| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १० ॥
.. nāṭyaśāstram adhyāya 10 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ दशमोऽध्यायः ।
atha daśamo'dhyāyaḥ .
एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १॥
evaṃ pādasya jaṅghāyā ūrvoḥ kaṭyāstathaiva ca . samānakaraṇe ceṣṭā sā cārītyabhidhīyate .. 1..
विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् । यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ २॥
vidhānopagatāścāryo vyāyacchante parasparam . yasmādaṅgasamāyuktāstasmādvyāyāma ucyate .. 2..
एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ ३॥
ekapādapracāro yaḥ sā cārītyabhisaṃjñitā . dvipādakramaṇaṃ yattu karaṇaṃ nāma tadbhavet .. 3..
करणानां समायोगः खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ ४॥
karaṇānāṃ samāyogaḥ khaṇḍamityabhidhīyate . khaṇḍaistribhiścaturbhirvā saṃyuktaṃ maṇḍalaṃ bhavet .. 4..
चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ ५॥
cārībhiḥ prasṛtaṃ nṛttaṃ cārībhiśceṣṭitaṃ tathā . cārībhiḥ śastramokṣaśca cāryo yuddhe ca kīrtitāḥ .. 5..
यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् । नहि चार्या विना किञ्चिन्नाट्येऽङ्गं सम्प्रवर्तते ॥ ६॥
yadetatprastutaṃ nāṭyaṃ taccārīṣveva saṃjñitam . nahi cāryā vinā kiñcinnāṭye'ṅgaṃ sampravartate .. 6..
तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ ७॥
tasmāccārīvidhānasya sampravakṣyāmi lakṣaṇam . yā yasmiṃstu yathā yojyā nṛtte yuddhe gatau tathā .. 7..
समपादा स्थितावर्ता शकटास्या तथैव च । अध्यर्धिका चाषगतिर्विच्यवा च तथापरा ॥ ८॥
samapādā sthitāvartā śakaṭāsyā tathaiva ca . adhyardhikā cāṣagatirvicyavā ca tathāparā .. 8..
एडकाक्रीडिता बद्धा उरुद्वृत्ता तथाड्डिता । उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ ९॥
eḍakākrīḍitā baddhā urudvṛttā tathāḍḍitā . utspanditā ca janitā syanditā cāpasyanditā .. 9..
समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश । एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः ॥ १०॥
samotsaritamattallī mattallī ceti ṣoḍaśa . etā bhaumyaḥ smṛtāścāryaḥ śṛṇutākāśikīḥ punaḥ .. 10..
अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ ११॥
atikrāntā hyapakrāntā pārśvakrāntā tathaiva ca . ūrdhvajānuśca sūcī ca tathā nūpurapādikā .. 11..
डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ १२॥
ḍolapādā tathākṣiptā āviddhodvṛttasaṃjñite . vidyudbhrāntā hyalātā ca bhujaṅgatrāsitā tathā .. 12..
मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ १३॥
mṛgaplutā ca daṇḍā ca bhramarī ceti ṣoḍaśa . ākāśikyaḥ smṛtā hyetā lakṣaṇaṃ ca nibodhata .. 13..
पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ १४॥
pādairnirantarakṛtaistathā samanakhairapi . samapādā smṛtā cārī vijñeyā sthānasaṃśrayā .. 14..
भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम्। पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ १५॥
bhūmighṛṣṭena pādena kṛtvābhyantaramaṇḍalam. punarutsādayedanyaṃ sthitāvarttā tu sā smṛtā .. 15..
निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम्। उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ १६॥
niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram. udvāhitamuraḥ kṛtvā śakaṭāsyāṃ prayojayet .. 16..
सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ १७॥
savyasya pṛṣṭhato vāmaścaraṇastu yadā bhavet . tasyāpasarpaṇaṃ caiva jñeyā sādhyardhikā budhaiḥ .. 17..
पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च चाषगत्यां विधीयते ॥ १८॥
pādaḥ prasāritaḥ savyaḥ punaścaivopasarpitaḥ . vāmaḥ savyāpasarpī ca cāṣagatyāṃ vidhīyate .. 18..
विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम्॥ १९॥
vicyavāt samapādāyā vicyavāṃ samprayojayet . nikuṭṭayaṃstalāgreṇa pādasya dharaṇītalam.. 19..
तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते एडकाक्रीडिता तु सा ॥ २०॥
talasañcarapādābhyāmutplutya patanaṃ tu yat . paryāyataśca kriyate eḍakākrīḍitā tu sā .. 20..
अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः । ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता ॥ २१॥
anyonyajaṅghāsaṃvegāt kṛtvā tu svastikaṃ tataḥ . ūrubhyām valanaṃ yasmāt sā baddhā cāryudāhṛtā .. 21..
तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा । जङ्घाञ्चिता तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ २२॥
talasañcarapādasya pārṣṇirbāhyonmukhī yadā . jaṅghāñcitā tathodvṛttā ūrudvṛtteti sā smṛtā .. 22..
अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः । द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा॥ २३॥
agrataḥ pṛṣṭhato vāpi pādastu talasañcaraḥ . dvitīyapādo nirghṛṣṭaḥ yasyāṃ syādaḍḍitā tu sā.. 23..
शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च । यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ २४॥
śanaiḥ pādo nivarteta bāhyenābhyantareṇa ca . yadrecakānusāreṇa sā cāryutsyanditā smṛtā .. 24..
मुष्टिहस्तश्च वक्षःस्थः करोऽन्यश्च प्रवर्तितः । तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ २५॥
muṣṭihastaśca vakṣaḥsthaḥ karo'nyaśca pravartitaḥ . talasañcarapādaśca janitā cāryudāhṛtā .. 25..
पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् । द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ २६॥
pañcatālāntaraṃ pādaṃ prasārya syanditāṃ nyaset . dvitīyena tu pādena tathāpasyanditāmapi .. 26..
तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः । समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ २७॥
talasañcarapādābhyām ghūrṇamānopasarpaṇaiḥ . samotsaritamattallī vyāyāme samudāhṛtā .. 27..
उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ २८॥
ubhābhyāmapi pādābhyāṃ ghūrṇamānopasarpaṇaiḥ . udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtā .. 28..
एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः । आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ २९॥
etā bhaumyaḥ smṛtāścāryo niyuddhakaraṇāśrayāḥ . ākāśakīnāṃ cārīṇāṃ sampravakṣyāmi lakṣaṇam .. 29..
कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् । उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ ३०॥
kuñcitaṃ pādamutkṣipya purataḥ samprasārayet . utkṣipya pātayeccainamatikrāntā tu sā smṛtā .. 30..
ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ ३१॥
ūrubhyāṃ valanaṃ kṛtvā kuñcitaṃ pādamuddharet . pārśve vinikṣipeccainamapakrāntā tu sā smṛtā .. 31..
कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् । उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ ३२॥
kuñcitaṃ pādamutkṣipya pārśvenotpatanaṃ nyaset . udghaṭṭitena pādena pārśvakrāntā vidhīyate .. 32..
कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् । द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ ३३॥
kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset . dvitīyaṃ ca kramāt stabdhamūrdhvajānuḥ prakīrtitā .. 33..
कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् । पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ ३४॥
kuñcitaṃ pādamutkṣipya jānūrdhvaṃ samprasārayet . pātayeccāgrayogena sā sūcī parikīrtitā .. 34..
पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ ३५॥
pṛṣṭhato hyañcitaṃ kṛtvā pādamagratalena tu . drutaṃ niryātayedbhūmau cārī nūpurapādikā .. 35..
कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् । पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ ३६॥
kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu dolayet . pātayedañcitaṃ caivaṃ dolapādā tu sā smṛtā .. 36..
कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् । जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ ३७॥
kuñcitaṃ pādamutkṣipya ākṣipya tvañcitaṃ nyaset . jaṅghāsvastikasaṃyuktā cākṣiptā nāma sā smṛtā .. 37..
स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ ३८॥
svastikasyāgrataḥ pādaḥ kuñcitastu prasāritaḥ . nipatedañcitāviddha āviddhā nāma sā smṛtā .. 38..
पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ ३९॥
pādamāviddhamāveṣṭya samutkṣipya nipātayet . parivṛttya dvitīyaṃ ca sodvṛttā cāryudāhṛtā .. 39..
पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् । सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ ४०॥
pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet . sarvato maṇḍalāviddhaṃ vidyudbhrāntā tu sā smṛtā .. 40..
पृष्ठः प्रसारितः पादो वलितोऽभ्यन्तरीकृतः । पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ ४१॥
pṛṣṭhaḥ prasāritaḥ pādo valito'bhyantarīkṛtaḥ . pārṣṇiprapatitaścaiva hyalātā samprakīrtitā .. 41..
कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् । कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ ४२॥
kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet . kaṭijānuvivartācca bhujaṅgatrāsitā bhavet .. 42..
अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् । जङ्घाञ्चितोपरिक्षिप्ता सा ज्ञेया हरिणप्लुता ॥ ४३॥
atikrāntakramaṃ kṛtvā samutplutya nipātayet . jaṅghāñcitoparikṣiptā sā jñeyā hariṇaplutā .. 43..
नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ ४४॥
nūpuraṃ caraṇaṃ kṛtvā purataḥ samprasārayet . kṣipramāviddhakaraṇaṃ daṇḍapādā tu sā smṛtā .. 44..
अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ ४५॥
atikrāntakramaṃ kṛtvā trikaṃ tu parivartayet . dvitīyapādabhramaṇāttalena bhramarī smṛtā .. 45..
आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः । धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ ४६॥
ākāśikyaḥ smṛtā hyetā lalitāṅgakriyātmakāḥ . dhanurvajrāsiśastrāṇāṃ prayoktavyā prayoktṛbhiḥ .. 46..
अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः । पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ ४७॥
agragau pṛṣṭhagau vāpi hyanugau cāpi yogataḥ . pādayostu dvijā hastau kartavyau nāṭyayoktṛbhiḥ .. 47..
यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् । पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ ४८॥
yataḥ pādastato hasto yato hastastatastrikam . pādasya nirgamaṃ jñātvā tathopāṅgāni yojayet .. 48..
पादचार्यां यथा पादो धरणीमेव गच्छति । एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ ४९॥
pādacāryāṃ yathā pādo dharaṇīmeva gacchati . evaṃ hastaścaritvā tu kaṭideśaṃ samāśrayet .. 49..
एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः । स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ ५०॥
etāścāryo mayā proktā lalitāṅgakriyātmakāḥ . sthānānyāsāṃ pravakṣyāmi sarvaśastravimokṣaṇe .. 50..
वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढं तथालीढं स्थानान्येतानि षण् नृणां ॥ ५१॥
vaiṣṇavaṃ samapādaṃ ca vaiśākhaṃ maṇḍalaṃ tathā . pratyālīḍhaṃ tathālīḍhaṃ sthānānyetāni ṣaṇ nṛṇāṃ .. 51..
द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितोऽपरः ॥ ५२॥
dvau tālāvardhatālaśca pādayorantaraṃ bhavet . tayoḥ samasthitastvekaḥ tryaśraḥ pakṣasthito'paraḥ .. 52..
किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् । वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ ५३॥
kiñcidañcitajaṅghaṃ ca sauṣṭhavāṅgapuraskṛtam . vaiṣṇavaṃ sthānametaddhi viṣṇuratrādhidaivatam .. 53..
स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः । नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ ५४॥
sthānenānena kartavyaḥ saṃllāpastu svabhāvajaḥ . nānākāryāntarāpetairnṛbhiruttamamadhyamaiḥ .. 54..
चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा । धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ ५५॥
cakrasya mokṣaṇe caiva dhāraṇe dhanuṣastathā . dhairyadānāṅgalīlāsu tathā krodhe prayojayet .. 55..
इदमेव विपर्यस्तं प्रणयक्रोध इष्यते । उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ ५६॥
idameva viparyastaṃ praṇayakrodha iṣyate . upālambhakṛte caiva praṇayodvegayostathā .. 56..
शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ ५७॥
śaṅkāsūyogratācintāmatismṛtiṣu caiva hi . dainye capalatāyoge garvābhīṣṭeṣu śaktiṣu .. 57..
शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५८॥
śṛṅgārādbhutabībhatsavīraprādhānyayojitam . samapāde samau pādau tālamātrāntarasthitau .. 58..
स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ ५९॥
svabhāvasauṣṭhavopetau brahmā cātrādhidaivatam . anena kāryaṃ sthānena vipramaṅgaladhāraṇam .. 59..
रूपणे पक्षिणां चैव वरं कौतुकमेव च । स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ ६०॥
rūpaṇe pakṣiṇāṃ caiva varaṃ kautukameva ca . svasthānaṃ syandanasthānāṃ vimānasthāyināmapi .. 60..
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥ ६१॥
liṅgasthānāṃ vratasthānāṃ sthānametattu kārayet . tālāstrayo'rdhatālaśca pādayorantaraṃ bhavet .. 61..
तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् । त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ ६२॥
tālāṃstrīnardhatālāṃśca niṣaṇṇoruṃ prakalpayet . tryaśrau vakṣaḥsthitau caiva tatra pādo prayojayet .. 62..
वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् । स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ ६३॥
vaiśākhasthānametaddhi skandaścātrādhidaivatam . sthānenānena kartavyamaśvānāṃ vāhanaṃ budhaiḥ .. 63..
व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् । शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ ६४॥
vyāyāmanirgamaścaiva sthūlapakṣinirūpaṇam . śarāṇāṃ ca samutkṣepo vyāyāmakaraṇe tathā .. 64..
रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ ६५॥
recakeṣu ca kartavyamidameva prayoktṛbhiḥ . aindre tu maṇḍale pādau catustālāntarasthitau .. 65..
त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा । धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ ६६॥
tryaśrau pakṣaḥsthitau caiva kaṭijānū samau tathā . dhanurvajrāsiśastrāṇi maṇḍalena prayojayet .. 66..
वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् । अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ ६७॥
vāhanaṃ kuñjarāṇāṃ tu sthūlapakṣinirūpaṇam . asyaiva dakṣiṇaṃ pādaṃ pañca tālān prasārya tu .. 67..
आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् । अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ ६८॥
ālīḍhaṃ sthānakaṃ kuryād rudraścātrādhidaivatam . anena kāryaṃ sthānena vīraraudrakṛtaṃ tu yat .. 68..
उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः । मल्लानाञ्चैव सम्फेटः शत्रूणां च निरूपणम् ॥ ६९॥
uttarottarasañjalpo roṣāmarṣakṛtastu yaḥ . mallānāñcaiva sampheṭaḥ śatrūṇāṃ ca nirūpaṇam .. 69..
तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ ७०॥
tathābhidravaṇaṃ caiva śastrāṇāṃ caiva mokṣaṇam . kuñcitaṃ dakṣiṇaṃ kṛtvā vāmaṃ pādaṃ prasārya ca .. 70..
आलीढपरिवर्तस्तु प्रत्यालीढमिति स्मृतम् । आलीढसंहितं शस्त्रं प्रत्यालीढेन मोक्षयेत् ॥ ७१॥
ālīḍhaparivartastu pratyālīḍhamiti smṛtam . ālīḍhasaṃhitaṃ śastraṃ pratyālīḍhena mokṣayet .. 71..
नानाशस्त्रविमोक्षो हि कार्योऽनेन प्रयोक्तृभिः । न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ ७२॥
nānāśastravimokṣo hi kāryo'nena prayoktṛbhiḥ . nyāyāccaiva hi vijñeyāścatvāraḥ śastramokṣaṇe .. 72..
भारतः सात्वतश्चैव वार्षगण्योऽथ कैशिकः । भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ ७३॥
bhārataḥ sātvataścaiva vārṣagaṇyo'tha kaiśikaḥ . bhārate tu kaṭīcchedyaṃ pādacchedyaṃ tu sātvate .. 73..
वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके । एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ ७४॥
vakṣaso vārṣagaṇye tu śiraśchedyantu kaiśike . ebhiḥ prayoktṛbhirnyāyairnānācārīsamutthitaiḥ .. 74..
प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे । न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ ७५॥
pravicārya prayoktavyaṃ nānāśastravimokṣaṇe . nyāyāśritairaṅgahārairnyāyāccaiva samutthitaiḥ .. 75..
यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः । वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ ७६॥
yasmād yuddhāni vartante tasmānnyāyāḥ prakīrtitāḥ . vāmahaste vinikṣipya kheṭakaṃ śastrapheṭakam .. 76..
शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् । प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि ॥ ७७॥
śastramādāya hastena pravicāramathācaret . prasārya ca karau samyak punarākṣipya caiva hi .. 77..
खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च । शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ ७८॥
kheṭakaṃ bhrāmayet paścāt pārśvāt pārśvamathāpi ca . śiraḥparigamaścāpi kāryaḥ śastreṇa yoktṛbhiḥ .. 78..
कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा । पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ ७९॥
kapolasyāntare vāpi śastrasyodveṣṭanaṃ tathā . punaśca khaḍgahastena lalitodveṣṭitena ca .. 79..
खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ ८०॥
kheṭakena ca kartavyaḥ śiraḥparigamo budhaiḥ . evaṃ pracāraḥ kartavyo bhārate śastramokṣaṇe .. 80..
सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः । स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ ८१॥
sātvate ca pravakṣyāmi pravicāraṃ yathāvidhiḥ . sa eva pravicārastu khaḍgakheṭakayoḥ smṛtaḥ .. 81..
केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते । गतिश्च वार्षगण्येऽपि सात्वतेन क्रमेण तु ॥ ८२॥
kevalaṃ pṛṣṭhataḥ śastraṃ kartavyaṃ khalu sātvate . gatiśca vārṣagaṇye'pi sātvatena krameṇa tu .. 82..
शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते । शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ ८३॥
śastrakheṭakayoścāpi bhramaṇaṃ saṃvidhīyate . śiraḥ parigamastadvacchastrasyeha bhavettathā .. 83..
उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशेऽथवा पुनः । भारते प्रविचारोऽयं कर्तव्यः स तु कैशिके ॥ ८४॥
urasyudveṣṭanaṃ kāryaṃ śastrasyāṃśe'thavā punaḥ . bhārate pravicāro'yaṃ kartavyaḥ sa tu kaiśike .. 84..
विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्या ह्येवमेतेऽङ्गलीलया ॥ ८५॥
vibhramayya tathā śastraṃ kevalaṃ mūrdhni pātayet . pravicārā prayoktavyā hyevamete'ṅgalīlayā .. 85..
धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे । न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ ८६॥
dhanurvajrāsiśastrāṇāṃ prayoktavyā vimokṣaṇe . na bhedyaṃ nāpi tu cchedyaṃ na cāpi rudhirasrutiḥ .. 86..
रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् । संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ ८७॥
raṅge praharaṇe kāryo na cāpi vyaktaghātanam . saṃjñāmātreṇa kartavyaṃ śastrāṇāṃ mokṣaṇaṃ budhaiḥ .. 87..
अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः । अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ ८८॥
athavābhinayopetaṃ kuryācchedyaṃ vidhānataḥ . aṅgasauṣṭhavasaṃyuktairaṅgahārairvibhūṣitam .. 88..
व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् । सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ ८९॥
vyāyāmaṃ kārayet samyak layatālasamanvitam . sauṣṭhave hi prayatnastu kāryo vyāyāmasevibhiḥ .. 89..
सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् । शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ ९०॥
sauṣṭhave lakṣaṇaṃ proktaṃ vartanākramayojitam . śobhā sarvaiva nityaṃ hi sauṣṭhavaṃ samupāśritā .. 90..
अचञ्चलमकुब्जं चासन्नगात्रमथापि च । नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ ९१॥
acañcalamakubjaṃ cāsannagātramathāpi ca . nātyuccaṃ calapādañca sauṣṭhavāṅgaṃ prayojayet .. 91..
कटी कर्णसमा यत्र कूर्परांसशिरस्तथा । समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ ९२॥
kaṭī karṇasamā yatra kūrparāṃsaśirastathā . samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet .. 92..
नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः । अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ ९३॥
nahi sauṣṭhavahīnāṅgaḥ śobhate nāṭyanṛttayoḥ . atra nityaṃ prayatno hi vidheyo madhyamottamaiḥ .. 93..
नाट्यं नृत्तं च सर्वं हि सौष्ठवे सम्प्रतिष्ठितम् । कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ ९४॥
nāṭyaṃ nṛttaṃ ca sarvaṃ hi sauṣṭhave sampratiṣṭhitam . kaṭīnāmabhicarau hastau vakṣaścaiva samunnatam .. 94..
वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् । परिमार्जनमादानं सन्धानं मोक्षणम् तथा ॥ ९५॥
vaiṣṇavaṃ sthānamityaṅgaṃ caturaśramudāhṛtam . parimārjanamādānaṃ sandhānaṃ mokṣaṇam tathā .. 95..
धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ ९६॥
dhanuṣastu prayoktavyaṃ karaṇaṃ tu caturvidham . saṃmārjanaṃ parāmarṣamādānaṃ grahaṇaṃ kriyā .. 96..
सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ ९७॥
sandhānaṃ śaravinyāso vikṣepo mokṣaṇaṃ bhavet . tailābhyaktena gātreṇa yavāgūmṛditena ca .. 97..
व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा । योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ ९८॥
vyāyāmaṃ kārayet śrīmān bhittāvākālike tathā . yogyāyāṃ mātṛkā bhittistasmādbhittiṃ samāśrayet .. 98..
भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् । बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ ९९॥
bhittau prasāritāṅgantu vyāyāmaṃ kārayennaram . balārthaṃ ca niṣeveta nasyaṃ bastividhiṃ tathā .. 99..
स्निग्धान्यन्यानि च तथा रसकं पानकं तथा । आहारेऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ १००॥
snigdhānyanyāni ca tathā rasakaṃ pānakaṃ tathā . āhāre'dhiṣṭhitāḥ prāṇāḥ prāṇe yogyāḥ pratiṣṭhitāḥ .. 100..
तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् । अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ १०१॥
tasmādyogyāprasidhyarthamāhāre yatnavān bhavet . aśuddhakāyaṃ praklāntamatīvakṣutpipāsitam .. 101..
अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् । अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ १०२॥
atipītaṃ tathā bhuktaṃ vyāyāmaṃ naiva kārayet . acalairmadhuraigātraiścaturaśreṇa vakṣasā .. 102..
व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् । एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ १०३॥
vyāyāmaṃ kārayeddhīmān naramaṅgakriyātmakam . evaṃ vyāyāmasaṃyoge kāryaścārīkṛto vidhiḥ .. 103..
अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् ।
ata ūrdhvaṃ pravakṣyāmi maṇḍalānāṃ vikalpanam .
इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमोऽध्यायः ।
iti bharatīye nāṭyaśāstre cārīvidhāno nāma daśamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In