| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १२ गतिप्रचार ॥
॥ नाट्य-शास्त्रम् अध्याय गति-प्रचार ॥
.. nāṭya-śāstram adhyāya gati-pracāra ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ १॥
एवम् व्यायाम-संयोगे कार्यम् मण्डल-कल्पनम् । अतस् परम् प्रवक्ष्यामि गतीः तु प्रकृति-स्थिताः ॥ १॥
evam vyāyāma-saṃyoge kāryam maṇḍala-kalpanam . atas param pravakṣyāmi gatīḥ tu prakṛti-sthitāḥ .. 1..
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ २॥
तत्र उपवहनम् कृत्वा भाण्ड-वाद्य-पुरस्कृतम् । यथा मार्ग-रस-उपेतम् प्रकृतीनाम् प्रवेशने ॥ २॥
tatra upavahanam kṛtvā bhāṇḍa-vādya-puraskṛtam . yathā mārga-rasa-upetam prakṛtīnām praveśane .. 2..
ध्रुवायां सम्प्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ ३॥
ध्रुवायाम् सम्प्रयुक्तायाम् पटे च एव अपकर्षिते । कार्यः प्रवेशः पात्राणाम् नाना अर्थ-रस-सम्भवः ॥ ३॥
dhruvāyām samprayuktāyām paṭe ca eva apakarṣite . kāryaḥ praveśaḥ pātrāṇām nānā artha-rasa-sambhavaḥ .. 3..
स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ ४॥
स्थानम् तु वैष्णवम् कृत्वा हि उत्तमे मध्यमे तथा । समुन्नतम् समम् च एव चतुर्-अस्रम् उरः तथा ॥ ४॥
sthānam tu vaiṣṇavam kṛtvā hi uttame madhyame tathā . samunnatam samam ca eva catur-asram uraḥ tathā .. 4..
बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ ५॥
बाहु-शीर्षे प्रसन्ने च न अति उत्क्षिप्ते च कारयेत् । ग्रीवा-प्रदेशः कर्तव्यः मयूर-आञ्चित-मस्तकः ॥ ५॥
bāhu-śīrṣe prasanne ca na ati utkṣipte ca kārayet . grīvā-pradeśaḥ kartavyaḥ mayūra-āñcita-mastakaḥ .. 5..
कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ ६॥
कर्णात् अष्ट-अङ्गुल-स्थे च बाहु-शीर्षे प्रयोजयेत् । उरसः च अपि चिबुकम् चतुर्-अङ्गुल-संस्थितम् ॥ ६॥
karṇāt aṣṭa-aṅgula-sthe ca bāhu-śīrṣe prayojayet . urasaḥ ca api cibukam catur-aṅgula-saṃsthitam .. 6..
हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ ७॥
हस्तौ तथा एव कर्तव्यौ कटी-नाभि-तट-स्थितौ । दक्षिणः नाभि-संस्थः तु वामः कटि-तट-स्थितः ॥ ७॥
hastau tathā eva kartavyau kaṭī-nābhi-taṭa-sthitau . dakṣiṇaḥ nābhi-saṃsthaḥ tu vāmaḥ kaṭi-taṭa-sthitaḥ .. 7..
पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ ८॥
पादयोः अन्तरम् कार्यम् द्वौ तालौ अर्धम् एव च । पाद-उत्क्षेपः तु कर्तव्यः स्व-प्रमाण-विनिर्मितः ॥ ८॥
pādayoḥ antaram kāryam dvau tālau ardham eva ca . pāda-utkṣepaḥ tu kartavyaḥ sva-pramāṇa-vinirmitaḥ .. 8..
चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ ९॥
चतुर्-तालः द्वि-तालः च अपि एक-तालः तथा एव च । चतुर्-तालः तु देवानाम् पार्थिवानाम् तथा एव च ॥ ९॥
catur-tālaḥ dvi-tālaḥ ca api eka-tālaḥ tathā eva ca . catur-tālaḥ tu devānām pārthivānām tathā eva ca .. 9..
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलोऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ १०॥
द्वि-तालः च एव मध्यानाम् तालः स्त्री-नीच-लिङ्गिनाम् । चतुष्कलः अथ द्वि-कलः तथा हि एक-कलः स्मृतः ॥ १०॥
dvi-tālaḥ ca eva madhyānām tālaḥ strī-nīca-liṅginām . catuṣkalaḥ atha dvi-kalaḥ tathā hi eka-kalaḥ smṛtaḥ .. 10..
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां सम्प्रकीर्तितः ॥ ११॥
चतुष्कलः हि उत्तमानाम् मध्यानाम् द्वि-कलः भवेत् । तथा च एक-कलः पादः नीचानाम् सम्प्रकीर्तितः ॥ ११॥
catuṣkalaḥ hi uttamānām madhyānām dvi-kalaḥ bhavet . tathā ca eka-kalaḥ pādaḥ nīcānām samprakīrtitaḥ .. 11..
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ १२॥
स्थितम् मध्यम् द्रुतम् च एव समवेक्ष्य लय-त्रयम् । यथा प्रकृति-नाट्य-ज्ञः गतिम् एवम् प्रयोजयेत् ॥ १२॥
sthitam madhyam drutam ca eva samavekṣya laya-trayam . yathā prakṛti-nāṭya-jñaḥ gatim evam prayojayet .. 12..
धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ १३॥
धैर्य-उपपन्ना गतिः उत्तमानाम् मध्या गतिः मध्यम-सम्मतानाम् । द्रुता गतिः च प्रचुर-अधमानाम् लय-त्रयम् सत्त्व-वशेन योज्यम् ॥ १३॥
dhairya-upapannā gatiḥ uttamānām madhyā gatiḥ madhyama-sammatānām . drutā gatiḥ ca pracura-adhamānām laya-trayam sattva-vaśena yojyam .. 13..
एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ १४॥
एषः एव तु विज्ञेयः कला-ताल-लये विधिः । पुनर् गति-प्रचारस्य प्रयोगम् श्रुणुत अनघाः ॥ १४॥
eṣaḥ eva tu vijñeyaḥ kalā-tāla-laye vidhiḥ . punar gati-pracārasya prayogam śruṇuta anaghāḥ .. 14..
स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ १५॥
स्वभावात् तु उत्तम-गतौ कार्यम् जानु-कटी-समम् । युद्ध-चारी-प्रयोगेषु जानु-स्तन-समम् न्यसेत् ॥ १५॥
svabhāvāt tu uttama-gatau kāryam jānu-kaṭī-samam . yuddha-cārī-prayogeṣu jānu-stana-samam nyaset .. 15..
पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत् सम्यक् पञ्चपदानि च ॥ १६॥
पार्श्व-क्रान्तैः स ललितैः पादैः वाद्य-अन्वितैः अथ । गच्छेत् सम्यक् च ॥ १६॥
pārśva-krāntaiḥ sa lalitaiḥ pādaiḥ vādya-anvitaiḥ atha . gacchet samyak ca .. 16..
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत् कोणं ततः परम् ॥ १७॥
वाम-वेधम् ततस् कुर्यात् विक्षेपम् दक्षिणेन तु । परिवृत्य द्वितीयम् तु गच्छेत् कोणम् ततस् परम् ॥ १७॥
vāma-vedham tatas kuryāt vikṣepam dakṣiṇena tu . parivṛtya dvitīyam tu gacchet koṇam tatas param .. 17..
तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत् तान्येव तु पदानि च ॥ १८॥
तत्र अपि वाम-वेधः तु विक्षेपः दक्षिणेन च । ततस् भाण्ड-उन्मुखः गच्छेत् तानि एव तु पदानि च ॥ १८॥
tatra api vāma-vedhaḥ tu vikṣepaḥ dakṣiṇena ca . tatas bhāṇḍa-unmukhaḥ gacchet tāni eva tu padāni ca .. 18..
एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात् विक्षेपं दक्षिणस्य च ॥ १९॥
एवम् गत-आगतैः कृत्वा पदानाम् इह विंशतिम् । वाम-वेधम् ततस् कुर्यात् विक्षेपम् दक्षिणस्य च ॥ १९॥
evam gata-āgataiḥ kṛtvā padānām iha viṃśatim . vāma-vedham tatas kuryāt vikṣepam dakṣiṇasya ca .. 19..
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ २०॥
रङ्गे विकृष्टे भरतेन कार्यः गतागतैः पाद-गति-प्रचारः । त्रि-अश्रः त्रिकोणे चतुर्-अस्र-रङ्गे गति-प्रचारः चतुर्-अस्रे एव ॥ २०॥
raṅge vikṛṣṭe bharatena kāryaḥ gatāgataiḥ pāda-gati-pracāraḥ . tri-aśraḥ trikoṇe catur-asra-raṅge gati-pracāraḥ catur-asre eva .. 20..
यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ २१॥
यः समैः संहितः गच्छेत् तत्र कार्यः लय-आश्रयः । चतुष्कलः अथ द्वि-कलः तथा एव एक-कलः पुनर् ॥ २१॥
yaḥ samaiḥ saṃhitaḥ gacchet tatra kāryaḥ laya-āśrayaḥ . catuṣkalaḥ atha dvi-kalaḥ tathā eva eka-kalaḥ punar .. 21..
अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ २२॥
अथ मध्यम-नीचैः तु गच्छेत् यः परिवारितः । चतुष्कलम् अथ अर्धम् च तथा च एक-कलम् पुनर् ॥ २२॥
atha madhyama-nīcaiḥ tu gacchet yaḥ parivāritaḥ . catuṣkalam atha ardham ca tathā ca eka-kalam punar .. 22..
दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ २३॥
दैत्य-दानव-यक्षाणाम् नृप-पन्नग-रक्षसाम् । चतुर्-ताल-प्रमाणेन कर्तव्या अथ गतिः बुधैः ॥ २३॥
daitya-dānava-yakṣāṇām nṛpa-pannaga-rakṣasām . catur-tāla-pramāṇena kartavyā atha gatiḥ budhaiḥ .. 23..
दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ २४॥
दिवौकसाम् तु सर्वेषाम् मध्यमा गतिः इष्यते । तत्र अपि च उद्धताः ये तु तेषाम् देवैः समा गतिः ॥ २४॥
divaukasām tu sarveṣām madhyamā gatiḥ iṣyate . tatra api ca uddhatāḥ ye tu teṣām devaiḥ samā gatiḥ .. 24..
यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ २५॥
यदा मनुष्याः राजानः तेषाम् देव-गतिः कथम् । अत्रा उच्यते कथम् न एषा गतिः राज्ञाम् भविष्यति ॥ २५॥
yadā manuṣyāḥ rājānaḥ teṣām deva-gatiḥ katham . atrā ucyate katham na eṣā gatiḥ rājñām bhaviṣyati .. 25..
इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ २६॥
इह प्रकृतयः दिव्याः दिव्य-मानुष्यः एव च । मानुष्यः इति विज्ञेयाः नाट्य-नृत्त-क्रियाम् प्रति ॥ २६॥
iha prakṛtayaḥ divyāḥ divya-mānuṣyaḥ eva ca . mānuṣyaḥ iti vijñeyāḥ nāṭya-nṛtta-kriyām prati .. 26..
देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ २७॥
देवानाम् प्रकृतिः दिव्या राज्ञाम् वै दिव्य-मानुषी । या तु अन्या लोक-विदिता मानुषी सा प्रकीर्तिता ॥ २७॥
devānām prakṛtiḥ divyā rājñām vai divya-mānuṣī . yā tu anyā loka-viditā mānuṣī sā prakīrtitā .. 27..
देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ २८॥
देव-अंश-जाः तु राजानः वेद-अध्यात्मसु कीर्तिताः । एवम् देव-अनुकरणे दोषः हि अत्र न विद्यते ॥ २८॥
deva-aṃśa-jāḥ tu rājānaḥ veda-adhyātmasu kīrtitāḥ . evam deva-anukaraṇe doṣaḥ hi atra na vidyate .. 28..
अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । सम्भ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ २९॥
अयम् विधिः तु कर्तव्यः स्वच्छन्द-गमनम् प्रति । सम्भ्रम-उत्पात-रोषेषु प्रमाणम् न विधीयते ॥ २९॥
ayam vidhiḥ tu kartavyaḥ svacchanda-gamanam prati . sambhrama-utpāta-roṣeṣu pramāṇam na vidhīyate .. 29..
सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ ३०॥
सर्वासाम् प्रकृतीनाम् तु अवस्था-अन्तर-संश्रया । उत्तम-अधम-मध्यानाम् गतिः कार्या प्रयोक्तृभिः ॥ ३०॥
sarvāsām prakṛtīnām tu avasthā-antara-saṃśrayā . uttama-adhama-madhyānām gatiḥ kāryā prayoktṛbhiḥ .. 30..
चतुरर्धकलं वा स्यात् तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद् गतिविचेष्टितम् ॥ ३१॥
चतुर्-अर्ध-कलम् वा स्यात् तद्-अर्ध-कलम् एव च । अवस्था-अन्तरम् आसाद्य कुर्यात् गति-विचेष्टितम् ॥ ३१॥
catur-ardha-kalam vā syāt tad-ardha-kalam eva ca . avasthā-antaram āsādya kuryāt gati-viceṣṭitam .. 31..
ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ ३२॥
ज्येष्ठे चतुष्कलम् हि अत्र मध्यमे द्वि-कलम् भवेत् । द्वि-कला च उत्तमे यत्र मध्ये तु एक-कला भवेत् ॥ ३२॥
jyeṣṭhe catuṣkalam hi atra madhyame dvi-kalam bhavet . dvi-kalā ca uttame yatra madhye tu eka-kalā bhavet .. 32..
कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां सम्प्रयोजयेत् ॥ ३३॥
कलिकम् मध्यमे यत्र नीचेषु अर्ध-कलम् भवेत् । एवम् अर्ध-अर्ध-हीनम् तु जडानाम् सम्प्रयोजयेत् ॥ ३३॥
kalikam madhyame yatra nīceṣu ardha-kalam bhavet . evam ardha-ardha-hīnam tu jaḍānām samprayojayet .. 33..
ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ ३४॥
ज्वर-आर्ते च क्षुधा-आर्ते च तपः-श्रान्ते भय-अन्विते । विस्मिते च अवहित्थे च तथा औत्सुक्य-समन्विते ॥ ३४॥
jvara-ārte ca kṣudhā-ārte ca tapaḥ-śrānte bhaya-anvite . vismite ca avahitthe ca tathā autsukya-samanvite .. 34..
शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ ३५॥
शृङ्गारे च एव शोके च स्वच्छन्द-गमने तथा । गतिः स्थित-लया कार्य-अधिक-ला-अन्तर-पाति-ता ॥ ३५॥
śṛṅgāre ca eva śoke ca svacchanda-gamane tathā . gatiḥ sthita-layā kārya-adhika-lā-antara-pāti-tā .. 35..
पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ ३६॥
पुनर् चिन्ता-अन्विते च एव गतिः कार्या चतुष्कला । अस्वस्थ-कामिते च एव भये वित्रासिते तथा ॥ ३६॥
punar cintā-anvite ca eva gatiḥ kāryā catuṣkalā . asvastha-kāmite ca eva bhaye vitrāsite tathā .. 36..
आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ ३७॥
आवेगे च एव हर्षे च कार्ये यत् च त्वरा-अन्वितम् । अनिष्ट-श्रवणे च एव क्षेपे च अद्भुत-दर्शने ॥ ३७॥
āvege ca eva harṣe ca kārye yat ca tvarā-anvitam . aniṣṭa-śravaṇe ca eva kṣepe ca adbhuta-darśane .. 37..
अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ ३८॥
अपि च आत्यायिके कार्ये दुःखिते शत्रु-मार्गणे । अपराद्ध-अनुसरणे श्वापद-अनुगतौ तथा ॥ ३८॥
api ca ātyāyike kārye duḥkhite śatru-mārgaṇe . aparāddha-anusaraṇe śvāpada-anugatau tathā .. 38..
एतेष्वेवं गतिं प्राज्ञो विकलां सम्प्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ ३९॥
एतेषु एवम् गतिम् प्राज्ञः विकलाम् सम्प्रयोजयेत् । उत्तमानाम् गतिः या तु न ताम् मध्येषु योजयेत् ॥ ३९॥
eteṣu evam gatim prājñaḥ vikalām samprayojayet . uttamānām gatiḥ yā tu na tām madhyeṣu yojayet .. 39..
या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ ४०॥
या गतिः मध्यमानाम् तु न ताम् नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थ-कामित-सम्भवा ॥ ४०॥
yā gatiḥ madhyamānām tu na tām nīceṣu yojayet . gatiḥ śṛṅgāriṇī kāryā svastha-kāmita-sambhavā .. 40..
दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ ४१॥
दूती-दर्शित-मार्गः तु प्रविशेत् रङ्ग-मण्डलम् । सूचया च अपि अभिनयम् कुर्यात् अर्थ-समाश्रयम् ॥ ४१॥
dūtī-darśita-mārgaḥ tu praviśet raṅga-maṇḍalam . sūcayā ca api abhinayam kuryāt artha-samāśrayam .. 41..
हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलङ्कृतः ॥ ४२॥
हृद्यैः गन्धैः तथा वस्त्रैः अलङ्कारैः च भूषितः । नाना पुष्प-सुगन्धाभिः मालाभिः समलङ्कृतः ॥ ४२॥
hṛdyaiḥ gandhaiḥ tathā vastraiḥ alaṅkāraiḥ ca bhūṣitaḥ . nānā puṣpa-sugandhābhiḥ mālābhiḥ samalaṅkṛtaḥ .. 42..
गच्छेत् सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ ४३॥
गच्छेत् स ललितैः पादैः अतिक्रान्त-स्थितैः तथा । तथा सौष्ठव-संयुक्तैः लय-ताल-वश-अनुगैः ॥ ४३॥
gacchet sa lalitaiḥ pādaiḥ atikrānta-sthitaiḥ tathā . tathā sauṣṭhava-saṃyuktaiḥ laya-tāla-vaśa-anugaiḥ .. 43..
पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ ४४॥
पादयोः अनुगौ हस्तौ नित्यम् कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तम् पातेन पादयोः च विपर्ययात् ॥ ४४॥
pādayoḥ anugau hastau nityam kāryau prayoktṛbhiḥ . utkṣipya hastam pātena pādayoḥ ca viparyayāt .. 44..
प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ ४५॥
प्रच्छन्न-कामिते च एव गतिम् भूयस् निबोधत । विसर्जित-जनः स्रस्तः तथा दूती-सहायवान् ॥ ४५॥
pracchanna-kāmite ca eva gatim bhūyas nibodhata . visarjita-janaḥ srastaḥ tathā dūtī-sahāyavān .. 45..
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ ४६॥
निर्वाण-दीपः न अत्यर्थम् भूषणैः च विभूषितः । वेला-सदृश-वस्त्रः च सह दूत्या शनैस् तथा ॥ ४६॥
nirvāṇa-dīpaḥ na atyartham bhūṣaṇaiḥ ca vibhūṣitaḥ . velā-sadṛśa-vastraḥ ca saha dūtyā śanais tathā .. 46..
व्रजेत् प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशङ्क्युत्सुकश्च स्यादवलोकनतत्परः ॥ ४७॥
व्रजेत् प्रच्छन्न-कामः तु पादैः निश्शब्द-मन्द-गैः । शब्द-शङ्की उत्सुकः च स्यात् अवलोकन-तत्परः ॥ ४७॥
vrajet pracchanna-kāmaḥ tu pādaiḥ niśśabda-manda-gaiḥ . śabda-śaṅkī utsukaḥ ca syāt avalokana-tatparaḥ .. 47..
वेपमानशरीरश्च शङ्कितः प्रस्खलन् मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ ४८॥
वेपमान-शरीरः च शङ्कितः प्रस्खलन् मुहुर् । रसे रौद्रे तु वक्ष्यामि दैत्य-रक्षः-गणान् प्रति ॥ ४८॥
vepamāna-śarīraḥ ca śaṅkitaḥ praskhalan muhur . rase raudre tu vakṣyāmi daitya-rakṣaḥ-gaṇān prati .. 48..
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ ४९॥
एकः एव रसः तेषाम् स्थायी रौद्रः द्विजोत्तमाः । नेपथ्य-रौद्रः विज्ञेयः तु अङ्ग-रौद्रः तथा एव च ॥ ४९॥
ekaḥ eva rasaḥ teṣām sthāyī raudraḥ dvijottamāḥ . nepathya-raudraḥ vijñeyaḥ tu aṅga-raudraḥ tathā eva ca .. 49..
तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ ५०॥
तथा स्वभाव-जः च एव त्रिधा रौद्रः प्रकल्पितः । रुधिर-क्लिन्न-देहः यः रुधिर-आर्द्र-मुखः तथा ॥ ५०॥
tathā svabhāva-jaḥ ca eva tridhā raudraḥ prakalpitaḥ . rudhira-klinna-dehaḥ yaḥ rudhira-ārdra-mukhaḥ tathā .. 50..
तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ ५१॥
तथा पिशितहस्तः च रौद्रः नेपथ्य-जः तु सः । बहु-बाहुः बहु-मुखः नाना प्रहरण-आकुलः ॥ ५१॥
tathā piśitahastaḥ ca raudraḥ nepathya-jaḥ tu saḥ . bahu-bāhuḥ bahu-mukhaḥ nānā praharaṇa-ākulaḥ .. 51..
स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ ५२॥
स्थूलकायः तथा प्रांशुः अङ्ग-रौद्रः प्रकीर्तितः । रक्त-अक्षः पिङ्ग-केशः च असितः विकृत-स्वरः ॥ ५२॥
sthūlakāyaḥ tathā prāṃśuḥ aṅga-raudraḥ prakīrtitaḥ . rakta-akṣaḥ piṅga-keśaḥ ca asitaḥ vikṛta-svaraḥ .. 52..
रूक्षो निर्भर्त्सनपरो रौद्रः सोऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ ५३॥
रूक्षः निर्भर्त्सन-परः रौद्रः सः अयम् स्वभाव-जः । चतुर्-ताल-अन्तर-उत्क्षिप्तैः पादैः तु अन्तर-पातितैः ॥ ५३॥
rūkṣaḥ nirbhartsana-paraḥ raudraḥ saḥ ayam svabhāva-jaḥ . catur-tāla-antara-utkṣiptaiḥ pādaiḥ tu antara-pātitaiḥ .. 53..
गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ ५४॥
गतिः एवम् प्रकर्तव्या तेषाम् ये च अपि तद्विधाः । अहृद्या तु मही यत्र श्मशान-रण-कश्मला ॥ ५४॥
gatiḥ evam prakartavyā teṣām ye ca api tadvidhāḥ . ahṛdyā tu mahī yatra śmaśāna-raṇa-kaśmalā .. 54..
गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ ५५॥
गतिम् तत्र प्रयुञ्जीत बीभत्स-अभिनयम् प्रति । क्वचिद् आसन्न-पतितैः विकृष्ट-पतितैः क्वचिद् ॥ ५५॥
gatim tatra prayuñjīta bībhatsa-abhinayam prati . kvacid āsanna-patitaiḥ vikṛṣṭa-patitaiḥ kvacid .. 55..
एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ ५६॥
एलक-आक्रीडितैः पादैः उपरि उपरि पातितैः । तेषाम् एव अनुगैः हस्तैः बीभत्से गतिः इष्यते ॥ ५६॥
elaka-ākrīḍitaiḥ pādaiḥ upari upari pātitaiḥ . teṣām eva anugaiḥ hastaiḥ bībhatse gatiḥ iṣyate .. 56..
अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ ५७॥
अथ वीरे च कर्त्तव्या पाद-विक्षेप-संयुता । द्रुत-प्रचार-अधिष्ठाना नाना चारी-समाकुला ॥ ५७॥
atha vīre ca karttavyā pāda-vikṣepa-saṃyutā . druta-pracāra-adhiṣṭhānā nānā cārī-samākulā .. 57..
पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत् गतिम् ॥ ५८॥
पार्श्व-क्रान्तैः द्रुताविद्धैः सूची-विद्धैः तथा एव च । कला-काल-गतैः पादैः आवेगे योजयेत् गतिम् ॥ ५८॥
pārśva-krāntaiḥ drutāviddhaiḥ sūcī-viddhaiḥ tathā eva ca . kalā-kāla-gataiḥ pādaiḥ āvege yojayet gatim .. 58..
उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ ५९॥
उत्तमानाम् अयम् प्रायस् प्रोक्तः गति-परिक्रमः । मध्यानाम् अधमानाम् च गतिम् वक्ष्यामि अहम् पुनर् ॥ ५९॥
uttamānām ayam prāyas proktaḥ gati-parikramaḥ . madhyānām adhamānām ca gatim vakṣyāmi aham punar .. 59..
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ ६०॥
विस्मये च एव हर्षे च विक्षिप्त-पद-विक्रमान् । आसाद्य तु रसम् हास्यम् एतत् च अन्यम् च योजयेत् ॥ ६०॥
vismaye ca eva harṣe ca vikṣipta-pada-vikramān . āsādya tu rasam hāsyam etat ca anyam ca yojayet .. 60..
पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ॥ ६१॥
पुनर् च करुणे कार्या गतिः स्थिर-पदैः अथ । बाष्प-अम्बुः उद्ध-नयनः सन्न-गात्रः तथा एव च ॥ ६१॥
punar ca karuṇe kāryā gatiḥ sthira-padaiḥ atha . bāṣpa-ambuḥ uddha-nayanaḥ sanna-gātraḥ tathā eva ca .. 61..
उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ ६२॥
उत्क्षिप्त-पातित-करः तथा स स्वन-रोदनः । गच्छेत् तथा अध्यधिकया प्रत्यग्र-अप्रिय-संश्रये ॥ ६२॥
utkṣipta-pātita-karaḥ tathā sa svana-rodanaḥ . gacchet tathā adhyadhikayā pratyagra-apriya-saṃśraye .. 62..
एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या बाष्पसङ्गता ॥ ६३॥
एषा स्त्रीणाम् प्रयोक्तव्या नीच-सत्त्वे तथा एव च । उत्तमानाम् तु कर्तव्या स धैर्या बाष्प-सङ्ग-ता ॥ ६३॥
eṣā strīṇām prayoktavyā nīca-sattve tathā eva ca . uttamānām tu kartavyā sa dhairyā bāṣpa-saṅga-tā .. 63..
निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ ६४॥
निःश्वासैः आयत-उत्सृष्टैः तथा एव ऊर्ध्व-निरीक्षितैः । न तत्र सौष्ठवम् कार्यम् न प्रमाणम् तथाविधम् ॥ ६४॥
niḥśvāsaiḥ āyata-utsṛṣṭaiḥ tathā eva ūrdhva-nirīkṣitaiḥ . na tatra sauṣṭhavam kāryam na pramāṇam tathāvidham .. 64..
मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ ६५॥
मध्यानाम् अपि सत्त्व-ज्ञाः गतिः योज्या विधानतः । उरःपात-हत-उत्साहः शोक-व्याकुल-चेतनः ॥ ६५॥
madhyānām api sattva-jñāḥ gatiḥ yojyā vidhānataḥ . uraḥpāta-hata-utsāhaḥ śoka-vyākula-cetanaḥ .. 65..
नात्युत्क्षिप्तैः पदैर्गच्छेत् इष्टबन्धुनिपातने । गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ ६६॥
न अति उत्क्षिप्तैः पदैः गच्छेत् इष्ट-बन्धु-निपातने । गाढ-प्रहारे कार्या च शिथिल-अङ्ग-भुज-आश्रया ॥ ६६॥
na ati utkṣiptaiḥ padaiḥ gacchet iṣṭa-bandhu-nipātane . gāḍha-prahāre kāryā ca śithila-aṅga-bhuja-āśrayā .. 66..
विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ ६७॥
विघूणित-शरीरा च गतिः चूर्ण-पदैः अथ । शीतेन च अभिभूतस्य वर्षेण अभिद्रुतस्य च ॥ ६७॥
vighūṇita-śarīrā ca gatiḥ cūrṇa-padaiḥ atha . śītena ca abhibhūtasya varṣeṇa abhidrutasya ca .. 67..
गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ ६८॥
गतिः प्रयोक्तृभिः कार्या स्त्री-नीच-प्रकृतौ अथ । पिण्डीकृत्य तु गात्राणि तेषाम् च एव प्रकम्पनम् ॥ ६८॥
gatiḥ prayoktṛbhiḥ kāryā strī-nīca-prakṛtau atha . piṇḍīkṛtya tu gātrāṇi teṣām ca eva prakampanam .. 68..
करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ ६९॥
करौ वक्षसि निक्षिप्य कुब्जीभूतः तथा एव च । दन्त-उष्ठ-स्फुरणम् च एव चिबुकस्य प्रकम्पनम् ॥ ६९॥
karau vakṣasi nikṣipya kubjībhūtaḥ tathā eva ca . danta-uṣṭha-sphuraṇam ca eva cibukasya prakampanam .. 69..
कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ ७०॥
कार्यम् शनैस् च कर्तव्यम् शीत-अभिनयने गतौ । तथा भयानके च एव गतिः कार्या विचक्षणैः ॥ ७०॥
kāryam śanais ca kartavyam śīta-abhinayane gatau . tathā bhayānake ca eva gatiḥ kāryā vicakṣaṇaiḥ .. 70..
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ ७१॥
स्त्रीणाम् कापुरुषाणाम् च ये च अन्ये सत्त्व-वर्जिताः । विस्फारिते चले नेत्रे विधुतम् च शिरः तथा ॥ ७१॥
strīṇām kāpuruṣāṇām ca ye ca anye sattva-varjitāḥ . visphārite cale netre vidhutam ca śiraḥ tathā .. 71..
भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ ७२॥
भय-संयुक्तया दृष्ट्या पार्श्वयोः च विलोकनैः । द्रुतैः चूर्ण-पदैः च एव बद्ध्वा हस्तम् कपोतकम् ॥ ७२॥
bhaya-saṃyuktayā dṛṣṭyā pārśvayoḥ ca vilokanaiḥ . drutaiḥ cūrṇa-padaiḥ ca eva baddhvā hastam kapotakam .. 72..
प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ ७३॥
प्रवेपित-शरीरः च शुष्क-उष्ठः स्खलितम् व्रजेत् । एषा अनुकरणे कार्या तर्जने त्रासने तथा ॥ ७३॥
pravepita-śarīraḥ ca śuṣka-uṣṭhaḥ skhalitam vrajet . eṣā anukaraṇe kāryā tarjane trāsane tathā .. 73..
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ ७४॥
सत्त्वम् च विकृतम् दृष्ट्वा श्रुत्वा च विकृतम् स्वरम् । एषा स्त्रीणाम् प्रकर्त्तव्या नृणाम् च आक्षिप्त-विक्रमा ॥ ७४॥
sattvam ca vikṛtam dṛṣṭvā śrutvā ca vikṛtam svaram . eṣā strīṇām prakarttavyā nṛṇām ca ākṣipta-vikramā .. 74..
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ॥ ७५॥
क्वचिद् आसन्न-पतितैः विकृष्ट-पतितैः क्वचिद् । एलक-आक्रीडितैः पादैः उपरि उपरि पातितैः ॥ ७५॥
kvacid āsanna-patitaiḥ vikṛṣṭa-patitaiḥ kvacid . elaka-ākrīḍitaiḥ pādaiḥ upari upari pātitaiḥ .. 75..
एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ ७६॥
एषाम् एव अनुगैः हस्तैः गतिम् भीतेषु योजयेत् । वणिजाम् सचिवानाम् च गतिः कार्या स्वभाव-जा ॥ ७६॥
eṣām eva anugaiḥ hastaiḥ gatim bhīteṣu yojayet . vaṇijām sacivānām ca gatiḥ kāryā svabhāva-jā .. 76..
कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ ७७॥
कृत्वा नाभि-तटे हस्तम् उत्तान-खटका-मुखम् । आद्यम् चारालम् उत्तानम् कुर्यात् पार्श्वम् स्तनान्तरे ॥ ७७॥
kṛtvā nābhi-taṭe hastam uttāna-khaṭakā-mukham . ādyam cārālam uttānam kuryāt pārśvam stanāntare .. 77..
न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ ७८॥
न निषण्णम् न च स्तब्धम् न च अपि परिवाहितम् । कृत्वा गात्रम् तथा गच्छेत् तेन च एव क्रमेण तु ॥ ७८॥
na niṣaṇṇam na ca stabdham na ca api parivāhitam . kṛtvā gātram tathā gacchet tena ca eva krameṇa tu .. 78..
अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ ७९॥
अतिक्रान्तैः पदैः विप्राः द्वि-ताल-अन्तर-गामिभिः । यतीनाम् श्रमणानाम् च ये च अन्ये तपसि स्थिताः ॥ ७९॥
atikrāntaiḥ padaiḥ viprāḥ dvi-tāla-antara-gāmibhiḥ . yatīnām śramaṇānām ca ye ca anye tapasi sthitāḥ .. 79..
तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ ८०॥
तेषाम् कार्या गतिः ये तु नैष्ठिकम् व्रतम् आश्रिताः । आलोल-चक्षुः च भवेत् युग-मात्र-निरीक्षणः ॥ ८०॥
teṣām kāryā gatiḥ ye tu naiṣṭhikam vratam āśritāḥ . ālola-cakṣuḥ ca bhavet yuga-mātra-nirīkṣaṇaḥ .. 80..
उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ ८१॥
उपस्थित-स्मृतिः च एव गात्रम् सर्वम् विधाय च । अचञ्चल-मनाः च एव यथावत् लिङ्गम् आश्रितः ॥ ८१॥
upasthita-smṛtiḥ ca eva gātram sarvam vidhāya ca . acañcala-manāḥ ca eva yathāvat liṅgam āśritaḥ .. 81..
विनीतवेषश्च भवेत् कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ ८२॥
विनीत-वेषः च भवेत् कषाय-वसनः तथा । प्रथमम् सम-पादेन स्थित्वा स्थानेन वै बुधः ॥ ८२॥
vinīta-veṣaḥ ca bhavet kaṣāya-vasanaḥ tathā . prathamam sama-pādena sthitvā sthānena vai budhaḥ .. 82..
हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ ८३॥
हस्तम् च चतुरम् कृत्वा तथा च एकम् प्रसारयेत् । प्रसन्नम् वदनम् कृत्वा प्रयोगस्य वश-अनुगः ॥ ८३॥
hastam ca caturam kṛtvā tathā ca ekam prasārayet . prasannam vadanam kṛtvā prayogasya vaśa-anugaḥ .. 83..
अनिषण्णेन गात्रेण गतिं गच्छेद् व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ ८४॥
अ निषण्णेन गात्रेण गतिम् गच्छेत् व्यतिक्रमात् । उत्तमानाम् भवेत् एषा लिङ्गिनाम् ये महा-व्रताः ॥ ८४॥
a niṣaṇṇena gātreṇa gatim gacchet vyatikramāt . uttamānām bhavet eṣā liṅginām ye mahā-vratāḥ .. 84..
एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ ८५॥
एभिः एव विपर्यस्तैः गुणैः अन्येषु योजयेत् । तथा व्रत-अनुग-अवस्था हि अन्येषाम् लिङ्गिनाम् गतिः ॥ ८५॥
ebhiḥ eva viparyastaiḥ guṇaiḥ anyeṣu yojayet . tathā vrata-anuga-avasthā hi anyeṣām liṅginām gatiḥ .. 85..
विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ ८६॥
विभ्रान्ता वा अपि उदात्ता वा विभ्रान्त-निभृता अपि वा । शकट-आस्य-स्थितैः पादैः अतिक्रान्तैः तथा एव च ॥ ८६॥
vibhrāntā vā api udāttā vā vibhrānta-nibhṛtā api vā . śakaṭa-āsya-sthitaiḥ pādaiḥ atikrāntaiḥ tathā eva ca .. 86..
कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ ८७॥
कार्या पाशुपतानाम् च गतिः उद्धत-गामिनी । अन्धकारे अथ याने च गतिः कार्या प्रयोक्तृभिः ॥ ८७॥
kāryā pāśupatānām ca gatiḥ uddhata-gāminī . andhakāre atha yāne ca gatiḥ kāryā prayoktṛbhiḥ .. 87..
भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ ८८॥
भूमौ विसर्पितैः पादैः हस्तैः मार्ग-प्रदर्शिभिः । रथ-स्थस्य अपि कर्तव्या गतिः चूर्णपदैः अथ ॥ ८८॥
bhūmau visarpitaiḥ pādaiḥ hastaiḥ mārga-pradarśibhiḥ . ratha-sthasya api kartavyā gatiḥ cūrṇapadaiḥ atha .. 88..
समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ ८९॥
सम-पादम् तथा स्थानम् कृत्वा रथ-गतिम् व्रजेत् । धनुः गृहीत्वा च एकेन तथा च एकेन कूबरम् ॥ ८९॥
sama-pādam tathā sthānam kṛtvā ratha-gatim vrajet . dhanuḥ gṛhītvā ca ekena tathā ca ekena kūbaram .. 89..
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ ९०॥
सूतः च अस्य भवेत् एवम् प्रतोद-प्रग्रह-आकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ ९०॥
sūtaḥ ca asya bhavet evam pratoda-pragraha-ākulaḥ . vāhanāni vicitrāṇi kartavyāni vibhāgaśaḥ .. 90..
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ ९१॥
द्रुतैः चूर्ण-पदैः च एव गन्तव्यम् रङ्ग-मण्डले । विमान-स्थस्य कर्तव्या हि एषा एव स्यन्दिनी गतिः ॥ ९१॥
drutaiḥ cūrṇa-padaiḥ ca eva gantavyam raṅga-maṇḍale . vimāna-sthasya kartavyā hi eṣā eva syandinī gatiḥ .. 91..
आरोढुमुद्वहेद् गात्रं किञ्चित् स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ ९२॥
आरोढुम् उद्वहेत् गात्रम् किञ्चिद् स्यात् उन्मुख-स्थितम् । अस्य एव वैपरीत्येन कुर्यात् च अपि अवरोहणम् ॥ ९२॥
āroḍhum udvahet gātram kiñcid syāt unmukha-sthitam . asya eva vaiparītyena kuryāt ca api avarohaṇam .. 92..
अधोऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ ९३॥
अधस् अवलोकनैः च एव मण्डल-आवर्तनेन च । आकाशगमने च एव कर्तव्या नाट्य-योक्तृभिः ॥ ९३॥
adhas avalokanaiḥ ca eva maṇḍala-āvartanena ca . ākāśagamane ca eva kartavyā nāṭya-yoktṛbhiḥ .. 93..
स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत् गतिम् ॥ ९४॥
स्थानेन सम-पादेन तथा चूर्ण-पदैः अपि । व्योम्नः च अवतरेत् यः तु तस्य एताम् कारयेत् गतिम् ॥ ९४॥
sthānena sama-pādena tathā cūrṇa-padaiḥ api . vyomnaḥ ca avataret yaḥ tu tasya etām kārayet gatim .. 94..
ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ ९५॥
ऋजु-आयत-उन्नत-नतैः कुटिल-आवर्तितैः अथ । भ्रश्यतः च तथा आकाशात् अपविद्ध-भुजा गतिः ॥ ९५॥
ṛju-āyata-unnata-nataiḥ kuṭila-āvartitaiḥ atha . bhraśyataḥ ca tathā ākāśāt apaviddha-bhujā gatiḥ .. 95..
विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ ९६॥
विकीर्ण-वसना च एव तथा भू-गत-लोचना । प्रासाद-द्रुम-शैलेषु नदी-निम्न-उन्नतेषु च ॥ ९६॥
vikīrṇa-vasanā ca eva tathā bhū-gata-locanā . prāsāda-druma-śaileṣu nadī-nimna-unnateṣu ca .. 96..
आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ ९७॥
आरोहण-अवतरणम् च कार्यम् अर्थ-वशात् बुधैः । प्रासाद-आरोहणम् कार्यम् अतिक्रान्तैः पदैः अथ ॥ ९७॥
ārohaṇa-avataraṇam ca kāryam artha-vaśāt budhaiḥ . prāsāda-ārohaṇam kāryam atikrāntaiḥ padaiḥ atha .. 97..
उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ ९८॥
उद्वाह्य गात्रम् पादम् च सोपाने निक्षिपेत् नरः । तथा अवतरणम् च एव गात्रम् आनम्य रेचयेत् ॥ ९८॥
udvāhya gātram pādam ca sopāne nikṣipet naraḥ . tathā avataraṇam ca eva gātram ānamya recayet .. 98..
प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ ९९॥
प्रासादे यत् मया प्रोक्तः प्रतारः केवलः भवेत् । किञ्चिद् नत-अग्र-काया तु प्रतारे गतिः इष्यते ॥ ९९॥
prāsāde yat mayā proktaḥ pratāraḥ kevalaḥ bhavet . kiñcid nata-agra-kāyā tu pratāre gatiḥ iṣyate .. 99..
जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ १००॥
जल-प्रमाण-अपेक्षा तु जल-मध्ये गतिः भवेत् । तोये अल्पे वसन-उत्कर्षः प्राज्ये पाणि-विकर्षणैः ॥ १००॥
jala-pramāṇa-apekṣā tu jala-madhye gatiḥ bhavet . toye alpe vasana-utkarṣaḥ prājye pāṇi-vikarṣaṇaiḥ .. 100..
प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक् प्रसारिता चैव हियमाणा च वारिणा ॥ १०१॥
प्रसार्य बाहुम् एकैकम् मुहुर् बारि-विकर्षणैः । तिर्यक् प्रसारिता च एव हियमाणा च वारिणा ॥ १०१॥
prasārya bāhum ekaikam muhur bāri-vikarṣaṇaiḥ . tiryak prasāritā ca eva hiyamāṇā ca vāriṇā .. 101..
अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ १०२॥
अशेष-अङ्ग-आकुल-आधूत-वदना गतिः इष्यते । नौस्थस्य अपि प्रयोक्तव्या द्रुतैः चूर्ण-पदैः गतिः ॥ १०२॥
aśeṣa-aṅga-ākula-ādhūta-vadanā gatiḥ iṣyate . nausthasya api prayoktavyā drutaiḥ cūrṇa-padaiḥ gatiḥ .. 102..
अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ १०३॥
अतिक्रान्तेन पादेन द्वितीयेन अञ्चितेन च । प्रासाद-आरोहणे यत् तु तत् एव अद्रिषु कारयेत् ॥ १०३॥
atikrāntena pādena dvitīyena añcitena ca . prāsāda-ārohaṇe yat tu tat eva adriṣu kārayet .. 103..
केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ १०४॥
केवलम् ऊर्ध्व-निक्षेपम् अद्रिषु अङ्गम् भवेत् अथ । द्रुमे च आरोहणम् कार्यम् अतिक्रान्तैः स्थितैः पदैः ॥ १०४॥
kevalam ūrdhva-nikṣepam adriṣu aṅgam bhavet atha . drume ca ārohaṇam kāryam atikrāntaiḥ sthitaiḥ padaiḥ .. 104..
सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ १०५॥
सूची-विद्धैः अपक्रान्तैः पार्श्व-क्रान्तैः तथा एव च । एतत् एव अवतरणम् सरित्सु अपि नियोजयेत् ॥ १०५॥
sūcī-viddhaiḥ apakrāntaiḥ pārśva-krāntaiḥ tathā eva ca . etat eva avataraṇam saritsu api niyojayet .. 105..
अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ १०६॥
अनेन एव विधानेन कर्तव्यम् गति-चेष्टितम् । संज्ञा-मात्रेण कर्तव्यानि एतानि विधि-पूर्वकम् ॥ १०६॥
anena eva vidhānena kartavyam gati-ceṣṭitam . saṃjñā-mātreṇa kartavyāni etāni vidhi-pūrvakam .. 106..
कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ १०७॥
कस्मात् मृतः इति प्रोक्ते किम् कर्तव्यम् प्रयोक्तृभिः । अङ्कुश-ग्रहणात् नागम् खलीन-ग्रहणात् हयम् ॥ १०७॥
kasmāt mṛtaḥ iti prokte kim kartavyam prayoktṛbhiḥ . aṅkuśa-grahaṇāt nāgam khalīna-grahaṇāt hayam .. 107..
प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ १०८॥
प्रग्रह-ग्रहणात् यानम् एवम् एव अपरेषु अपि । अश्व-याने गतिः कार्या वैशाख-स्थानकेन तु ॥ १०८॥
pragraha-grahaṇāt yānam evam eva apareṣu api . aśva-yāne gatiḥ kāryā vaiśākha-sthānakena tu .. 108..
यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ १०९॥
यथा चूर्ण-पदैः चित्रैः उपरि उपरि पातितैः । पन्नगानाम् गतिः कार्या पादैः स्वस्तिक-संज्ञितैः ॥ १०९॥
yathā cūrṇa-padaiḥ citraiḥ upari upari pātitaiḥ . pannagānām gatiḥ kāryā pādaiḥ svastika-saṃjñitaiḥ .. 109..
पार्श्वक्रान्तं पदं कुर्यात् स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ ११०॥
पार्श्व-क्रान्तम् पदम् कुर्यात् स्वस्तिकम् रेचयेत् इह । विटस्य अपि तु कर्तव्या गतिः ललित-विक्रमा ॥ ११०॥
pārśva-krāntam padam kuryāt svastikam recayet iha . viṭasya api tu kartavyā gatiḥ lalita-vikramā .. 110..
पादैराकुञ्चितैः किञ्चित् तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ १११॥
पादैः आकुञ्चितैः किञ्चिद् ताल-अभ्यन्तर-पातितैः । स्व-सौष्ठव-समायुक्तौ तथा हस्तौ पद-अनुगौ ॥ १११॥
pādaiḥ ākuñcitaiḥ kiñcid tāla-abhyantara-pātitaiḥ . sva-sauṣṭhava-samāyuktau tathā hastau pada-anugau .. 111..
खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ ११२॥
खटकौ अर्धमानौ तु कृत्वा विट-गतिम् व्रजेत् । कञ्चुकीयस्य कर्तव्या वयः-वस्था-विशेषतः ॥ ११२॥
khaṭakau ardhamānau tu kṛtvā viṭa-gatim vrajet . kañcukīyasya kartavyā vayaḥ-vasthā-viśeṣataḥ .. 112..
अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ ११३॥
अ वृद्धस्य प्रयोग-ज्ञः गतिम् एवम् प्रयोजयेत् । अर्ध-ताल-उत्थितैः पादैः विष्कम्भैः ऋजुभिः तथा ॥ ११३॥
a vṛddhasya prayoga-jñaḥ gatim evam prayojayet . ardha-tāla-utthitaiḥ pādaiḥ viṣkambhaiḥ ṛjubhiḥ tathā .. 113..
समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ ११४॥
समुद्वहन् इव अङ्गानि पङ्क-लग्नः इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पित-देहिका ॥ ११४॥
samudvahan iva aṅgāni paṅka-lagnaḥ iva vrajet . atha vṛddhasya kartavyā gatiḥ kampita-dehikā .. 114..
विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ ११५॥
विष्कम्भन-कृत-प्राणा मन्द-उत्क्षिप्त-पद-क्रमा । कृशस्य अपि अभिनेया वै गतिः मन्द-परिक्रमा ॥ ११५॥
viṣkambhana-kṛta-prāṇā manda-utkṣipta-pada-kramā . kṛśasya api abhineyā vai gatiḥ manda-parikramā .. 115..
व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ ११६॥
व्याधि-ग्रस्ते ज्वर-आर्ते च तपः-श्रान्ते क्षुधा-अन्विते । विष्कम्भन-कृत-प्राणः कृशः क्षाम-उदरः तथा ॥ ११६॥
vyādhi-graste jvara-ārte ca tapaḥ-śrānte kṣudhā-anvite . viṣkambhana-kṛta-prāṇaḥ kṛśaḥ kṣāma-udaraḥ tathā .. 116..
क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ ११७॥
क्षाम-स्वर-कपोलः च दीन-नेत्रः तथा एव च । शनैस् उत्क्षेपणम् च एव कर्तव्यम् हस्त-पादयोः ॥ ११७॥
kṣāma-svara-kapolaḥ ca dīna-netraḥ tathā eva ca . śanais utkṣepaṇam ca eva kartavyam hasta-pādayoḥ .. 117..
कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ ११८॥
कम्पनम् च एव गात्राणाम् क्लेशनम् च तथा एव च । दूर-अध्वानम् गतस्य अपि गतिः मन्द-पद-क्रमा ॥ ११८॥
kampanam ca eva gātrāṇām kleśanam ca tathā eva ca . dūra-adhvānam gatasya api gatiḥ manda-pada-kramā .. 118..
विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ ११९॥
विकूणनम् च गात्रस्य जानुनोः च विमर्दनम् । स्थूलस्य अपि तु कर्तव्या गतिः देह-अनुकर्षिणी ॥ ११९॥
vikūṇanam ca gātrasya jānunoḥ ca vimardanam . sthūlasya api tu kartavyā gatiḥ deha-anukarṣiṇī .. 119..
समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ १२०॥
समुद्वहन-भूयिष्ठा मन्द-उत्क्षिप्त-पद-क्रमा । विष्कम्भ-गामी च भवेत् निःश्वास-बहुलः तथा ॥ १२०॥
samudvahana-bhūyiṣṭhā manda-utkṣipta-pada-kramā . viṣkambha-gāmī ca bhavet niḥśvāsa-bahulaḥ tathā .. 120..
श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ १२१॥
श्रम-स्वेद-अभिभूतः च व्रजेत् चूर्ण-पदैः तथा । मत्तानाम् तु गतिः कार्या मदे तरुण-मध्यमे ॥ १२१॥
śrama-sveda-abhibhūtaḥ ca vrajet cūrṇa-padaiḥ tathā . mattānām tu gatiḥ kāryā made taruṇa-madhyame .. 121..
वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ १२२॥
वाम-दक्षिण-पादाभ्याम् घूर्णमान-अपसर्पणैः । अवकृष्टे पदे च एव हि अनवस्थित-पादिका ॥ १२२॥
vāma-dakṣiṇa-pādābhyām ghūrṇamāna-apasarpaṇaiḥ . avakṛṣṭe pade ca eva hi anavasthita-pādikā .. 122..
विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ १२३॥
विघूर्णित-शरीरा च करैः प्रस्खलितैः तथा । उन्मत्तस्य अपि कर्तव्या गतिः तु अनियत-क्रमा ॥ १२३॥
vighūrṇita-śarīrā ca karaiḥ praskhalitaiḥ tathā . unmattasya api kartavyā gatiḥ tu aniyata-kramā .. 123..
बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ १२४॥
बहु-चारी-समायुक्ता लोक-अनुकरण-आश्रया । रूक्ष-स्फुटित-केशः च रजः-ध्वस्त-तनुः तथा ॥ १२४॥
bahu-cārī-samāyuktā loka-anukaraṇa-āśrayā . rūkṣa-sphuṭita-keśaḥ ca rajaḥ-dhvasta-tanuḥ tathā .. 124..
अनिमित्तप्रकथनो बहुभाषी विकारवान् । गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ १२५॥
अनिमित्त-प्रकथनः बहु-भाषी विकारवान् । गायति अकस्मात् हसति सङ्गे च अपि न सज्जते ॥ १२५॥
animitta-prakathanaḥ bahu-bhāṣī vikāravān . gāyati akasmāt hasati saṅge ca api na sajjate .. 125..
नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात् कदाचिदवतिष्ठते ॥ १२६॥
नृत्यति अपि च संहृष्टः वादयति अपि वा पुनर् । कदाचिद् धावति जवात् कदाचिद् अवतिष्ठते ॥ १२६॥
nṛtyati api ca saṃhṛṣṭaḥ vādayati api vā punar . kadācid dhāvati javāt kadācid avatiṣṭhate .. 126..
कदाचिदुपविष्टस्तु शयानः स्यात् कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ १२७॥
कदाचिद् उपविष्टः तु शयानः स्यात् कदाचन । नाना चीर-धरः च एव रथ्यासु अनियत-आलयः ॥ १२७॥
kadācid upaviṣṭaḥ tu śayānaḥ syāt kadācana . nānā cīra-dharaḥ ca eva rathyāsu aniyata-ālayaḥ .. 127..
उन्मत्तो भवति ह्येवं तस्यैतां कारयेद् गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ १२८॥
उन्मत्तः भवति हि एवम् तस्य एताम् कारयेत् गतिम् । स्थित्वा नूपुर-पादेन दण्ड-पादम् प्रसारयेत् ॥ १२८॥
unmattaḥ bhavati hi evam tasya etām kārayet gatim . sthitvā nūpura-pādena daṇḍa-pādam prasārayet .. 128..
बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ १२९॥
बद्धाम् चारीम् तथा च एव कृत्वा स्वस्तिकम् एव च । अनेन चारी-योगेन परिभ्राम्य तु मण्डलम् ॥ १२९॥
baddhām cārīm tathā ca eva kṛtvā svastikam eva ca . anena cārī-yogena paribhrāmya tu maṇḍalam .. 129..
बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ १३०॥
बाह्य-भ्रमरकम् च एव रङ्ग-कोणे प्रसारयेत् । त्रिकम् सु ललितम् कृत्वा लता-आख्यम् हस्तम् एव च ॥ १३०॥
bāhya-bhramarakam ca eva raṅga-koṇe prasārayet . trikam su lalitam kṛtvā latā-ākhyam hastam eva ca .. 130..
विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ १३१॥
विपर्यय-गतैः हस्तैः पद्भ्याम् सह गतिः भवेत् । त्रिविधा तु गतिः कार्या खञ्ज-पङ्गुक-वामनैः ॥ १३१॥
viparyaya-gataiḥ hastaiḥ padbhyām saha gatiḥ bhavet . trividhā tu gatiḥ kāryā khañja-paṅguka-vāmanaiḥ .. 131..
विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ १३२॥
विकल-अङ्ग-प्रयोगेण कुहक-अभिनयम् प्रति । एकः खञ्ज-गतौ नित्यम् स्तब्धः वै चरणः भवेत् ॥ १३२॥
vikala-aṅga-prayogeṇa kuhaka-abhinayam prati . ekaḥ khañja-gatau nityam stabdhaḥ vai caraṇaḥ bhavet .. 132..
तथा द्वितीयः कार्यस्तु पादोऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ १३३॥
तथा द्वितीयः कार्यः तु पादः अग्र-तल-सञ्चरः । स्तब्धेन उत्थापनम् कार्यम् अङ्गस्य चरणेन तु ॥ १३३॥
tathā dvitīyaḥ kāryaḥ tu pādaḥ agra-tala-sañcaraḥ . stabdhena utthāpanam kāryam aṅgasya caraṇena tu .. 133..
गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ १३४॥
गमनेन निषण्णः स्यात् अन्येन चरणेन तु । इतरेण निषीदेत् च क्रमेण अनेन वै व्रजेत् ॥ १३४॥
gamanena niṣaṇṇaḥ syāt anyena caraṇena tu . itareṇa niṣīdet ca krameṇa anena vai vrajet .. 134..
एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ १३५॥
एषा खञ्ज-गतिः कार्या तल-शल्य-क्षतेषु च । पादेन अग्र-तल-स्थेन हि अञ्चितेन व्रजेत् तथा ॥ १३५॥
eṣā khañja-gatiḥ kāryā tala-śalya-kṣateṣu ca . pādena agra-tala-sthena hi añcitena vrajet tathā .. 135..
निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ १३६॥
निषण्ण-देहा पङ्गोः तु नत-जङ्घा तथा एव च । सर्व-सङ्कुचित-अङ्गा च वामने गतिः इष्यते ॥ १३६॥
niṣaṇṇa-dehā paṅgoḥ tu nata-jaṅghā tathā eva ca . sarva-saṅkucita-aṅgā ca vāmane gatiḥ iṣyate .. 136..
न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ १३७॥
न तस्य विक्रमः कार्यः विक्षेपः चरणस्य च । सा उद्वाहिता चूर्णपदा सा कार्या कुहना-आत्मिका ॥ १३७॥
na tasya vikramaḥ kāryaḥ vikṣepaḥ caraṇasya ca . sā udvāhitā cūrṇapadā sā kāryā kuhanā-ātmikā .. 137..
विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ १३८॥
विदूषकस्य अपि गतिः हास्य-त्रय-समन्विता । अङ्ग-वाक्य-कृतम् हास्यम् हास्यम् नेपथ्य-जम् स्मृतम् ॥ १३८॥
vidūṣakasya api gatiḥ hāsya-traya-samanvitā . aṅga-vākya-kṛtam hāsyam hāsyam nepathya-jam smṛtam .. 138..
दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ १३९॥
दन्तुरः खलतिः कुब्जः खञ्जः च विकृत-आननः । यः ईदृशः प्रवेशः स्यात् अङ्गहास्यम् तु तत् भवेत् ॥ १३९॥
danturaḥ khalatiḥ kubjaḥ khañjaḥ ca vikṛta-ānanaḥ . yaḥ īdṛśaḥ praveśaḥ syāt aṅgahāsyam tu tat bhavet .. 139..
यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ १४०॥
यदा तु बक-वत् गच्छेत् उल्लोकित-विलोकितैः । अन्य-आयत-पद-त्वात् च अङ्ग-हास्यः भवेत् स तु ॥ १४०॥
yadā tu baka-vat gacchet ullokita-vilokitaiḥ . anya-āyata-pada-tvāt ca aṅga-hāsyaḥ bhavet sa tu .. 140..
कार्यहास्यं तु विज्ञेयमसम्बद्धप्रभाषणात् । अनर्थकैर्विकारैश्च तथा चाश्लीलभाषितैः ॥ १४१॥
कार्य-हास्यम् तु विज्ञेयम् असंबद्ध-प्रभाषणात् । अनर्थकैः विकारैः च तथा च अश्लील-भाषितैः ॥ १४१॥
kārya-hāsyam tu vijñeyam asaṃbaddha-prabhāṣaṇāt . anarthakaiḥ vikāraiḥ ca tathā ca aślīla-bhāṣitaiḥ .. 141..
चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ १४२॥
चीर-चर्म-मशी-भस्म-गैरिक-आद्यैः तु मण्डितः । यः तादृशः भवेत् विप्राः हास्यः नेपथ्य-जः तु सः ॥ १४२॥
cīra-carma-maśī-bhasma-gairika-ādyaiḥ tu maṇḍitaḥ . yaḥ tādṛśaḥ bhavet viprāḥ hāsyaḥ nepathya-jaḥ tu saḥ .. 142..
तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत् नानावस्थान्तरात्मकम् ॥ १४३॥
तस्मात् तु प्रकृतिम् ज्ञात्वा भावः कार्यः तु तत्त्वतः । गति-प्रचारम् विभजेत् नाना अवस्था-अन्तर-आत्मकम् ॥ १४३॥
tasmāt tu prakṛtim jñātvā bhāvaḥ kāryaḥ tu tattvataḥ . gati-pracāram vibhajet nānā avasthā-antara-ātmakam .. 143..
स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ १४४॥
स्वभावजायाम् विन्यस्य कुटिलम् वामके करे । तदा दक्षिण-हस्ते च कुर्यात् चतुरकम् पुनर् ॥ १४४॥
svabhāvajāyām vinyasya kuṭilam vāmake kare . tadā dakṣiṇa-haste ca kuryāt caturakam punar .. 144..
पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ १४५॥
पार्श्वम् एकम् शिरः च एव हस्तः अथ चरणः तथा । पर्यायशः ॥ १४५॥
pārśvam ekam śiraḥ ca eva hastaḥ atha caraṇaḥ tathā . paryāyaśaḥ .. 145..
स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात् मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ १४६॥
स्वभाव-जा तु तस्य एषा गतिः अन्या विकार-जा । अलाभ-लाभात् मुक्तस्य स्तब्धा तस्य गतिः भवेत् ॥ १४६॥
svabhāva-jā tu tasya eṣā gatiḥ anyā vikāra-jā . alābha-lābhāt muktasya stabdhā tasya gatiḥ bhavet .. 146..
कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ १४७॥
कार्या च एव हि नीचानाम् चेट-आदीनाम् परिक्रमात् । अधमाः इति ये ख्याताः नाना शीलाः च ते पुनर् ॥ १४७॥
kāryā ca eva hi nīcānām ceṭa-ādīnām parikramāt . adhamāḥ iti ye khyātāḥ nānā śīlāḥ ca te punar .. 147..
पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ १४८॥
पार्श्व-सेकम् शिरः च एव करः स चरणः तथा । शकारस्य अपि कर्तव्या गतिः चञ्चल-देहिका । गतौ नमेत चेटानाम् दृष्टिः च अर्ध-विचारिणी ॥ १४८॥
pārśva-sekam śiraḥ ca eva karaḥ sa caraṇaḥ tathā . śakārasya api kartavyā gatiḥ cañcala-dehikā . gatau nameta ceṭānām dṛṣṭiḥ ca ardha-vicāriṇī .. 148..
वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ १४९॥
वस्त्र-आभरण-संस्पर्शैः मुहुर् मुहुर् अवेक्षितैः । गात्रैः विकार-विक्षिप्तैः लम्ब-वस्त्र-स्रजा तथा ॥ १४९॥
vastra-ābharaṇa-saṃsparśaiḥ muhur muhur avekṣitaiḥ . gātraiḥ vikāra-vikṣiptaiḥ lamba-vastra-srajā tathā .. 149..
सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ १५०॥
स गर्विता चूर्णपदा शकारस्य गतिः भवेत् । जात्या नीचेषु योक्तव्या विलोकन-परा गतिः ॥ १५०॥
sa garvitā cūrṇapadā śakārasya gatiḥ bhavet . jātyā nīceṣu yoktavyā vilokana-parā gatiḥ .. 150..
असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ १५१॥
अ संस्पर्शात् च लोकस्य स्व-अङ्गानि विनिगूह्य च । म्लेच्छानाम् जातयः याः तु पुलिन्द-शबर-आदयः ॥ १५१॥
a saṃsparśāt ca lokasya sva-aṅgāni vinigūhya ca . mlecchānām jātayaḥ yāḥ tu pulinda-śabara-ādayaḥ .. 151..
तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ १५२॥
तेषाम् देश-अनुसारेण कार्यम् गति-विचेष्टितम् । पक्षिणाम् श्वापदानाम् च पशूनाम् च द्विजोत्तमाः ॥ १५२॥
teṣām deśa-anusāreṇa kāryam gati-viceṣṭitam . pakṣiṇām śvāpadānām ca paśūnām ca dvijottamāḥ .. 152..
स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ १५३॥
स्व-स्व-जाति-समुत्थेन स्वभावेन गतिः भवेत् । सिंह-ऋक्ष-वानराणाम् च गतिः कार्या प्रयोक्तृभिः ॥ १५३॥
sva-sva-jāti-samutthena svabhāvena gatiḥ bhavet . siṃha-ṛkṣa-vānarāṇām ca gatiḥ kāryā prayoktṛbhiḥ .. 153..
या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ १५४॥
या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढ-स्थानकम् कृत्वा गात्रम् तस्य एव च अनुगम् ॥ १५४॥
yā kṛtā narasiṃhena viṣṇunā prabhaviṣṇunā . ālīḍha-sthānakam kṛtvā gātram tasya eva ca anugam .. 154..
जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ १५५॥
जानु-उपरि करम् हि एकम् अपरम् वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकम् बाहु-मस्तके ॥ १५५॥
jānu-upari karam hi ekam aparam vakṣasi sthitam . avalokya diśaḥ kṛtvā cibukam bāhu-mastake .. 155..
गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ १५६॥
गन्तव्यम् विक्रमैः विप्राः पञ्च-ताल-अन्तर-उत्थितैः । नियुद्ध-समये च एव रङ्ग-अवतरणे तथा ॥ १५६॥
gantavyam vikramaiḥ viprāḥ pañca-tāla-antara-utthitaiḥ . niyuddha-samaye ca eva raṅga-avataraṇe tathā .. 156..
सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ १५७॥
सिंह-आदीनाम् प्रयोक्तव्या गतिः एषा प्रयोक्तृभिः । शेषाणाम् अर्थ-योगेन गतिम् स्थानम् च योजयेत् ॥ १५७॥
siṃha-ādīnām prayoktavyā gatiḥ eṣā prayoktṛbhiḥ . śeṣāṇām artha-yogena gatim sthānam ca yojayet .. 157..
वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ १५८॥
वाहन-अर्थ-प्रयोगेषु रङ्ग-अवतरणेषु च । एवम् एताः प्रयोक्तव्याः नराणाम् गतयः बुधैः ॥ १५८॥
vāhana-artha-prayogeṣu raṅga-avataraṇeṣu ca . evam etāḥ prayoktavyāḥ narāṇām gatayaḥ budhaiḥ .. 158..
नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ १५९॥
न उक्ताः याः याः मया हि अत्र ग्राह्याः ताः ताः च लोकतः । अतस् परम् प्रवक्ष्यामि स्त्रीणाम् गति-विचेष्टितम् ॥ १५९॥
na uktāḥ yāḥ yāḥ mayā hi atra grāhyāḥ tāḥ tāḥ ca lokataḥ . atas param pravakṣyāmi strīṇām gati-viceṣṭitam .. 159..
स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ १६०॥
स्त्रीणाम् स्थानानि कार्याणि गतिषु आभरणेषु च । आयतम् च अवहित्थम् च अश्वक्रान्तम् अथ अपि च ॥ १६०॥
strīṇām sthānāni kāryāṇi gatiṣu ābharaṇeṣu ca . āyatam ca avahittham ca aśvakrāntam atha api ca .. 160..
स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १६१॥
स्थानानि एतानि नारीणाम् अथ लक्षणम् उच्यते । वामः स्वभावतः यत्र पादः विरचितः समः ॥ १६१॥
sthānāni etāni nārīṇām atha lakṣaṇam ucyate . vāmaḥ svabhāvataḥ yatra pādaḥ viracitaḥ samaḥ .. 161..
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ १६२॥
ताल-मात्र-अन्तरे न्यस्तः त्रि-अश्रः पक्ष-स्थितः अपरः । प्रसन्नम् आननम् उरः समम् यत्र समुन्नतम् ॥ १६२॥
tāla-mātra-antare nyastaḥ tri-aśraḥ pakṣa-sthitaḥ aparaḥ . prasannam ānanam uraḥ samam yatra samunnatam .. 162..
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितोऽपरः ॥ १६३॥
लता-नितम्ब-गौ हस्तौ स्थानम् ज्ञेयम् तत् आयतम् । दक्षिणः तु समः पादः त्रि-अश्रः पक्ष-स्थितः अपरः ॥ १६३॥
latā-nitamba-gau hastau sthānam jñeyam tat āyatam . dakṣiṇaḥ tu samaḥ pādaḥ tri-aśraḥ pakṣa-sthitaḥ aparaḥ .. 163..
वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १६४॥
वामः समुन्नत-कटिः च आयते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १६४॥
vāmaḥ samunnata-kaṭiḥ ca āyate sthānake bhavet . āvāhane visarge ca tathā nirvarṇaneṣu ca .. 164..
चिन्तायां चावहित्थे च स्थानमेतत् प्रयोजयेत् । रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ १६५॥
चिन्तायाम् च अवहित्थे च स्थानम् एतत् प्रयोजयेत् । रङ्गावतरण-आरम्भः पुष्प-अञ्जलि-विसर्जनम् ॥ १६५॥
cintāyām ca avahitthe ca sthānam etat prayojayet . raṅgāvataraṇa-ārambhaḥ puṣpa-añjali-visarjanam .. 165..
मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ १६६॥
मन्मथ-ईर्ष्या-उद्भवम् कोपम् तर्जनी-अङ्गुलि-मोटनम् । निषेध-गर्व-गाम्भीर्य-मौनम् मान-अवलम्बनम् ॥ १६६॥
manmatha-īrṣyā-udbhavam kopam tarjanī-aṅguli-moṭanam . niṣedha-garva-gāmbhīrya-maunam māna-avalambanam .. 166..
स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ॥ १६७॥
स्थाने अस्मिन् संविधातव्यम् दिगन्तर-निरूपणम् । समः यत्र स्थितः वामः त्रि-अश्रः पक्ष-स्थितः अपरः ॥ १६७॥
sthāne asmin saṃvidhātavyam digantara-nirūpaṇam . samaḥ yatra sthitaḥ vāmaḥ tri-aśraḥ pakṣa-sthitaḥ aparaḥ .. 167..
समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ १६८॥
समुन्नत-कटिः वामः तु अवहित्थम् तु तत् भवेत् । पुरस् विचलितः त्रि-अश्रः तद्-अन्य-उपसृतः समः ॥ १६८॥
samunnata-kaṭiḥ vāmaḥ tu avahittham tu tat bhavet . puras vicalitaḥ tri-aśraḥ tad-anya-upasṛtaḥ samaḥ .. 168..
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ १६९॥
पादः ताल-अन्तर-न्यस्तः त्रिकम् ईषत् समुन्नतम् । पाणिः लता-आख्यः यत्र एकः तद्-अन्यः तु नितम्ब-गः ॥ १६९॥
pādaḥ tāla-antara-nyastaḥ trikam īṣat samunnatam . pāṇiḥ latā-ākhyaḥ yatra ekaḥ tad-anyaḥ tu nitamba-gaḥ .. 169..
अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत् स्मृतं स्थानं संलापे तु स्वभावजे ॥ १७०॥
अवहित्थम् समाख्यातम् स्थानम् आगम-भूषणैः । स्त्रीणाम् एतत् स्मृतम् स्थानम् संलापे तु स्वभाव-जे ॥ १७०॥
avahittham samākhyātam sthānam āgama-bhūṣaṇaiḥ . strīṇām etat smṛtam sthānam saṃlāpe tu svabhāva-je .. 170..
निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकशृङ्गारात्मनिरूपणे ॥ १७१॥
निश्चये परितोषे च वितर्के चिन्तने तथा । ॥ १७१॥
niścaye paritoṣe ca vitarke cintane tathā . .. 171..
स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ १७२॥
स्थानम् एतत् प्रयोक्तव्यम् भर्तुः मार्ग-विलोकने । पादः समस्थितः च एकः एकः च अग्र-तल-आञ्चितः ॥ १७२॥
sthānam etat prayoktavyam bhartuḥ mārga-vilokane . pādaḥ samasthitaḥ ca ekaḥ ekaḥ ca agra-tala-āñcitaḥ .. 172..
सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ १७३॥
सूचीविद्धम् अविद्धम् वा तत् अश्वक्रान्तम् उच्यते । स्खलितम् घूर्णितम् च एव गलित-अम्बर-धारणम् ॥ १७३॥
sūcīviddham aviddham vā tat aśvakrāntam ucyate . skhalitam ghūrṇitam ca eva galita-ambara-dhāraṇam .. 173..
कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ १७४॥
कुसुम-स्तबक-आदानम् परिरक्षणम् एव च । वित्रासनम् स ललितम् तरु-शाखा-अवलम्बनम् ॥ १७४॥
kusuma-stabaka-ādānam parirakṣaṇam eva ca . vitrāsanam sa lalitam taru-śākhā-avalambanam .. 174..
स्थानेऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ १७५॥
स्थाने अस्मिन् संविधानीयम् स्त्रीणाम् एतत् प्रयोक्तृभिः । शाखा-अवलम्बने कार्यम् स्तबक-ग्रहणे तथा ॥ १७५॥
sthāne asmin saṃvidhānīyam strīṇām etat prayoktṛbhiḥ . śākhā-avalambane kāryam stabaka-grahaṇe tathā .. 175..
विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १७६॥
विश्रामेषु अथ देवानाम् नराणाम् च अर्थ-योगतः । स्थानकम् तावत् एव स्यात् यावत् चेष्टा प्रवर्तते ॥ १७६॥
viśrāmeṣu atha devānām narāṇām ca artha-yogataḥ . sthānakam tāvat eva syāt yāvat ceṣṭā pravartate .. 176..
भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ १७७॥
भग्नम् च स्थानकम् नृत्ते चारी चेद् समुपस्थिता । एवम् स्थान-विधिः कार्यः स्त्रीणाम् नृणाम् अथ अपि च ॥ १७७॥
bhagnam ca sthānakam nṛtte cārī ced samupasthitā . evam sthāna-vidhiḥ kāryaḥ strīṇām nṛṇām atha api ca .. 177..
पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ १७८॥
पुनर् च आसाम् प्रवक्ष्यामि गतिम् प्रकृति-संस्थिताम् । कृत्वा अवहित्थम् स्थानम् तु वामम् च अधोमुखम् करम् ॥ १७८॥
punar ca āsām pravakṣyāmi gatim prakṛti-saṃsthitām . kṛtvā avahittham sthānam tu vāmam ca adhomukham karam .. 178..
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ १७९॥
नाभि-प्रदेशे विन्यस्य सव्यम् च खटका-मुखम् । ततस् स ललितम् पादम् ताल-मात्र-समुत्थितम् ॥ १७९॥
nābhi-pradeśe vinyasya savyam ca khaṭakā-mukham . tatas sa lalitam pādam tāla-mātra-samutthitam .. 179..
दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ १८०॥
दक्षिणम् वाम-पादस्य बाह्य-पार्श्वे विनिक्षिपेत् । तेन एव सम-कालम् च लता-आख्यम् वामकम् भुजम् ॥ १८०॥
dakṣiṇam vāma-pādasya bāhya-pārśve vinikṣipet . tena eva sama-kālam ca latā-ākhyam vāmakam bhujam .. 180..
दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ १८१॥
दक्षिणम् विनमेत् पार्श्वम् न्यसेत् नाभि-तटे ततस् । नितम्बे दक्षिणम् कृत्वा हस्तम् च उद्वेष्ट्य वामकम् ॥ १८१॥
dakṣiṇam vinamet pārśvam nyaset nābhi-taṭe tatas . nitambe dakṣiṇam kṛtvā hastam ca udveṣṭya vāmakam .. 181..
ततो वामपदं दद्यात् लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ १८२॥
ततस् वाम-पदम् दद्यात् लता-हस्तम् च दक्षिणम् । लीलया उद्वाहितेन अथ शिरसा अनुगतेन च ॥ १८२॥
tatas vāma-padam dadyāt latā-hastam ca dakṣiṇam . līlayā udvāhitena atha śirasā anugatena ca .. 182..
किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ १८३॥
किञ्चिद् नतेन गात्रेण गच्छेत् पञ्चपदीम् ततस् । यः विधिः पुरुषाणाम् तु रङ्ग-पीठ-परिक्रमे ॥ १८३॥
kiñcid natena gātreṇa gacchet pañcapadīm tatas . yaḥ vidhiḥ puruṣāṇām tu raṅga-pīṭha-parikrame .. 183..
स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं तथाष्टकलमेव च ॥ १८४॥
सः एव प्रमदानाम् वै कर्तव्यः नाट्य-योक्तृभिः । षष्-कलम् तु न कर्तव्यम् तथा अष्ट-कलम् एव च ॥ १८४॥
saḥ eva pramadānām vai kartavyaḥ nāṭya-yoktṛbhiḥ . ṣaṣ-kalam tu na kartavyam tathā aṣṭa-kalam eva ca .. 184..
पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ १८५॥
पादस्य पतनम् तद्-ज्ञैः खेदनम् तत् भवेत् स्त्रियाः । सयौवनानाम् नारीणाम् एवम् कार्या गतिः बुधैः ॥ १८५॥
pādasya patanam tad-jñaiḥ khedanam tat bhavet striyāḥ . sayauvanānām nārīṇām evam kāryā gatiḥ budhaiḥ .. 185..
स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ १८६॥
स्थवीयसीनाम् एतासाम् सम्प्रवक्ष्यामि अहम् गतिम् । कृत्वा अपविद्धम् स्थानम् तु वामम् न्यस्य कटी-तटे ॥ १८६॥
sthavīyasīnām etāsām sampravakṣyāmi aham gatim . kṛtvā apaviddham sthānam tu vāmam nyasya kaṭī-taṭe .. 186..
आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ १८७॥
आद्यम् चारालम् उत्तानम् कुर्यात् नाभि-स्तन-अन्तरे । न निषण्णम् न च स्तब्धम् न च अपि परिवाहितम् ॥ १८७॥
ādyam cārālam uttānam kuryāt nābhi-stana-antare . na niṣaṇṇam na ca stabdham na ca api parivāhitam .. 187..
कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ १८८॥
कृत्वा गात्रम् ततस् गच्छेत् तेन एवा इह क्रमेण तु । प्रेष्याणाम् अपि कर्तव्या गतिः उद्भ्रान्त-गामिनी ॥ १८८॥
kṛtvā gātram tatas gacchet tena evā iha krameṇa tu . preṣyāṇām api kartavyā gatiḥ udbhrānta-gāminī .. 188..
क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ १८९॥
क्वचिद् उन्नमितैः गात्रैः आविद्ध-भुज-विक्रमा । स्थानम् कृत्वा अवहित्थम् च वामम् च अधोमुखम् भुजम् ॥ १८९॥
kvacid unnamitaiḥ gātraiḥ āviddha-bhuja-vikramā . sthānam kṛtvā avahittham ca vāmam ca adhomukham bhujam .. 189..
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ १९०॥
नाभि-प्रदेशे विन्यस्य सव्यम् च खटका-मुखम् । अर्धनारी-गतिः कार्या स्त्रीपुंसाभ्याम् विमिश्रिता ॥ १९०॥
nābhi-pradeśe vinyasya savyam ca khaṭakā-mukham . ardhanārī-gatiḥ kāryā strīpuṃsābhyām vimiśritā .. 190..
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ १९१॥
उदात्त-ललितैः गात्रैः पादैः लीला-समन्वितैः । या पूर्वम् एव अभिहिता हि उत्तमानाम् गतिः मया ॥ १९१॥
udātta-lalitaiḥ gātraiḥ pādaiḥ līlā-samanvitaiḥ . yā pūrvam eva abhihitā hi uttamānām gatiḥ mayā .. 191..
स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद् गतिचेष्टितम् ॥ १९२॥
स्त्रीणाम् कापुरुषाणाम् च ततस् अर्ध-अर्धम् तु योजयेत् । मध्यम-उत्तम-नीचानाम् नृणाम् यत् गति-चेष्टितम् ॥ १९२॥
strīṇām kāpuruṣāṇām ca tatas ardha-ardham tu yojayet . madhyama-uttama-nīcānām nṛṇām yat gati-ceṣṭitam .. 192..
स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ १९३॥
स्त्रीणाम् तत् एव कर्तव्या ललितैः पद-विक्रमैः । बालानाम् अपि कर्तव्या स्वच्छन्द-पद-विक्रमा ॥ १९३॥
strīṇām tat eva kartavyā lalitaiḥ pada-vikramaiḥ . bālānām api kartavyā svacchanda-pada-vikramā .. 193..
न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ १९४॥
न तस्याः सौष्ठवम् कार्यम् न प्रमाणम् प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना च एव ॥ १९४॥
na tasyāḥ sauṣṭhavam kāryam na pramāṇam prayoktṛbhiḥ . tṛtīyā prakṛtiḥ kāryā nāmnā ca eva .. 194..
नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ १९५॥
नर-स्वभावम् उत्सृज्य स्त्री-गतिम् तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुष-स्त्री-नपुंसके ॥ १९५॥
nara-svabhāvam utsṛjya strī-gatim tatra yojayet . viparyayaḥ prayoktavyaḥ puruṣa-strī-napuṃsake .. 195..
स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन क्रीडया वापि तथा भूयं च वञ्चनात् ॥ १९६॥
स्वभावम् आत्मनः त्यक्त्वा तद्-भाव-गमनात् इह । व्याजेन क्रीडया वा अपि तथा भूयम् च वञ्चनात् ॥ १९६॥
svabhāvam ātmanaḥ tyaktvā tad-bhāva-gamanāt iha . vyājena krīḍayā vā api tathā bhūyam ca vañcanāt .. 196..
स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ १९७॥
स्त्री पुंसः प्रकृतिम् कुर्यात् स्त्री-भावम् पुरुषः अपि च । धैर्य-उदार्येण सत्त्वेन बुद्ध्या तद्वत् च कर्मणा ॥ १९७॥
strī puṃsaḥ prakṛtim kuryāt strī-bhāvam puruṣaḥ api ca . dhairya-udāryeṇa sattvena buddhyā tadvat ca karmaṇā .. 197..
स्त्री पुमांसं त्वभिनयेत् वेषवाक्यविचेष्टितैः । स्त्रीवेषभाषितैर्युक्तं प्रेषिताप्रेषितैस्तथा ॥ १९८॥
स्त्री पुमांसम् तु अभिनयेत् वेष-वाक्य-विचेष्टितैः । स्त्री-वेष-भाषितैः युक्तम् प्रेषित-अप्रेषितैः तथा ॥ १९८॥
strī pumāṃsam tu abhinayet veṣa-vākya-viceṣṭitaiḥ . strī-veṣa-bhāṣitaiḥ yuktam preṣita-apreṣitaiḥ tathā .. 198..
मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ १९९॥
मृदु-सन्न-गतिः च एव पुमान् स्त्री-भावम् आचरेत् । जाति-हीनाः च याः नार्यः पुलिन्द-शबर-अङ्गनाः ॥ १९९॥
mṛdu-sanna-gatiḥ ca eva pumān strī-bhāvam ācaret . jāti-hīnāḥ ca yāḥ nāryaḥ pulinda-śabara-aṅganāḥ .. 199..
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ २००॥
याः च अपि तासाम् कर्तव्या तद्-जाति-सदृशी गतिः । व्रत-स्थानाम् तपः-स्थानाम् लिङ्ग-स्थानाम् तथा एव च ॥ २००॥
yāḥ ca api tāsām kartavyā tad-jāti-sadṛśī gatiḥ . vrata-sthānām tapaḥ-sthānām liṅga-sthānām tathā eva ca .. 200..
खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता येऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ २०१॥
खस्थानाम् च एव नारीणाम् सम-पादम् प्रयोजयेत् । उद्धताः ये अङ्गहाराः स्युः याः चार्यः मण्डलानि च ॥ २०१॥
khasthānām ca eva nārīṇām sama-pādam prayojayet . uddhatāḥ ye aṅgahārāḥ syuḥ yāḥ cāryaḥ maṇḍalāni ca .. 201..
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ २०२॥
तानि नाट्य-प्रयोग-ज्ञैः न कर्तव्यानि योषिताम् । तथा आसन-विधिः कार्यः नृणाम् स्त्रीणाम् विशेषतः ॥ २०२॥
tāni nāṭya-prayoga-jñaiḥ na kartavyāni yoṣitām . tathā āsana-vidhiḥ kāryaḥ nṛṇām strīṇām viśeṣataḥ .. 202..
नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्भिताञ्चितौ पादौ त्रिकं किञ्चित्समुन्नतम् ॥ २०३॥
नाना भाव-समायुक्तः तथा च शयन-आश्रयः । विष्कम्भित-आञ्चितौ पादौ त्रिकम् किञ्चिद् समुन्नतम् ॥ २०३॥
nānā bhāva-samāyuktaḥ tathā ca śayana-āśrayaḥ . viṣkambhita-āñcitau pādau trikam kiñcid samunnatam .. 203..
हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ २०४॥
हस्तौ कटि-ऊरु-विन्यस्तौ स्वस्थे स्यात् उपवेशने । पादः प्रसारितः किञ्चिद् एकः च एव आसन-आश्रयः ॥ २०४॥
hastau kaṭi-ūru-vinyastau svasthe syāt upaveśane . pādaḥ prasāritaḥ kiñcid ekaḥ ca eva āsana-āśrayaḥ .. 204..
शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ २०५॥
शिरः पार्श्व-नतम् च एव स चिन्ते उपवेशने । चिबुक-उपाश्रितौ हस्तौ बाहु-शीर्ष-आश्रितम् शिरः ॥ २०५॥
śiraḥ pārśva-natam ca eva sa cinte upaveśane . cibuka-upāśritau hastau bāhu-śīrṣa-āśritam śiraḥ .. 205..
सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ २०६॥
सम्प्रणष्ट-इन्द्रिय-मनाः शोक-औत्सुक्य-उपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रय-आश्रितः ॥ २०६॥
sampraṇaṣṭa-indriya-manāḥ śoka-autsukya-upaveśane . prasārya bāhū śithilau tathā śropāśraya-āśritaḥ .. 206..
मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ २०७॥
मोह-मूर्च्छा-मद-ग्लानि-विषादेषु उपवेशयेत् । सर्व-पिण्डीकृत-अङ्गः तु संयुक्तैः पाद-जानुभिः ॥ २०७॥
moha-mūrcchā-mada-glāni-viṣādeṣu upaveśayet . sarva-piṇḍīkṛta-aṅgaḥ tu saṃyuktaiḥ pāda-jānubhiḥ .. 207..
व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ २०८॥
व्याधि-व्रीडित-निद्रासु ध्याने च उपविशेत् नरः । तथा च उत्कटिकम् स्थानम् स्फिच्-पार्ष्णीनाम् समागमः ॥ २०८॥
vyādhi-vrīḍita-nidrāsu dhyāne ca upaviśet naraḥ . tathā ca utkaṭikam sthānam sphic-pārṣṇīnām samāgamaḥ .. 208..
पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ २०९॥
पित्र्ये निवापे जप्ये च सन्ध्यासु आचमने अपि च । विष्कम्भितम् पुनर् च एवम् जानुम् भूमौ निपातयेत् ॥ २०९॥
pitrye nivāpe japye ca sandhyāsu ācamane api ca . viṣkambhitam punar ca evam jānum bhūmau nipātayet .. 209..
प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ २१०॥
प्रिया-प्रसादने कार्यम् होम-आदि-करणेषु च । मही-गताभ्याम् जानुभ्याम् अधोमुखम् अवस्थितम् ॥ २१०॥
priyā-prasādane kāryam homa-ādi-karaṇeṣu ca . mahī-gatābhyām jānubhyām adhomukham avasthitam .. 210..
देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ २११॥
देव-अभिगमने च एव रुषितानाम् प्रसादने । शोके च आक्रन्दने तीव्रे मृतानाम् च एव दर्शने ॥ २११॥
deva-abhigamane ca eva ruṣitānām prasādane . śoke ca ākrandane tīvre mṛtānām ca eva darśane .. 211..
त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ २१२॥
त्रासने च कु सत्त्वानाम् नीचानाम् च एव याचने । होम-यज्ञ-क्रियायाम् च प्रेष्याणाम् च एव कारयेत् ॥ २१२॥
trāsane ca ku sattvānām nīcānām ca eva yācane . homa-yajña-kriyāyām ca preṣyāṇām ca eva kārayet .. 212..
मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ २१३॥
मुनीनाम् नियमेषु एष भवेत् आसन-जः विधिः । तथा आसन-विधिः कार्यः विविधः नाटक-आश्रयः ॥ २१३॥
munīnām niyameṣu eṣa bhavet āsana-jaḥ vidhiḥ . tathā āsana-vidhiḥ kāryaḥ vividhaḥ nāṭaka-āśrayaḥ .. 213..
स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ २१४॥
स्त्रीणाम् च पुरुषाणाम् च बाह्यः च अभ्यन्तरः तथा । आभ्यन्तरः तु नृपतेः बाह्यः बाह्य-गतस्य च ॥ २१४॥
strīṇām ca puruṣāṇām ca bāhyaḥ ca abhyantaraḥ tathā . ābhyantaraḥ tu nṛpateḥ bāhyaḥ bāhya-gatasya ca .. 214..
देवानां नृपतीनां च दद्यात् सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ २१५॥
देवानाम् नृपतीनाम् च दद्यात् सिंहासनम् द्विजः । पुरोधसाम् अमात्यानाम् भवेत् वेत्रासनम् तथा ॥ २१५॥
devānām nṛpatīnām ca dadyāt siṃhāsanam dvijaḥ . purodhasām amātyānām bhavet vetrāsanam tathā .. 215..
मुण्डासनं च दातव्यं सेनानीयुवराजयोः । काष्ठासनं द्विजातीनां कुमाराणां कुथासनम् ॥ २१६॥
मुण्डासनम् च दातव्यम् सेनानी-युवराजयोः । काष्ठ-आसनम् द्विजातीनाम् कुमाराणाम् कुथ-आसनम् ॥ २१६॥
muṇḍāsanam ca dātavyam senānī-yuvarājayoḥ . kāṣṭha-āsanam dvijātīnām kumārāṇām kutha-āsanam .. 216..
एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ २१७॥
एवम् राज-सभाम् प्राप्य कार्यः तु आसन-जः विधिः । स्त्रीणाम् च अपि आसन-विधिम् सम्प्रवक्ष्यामि अहम् पुनर् ॥ २१७॥
evam rāja-sabhām prāpya kāryaḥ tu āsana-jaḥ vidhiḥ . strīṇām ca api āsana-vidhim sampravakṣyāmi aham punar .. 217..
सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ २१८॥
सिंहासनम् तु राज्ञीनाम् देवीनाम् मुण्डम् आसनम् । पुरोधः अमात्य-पत्नीनाम् दद्यात् वेत्र-आसनम् तथा ॥ २१८॥
siṃhāsanam tu rājñīnām devīnām muṇḍam āsanam . purodhaḥ amātya-patnīnām dadyāt vetra-āsanam tathā .. 218..
भोगिनीनां तथा चैव वस्त्रं चर्म कुथोऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ २१९॥
भोगिनीनाम् तथा च एव वस्त्रम् चर्म कुथः अपि वा । ब्राह्मणी-तापसीनाम् च पट्टासनम् अथ अपि च ॥ २१९॥
bhoginīnām tathā ca eva vastram carma kuthaḥ api vā . brāhmaṇī-tāpasīnām ca paṭṭāsanam atha api ca .. 219..
वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद् भूम्यासनं द्विजाः ॥ २२०॥
वेश्यानाम् च प्रदातव्यम् आसनम् च मयूरकम् । शेषाणाम् प्रमदानाम् तु भवेत् भूमि-आसनम् द्विजाः ॥ २२०॥
veśyānām ca pradātavyam āsanam ca mayūrakam . śeṣāṇām pramadānām tu bhavet bhūmi-āsanam dvijāḥ .. 220..
एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ २२१॥
एवम् आभ्यन्तरः ज्ञेयः बाह्यः च आसन-जः विधिः । तथा स्व-गृह-वार्तासु छन्देन आसनम् इष्यते ॥ २२१॥
evam ābhyantaraḥ jñeyaḥ bāhyaḥ ca āsana-jaḥ vidhiḥ . tathā sva-gṛha-vārtāsu chandena āsanam iṣyate .. 221..
नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ २२२॥
नियम-स्थ-मुनीनाम् च भवेत् आसन-जः विधिः । लिङ्गिनाम् आसन-विधिः कार्यः व्रत-समाश्रयः ॥ २२२॥
niyama-stha-munīnām ca bhavet āsana-jaḥ vidhiḥ . liṅginām āsana-vidhiḥ kāryaḥ vrata-samāśrayaḥ .. 222..
ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्येऽर्थे च प्रयोजयेत् ॥ २२३॥
ब्रुषी-मुण्ड-आसन-प्रायम् वेत्र-आसनम् अथ अपि च । होमे यज्ञ-क्रियायाम् च पित्र्ये अर्थे च प्रयोजयेत् ॥ २२३॥
bruṣī-muṇḍa-āsana-prāyam vetra-āsanam atha api ca . home yajña-kriyāyām ca pitrye arthe ca prayojayet .. 223..
स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ २२४॥
स्थानीयाः ये च पुरुषाः कुल-विद्या-समन्विताः । तेषाम् आसन-सत्कारः कर्त्तव्यः इह पार्थिवैः ॥ २२४॥
sthānīyāḥ ye ca puruṣāḥ kula-vidyā-samanvitāḥ . teṣām āsana-satkāraḥ karttavyaḥ iha pārthivaiḥ .. 224..
समे समासनं दद्यात् मध्ये मध्यममासनम् । अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ २२५॥
समे सम-आसनम् दद्यात् मध्ये मध्यमम् आसनम् । अतिरिक्ते अतिरिक्तम् च हीने भूमि-आसनम् भवेत् ॥ २२५॥
same sama-āsanam dadyāt madhye madhyamam āsanam . atirikte atiriktam ca hīne bhūmi-āsanam bhavet .. 225..
उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ २२६॥
उपाध्यायस्य नृपतेः गुरूणाम् अग्रतस् बुधैः । भूम्यासनम् तथा कार्यम् अथवा काष्ठम् आसनम् ॥ २२६॥
upādhyāyasya nṛpateḥ gurūṇām agratas budhaiḥ . bhūmyāsanam tathā kāryam athavā kāṣṭham āsanam .. 226..
नौनागरथयानेषु भूमिकाष्ठासनेषु च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ २२७॥
नौ-नाग-रथ-यानेषु भूमि-काष्ठ-आसनेषु च । सहासनम् न दुष्येत गुरु-उपाध्याय-पार्थिवैः ॥ २२७॥
nau-nāga-ratha-yāneṣu bhūmi-kāṣṭha-āsaneṣu ca . sahāsanam na duṣyeta guru-upādhyāya-pārthivaiḥ .. 227..
आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ २२८॥
आकुञ्चितम् समम् च एव प्रसारित-विवर्तने । उद्वाहितम् नतम् च एव शयने कर्म कीर्त्यते ॥ २२८॥
ākuñcitam samam ca eva prasārita-vivartane . udvāhitam natam ca eva śayane karma kīrtyate .. 228..
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ २२९॥
सर्वैः आकुञ्चितैः अङ्गैः शय्या-विद्धे तु जानुनी । स्थानम् आकुञ्चितम् नाम शीत-आर्तानाम् प्रयोजयेत् ॥ २२९॥
sarvaiḥ ākuñcitaiḥ aṅgaiḥ śayyā-viddhe tu jānunī . sthānam ākuñcitam nāma śīta-ārtānām prayojayet .. 229..
उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ २३०॥
उत्तानित-मुखम् च एव स्रस्त-मुक्त-करम् तथा । समम् नाम प्रसुप्तस्य स्थानकम् संविधीयते ॥ २३०॥
uttānita-mukham ca eva srasta-mukta-karam tathā . samam nāma prasuptasya sthānakam saṃvidhīyate .. 230..
एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ २३१॥
एकम् भुजम् उपाधाय सम्प्रसारित-जानुकम् । स्थानम् प्रसारितम् नाम सुख-सुप्तस्य कारयेत् ॥ २३१॥
ekam bhujam upādhāya samprasārita-jānukam . sthānam prasāritam nāma sukha-suptasya kārayet .. 231..
अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ २३२॥
अधोमुख-स्थितम् च एव विवर्तितम् इति स्मृतम् । शस्त्र-क्षत-मृत-उत्क्षिप्त-मत्त-उन्मत्तेषु कारयेत् ॥ २३२॥
adhomukha-sthitam ca eva vivartitam iti smṛtam . śastra-kṣata-mṛta-utkṣipta-matta-unmatteṣu kārayet .. 232..
अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥
अंस-उपरि शिरः कृत्वा कर्पूर-क्षोभम् एव च । उद्वाहितम् तु विज्ञेयम् लीलया वेशने प्रभोः ॥ २३३॥
aṃsa-upari śiraḥ kṛtvā karpūra-kṣobham eva ca . udvāhitam tu vijñeyam līlayā veśane prabhoḥ .. 233..
ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥
ईषत् प्रसारिते जङ्घे यत्र स्रस्तौ करौ उभौ । आलस्य-श्रम-खेदेषु नतम् स्थानम् विधीयते ॥ २३४॥
īṣat prasārite jaṅghe yatra srastau karau ubhau . ālasya-śrama-khedeṣu natam sthānam vidhīyate .. 234..
अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥ गतिप्राचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ २३५॥
अंस-उपरि शिरः कृत्वा कर्पूर-क्षोभम् एव च । उद्वाहितम् तु विज्ञेयम् लीलया वेशने प्रभोः ॥ २३३॥ ईषत् प्रसारिते जङ्घे यत्र स्रस्तौ करौ उभौ । आलस्य-श्रम-खेदेषु नतम् स्थानम् विधीयते ॥ २३४॥ गति-प्राचारः तु मया उदितः अयम् न उक्तः च यः सः अर्थ-वशेन साध्यः । अतस् परम् रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्याम् प्रविभाग-युक्ताम् ॥ २३५॥
aṃsa-upari śiraḥ kṛtvā karpūra-kṣobham eva ca . udvāhitam tu vijñeyam līlayā veśane prabhoḥ .. 233.. īṣat prasārite jaṅghe yatra srastau karau ubhau . ālasya-śrama-khedeṣu natam sthānam vidhīyate .. 234.. gati-prācāraḥ tu mayā uditaḥ ayam na uktaḥ ca yaḥ saḥ artha-vaśena sādhyaḥ . atas param raṅgaparikramasya vakṣyāmi kakṣyām pravibhāga-yuktām .. 235..
॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ॥
॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारः नाम द्वादशः अध्यायः ॥
.. iti bharatīye nāṭyaśāstre gatipracāraḥ nāma dvādaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In