ ६९॥
uttara-uttara-sañjalpaḥ roṣa-amarṣa-kṛtaḥ tu yaḥ . mallānām ca eva sampheṭaḥ śatrūṇām ca nirūpaṇam .. 69..
तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ ७०॥
तथा अभिद्रवणम् च एव शस्त्राणाम् च एव मोक्षणम् । कुञ्चितम् दक्षिणम् कृत्वा वामम् पादम् प्रसार्य च ॥ ७०॥
tathā abhidravaṇam ca eva śastrāṇām ca eva mokṣaṇam . kuñcitam dakṣiṇam kṛtvā vāmam pādam prasārya ca .. 70..
आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् । आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत् ॥ ७१॥
आलीढ-परिवर्तः तु प्रत्यालीढम् इति स्मृतम् । आलीढ-संहितम् शस्त्रम् प्रत्यालीढेन मोक्षयेत् ॥ ७१॥
ālīḍha-parivartaḥ tu pratyālīḍham iti smṛtam . ālīḍha-saṃhitam śastram pratyālīḍhena mokṣayet .. 71..
नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः । न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ ७२॥
नाना शस्त्र-विमोक्षः हि कार्यः अनेन प्रयोक्तृभिः । न्यायात् च एव हि विज्ञेयाः चत्वारः शस्त्र-मोक्षणे ॥ ७२॥
nānā śastra-vimokṣaḥ hi kāryaḥ anena prayoktṛbhiḥ . nyāyāt ca eva hi vijñeyāḥ catvāraḥ śastra-mokṣaṇe .. 72..
भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः । भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ ७३॥
भारतः सात्वतः च एव वार्षगण्यः अथ कैशिकः । भारते तु कटी-छेद्यम् पाद-छेद्यम् तु सात्वते ॥ ७३॥
bhārataḥ sātvataḥ ca eva vārṣagaṇyaḥ atha kaiśikaḥ . bhārate tu kaṭī-chedyam pāda-chedyam tu sātvate .. 73..
वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके । एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ ७४॥
वक्षसः वार्षगण्ये तु शिरः छेद्यन् तु कैशिके । एभिः प्रयोक्तृभिः न्यायैः नाना चारी-समुत्थितैः ॥ ७४॥
vakṣasaḥ vārṣagaṇye tu śiraḥ chedyan tu kaiśike . ebhiḥ prayoktṛbhiḥ nyāyaiḥ nānā cārī-samutthitaiḥ .. 74..
प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे । न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ ७५॥
प्रविचार्य प्रयोक्तव्यम् नाना शस्त्र-विमोक्षणे । न्याय-आश्रितैः अङ्गहारैः न्यायात् च एव समुत्थितैः ॥ ७५॥
pravicārya prayoktavyam nānā śastra-vimokṣaṇe . nyāya-āśritaiḥ aṅgahāraiḥ nyāyāt ca eva samutthitaiḥ .. 75..
यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः । वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ ७६॥
यस्मात् युद्धानि वर्तन्ते तस्मात् न्यायाः प्रकीर्तिताः । वाम-हस्ते विनिक्षिप्य खेटकम् शस्त्र-फेटकम् ॥ ७६॥
yasmāt yuddhāni vartante tasmāt nyāyāḥ prakīrtitāḥ . vāma-haste vinikṣipya kheṭakam śastra-pheṭakam .. 76..
शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् । प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि ॥ ७७॥
शस्त्रम् आदाय हस्तेन प्रविचारम् अथ आचरेत् । प्रसार्य च करौ सम्यक् पुनर् आक्षिप्य च एव हि ॥ ७७॥
śastram ādāya hastena pravicāram atha ācaret . prasārya ca karau samyak punar ākṣipya ca eva hi .. 77..
खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च । शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ ७८॥
खेटकम् भ्रामयेत् पश्चात् पार्श्वात् पार्श्वम् अथ अपि च । शिरः-परिगमः च अपि कार्यः शस्त्रेण योक्तृभिः ॥ ७८॥
kheṭakam bhrāmayet paścāt pārśvāt pārśvam atha api ca . śiraḥ-parigamaḥ ca api kāryaḥ śastreṇa yoktṛbhiḥ .. 78..
कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा । पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ ७९॥
कपोलस्य अन्तरे वा अपि शस्त्रस्य उद्वेष्टनम् तथा । पुनर् च खड्ग-हस्तेन ललिता-उद्वेष्टितेन च ॥ ७९॥
kapolasya antare vā api śastrasya udveṣṭanam tathā . punar ca khaḍga-hastena lalitā-udveṣṭitena ca .. 79..
खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ ८०॥
खेटकेन च कर्तव्यः शिरः-परिगमः बुधैः । एवम् प्रचारः कर्तव्यः भारते शस्त्र-मोक्षणे ॥ ८०॥
kheṭakena ca kartavyaḥ śiraḥ-parigamaḥ budhaiḥ . evam pracāraḥ kartavyaḥ bhārate śastra-mokṣaṇe .. 80..
सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः । स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ ८१॥
सात्वते च प्रवक्ष्यामि प्रविचारम् यथा विधिः । सः एव प्रविचारः तु खड्ग-खेटकयोः स्मृतः ॥ ८१॥
sātvate ca pravakṣyāmi pravicāram yathā vidhiḥ . saḥ eva pravicāraḥ tu khaḍga-kheṭakayoḥ smṛtaḥ .. 81..
केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते । गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु ॥ ८२॥
केवलम् पृष्ठतस् शस्त्रम् कर्तव्यम् खलु सात्वते । गतिः च वार्षगण्ये अपि सात्वतेन क्रमेण तु ॥ ८२॥
kevalam pṛṣṭhatas śastram kartavyam khalu sātvate . gatiḥ ca vārṣagaṇye api sātvatena krameṇa tu .. 82..
शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते । शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ ८३॥
शस्त्र-खेटकयोः च अपि भ्रमणम् संविधीयते । शिरः परिगमः तद्वत् शस्त्रस्य इह भवेत् तथा ॥ ८३॥
śastra-kheṭakayoḥ ca api bhramaṇam saṃvidhīyate . śiraḥ parigamaḥ tadvat śastrasya iha bhavet tathā .. 83..
उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशेऽथवा पुनः । भारते प्रविचारोऽयं कर्तव्यः स तु कैशिके ॥ ८४॥
उरसि उद्वेष्टनम् कार्यम् शस्त्रस्य अंशे अथवा पुनर् । भारते प्रविचारः अयम् कर्तव्यः स तु कैशिके ॥ ८४॥
urasi udveṣṭanam kāryam śastrasya aṃśe athavā punar . bhārate pravicāraḥ ayam kartavyaḥ sa tu kaiśike .. 84..
विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया ॥ ८५॥
विभ्रमय्य तथा शस्त्रम् केवलम् मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्याः हि एवम् एते अङ्ग-लीलया ॥ ८५॥
vibhramayya tathā śastram kevalam mūrdhni pātayet . pravicārā prayoktavyāḥ hi evam ete aṅga-līlayā .. 85..
धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे । न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ ८६॥
धनुः-वज्र-असि-शस्त्राणाम् प्रयोक्तव्याः विमोक्षणे । न भेद्यम् ना अपि तु छेद्यम् न च अपि रुधिर-स्रुतिः ॥ ८६॥
dhanuḥ-vajra-asi-śastrāṇām prayoktavyāḥ vimokṣaṇe . na bhedyam nā api tu chedyam na ca api rudhira-srutiḥ .. 86..
रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् । संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ ८७॥
रङ्गे प्रहरणे कार्यः न च अपि व्यक्त-घातनम् । संज्ञा-मात्रेण कर्तव्यम् शस्त्राणाम् मोक्षणम् बुधैः ॥ ८७॥
raṅge praharaṇe kāryaḥ na ca api vyakta-ghātanam . saṃjñā-mātreṇa kartavyam śastrāṇām mokṣaṇam budhaiḥ .. 87..
अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः । अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ ८८॥
अथवा अभिनय-उपेतम् कुर्यात् छेद्यम् विधानतः । अङ्ग-सौष्ठव-संयुक्तैः अङ्गहारैः विभूषितम् ॥ ८८॥
athavā abhinaya-upetam kuryāt chedyam vidhānataḥ . aṅga-sauṣṭhava-saṃyuktaiḥ aṅgahāraiḥ vibhūṣitam .. 88..
व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् । सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ ८९॥
व्यायामम् कारयेत् सम्यक् लय-ताल-समन्वितम् । सौष्ठवे हि प्रयत्नः तु कार्यः व्यायाम-सेविभिः ॥ ८९॥
vyāyāmam kārayet samyak laya-tāla-samanvitam . sauṣṭhave hi prayatnaḥ tu kāryaḥ vyāyāma-sevibhiḥ .. 89..
सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् । शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ ९०॥
सौष्ठवे लक्षणम् प्रोक्तम् वर्तन-आक्रम-योजितम् । शोभा सर्वा एव नित्यम् हि सौष्ठवम् समुपाश्रिता ॥ ९०॥
sauṣṭhave lakṣaṇam proktam vartana-ākrama-yojitam . śobhā sarvā eva nityam hi sauṣṭhavam samupāśritā .. 90..
अचञ्चलमकुब्जं चासन्नगात्रमथापि च । नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ ९१॥
अचञ्चलम् अकुब्जम् च आसन्न-गात्रम् अथ अपि च । न अति उच्चम् चल-पादम् च सौष्ठव-अङ्गम् प्रयोजयेत् ॥ ९१॥
acañcalam akubjam ca āsanna-gātram atha api ca . na ati uccam cala-pādam ca sauṣṭhava-aṅgam prayojayet .. 91..
कटी कर्णसमा यत्र कूर्परांसशिरस्तथा । समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ ९२॥
कटी कर्ण-समा यत्र कूर्पर-अंस-शिरः तथा । समुन्नतम् उरः च एव सौष्ठवम् नाम तत् भवेत् ॥ ९२॥
kaṭī karṇa-samā yatra kūrpara-aṃsa-śiraḥ tathā . samunnatam uraḥ ca eva sauṣṭhavam nāma tat bhavet .. 92..
नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः । अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ ९३॥
नहि सौष्ठव-हीन-अङ्गः शोभते नाट्य-नृत्तयोः । अत्र नित्यम् प्रयत्नः हि विधेयः मध्यम-उत्तमैः ॥ ९३॥
nahi sauṣṭhava-hīna-aṅgaḥ śobhate nāṭya-nṛttayoḥ . atra nityam prayatnaḥ hi vidheyaḥ madhyama-uttamaiḥ .. 93..
नाट्यं नृत्तं च सर्वं हि सौष्ठवे सम्प्रतिष्ठितम् । कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ ९४॥
नाट्यम् नृत्तम् च सर्वम् हि सौष्ठवे सम्प्रतिष्ठितम् । कटीनाम् अभिचरौ हस्तौ वक्षः च एव समुन्नतम् ॥ ९४॥
nāṭyam nṛttam ca sarvam hi sauṣṭhave sampratiṣṭhitam . kaṭīnām abhicarau hastau vakṣaḥ ca eva samunnatam .. 94..
वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् । परिमार्जनमादानं सन्धानं मोक्षणम् तथा ॥ ९५॥
वैष्णवम् स्थानम् इति अङ्गम् चतुर्-अश्रम् उदाहृतम् । परिमार्जनम् आदानम् सन्धानम् मोक्षणम् तथा ॥ ९५॥
vaiṣṇavam sthānam iti aṅgam catur-aśram udāhṛtam . parimārjanam ādānam sandhānam mokṣaṇam tathā .. 95..
धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ ९६॥
धनुषः तु प्रयोक्तव्यम् करणम् तु चतुर्विधम् । संमार्जनम् परामर्षम् आदानम् ग्रहणम् क्रिया ॥ ९६॥
dhanuṣaḥ tu prayoktavyam karaṇam tu caturvidham . saṃmārjanam parāmarṣam ādānam grahaṇam kriyā .. 96..
सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ ९७॥
सन्धानम् शर-विन्यासः विक्षेपः मोक्षणम् भवेत् । तैल-अभ्यक्तेन गात्रेण यवागू-मृदितेन च ॥ ९७॥
sandhānam śara-vinyāsaḥ vikṣepaḥ mokṣaṇam bhavet . taila-abhyaktena gātreṇa yavāgū-mṛditena ca .. 97..
व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा । योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ ९८॥
व्यायामम् कारयेत् श्रीमान् भित्तौ आकालिके तथा । योग्यायाम् मातृका भित्तिः तस्मात् भित्तिम् समाश्रयेत् ॥ ९८॥
vyāyāmam kārayet śrīmān bhittau ākālike tathā . yogyāyām mātṛkā bhittiḥ tasmāt bhittim samāśrayet .. 98..
भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् । बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ ९९॥
भित्तौ प्रसारित-अङ्गम् तु व्यायामम् कारयेत् नरम् । बल-अर्थम् च निषेवेत नस्यम् वस्ति-विधिम् तथा ॥ ९९॥
bhittau prasārita-aṅgam tu vyāyāmam kārayet naram . bala-artham ca niṣeveta nasyam vasti-vidhim tathā .. 99..
स्निग्धान्यन्यानि च तथा रसकं पानकं तथा । आहारेऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १००॥
स्निग्धानि अन्यानि च तथा रसकम् पानकम् तथा । आहारे अधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १००॥
snigdhāni anyāni ca tathā rasakam pānakam tathā . āhāre adhiṣṭhitāḥ prāṇāḥ prāṇe yogyāḥ pratiṣṭhitāḥ .. 100..
तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् । अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ १०१॥
तस्मात् योग्या-प्रसिधि-अर्थम् आहारे यत्नवान् भवेत् । अशुद्ध-कायम् प्रक्लान्तम् अतीव क्षुध्-पिपासितम् ॥ १०१॥
tasmāt yogyā-prasidhi-artham āhāre yatnavān bhavet . aśuddha-kāyam praklāntam atīva kṣudh-pipāsitam .. 101..
अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् । अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ १०२॥
अति पीतम् तथा भुक्तम् व्यायामम् न एव कारयेत् । अचलैः मधुरैः गात्रैः चतुरश्रेण वक्षसा ॥ १०२॥
ati pītam tathā bhuktam vyāyāmam na eva kārayet . acalaiḥ madhuraiḥ gātraiḥ caturaśreṇa vakṣasā .. 102..
व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् । एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ १०३॥
व्यायामम् कारयेत् धीमान् नरम् अङ्ग-क्रिया-आत्मकम् । एवम् व्यायाम-संयोगे कार्यः चारीकृतः विधिः ॥ १०३॥
vyāyāmam kārayet dhīmān naram aṅga-kriyā-ātmakam . evam vyāyāma-saṃyoge kāryaḥ cārīkṛtaḥ vidhiḥ .. 103..
अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् ।
अतस् ऊर्ध्वम् प्रवक्ष्यामि मण्डलानाम् विकल्पनम् ।
atas ūrdhvam pravakṣyāmi maṇḍalānām vikalpanam .
इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः ।
इति भरतीये नाट्यशास्त्रे चारीविधानः नाम दशमः अध्यायः ।
iti bharatīye nāṭyaśāstre cārīvidhānaḥ nāma daśamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In