| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १२ गतिप्रचार ॥
.. nāṭyaśāstram adhyāya 12 gatipracāra ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ १॥
evaṃ vyāyāmasaṃyoge kāryaṃ maṇḍalakalpanam . ataḥ paraṃ pravakṣyāmi gatīstu prakṛtisthitāḥ .. 1..
तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ २॥
tatropavahanaṃ kṛtvā bhāṇḍavādyapuraskṛtam . yathāmārgarasopetaṃ prakṛtīnāṃ praveśane .. 2..
ध्रुवायां सम्प्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ ३॥
dhruvāyāṃ samprayuktāyāṃ paṭe caivāpakarṣite . kāryaḥ praveśaḥ pātrāṇāṃ nānārtharasasambhavaḥ .. 3..
स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ ४॥
sthānaṃ tu vaiṣṇavaṃ kṛtvā hyuttame madhyame tathā . samunnataṃ samaṃ caiva caturasramurastathā .. 4..
बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो मयूराञ्चितमस्तकः ॥ ५॥
bāhuśīrṣe prasanne ca nātyutkṣipte ca kārayet . grīvāpradeśaḥ kartavyo mayūrāñcitamastakaḥ .. 5..
कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ ६॥
karṇādaṣṭāṅgulasthe ca bāhuśīrṣe prayojayet . urasaścāpi cibukaṃ caturaṅgulasaṃsthitam .. 6..
हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ ७॥
hastau tathaiva kartavyau kaṭīnābhitaṭasthitau . dakṣiṇo nābhisaṃsthastu vāmaḥ kaṭitaṭasthitaḥ .. 7..
पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ ८॥
pādayorantaraṃ kāryaṃ dvau tālāvardhameva ca . pādotkṣepastu kartavyaḥ svapramāṇavinirmitaḥ .. 8..
चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ ९॥
catustālo dvitālaścāpyekatālastathaiva ca . catustālastu devānāṃ pārthivānāṃ tathaiva ca .. 9..
द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलोऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ १०॥
dvitālaścaiva madhyānāṃ tālaḥ strīnīcaliṅginām . catuṣkalo'tha dvikalastathā hyekakalaḥ smṛtaḥ .. 10..
चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां सम्प्रकीर्तितः ॥ ११॥
catuṣkalo hyuttamānāṃ madhyānāṃ dvikalo bhavet . tathā caikakalaḥ pādo nīcānāṃ samprakīrtitaḥ .. 11..
स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ १२॥
sthitaṃ madhyaṃ drutaṃ caiva samavekṣya layatrayam . yathāprakṛtināṭyajño gatimevaṃ prayojayet .. 12..
धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ १३॥
dhairyopapannā gatiruttamānāṃ madhyā gatirmadhyamasammatānām . drutā gatiśca pracurādhamānāṃ layatrayaṃ sattvavaśena yojyam .. 13..
एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ १४॥
eṣa eva tu vijñeyaḥ kalātālalaye vidhiḥ . punargatipracārasya prayogaṃ śruṇutānaghāḥ .. 14..
स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ १५॥
svabhāvāttūttamagatau kāryaṃ jānukaṭīsamam . yuddhacārīprayogeṣu jānustanasamaṃ nyaset .. 15..
पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत् सम्यक् पञ्चपदानि च ॥ १६॥
pārśvakrāntaiḥ salalitaiḥ pādairvādyānvitairatha . raṅgakoṇonmukhaṃ gacchet samyak pañcapadāni ca .. 16..
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत् कोणं ततः परम् ॥ १७॥
vāmavedhaṃ tataḥ kuryādvikṣepaṃ dakṣiṇena tu . parivṛtya dvitīyaṃ tu gacchet koṇaṃ tataḥ param .. 17..
तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत् तान्येव तु पदानि च ॥ १८॥
tatrāpi vāmavedhastu vikṣepo dakṣiṇena ca . tato bhāṇḍonmukho gacchet tānyeva tu padāni ca .. 18..
एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात् विक्षेपं दक्षिणस्य च ॥ १९॥
evaṃ gatāgataiḥ kṛtvā padānāmiha viṃśatim . vāmavedhaṃ tataḥ kuryāt vikṣepaṃ dakṣiṇasya ca .. 19..
रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ २०॥
raṅge vikṛṣṭe bharatena kāryo gatāgataiḥ pādagatipracāraḥ . tryaśrastrikoṇe caturasraraṅge gatipracāraścaturasra eva .. 20..
यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलोऽथ द्विकलस्तथैवैककलः पुनः ॥ २१॥
yaḥ samaiḥ saṃhito gacchettatra kāryo layāśrayaḥ . catuṣkalo'tha dvikalastathaivaikakalaḥ punaḥ .. 21..
अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ २२॥
atha madhyamanīcaistu gacchedyaḥ parivāritaḥ . catuṣkalamathārdhaṃ ca tathā caikakalaṃ punaḥ .. 22..
दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ २३॥
daityadānavayakṣāṇāṃ nṛpapannagarakṣasām . catustālapramāṇena kartavyātha gatirbudhaiḥ .. 23..
दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ २४॥
divaukasāṃ tu sarveṣāṃ madhyamā gatiriṣyate . tatrāpi coddhatā ye tu teṣāṃ devaiḥ samā gatiḥ .. 24..
यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ २५॥
yadā manuṣyā rājānasteṣāṃ devagatiḥ katham . atrocyate kathaṃ naiṣā gatī rājñāṃ bhaviṣyati .. 25..
इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ २६॥
iha prakṛtayo divyā divyamānuṣya eva ca . mānuṣya iti vijñeyā nāṭyanṛttakriyāṃ prati .. 26..
देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ २७॥
devānāṃ prakṛtirdivyā rājñāṃ vai divyamānuṣī . yā tvanyā lokaviditā mānuṣī sā prakīrtitā .. 27..
देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ २८॥
devāṃśajāstu rājāno vedādhyātmasu kīrtitāḥ . evaṃ devānukaraṇe doṣo hyatra na vidyate .. 28..
अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । सम्भ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ २९॥
ayaṃ vidhistu kartavyaḥ svacchandagamanaṃ prati . sambhramotpātaroṣeṣu pramāṇaṃ na vidhīyate .. 29..
सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ ३०॥
sarvāsāṃ prakṛtīnāṃ tu avasthāntarasaṃśrayā . uttamādhamamadhyānāṃ gatiḥ kāryā prayoktṛbhiḥ .. 30..
चतुरर्धकलं वा स्यात् तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद् गतिविचेष्टितम् ॥ ३१॥
caturardhakalaṃ vā syāt tadardhakalameva ca . avasthāntaramāsādya kuryād gativiceṣṭitam .. 31..
ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ ३२॥
jyeṣṭhe catuṣkalaṃ hyatra madhyame dvikalaṃ bhavet . dvikalā cottame yatra madhye tvekakalā bhavet .. 32..
कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां सम्प्रयोजयेत् ॥ ३३॥
kalikaṃ madhyame yatra nīceṣvardhakalaṃ bhavet . evamardhārdhahīnaṃ tu jaḍānāṃ samprayojayet .. 33..
ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ ३४॥
jvarārte ca kṣudhārte ca tapaḥśrānte bhayānvite . vismite cāvahitthe ca tathautsukyasamanvite .. 34..
शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ ३५॥
śṛṅgāre caiva śoke ca svacchandagamane tathā . gatiḥ sthitalayā kāryādhikalāntarapātitā .. 35..
पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ ३६॥
punaścintānvite caiva gatiḥ kāryā catuṣkalā . asvasthakāmite caiva bhaye vitrāsite tathā .. 36..
आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ ३७॥
āvege caiva harṣe ca kārye yacca tvarānvitam . aniṣṭaśravaṇe caiva kṣepe cādbhutadarśane .. 37..
अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ ३८॥
api cātyāyike kārye duḥkhite śatrumārgaṇe . aparāddhānusaraṇe śvāpadānugatau tathā .. 38..
एतेष्वेवं गतिं प्राज्ञो विकलां सम्प्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ ३९॥
eteṣvevaṃ gatiṃ prājño vikalāṃ samprayojayet . uttamānāṃ gatiryā tu na tāṃ madhyeṣu yojayet .. 39..
या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ ४०॥
yā gatirmadhyamānāṃ tu na tāṃ nīceṣu yojayet . gatiḥ śṛṅgāriṇī kāryā svasthakāmitasambhavā .. 40..
दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ ४१॥
dūtīdarśitamārgastu praviśedraṅgamaṇḍalam . sūcayā cāpyabhinayaṃ kuryādarthasamāśrayam .. 41..
हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलङ्कृतः ॥ ४२॥
hṛdyairgandhaistathā vastrairalaṅkāraiśca bhūṣitaḥ . nānāpuṣpasugandhābhirmālābhiḥ samalaṅkṛtaḥ .. 42..
गच्छेत् सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ ४३॥
gacchet salalitaiḥ pādairatikrāntasthitaistathā . tathā sauṣṭhavasaṃyuktairlayatālavaśānugaiḥ .. 43..
पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ ४४॥
pādayoranugau hastau nityaṃ kāryau prayoktṛbhiḥ . utkṣipya hastaṃ pātena pādayośca viparyayāt .. 44..
प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ ४५॥
pracchannakāmite caiva gatiṃ bhūyo nibodhata . visarjitajanaḥ srastastathā dūtīsahāyavān .. 45..
निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ ४६॥
nirvāṇadīpo nātyarthaṃ bhūṣaṇaiśca vibhūṣitaḥ . velāsadṛśavastraśca saha dūtyā śanaistathā .. 46..
व्रजेत् प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशङ्क्युत्सुकश्च स्यादवलोकनतत्परः ॥ ४७॥
vrajet pracchannakāmastu pādairniśśabdamandagaiḥ . śabdaśaṅkyutsukaśca syādavalokanatatparaḥ .. 47..
वेपमानशरीरश्च शङ्कितः प्रस्खलन् मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ ४८॥
vepamānaśarīraśca śaṅkitaḥ praskhalan muhuḥ . rase raudre tu vakṣyāmi daityarakṣogaṇān prati .. 48..
एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ ४९॥
eka eva rasasteṣāṃ sthāyī raudro dvijottamāḥ . nepathyaraudro vijñeyastvaṅgaraudrastathaiva ca .. 49..
तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ ५०॥
tathā svabhāvajaścaiva tridhā raudraḥ prakalpitaḥ . rudhiraklinnadeho yo rudhirārdramukhastathā .. 50..
तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ ५१॥
tathā piśitahastaśca raudro nepathyajastu saḥ . bahubāhurbahumukho nānāpraharaṇākulaḥ .. 51..
स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ ५२॥
sthūlakāyastathā prāṃśuraṅgaraudraḥ prakīrtitaḥ . raktākṣaḥ piṅgakeśaśca asito vikṛtasvaraḥ .. 52..
रूक्षो निर्भर्त्सनपरो रौद्रः सोऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ ५३॥
rūkṣo nirbhartsanaparo raudraḥ so'yaṃ svabhāvajaḥ . catustālāntarotkṣiptaiḥ pādaistvantarapātitaiḥ .. 53..
गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ ५४॥
gatirevaṃ prakartavyā teṣāṃ ye cāpi tadvidhāḥ . ahṛdyā tu mahī yatra śmaśānaraṇakaśmalā .. 54..
गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ ५५॥
gatiṃ tatra prayuñjīta bībhatsābhinayaṃ prati . kvacidāsannapatitaiḥ vikṛṣṭapatitaiḥ kvacit .. 55..
एलकाक्रीडितैः पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ ५६॥
elakākrīḍitaiḥ pādairuparyupari pātitaiḥ . teṣāmevānugairhastairbībhatse gatiriṣyate .. 56..
अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ ५७॥
atha vīre ca karttavyā pādavikṣepasaṃyutā . drutapracārādhiṣṭhānā nānācārīsamākulā .. 57..
पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत् गतिम् ॥ ५८॥
pārśvakrāntaidrutāviddhaiḥ sūcīviddhaistathaiva ca . kalākālagataiḥ pādairāvege yojayet gatim .. 58..
उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ ५९॥
uttamānāmayaṃ prāyaḥ prokto gatiparikramaḥ . madhyānāmadhamānāṃ ca gatiṃ vakṣyāmyahaṃ punaḥ .. 59..
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ ६०॥
vismaye caiva harṣe ca vikṣiptapadavikramān . āsādya tu rasaṃ hāsyametaccānyaṃ ca yojayet .. 60..
पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । बाष्पाम्बुरुद्धनयनः सन्नगात्रस्तथैव च ॥ ६१॥
punaśca karuṇe kāryā gatiḥ sthirapadairatha . bāṣpāmburuddhanayanaḥ sannagātrastathaiva ca .. 61..
उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ ६२॥
utkṣiptapātitakarastathā sasvanarodanaḥ . gacchettathādhyadhikayā pratyagrāpriyasaṃśraye .. 62..
एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या बाष्पसङ्गता ॥ ६३॥
eṣā strīṇāṃ prayoktavyā nīcasattve tathaiva ca . uttamānāṃ tu kartavyā sadhairyā bāṣpasaṅgatā .. 63..
निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ ६४॥
niḥśvāsairāyatotsṛṣṭaistathaivordhvanirīkṣitaiḥ . na tatra sauṣṭhavaṃ kāryaṃ na pramāṇaṃ tathāvidham .. 64..
मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ ६५॥
madhyānāmapi sattvajñā gatiryojyā vidhānataḥ . uraḥpātahatotsāhaḥ śokavyākulacetanaḥ .. 65..
नात्युत्क्षिप्तैः पदैर्गच्छेत् इष्टबन्धुनिपातने । गाढप्रहारे कार्या च शिथिलाङ्गभुजाश्रया ॥ ६६॥
nātyutkṣiptaiḥ padairgacchet iṣṭabandhunipātane . gāḍhaprahāre kāryā ca śithilāṅgabhujāśrayā .. 66..
विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ ६७॥
vighūṇitaśarīrā ca gatiścūrṇapadairatha . śītena cābhibhūtasya varṣeṇābhidrutasya ca .. 67..
गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ ६८॥
gatiḥ prayoktṛbhiḥ kāryā strīnīcaprakṛtāvatha . piṇḍīkṛtya tu gātrāṇi teṣāṃ caiva prakampanam .. 68..
करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ ६९॥
karau vakṣasi nikṣipya kubjībhūtastathaiva ca . dantoṣṭhasphuraṇaṃ caiva cibukasya prakampanam .. 69..
कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ ७०॥
kāryaṃ śanaiśca kartavyaṃ śītābhinayane gatau . tathā bhayānake caiva gatiḥ kāryā vicakṣaṇaiḥ .. 70..
स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ ७१॥
strīṇāṃ kāpuruṣāṇāṃ ca ye cānye sattvavarjitāḥ . visphārite cale netre vidhutaṃ ca śirastathā .. 71..
भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ ७२॥
bhayasaṃyuktayā dṛṣṭyā pārśvayośca vilokanaiḥ . drutaiścūrṇapadaiścaiva baddhvā hastaṃ kapotakam .. 72..
प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ ७३॥
pravepitaśarīraśca śuṣkoṣṭhasskhalitaṃ vrajet . eṣānukaraṇe kāryā tarjane trāsane tathā .. 73..
सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ ७४॥
sattvaṃ ca vikṛtaṃ dṛṣṭvā śrutvā ca vikṛtaṃ svaram . eṣā strīṇāṃ prakarttavyā nṛṇāṃ cākṣiptavikramā .. 74..
क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । एलकाक्रीडितैः पादैरुपर्युपरि पातितैः ॥ ७५॥
kvacidāsannapatitairvikṛṣṭapatitaiḥ kvacit . elakākrīḍitaiḥ pādairuparyupari pātitaiḥ .. 75..
एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ ७६॥
eṣāmevānugairhastairgatiṃ bhīteṣu yojayet . vaṇijāṃ sacivānāṃ ca gatiḥ kāryā svabhāvajā .. 76..
कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ ७७॥
kṛtvā nābhitaṭe hastamuttānakhaṭakāmukham . ādyaṃ cārālamuttānaṃ kuryātpārśvaṃ stanāntare .. 77..
न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ ७८॥
na niṣaṇṇaṃ na ca stabdhaṃ na cāpi parivāhitam . kṛtvā gātraṃ tathā gacchettena caiva krameṇa tu .. 78..
अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ ७९॥
atikrāntairpadairviprā dvitālāntaragāmibhiḥ . yatīnāṃ śramaṇānāṃ ca ye cānye tapasi sthitāḥ .. 79..
तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ ८०॥
teṣāṃ kāryā gatirye tu naiṣṭhikaṃ vratamāśritāḥ . ālolacakṣuśca bhavedyugamātranirīkṣaṇaḥ .. 80..
उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ ८१॥
upasthitasmṛtiścaiva gātraṃ sarvaṃ vidhāya ca . acañcalamanāścaiva yathāvalliṅgamāśritaḥ .. 81..
विनीतवेषश्च भवेत् कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ ८२॥
vinītaveṣaśca bhavet kaṣāyavasanastathā . prathamaṃ samapādena sthitvā sthānena vai budhaḥ .. 82..
हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ ८३॥
hastaṃ ca caturaṃ kṛtvā tathā caikaṃ prasārayet . prasannaṃ vadanaṃ kṛtvā prayogasya vaśānugaḥ .. 83..
अनिषण्णेन गात्रेण गतिं गच्छेद् व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ ८४॥
aniṣaṇṇena gātreṇa gatiṃ gacched vyatikramāt . uttamānāṃ bhavedeṣā liṅgināṃ ye mahāvratāḥ .. 84..
एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ ८५॥
ebhireva viparyastairguṇairanyeṣu yojayet . tathā vratānugāvasthā hyanyeṣāṃ liṅgināṃ gatiḥ .. 85..
विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ ८६॥
vibhrāntā vāpyudāttā vā vibhrāntanibhṛtāpi vā . śakaṭāsyasthitaiḥ pādairatikrāntaistathaiva ca .. 86..
कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारेऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ ८७॥
kāryā pāśupatānāṃ ca gatiruddhatagāminī . andhakāre'tha yāne ca gatiḥ kāryā prayoktṛbhiḥ .. 87..
भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ ८८॥
bhūmau visarpitaiḥ pādairhastairmārgapradarśibhiḥ . rathasthasyāpi kartavyā gatiścūrṇapadairatha .. 88..
समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ ८९॥
samapādaṃ tathā sthānaṃ kṛtvā rathagatiṃ vrajet . dhanurgṛhītvā caikena tathā caikena kūbaram .. 89..
सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ ९०॥
sūtaścāsya bhavedevaṃ pratodapragrahākulaḥ . vāhanāni vicitrāṇi kartavyāni vibhāgaśaḥ .. 90..
द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ ९१॥
drutaiścūrṇapadaiścaiva gantavyaṃ raṅgamaṇḍale . vimānasthasya kartavyā hyeṣaiva syandinī gatiḥ .. 91..
आरोढुमुद्वहेद् गात्रं किञ्चित् स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ ९२॥
āroḍhumudvahed gātraṃ kiñcit syādunmukhasthitam . asyaiva vaiparītyena kuryāccāpyavarohaṇam .. 92..
अधोऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ ९३॥
adho'valokanaiścaiva maṇḍalāvartanena ca . ākāśagamane caiva kartavyā nāṭyayoktṛbhiḥ .. 93..
स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत् गतिम् ॥ ९४॥
sthānena samapādena tathā cūrṇapadairapi . vyomnaścāvataredyastu tasyaitāṃ kārayet gatim .. 94..
ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ ९५॥
ṛjvāyatonnatanataiḥ kuṭilāvartitairatha . bhraśyataśca tathākāśādapaviddhabhujā gatiḥ .. 95..
विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ ९६॥
vikīrṇavasanā caiva tathā bhūgatalocanā . prāsādadrumaśaileṣu nadīnimnonnateṣu ca .. 96..
आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ ९७॥
ārohaṇāvataraṇaṃ ca kāryamarthavaśādbudhaiḥ . prāsādārohaṇaṃ kāryaṃ atikrāntaiḥ padairatha .. 97..
उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ ९८॥
udvāhya gātraṃ pādaṃ ca sopāne nikṣipennaraḥ . tathāvataraṇaṃ caiva gātramānamya recayet .. 98..
प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ ९९॥
prāsāde yanmayā proktaḥ pratāraḥ kevalo bhavet . kiñcinnatāgrakāyā tu pratāre gatiriṣyate .. 99..
जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोयेऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ १००॥
jalapramāṇāpekṣā tu jalamadhye gatirbhavet . toye'lpe vasanotkarṣaḥ prājye pāṇivikarṣaṇaiḥ .. 100..
प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक् प्रसारिता चैव हियमाणा च वारिणा ॥ १०१॥
prasārya bāhumekaikaṃ muhurbārivikarṣaṇaiḥ . tiryak prasāritā caiva hiyamāṇā ca vāriṇā .. 101..
अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ १०२॥
aśeṣāṅgākulādhūtavadanā gatiriṣyate . nausthasyāpi prayoktavyā drutaiścūrṇapadairgatiḥ .. 102..
अतिक्रान्तेन पादेन द्वितीयेनाञ्चितेन च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ १०३॥
atikrāntena pādena dvitīyenāñcitena ca . prāsādārohaṇe yattu tadevādriṣu kārayet .. 103..
केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ १०४॥
kevalamūrdhvanikṣepamadriṣvaṅgaṃ bhavedatha . drume cārohaṇaṃ kāryamatikrāntaiḥ sthitaiḥ padaiḥ .. 104..
सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ १०५॥
sūcīviddhairapakrāntaiḥ pārśvakrāntaistathaiva ca . etadevāvataraṇaṃ saritsvapi niyojayet .. 105..
अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ १०६॥
anenaiva vidhānena kartavyaṃ gaticeṣṭitam . saṃjñāmātreṇa kartavyānyetāni vidhipūrvakam .. 106..
कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ १०७॥
kasmānmṛta iti prokte kiṃ kartavyaṃ prayoktṛbhiḥ . aṅkuśagrahaṇānnāgaṃ khalīnagrahaṇāddhayam .. 107..
प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ १०८॥
pragrahagrahaṇādyānamevamevāpareṣvapi . aśvayāne gatiḥ kāryā vaiśākhasthānakena tu .. 108..
यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ १०९॥
yathā cūrṇapadaiścitrairuparyupari pātitaiḥ . pannagānāṃ gatiḥ kāryā pādaiḥ svastikasaṃjñitaiḥ .. 109..
पार्श्वक्रान्तं पदं कुर्यात् स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ ११०॥
pārśvakrāntaṃ padaṃ kuryāt svastikaṃ recayediha . viṭasyāpi tu kartavyā gatirlalitavikramā .. 110..
पादैराकुञ्चितैः किञ्चित् तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ १११॥
pādairākuñcitaiḥ kiñcit tālābhyantarapātitaiḥ . svasauṣṭhavasamāyuktau tathā hastau padānugau .. 111..
खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ ११२॥
khaṭakāvardhamānau tu kṛtvā viṭagatiṃ vrajet . kañcukīyasya kartavyā vayovasthāviśeṣataḥ .. 112..
अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ ११३॥
avṛddhasya prayogajño gatimevaṃ prayojayet . ardhatālotthitaiḥ pādairviṣkambhaiḥ ṛjubhistathā .. 113..
समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ ११४॥
samudvahannivāṅgāni paṅkalagna iva vrajet . atha vṛddhasya kartavyā gatiḥ kampitadehikā .. 114..
विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ ११५॥
viṣkambhanakṛtaprāṇā mandotkṣiptapadakramā . kṛśasyāpyabhineyā vai gatirmandaparikramā .. 115..
व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ ११६॥
vyādhigraste jvarārte ca tapaḥśrānte kṣudhānvite . viṣkambhanakṛtaprāṇaḥ kṛśaḥ kṣāmodarastathā .. 116..
क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ ११७॥
kṣāmasvarakapolaśca dīnanetrastathaiva ca . śanairutkṣepaṇaṃ caiva kartavyaṃ hastapādayoḥ .. 117..
कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ ११८॥
kampanaṃ caiva gātrāṇāṃ kleśanaṃ ca tathaiva ca . dūrādhvānaṃ gatasyāpi gatirmandapadakramā .. 118..
विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ ११९॥
vikūṇanaṃ ca gātrasya jānunośca vimardanam . sthūlasyāpi tu kartavyā gatirdehānukarṣiṇī .. 119..
समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ १२०॥
samudvahanabhūyiṣṭhā mandotkṣiptapadakramā . viṣkambhagāmī ca bhavenniḥśvāsabahulastathā .. 120..
श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ १२१॥
śramasvedābhibhūtaśca vrajeccūrṇapadaistathā . mattānāṃ tu gatiḥ kāryā made taruṇamadhyame .. 121..
वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ १२२॥
vāmadakṣiṇapādābhyāṃ ghūrṇamānāpasarpaṇaiḥ . avakṛṣṭe pade caiva hyanavasthitapādikā .. 122..
विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ १२३॥
vighūrṇitaśarīrā ca karaiḥ praskhalitaistathā . unmattasyāpi kartavyā gatistvaniyatakramā .. 123..
बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ १२४॥
bahucārīsamāyuktā lokānukaraṇāśrayā . rūkṣasphuṭitakeśaśca rajodhvastatanustathā .. 124..
अनिमित्तप्रकथनो बहुभाषी विकारवान् । गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ १२५॥
animittaprakathano bahubhāṣī vikāravān . gāyatyakasmāddhasati saṅge cāpi na sajjate .. 125..
नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात् कदाचिदवतिष्ठते ॥ १२६॥
nṛtyatyapi ca saṃhṛṣṭo vādayatyapi vā punaḥ . kadāciddhāvati javāt kadācidavatiṣṭhate .. 126..
कदाचिदुपविष्टस्तु शयानः स्यात् कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ १२७॥
kadācidupaviṣṭastu śayānaḥ syāt kadācana . nānācīradharaścaiva rathyāsvaniyatālayaḥ .. 127..
उन्मत्तो भवति ह्येवं तस्यैतां कारयेद् गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ १२८॥
unmatto bhavati hyevaṃ tasyaitāṃ kārayed gatim . sthitvā nūpurapādena daṇḍapādaṃ prasārayet .. 128..
बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ १२९॥
baddhāṃ cārīṃ tathā caiva kṛtvā svastikameva ca . anena cārīyogena paribhrāmya tu maṇḍalam .. 129..
बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ १३०॥
bāhyabhramarakaṃ caiva raṅgakoṇe prasārayet . trikaṃ sulalitaṃ kṛtvā latākhyaṃ hastameva ca .. 130..
विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ १३१॥
viparyayagatairhastaiḥ padbhyāṃ saha gatirbhavet . trividhā tu gatiḥ kāryā khañjapaṅgukavāmanaiḥ .. 131..
विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ १३२॥
vikalāṅgaprayogeṇa kuhakābhinayaṃ prati . ekaḥ khañjagatau nityaṃ stabdho vai caraṇo bhavet .. 132..
तथा द्वितीयः कार्यस्तु पादोऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ १३३॥
tathā dvitīyaḥ kāryastu pādo'gratalasañcaraḥ . stabdhenotthāpanaṃ kāryamaṅgasya caraṇena tu .. 133..
गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ १३४॥
gamanena niṣaṇṇaḥ syādanyena caraṇena tu . itareṇa niṣīdecca krameṇānena vai vrajet .. 134..
एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ १३५॥
eṣā khañjagatiḥ kāryā talaśalyakṣateṣu ca . pādenāgratalasthena hyañcitena vrajettathā .. 135..
निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ १३६॥
niṣaṇṇadehā paṅgostu natajaṅghā tathaiva ca . sarvasaṅkucitāṅgā ca vāmane gatiriṣyate .. 136..
न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ १३७॥
na tasya vikramaḥ kāryo vikṣepaścaraṇasya ca . sodvāhitā cūrṇapadā sā kāryā kuhanātmikā .. 137..
विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ १३८॥
vidūṣakasyāpi gatirhāsyatrayasamanvitā . aṅgavākyakṛtaṃ hāsyaṃ hāsyaṃ nepathyajaṃ smṛtam .. 138..
दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ १३९॥
danturaḥ khalatiḥ kubjaḥ khañjaśca vikṛtānanaḥ . ya īdṛśaḥ praveśaḥ syādaṅgahāsyaṃ tu tadbhavet .. 139..
यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ १४०॥
yadā tu bakavadgacchedullokitavilokitaiḥ . anyāyatapadatvācca aṅgahāsyo bhavetsa tu .. 140..
कार्यहास्यं तु विज्ञेयमसम्बद्धप्रभाषणात् । अनर्थकैर्विकारैश्च तथा चाश्लीलभाषितैः ॥ १४१॥
kāryahāsyaṃ tu vijñeyamasambaddhaprabhāṣaṇāt . anarthakairvikāraiśca tathā cāślīlabhāṣitaiḥ .. 141..
चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ १४२॥
cīracarmamaśībhasmagairikādyaistu maṇḍitaḥ . yastādṛśo bhavedviprā hāsyo nepathyajastu saḥ .. 142..
तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत् नानावस्थान्तरात्मकम् ॥ १४३॥
tasmāttu prakṛtiṃ jñātvā bhāvaḥ kāryastu tattvataḥ . gatipracāraṃ vibhajet nānāvasthāntarātmakam .. 143..
स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ १४४॥
svabhāvajāyāṃ vinyasya kuṭilaṃ vāmake kare . tadā dakṣiṇahaste ca kuryāccaturakaṃ punaḥ .. 144..
पार्श्वमेकं शिरश्चैव हस्तोऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ १४५॥
pārśvamekaṃ śiraścaiva hasto'tha caraṇastathā . paryāyaśaḥ sannamayellayatālavaśānugaḥ .. 145..
स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात् मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ १४६॥
svabhāvajā tu tasyaiṣā gatiranyā vikārajā . alābhalābhāt muktasya stabdhā tasya gatirbhavet .. 146..
कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ १४७॥
kāryā caiva hi nīcānāṃ ceṭādīnāṃ parikramāt . adhamā iti ye khyātā nānāśīlāśca te punaḥ .. 147..
पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ १४८॥
pārśvasekaṃ śiraścaiva karaḥ sacaraṇastathā . śakārasyāpi kartavyā gatiścañcaladehikā . gatau nameta ceṭānāṃ dṛṣṭiścārdhavicāriṇī .. 148..
वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ १४९॥
vastrābharaṇasaṃsparśairmuhurmuhuravekṣitaiḥ . gātrairvikāravikṣiptaiḥ lambavastrasrajā tathā .. 149..
सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ १५०॥
sagarvitā cūrṇapadā śakārasya gatirbhavet . jātyā nīceṣu yoktavyā vilokanaparā gatiḥ .. 150..
असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ १५१॥
asaṃsparśācca lokasya svāṅgāni vinigūhya ca . mlecchānāṃ jātayo yāstu pulindaśabarādayaḥ .. 151..
तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ १५२॥
teṣāṃ deśānusāreṇa kāryaṃ gativiceṣṭitam . pakṣiṇāṃ śvāpadānāṃ ca paśūnāṃ ca dvijottamāḥ .. 152..
स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ १५३॥
svasvajātisamutthena svabhāvena gatirbhavet . siṃharkṣavānarāṇāṃ ca gatiḥ kāryā prayoktṛbhiḥ .. 153..
या कृता नरसिंहेन विष्णुना प्रभविष्णुना । आलीढस्थानकं कृत्वा गात्रं तस्यैव चानुगम् ॥ १५४॥
yā kṛtā narasiṃhena viṣṇunā prabhaviṣṇunā . ālīḍhasthānakaṃ kṛtvā gātraṃ tasyaiva cānugam .. 154..
जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ १५५॥
jānūpari karaṃ hyekamaparaṃ vakṣasi sthitam . avalokya diśaḥ kṛtvā cibukaṃ bāhumastake .. 155..
गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ १५६॥
gantavyaṃ vikramairviprāḥ pañcatālāntarotthitaiḥ . niyuddhasamaye caiva raṅgāvataraṇe tathā .. 156..
सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ १५७॥
siṃhādīnāṃ prayoktavyā gatireṣā prayoktṛbhiḥ . śeṣāṇāmarthayogena gatiṃ sthānaṃ ca yojayet .. 157..
वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ १५८॥
vāhanārthaprayogeṣu raṅgāvataraṇeṣu ca . evametāḥ prayoktavyā narāṇāṃ gatayo budhaiḥ .. 158..
नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ १५९॥
noktā yā yā mayā hyatra grāhyāstāstāśca lokataḥ . ataḥ paraṃ pravakṣyāmi strīṇāṃ gativiceṣṭitam .. 159..
स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ १६०॥
strīṇāṃ sthānāni kāryāṇi gatiṣvābharaṇeṣu ca . āyataṃ cāvahitthaṃ ca aśvakrāntamathāpi ca .. 160..
स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ १६१॥
sthānānyetāni nārīṇāmatha lakṣaṇamucyate . vāmaḥ svabhāvato yatra pādo viracitaḥ samaḥ .. 161..
तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितोऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ १६२॥
tālamātrāntare nyastastryaśraḥ pakṣasthito'paraḥ . prasannamānanamuraḥ samaṃ yatra samunnatam .. 162..
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितोऽपरः ॥ १६३॥
latānitambagau hastau sthānaṃ jñeyaṃ tadāyatam . dakṣiṇastu samaḥ pādaḥ tryaśraḥ pakṣasthito'paraḥ .. 163..
वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ १६४॥
vāmaḥ samunnatakaṭiścāyate sthānake bhavet . āvāhane visarge ca tathā nirvarṇaneṣu ca .. 164..
चिन्तायां चावहित्थे च स्थानमेतत् प्रयोजयेत् । रङ्गावतरणारम्भः पुष्पाञ्जलिविसर्जनम् ॥ १६५॥
cintāyāṃ cāvahitthe ca sthānametat prayojayet . raṅgāvataraṇārambhaḥ puṣpāñjalivisarjanam .. 165..
मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ १६६॥
manmatherṣyodbhavaṃ kopaṃ tarjanyaṅgulimoṭanam . niṣedhagarvagāmbhīryamaunaṃ mānāvalambanam .. 166..
स्थानेऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितोऽपरः ॥ १६७॥
sthāne'smin saṃvidhātavyaṃ digantaranirūpaṇam . samo yatra sthito vāmastryaśraḥ pakṣasthito'paraḥ .. 167..
समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ १६८॥
samunnatakaṭirvāmastvavahitthaṃ tu tadbhavet . puro vicalitastryaśrastadanyopasṛtaḥ samaḥ .. 168..
पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ १६९॥
pādastālāntaranyastastrikamīṣatsamunnatam . pāṇirlatākhyo yatraikastadanyastu nitambagaḥ .. 169..
अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत् स्मृतं स्थानं संलापे तु स्वभावजे ॥ १७०॥
avahitthaṃ samākhyātaṃ sthānamāgamabhūṣaṇaiḥ . strīṇāmetat smṛtaṃ sthānaṃ saṃlāpe tu svabhāvaje .. 170..
निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकशृङ्गारात्मनिरूपणे ॥ १७१॥
niścaye paritoṣe ca vitarke cintane tathā . vilāsalīlāvibvokaśṛṅgārātmanirūpaṇe .. 171..
स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक एकश्चाग्रतलाञ्चितः ॥ १७२॥
sthānametatprayoktavyaṃ bharturmārgavilokane . pādaḥ samasthitaścaika ekaścāgratalāñcitaḥ .. 172..
सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ १७३॥
sūcīviddhamaviddhaṃ vā tadaśvakrāntamucyate . skhalitaṃ ghūrṇitaṃ caiva galitāmbaradhāraṇam .. 173..
कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ १७४॥
kusumastabakādānaṃ parirakṣaṇameva ca . vitrāsanaṃ salalitaṃ taruśākhāvalambanam .. 174..
स्थानेऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ १७५॥
sthāne'smin saṃvidhānīyaṃ strīṇāmetatprayoktṛbhiḥ . śākhāvalambane kāryaṃ stabakagrahaṇe tathā .. 175..
विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ १७६॥
viśrāmeṣvatha devānāṃ narāṇāṃ cārthayogataḥ . sthānakaṃ tāvadeva syādyāvacceṣṭā pravartate .. 176..
भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ १७७॥
bhagnaṃ ca sthānakaṃ nṛtte cārī cetsamupasthitā . evaṃ sthānavidhiḥ kāryaḥ strīṇāṃ nṛṇāmathāpi ca .. 177..
पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ १७८॥
punaścāsāṃ pravakṣyāmi gatiṃ prakṛtisaṃsthitām . kṛtvāvahitthaṃ sthānaṃ tu vāmaṃ cādhomukhaṃ karam .. 178..
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ १७९॥
nābhipradeśe vinyasya savyaṃ ca khaṭakāmukham . tataḥ salalitaṃ pādaṃ tālamātrasamutthitam .. 179..
दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ १८०॥
dakṣiṇaṃ vāmapādasya bāhyapārśve vinikṣipet . tenaiva samakālaṃ ca latākhyaṃ vāmakaṃ bhujam .. 180..
दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ १८१॥
dakṣiṇaṃ vinametpārśvaṃ nyasennābhitaṭe tataḥ . nitambe dakṣiṇaṃ kṛtvā hastaṃ codveṣṭya vāmakam .. 181..
ततो वामपदं दद्यात् लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ १८२॥
tato vāmapadaṃ dadyāt latāhastaṃ ca dakṣiṇam . līlayodvāhitenātha śirasānugatena ca .. 182..
किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ १८३॥
kiñcinnatena gātreṇa gacchetpañcapadīṃ tataḥ . yo vidhiḥ puruṣāṇāṃ tu raṅgapīṭhaparikrame .. 183..
स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं तथाष्टकलमेव च ॥ १८४॥
sa eva pramadānāṃ vai kartavyo nāṭyayoktṛbhiḥ . ṣaṭkalaṃ tu na kartavyaṃ tathāṣṭakalameva ca .. 184..
पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ १८५॥
pādasya patanaṃ tajjñaiḥ khedanaṃ tadbhavetstriyāḥ . sayauvanānāṃ nārīṇāmevaṃ kāryā gatirbudhaiḥ .. 185..
स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ १८६॥
sthavīyasīnāmetāsāṃ sampravakṣyāmyahaṃ gatim . kṛtvāpaviddhaṃ sthānantu vāmaṃ nyasya kaṭītaṭe .. 186..
आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ १८७॥
ādyaṃ cārālamuttānaṃ kuryānnābhistanāntare . na niṣaṇṇaṃ na ca stabdhaṃ na cāpi parivāhitam .. 187..
कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ १८८॥
kṛtvā gātraṃ tato gacchettenaiveha krameṇa tu . preṣyāṇāmapi kartavyā gatirudbhrāntagāminī .. 188..
क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ १८९॥
kvacidunnamitairgātraiḥ āviddhabhujavikramā . sthānaṃ kṛtvāvahitthaṃ ca vāmaṃ cādhomukhaṃ bhujam .. 189..
नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ १९०॥
nābhipradeśe vinyasya savyaṃ ca khaṭakāmukham . ardhanārīgatiḥ kāryā strīpuṃsābhyāṃ vimiśritā .. 190..
उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ १९१॥
udāttalalitairgātraiḥ pādairlīlāsamanvitaiḥ . yā pūrvamevābhihitā hyuttamānāṃ gatirmayā .. 191..
स्त्रीणां कापुरुषाणां च ततोऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद् गतिचेष्टितम् ॥ १९२॥
strīṇāṃ kāpuruṣāṇāṃ ca tato'rdhārdhaṃ tu yojayet . madhyamottamanīcānāṃ nṛṇāṃ yad gaticeṣṭitam .. 192..
स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ १९३॥
strīṇāṃ tadeva kartavyā lalitaiḥ padavikramaiḥ . bālānāmapi kartavyā svacchandapadavikramā .. 193..
न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ १९४॥
na tasyāḥ sauṣṭhavaṃ kāryaṃ na pramāṇaṃ prayoktṛbhiḥ . tṛtīyā prakṛtiḥ kāryā nāmnā caiva napuṃsakā .. 194..
नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ १९५॥
narasvabhāvamutsṛjya strīgatiṃ tatra yojayet . viparyayaḥ prayoktavyaḥ puruṣastrīnapuṃsake .. 195..
स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन क्रीडया वापि तथा भूयं च वञ्चनात् ॥ १९६॥
svabhāvamātmanastyaktvā tadbhāvagamanādiha . vyājena krīḍayā vāpi tathā bhūyaṃ ca vañcanāt .. 196..
स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ १९७॥
strī puṃsaḥ prakṛtiṃ kuryāt strībhāvaṃ puruṣo'pi ca . dhairyodāryeṇa sattvena buddhyā tadvacca karmaṇā .. 197..
स्त्री पुमांसं त्वभिनयेत् वेषवाक्यविचेष्टितैः । स्त्रीवेषभाषितैर्युक्तं प्रेषिताप्रेषितैस्तथा ॥ १९८॥
strī pumāṃsaṃ tvabhinayet veṣavākyaviceṣṭitaiḥ . strīveṣabhāṣitairyuktaṃ preṣitāpreṣitaistathā .. 198..
मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ १९९॥
mṛdusannagatiścaiva pumān strībhāvamācaret . jātihīnāśca yā nāryaḥ pulindaśabarāṅganāḥ .. 199..
याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ २००॥
yāścāpi tāsāṃ kartavyā tajjātisadṛśī gatiḥ . vratasthānāṃ tapaḥsthānāṃ liṅgasthānāṃ tathaiva ca .. 200..
खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता येऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ २०१॥
khasthānāṃ caiva nārīṇāṃ samapādaṃ prayojayet . uddhatā ye'ṅgahārāḥ syuḥ yāścāryo maṇḍalāni ca .. 201..
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ २०२॥
tāni nāṭyaprayogajñairna kartavyāni yoṣitām . tathāsanavidhiḥ kāryo nṛṇāṃ strīṇāṃ viśeṣataḥ .. 202..
नानाभावसमायुक्तस्तथा च शयनाश्रयः । विष्कम्भिताञ्चितौ पादौ त्रिकं किञ्चित्समुन्नतम् ॥ २०३॥
nānābhāvasamāyuktastathā ca śayanāśrayaḥ . viṣkambhitāñcitau pādau trikaṃ kiñcitsamunnatam .. 203..
हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ २०४॥
hastau kaṭyūruvinyastau svasthe syādupaveśane . pādaḥ prasāritaḥ kiñcidekaścaivāsanāśrayaḥ .. 204..
शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ २०५॥
śiraḥ pārśvanataṃ caiva sacinta upaveśane . cibukopāśritau hastau bāhuśīrṣāśritaṃ śiraḥ .. 205..
सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ २०६॥
sampraṇaṣṭendriyamanāḥ śokautsukyopaveśane . prasārya bāhū śithilau tathā śropāśrayāśritaḥ .. 206..
मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ २०७॥
mohamūrcchāmadaglāniviṣādeṣūpaveśayet . sarvapiṇḍīkṛtāṅgastu saṃyuktaiḥ pādajānubhiḥ .. 207..
व्याधिव्रीडितनिद्रासु ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ २०८॥
vyādhivrīḍitanidrāsu dhyāne copaviśennaraḥ . tathā cotkaṭikaṃ sthānaṃ sphikpārṣṇīnāṃ samāgamaḥ .. 208..
पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमनेऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ २०९॥
pitrye nivāpe japye ca sandhyāsvācamane'pi ca . viṣkambhitaṃ punaścaivaṃ jānuṃ bhūmau nipātayet .. 209..
प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ २१०॥
priyāprasādane kāryaṃ homādikaraṇeṣu ca . mahīgatābhyāṃ jānubhyāmadhomukhamavasthitam .. 210..
देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ २११॥
devābhigamane caiva ruṣitānāṃ prasādane . śoke cākrandane tīvre mṛtānāṃ caiva darśane .. 211..
त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ २१२॥
trāsane ca kusattvānāṃ nīcānāṃ caiva yācane . homayajñakriyāyāṃ ca preṣyāṇāṃ caiva kārayet .. 212..
मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ २१३॥
munīnāṃ niyameṣveṣa bhavedāsanajo vidhiḥ . tathāsanavidhiḥ kāryo vividho nāṭakāśrayaḥ .. 213..
स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ २१४॥
strīṇāṃ ca puruṣāṇāṃ ca bāhyaścābhyantarastathā . ābhyantarastu nṛpaterbāhyo bāhyagatasya ca .. 214..
देवानां नृपतीनां च दद्यात् सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ २१५॥
devānāṃ nṛpatīnāṃ ca dadyāt siṃhāsanaṃ dvijaḥ . purodhasāmamātyānāṃ bhavedvetrāsanaṃ tathā .. 215..
मुण्डासनं च दातव्यं सेनानीयुवराजयोः । काष्ठासनं द्विजातीनां कुमाराणां कुथासनम् ॥ २१६॥
muṇḍāsanaṃ ca dātavyaṃ senānīyuvarājayoḥ . kāṣṭhāsanaṃ dvijātīnāṃ kumārāṇāṃ kuthāsanam .. 216..
एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ २१७॥
evaṃ rājasabhāṃ prāpya kāryastvāsanajo vidhiḥ . strīṇāṃ cāpyāsanavidhiṃ sampravakṣyāmyahaṃ punaḥ .. 217..
सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधोऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ २१८॥
siṃhāsanaṃ tu rājñīnāṃ devīnāṃ muṇḍamāsanam . purodho'mātyapatnīnāṃ dadyādvetrāsanaṃ tathā .. 218..
भोगिनीनां तथा चैव वस्त्रं चर्म कुथोऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ २१९॥
bhoginīnāṃ tathā caiva vastraṃ carma kutho'pi vā . brāhmaṇītāpasīnāṃ ca paṭṭāsanamathāpi ca .. 219..
वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद् भूम्यासनं द्विजाः ॥ २२०॥
veśyānāṃ ca pradātavyamāsanaṃ ca mayūrakam . śeṣāṇāṃ pramadānāṃ tu bhaved bhūmyāsanaṃ dvijāḥ .. 220..
एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ २२१॥
evamābhyantaro jñeyo bāhyaścāsanajo vidhiḥ . tathā svagṛhavārtāsu cchandenāsanamiṣyate .. 221..
नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ २२२॥
niyamasthamunīnāṃ ca bhavedāsanajo vidhiḥ . liṅgināmāsanavidhiḥ kāryo vratasamāśrayaḥ .. 222..
ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्येऽर्थे च प्रयोजयेत् ॥ २२३॥
bruṣīmuṇḍāsanaprāyaṃ vetrāsanamathāpi ca . home yajñakriyāyāṃ ca pitrye'rthe ca prayojayet .. 223..
स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ २२४॥
sthānīyā ye ca puruṣāḥ kulavidyāsamanvitāḥ . teṣāmāsanasatkāraḥ karttavya iha pārthivaiḥ .. 224..
समे समासनं दद्यात् मध्ये मध्यममासनम् । अतिरिक्तेऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ २२५॥
same samāsanaṃ dadyāt madhye madhyamamāsanam . atirikte'tiriktaṃ ca hīne bhūmyāsanaṃ bhavet .. 225..
उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा काष्ठमासनम् ॥ २२६॥
upādhyāyasya nṛpatergurūṇāmagrato budhaiḥ . bhūmyāsanaṃ tathā kāryamathavā kāṣṭhamāsanam .. 226..
नौनागरथयानेषु भूमिकाष्ठासनेषु च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ २२७॥
naunāgarathayāneṣu bhūmikāṣṭhāsaneṣu ca . sahāsanaṃ na duṣyeta gurūpādhyāyapārthivaiḥ .. 227..
आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ २२८॥
ākuñcitaṃ samaṃ caiva prasāritavivartane . udvāhitaṃ nataṃ caiva śayane karma kīrtyate .. 228..
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ २२९॥
sarvairākuñcitairaṅgaiḥ śayyāviddhe tu jānunī . sthānamākuñcitaṃ nāma śītārtānāṃ prayojayet .. 229..
उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ २३०॥
uttānitamukhaṃ caiva srastamuktakaraṃ tathā . samaṃ nāma prasuptasya sthānakaṃ saṃvidhīyate .. 230..
एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ २३१॥
ekaṃ bhujamupādhāya samprasāritajānukam . sthānaṃ prasāritaṃ nāma sukhasuptasya kārayet .. 231..
अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ २३२॥
adhomukhasthitaṃ caiva vivartitamiti smṛtam . śastrakṣatamṛtotkṣiptamattonmatteṣu kārayet .. 232..
अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥
aṃsopari śiraḥ kṛtvā karpūrakṣobhameva ca . udvāhitaṃ tu vijñeyaṃ līlayā veśane prabhoḥ .. 233..
ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥
īṣatprasārite jaṅghe yatra srastau karāvubhau . ālasyaśramakhedeṣu nataṃ sthānaṃ vidhīyate .. 234..
अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ २३३॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ २३४॥ गतिप्राचारस्तु मयोदितोऽयं नोक्तश्च यः सोऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ २३५॥
aṃsopari śiraḥ kṛtvā karpūrakṣobhameva ca . udvāhitaṃ tu vijñeyaṃ līlayā veśane prabhoḥ .. 233.. īṣatprasārite jaṅghe yatra srastau karāvubhau . ālasyaśramakhedeṣu nataṃ sthānaṃ vidhīyate .. 234.. gatiprācārastu mayodito'yaṃ noktaśca yaḥ so'rthavaśena sādhyaḥ . ataḥ paraṃ raṅgaparikramasya vakṣyāmi kakṣyāṃ pravibhāgayuktām .. 235..
॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशोऽध्यायः ॥
.. iti bharatīye nāṭyaśāstre gatipracāro nāma dvādaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In