| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २ ॥
॥ नाट्य-शास्त्रम् अध्याय- ॥
.. nāṭya-śāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः ।
अथ भारतीये नाट्य-शास्त्रे द्वितीयः अध्यायः ।
atha bhāratīye nāṭya-śāstre dvitīyaḥ adhyāyaḥ .
भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ १॥
भरतस्य वचः श्रुत्वा पप्रच्छुः मुनयः ततस् । भगवन् श्रोतुम् इच्छामः यजनम् रङ्ग-संश्रयम् ॥ १॥
bharatasya vacaḥ śrutvā papracchuḥ munayaḥ tatas . bhagavan śrotum icchāmaḥ yajanam raṅga-saṃśrayam .. 1..
अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥ २॥
अथ वा याः क्रियाः तत्र लक्षणम् यत् च पूजनम् । भविष्यद्भिः नरैः कार्यम् कथम् तत् नाट्य-वेश्मनि ॥ २॥
atha vā yāḥ kriyāḥ tatra lakṣaṇam yat ca pūjanam . bhaviṣyadbhiḥ naraiḥ kāryam katham tat nāṭya-veśmani .. 2..
इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ ३॥
इह आदिः नाट्य-योगस्य नाट्य-मण्डपः एव हि । तस्मात् तस्य एव तावत् त्वम् लक्षणम् वक्तुम् अर्हसि ॥ ३॥
iha ādiḥ nāṭya-yogasya nāṭya-maṇḍapaḥ eva hi . tasmāt tasya eva tāvat tvam lakṣaṇam vaktum arhasi .. 3..
तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥ ४॥
तेषाम् तु वचनम् श्रुत्वा मुनीनाम् भरतः अब्रवीत् । लक्षणम् पूजनम् च एव श्रूयताम् नाट्य-वेश्मनः ॥ ४॥
teṣām tu vacanam śrutvā munīnām bharataḥ abravīt . lakṣaṇam pūjanam ca eva śrūyatām nāṭya-veśmanaḥ .. 4..
दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । ( यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ॥) नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ ५॥
दिव्यानाम् मानसी सृष्टिः गृहेषु उपवनेषु च । ( यथा भाव-अभिनिर्वर्त्याः सर्वे भावाः तु मानुषाः ॥) नराणाम् यत्नतः कार्या लक्षण-अभिहिता क्रिया ॥ ५॥
divyānām mānasī sṛṣṭiḥ gṛheṣu upavaneṣu ca . ( yathā bhāva-abhinirvartyāḥ sarve bhāvāḥ tu mānuṣāḥ ..) narāṇām yatnataḥ kāryā lakṣaṇa-abhihitā kriyā .. 5..
श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ ६॥
श्रूयताम् तत् यथा यत्र कर्तव्यः नाट्य-मण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ ६॥
śrūyatām tat yathā yatra kartavyaḥ nāṭya-maṇḍapaḥ . tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ .. 6..
इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥ ७॥
इह प्रेक्ष्य गृहम् दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशः च शास्त्रतः परिकल्पितः ॥ ७॥
iha prekṣya gṛham dṛṣṭvā dhīmatā viśvakarmaṇā . trividhaḥ sanniveśaḥ ca śāstrataḥ parikalpitaḥ .. 7..
विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥ ८॥
विकृष्टः चतुर्-अश्रः च त्रि-अश्रः च एव तु मण्डपः । तेषाम् त्रीणि प्रमाणानि ज्येष्ठम् मध्यम् तथा अवरम् ॥ ८॥
vikṛṣṭaḥ catur-aśraḥ ca tri-aśraḥ ca eva tu maṇḍapaḥ . teṣām trīṇi pramāṇāni jyeṣṭham madhyam tathā avaram .. 8..
प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥ ९॥
प्रमाणम् एषाम् निर्दिष्टम् हस्त-दण्ड-समाश्रयम् । शतम् च अष्टौ चतुःषष्टिः हस्ताः द्वात्रिंशत् एव च ॥ ९॥
pramāṇam eṣām nirdiṣṭam hasta-daṇḍa-samāśrayam . śatam ca aṣṭau catuḥṣaṣṭiḥ hastāḥ dvātriṃśat eva ca .. 9..
अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥ १०॥
अष्ट-अधिकम् शतम् ज्येष्ठम् चतुःषष्टिः तु मध्यमम् । कनीयः तु तथा वेश्म हस्ताः द्वात्रिंशत् इष्यते ॥ १०॥
aṣṭa-adhikam śatam jyeṣṭham catuḥṣaṣṭiḥ tu madhyamam . kanīyaḥ tu tathā veśma hastāḥ dvātriṃśat iṣyate .. 10..
देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् ।शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ ११॥
देवानाम् तु भवेत् ज्येष्ठम् नृपाणाम् मध्यमम् भवेत् ।शेषाणाम् प्रकृतीनाम् तु कनीयः संविधीयते ॥ ११॥
devānām tu bhavet jyeṣṭham nṛpāṇām madhyamam bhavet .śeṣāṇām prakṛtīnām tu kanīyaḥ saṃvidhīyate .. 11..
(प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः ।सविकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥)
(प्रेक्षागृहाणाम् सर्वेषाम् प्रशस्तम् मध्यमम् स्मृतम् । तत्र पाठ्यम् च गेयम् च सुख-श्राव्यतरम् भवेत् ॥ प्रेक्षागृहाणाम् सर्वेषाम् त्रि-प्रकारः विधिः स्मृतः ।स विकृष्टः चतुर्-अस्रः च त्रि-अस्रः च एव प्रयोक्तृभिः ॥ कनीयः तु स्मृतम् त्रि-अस्रम् चतुर्-अस्रम् तु मध्यमम् । ज्येष्ठम् विकृष्टम् विज्ञेयम् नाट्य-वेद-प्रयोक्तृभिः ॥)
(prekṣāgṛhāṇām sarveṣām praśastam madhyamam smṛtam . tatra pāṭhyam ca geyam ca sukha-śrāvyataram bhavet .. prekṣāgṛhāṇām sarveṣām tri-prakāraḥ vidhiḥ smṛtaḥ .sa vikṛṣṭaḥ catur-asraḥ ca tri-asraḥ ca eva prayoktṛbhiḥ .. kanīyaḥ tu smṛtam tri-asram catur-asram tu madhyamam . jyeṣṭham vikṛṣṭam vijñeyam nāṭya-veda-prayoktṛbhiḥ ..)
प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा ।स प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ १२॥
प्रमाणम् यत् च निर्दिष्टम् लक्षणम् विश्वकर्मणा ।स प्रेक्षागृहाणाम् सर्वेषाम् तत् च एव हि निबोधत ॥ १२॥
pramāṇam yat ca nirdiṣṭam lakṣaṇam viśvakarmaṇā .sa prekṣāgṛhāṇām sarveṣām tat ca eva hi nibodhata .. 12..
अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ १३॥
अणुः रजः च वालः च लिक्षा यूका यवः तथा । अङ्गुलम् च तथा हस्तः दण्डः च एव प्रकीर्तितः ॥ १३॥
aṇuḥ rajaḥ ca vālaḥ ca likṣā yūkā yavaḥ tathā . aṅgulam ca tathā hastaḥ daṇḍaḥ ca eva prakīrtitaḥ .. 13..
अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥ १४॥
अणवः अष्टौ रजः प्रोक्तम् तानि अष्टौ वालः उच्यते । वालाः तु अष्टौ भवेत् लिक्षा यूकाः लिक्ष-अष्टकम् भवेत् ॥ १४॥
aṇavaḥ aṣṭau rajaḥ proktam tāni aṣṭau vālaḥ ucyate . vālāḥ tu aṣṭau bhavet likṣā yūkāḥ likṣa-aṣṭakam bhavet .. 14..
यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् । अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ १५॥
यूकाः तु अष्टौ यवः ज्ञेयः यवाः तु अष्टौ तथा अङ्गुलम् । अङ्गुलानि तथा हस्तः चतुर्विंशतिः उच्यते ॥ १५॥
yūkāḥ tu aṣṭau yavaḥ jñeyaḥ yavāḥ tu aṣṭau tathā aṅgulam . aṅgulāni tathā hastaḥ caturviṃśatiḥ ucyate .. 15..
चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ १६॥
चतुर्-हस्तः भवेत् दण्डः निर्दिष्टः तु प्रमाणतः । अनेन एव प्रमाणेन वक्ष्यामि एषाम् विनिर्णयम् ॥ १६॥
catur-hastaḥ bhavet daṇḍaḥ nirdiṣṭaḥ tu pramāṇataḥ . anena eva pramāṇena vakṣyāmi eṣām vinirṇayam .. 16..
चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥ १७॥
चतुःषष्टि-करान् कुर्यात् दीर्घ-त्वेन तु मण्डपम् । द्वात्रिंशतम् च यः भवेत् इह ॥ १७॥
catuḥṣaṣṭi-karān kuryāt dīrgha-tvena tu maṇḍapam . dvātriṃśatam ca yaḥ bhavet iha .. 17..
अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ १८॥
अतस् ऊर्ध्वम् न कर्तव्यः कर्तृभिः नाट्य-मण्डपः । यस्मात् अव्यक्त-भावम् हि तत्र नाट्यम् व्रजेत् इति ॥ १८॥
atas ūrdhvam na kartavyaḥ kartṛbhiḥ nāṭya-maṇḍapaḥ . yasmāt avyakta-bhāvam hi tatra nāṭyam vrajet iti .. 18..
मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥ १९॥
मण्डपे विप्रकृष्टे तु पाठ्यम् उच्चारित-स्वरम् । अ निस्सरण-धर्म-त्वात् विस्वर-त्वम् भृशम् व्रजेत् ॥ १९॥
maṇḍape viprakṛṣṭe tu pāṭhyam uccārita-svaram . a nissaraṇa-dharma-tvāt visvara-tvam bhṛśam vrajet .. 19..
यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः । स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् ॥ २०॥
यः च अपि आस्य-गतः भावः नाना दृष्टि-समन्वितः । स वेश्मनः प्रकृष्ट-त्वात् व्रजेत् अव्यक्त-ताम् पराम् ॥ २०॥
yaḥ ca api āsya-gataḥ bhāvaḥ nānā dṛṣṭi-samanvitaḥ . sa veśmanaḥ prakṛṣṭa-tvāt vrajet avyakta-tām parām .. 20..
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ २१॥
प्रेक्षागृहाणाम् सर्वेषाम् तस्मात् मध्यमम् इष्यते । यावत् पाठ्यम् च गेयम् च तत्र श्रव्यतरम् भवेत् ॥ २१॥
prekṣāgṛhāṇām sarveṣām tasmāt madhyamam iṣyate . yāvat pāṭhyam ca geyam ca tatra śravyataram bhavet .. 21..
[प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥) कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ]॥
[प्रेक्षागृहाणाम् सर्वेषाम् त्रि-प्रकारः विधिः स्मृतः । विकृष्टः चतुर्-अस्रः च त्रि-अस्रः च एव प्रयोक्तृभिः ॥) कनीयः तु स्मृतम् त्रि-अस्रम् चतुर्-अस्रम् तु मध्यमम् । ज्येष्ठम् विकृष्टम् विज्ञेयम् नाट्य-वेद-प्रयोक्तृभिः॥
[prekṣāgṛhāṇām sarveṣām tri-prakāraḥ vidhiḥ smṛtaḥ . vikṛṣṭaḥ catur-asraḥ ca tri-asraḥ ca eva prayoktṛbhiḥ ..) kanīyaḥ tu smṛtam tri-asram catur-asram tu madhyamam . jyeṣṭham vikṛṣṭam vijñeyam nāṭya-veda-prayoktṛbhiḥ..
देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥ २२॥
देवानाम् मानसी सृष्टिः गृहेषु उपवनेषु च । यत्न-भाव-अभिनिष्पन्नाः सर्वे भावाः हि मानुषा ॥ २२॥
devānām mānasī sṛṣṭiḥ gṛheṣu upavaneṣu ca . yatna-bhāva-abhiniṣpannāḥ sarve bhāvāḥ hi mānuṣā .. 22..
तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २३॥
तस्मात् देव-कृतैः भावैः न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ २३॥
tasmāt deva-kṛtaiḥ bhāvaiḥ na vispardheta mānuṣaḥ . mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam .. 23..
भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥ २४॥
भूमेः विभागम् पूर्वम् तु परीक्षेत प्रयोजक । ततस् वास्तु प्रमाणेन प्रारभेत शुभ-इच्छया ॥ २४॥
bhūmeḥ vibhāgam pūrvam tu parīkṣeta prayojaka . tatas vāstu pramāṇena prārabheta śubha-icchayā .. 24..
समा स्थिरा तु कठिनाअ कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ २५॥
समा स्थिरा तु कठिना अ कृष्णा गौरी च या भवेत् । भूमिः तत्र एव कर्तव्यः कर्तृभिः नाट्य-मण्डपः ॥ २५॥
samā sthirā tu kaṭhinā a kṛṣṇā gaurī ca yā bhavet . bhūmiḥ tatra eva kartavyaḥ kartṛbhiḥ nāṭya-maṇḍapaḥ .. 25..
प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥ २६॥
प्रथमम् शोधनम् कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थि-कील-कपालानि तृण-गुल्मान् च शोधयेत् ॥ २६॥
prathamam śodhanam kṛtvā lāṅgalena samutkṛṣet . asthi-kīla-kapālāni tṛṇa-gulmān ca śodhayet .. 26..
शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । ( त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ।, हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि ।) पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥ २७॥
शोधयित्वा वसुमतीम् प्रमाणम् निर्दिशेत् ततस् । ( त्रीणि उत्तराणि सौम्यम् च विशाखा अपि च रेवती ।, हस्ति-तिष्य-अनुराधाः च प्रशस्ताः नाट्य-कर्मणि ।) पुष्य-नक्षत्र-योगेन शुक्लम् सूत्रम् प्रसारयेत् ॥ २७॥
śodhayitvā vasumatīm pramāṇam nirdiśet tatas . ( trīṇi uttarāṇi saumyam ca viśākhā api ca revatī ., hasti-tiṣya-anurādhāḥ ca praśastāḥ nāṭya-karmaṇi .) puṣya-nakṣatra-yogena śuklam sūtram prasārayet .. 27..
कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥ २८॥
कार्पासम् बाल्बजम् वा अपि मौञ्जम् वाल्कलम् एव च । सूत्रम् बुधैः तु कर्तव्यम् यस्य छेदः न विद्यते ॥ २८॥
kārpāsam bālbajam vā api mauñjam vālkalam eva ca . sūtram budhaiḥ tu kartavyam yasya chedaḥ na vidyate .. 28..
अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते ॥ २९॥
अर्ध-छिन्ने भवेत् सूत्रे स्वामिनः मरणम् ध्रुवम् । त्रि-भाग-छिन्नया रज्वा राष्ट्र-कोपः विधीयते ॥ २९॥
ardha-chinne bhavet sūtre svāminaḥ maraṇam dhruvam . tri-bhāga-chinnayā rajvā rāṣṭra-kopaḥ vidhīyate .. 29..
छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥ ३०॥
छिन्नायाम् तु चतुर्-भागे प्रयोक्तुः नाशः उच्यते । हस्तात् प्रभ्रष्टया वा अपि कश्चिद् तु अपचयः भवेत् ॥ ३०॥
chinnāyām tu catur-bhāge prayoktuḥ nāśaḥ ucyate . hastāt prabhraṣṭayā vā api kaścid tu apacayaḥ bhavet .. 30..
तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ ३१॥
तस्मात् नित्यम् प्रयत्नेन रज्जु-ग्रहणम् इष्यते । कार्यम् च एव प्रयत्नेन मानम् नाट्य-गृहस्य तु ॥ ३१॥
tasmāt nityam prayatnena rajju-grahaṇam iṣyate . kāryam ca eva prayatnena mānam nāṭya-gṛhasya tu .. 31..
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥ ३२॥
मुहूर्तेन अनुकूलेन तिथ्या सु करणेन च । ब्राह्मणान् तर्पयित्वा तु पुण्याहम् वाचयेत् ततस् ॥ ३२॥
muhūrtena anukūlena tithyā su karaṇena ca . brāhmaṇān tarpayitvā tu puṇyāham vācayet tatas .. 32..
शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥ ३३॥
शान्ति-तोयम् ततस् दत्त्वा ततस् सूत्रम् प्रसारयेत् । चतुष्षष्टि-करान् कृत्वा द्विधा कुर्यात् पुनर् च तान् ॥ ३३॥
śānti-toyam tatas dattvā tatas sūtram prasārayet . catuṣṣaṣṭi-karān kṛtvā dvidhā kuryāt punar ca tān .. 33..
पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥ ३४॥
पृष्ठतस् यः भवेत् भागः द्विधा भूतस्य तस्य तु । समम् अर्ध-विभागेन रङ्ग-शीर्षम् प्रकल्पयेत् ॥ ३४॥
pṛṣṭhatas yaḥ bhavet bhāgaḥ dvidhā bhūtasya tasya tu . samam ardha-vibhāgena raṅga-śīrṣam prakalpayet .. 34..
पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥ ३५॥
पश्चिमे च विभागे अथ नेपथ्य-गृहम् आदिशेत् । विभज्य भागान् विधिवत् य-यथावत् अनुपूर्वशस् ॥ ३५॥
paścime ca vibhāge atha nepathya-gṛham ādiśet . vibhajya bhāgān vidhivat ya-yathāvat anupūrvaśas .. 35..
शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ ३६॥
शुभे नक्षत्र-योगे च मण्डपस्य निवेशनम् । शङ्ख-दुन्दुभि-निर्घोषैः मृदङ्ग-पणव-आदिभिः ॥ ३६॥
śubhe nakṣatra-yoge ca maṇḍapasya niveśanam . śaṅkha-dundubhi-nirghoṣaiḥ mṛdaṅga-paṇava-ādibhiḥ .. 36..
सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा ॥ ३७॥
सर्व-आतोद्यैः प्रणुदितैः स्थापनम् कार्यम् एव तु । उत्सार्याणि तु अनिष्टानि पाषण्डि-आश्रमिणः तथा ॥ ३७॥
sarva-ātodyaiḥ praṇuditaiḥ sthāpanam kāryam eva tu . utsāryāṇi tu aniṣṭāni pāṣaṇḍi-āśramiṇaḥ tathā .. 37..
काषायवसनाश्चैव विकलाश्चैअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥ ३८॥
काषाय-वसनाः च एव विकलाः ये नराः । निशायाम् च बलिः कार्या नाना भोजन-संयुतः ॥ ३८॥
kāṣāya-vasanāḥ ca eva vikalāḥ ye narāḥ . niśāyām ca baliḥ kāryā nānā bhojana-saṃyutaḥ .. 38..
गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥ ३९॥
गन्ध-पुष्प-फल-उपेताः दिशः दश समाश्रितः । पूर्वेण शुक्ल-अन्न-युतः नील-अन्नः दक्षिणेन च ॥ ३९॥
gandha-puṣpa-phala-upetāḥ diśaḥ daśa samāśritaḥ . pūrveṇa śukla-anna-yutaḥ nīla-annaḥ dakṣiṇena ca .. 39..
पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ ४०॥
पश्चिमेन बलिः पीतः रक्तः च एव उत्तरेण तु । यादृशम् दिशि यस्याम् तु दैवतम् परिकल्पितम् ॥ ४०॥
paścimena baliḥ pītaḥ raktaḥ ca eva uttareṇa tu . yādṛśam diśi yasyām tu daivatam parikalpitam .. 40..
तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ ४१॥
तादृशः तत्र दातव्यः बलिः मन्त्र-पुरस्कृतः । स्थापने ब्राह्मणेभ्यः च दातव्यम् घृत-पायसम् ॥ ४१॥
tādṛśaḥ tatra dātavyaḥ baliḥ mantra-puraskṛtaḥ . sthāpane brāhmaṇebhyaḥ ca dātavyam ghṛta-pāyasam .. 41..
मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ ४२॥
मधुपर्कः तथा राज्ञे कर्तृभ्यः च गुड-ओदनम् । नक्षत्रेण तु कर्तव्यम् मूलेन स्थापनम् बुधैः ॥ ४२॥
madhuparkaḥ tathā rājñe kartṛbhyaḥ ca guḍa-odanam . nakṣatreṇa tu kartavyam mūlena sthāpanam budhaiḥ .. 42..
मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ ४३॥
मुहूर्तेन अनुकूलेन तिथ्या सु करणेन च । एवम् तु स्थापनम् कृत्वा भित्ति-कर्म प्रयोजयेत् ॥ ४३॥
muhūrtena anukūlena tithyā su karaṇena ca . evam tu sthāpanam kṛtvā bhitti-karma prayojayet .. 43..
भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ ४४॥
भित्ति-कर्मणि निर्वृत्ते स्तम्भानाम् स्थापनम् ततस् । तिथि-नक्षत्र-योगेन शुभेन करणेन च ॥ ४४॥
bhitti-karmaṇi nirvṛtte stambhānām sthāpanam tatas . tithi-nakṣatra-yogena śubhena karaṇena ca .. 44..
स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥ ४५॥
स्तम्भानाम् स्थापनम् कार्यम् रोहिण्या श्रवणेन वा । आचार्येण सु युक्तेन त्रि-रात्र-उपोषितेन च ॥ ४५॥
stambhānām sthāpanam kāryam rohiṇyā śravaṇena vā . ācāryeṇa su yuktena tri-rātra-upoṣitena ca .. 45..
स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥ ४६॥
स्तम्भानाम् स्थापनम् कार्यम् प्राप्ते सूर्य-उदये शुभे । प्रथमे ब्राह्मण-स्तम्भे सर्पिः-सर्षप-संस्कृतः ॥ ४६॥
stambhānām sthāpanam kāryam prāpte sūrya-udaye śubhe . prathame brāhmaṇa-stambhe sarpiḥ-sarṣapa-saṃskṛtaḥ .. 46..
सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ ४७॥
सर्व-शुक्लः विधिः कार्यः दद्यात् पायसम् एव च । ततस् च क्षत्रिय-स्तम्भे वस्त्र-माल्य-अनुलेपनम् ॥ ४७॥
sarva-śuklaḥ vidhiḥ kāryaḥ dadyāt pāyasam eva ca . tatas ca kṣatriya-stambhe vastra-mālya-anulepanam .. 47..
सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ ४८॥
रक्तम् प्रदातव्यम् द्विजेभ्यः च गुड-ओदनम् । वैश्य-स्तम्भे विधिः कार्यः दिग्भागे पश्चिमोत्तरे ॥ ४८॥
raktam pradātavyam dvijebhyaḥ ca guḍa-odanam . vaiśya-stambhe vidhiḥ kāryaḥ digbhāge paścimottare .. 48..
सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ ४९॥
सर्वम् प्रीतम् प्रदातव्यम् द्विजेभ्यः च घृतौदनम् । शूद्र-स्तम्भे विधिः कार्यः सम्यक् पूर्व-उत्तर-आश्रये ॥ ४९॥
sarvam prītam pradātavyam dvijebhyaḥ ca ghṛtaudanam . śūdra-stambhe vidhiḥ kāryaḥ samyak pūrva-uttara-āśraye .. 49..
नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥ ५०॥
नील-प्रायम् प्रयत्नेन कूसरम् च द्विज-अशनम् । पूर्व-उक्त-ब्राह्मण-स्तम्भे शुक्ल-माल्य-अनुलेपने ॥ ५०॥
nīla-prāyam prayatnena kūsaram ca dvija-aśanam . pūrva-ukta-brāhmaṇa-stambhe śukla-mālya-anulepane .. 50..
निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ ५१॥
निक्षिपेत् कनकम् मूले कर्ण-आभरण-संश्रयम् । ताम्रम् च अधस् प्रदातव्यम् स्तम्भे क्षत्रिय-संज्ञके ॥ ५१॥
nikṣipet kanakam mūle karṇa-ābharaṇa-saṃśrayam . tāmram ca adhas pradātavyam stambhe kṣatriya-saṃjñake .. 51..
वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥ ५२॥
वैश्य-स्तम्भस्य मूले तु रजतम् सम्प्रदापयेत् । शूद्र-स्तम्भस्य मूले तु दद्यात् आयसम् एव च ॥ ५२॥
vaiśya-stambhasya mūle tu rajatam sampradāpayet . śūdra-stambhasya mūle tu dadyāt āyasam eva ca .. 52..
सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ ५३॥
सर्वेषु एव तु निक्षेप्यम् स्तम्भ-मूलेषु काञ्चनम् । स्वस्ति-पुण्य-अह-घोषेण जय-शब्देन च एव हि ॥ ५३॥
sarveṣu eva tu nikṣepyam stambha-mūleṣu kāñcanam . svasti-puṇya-aha-ghoṣeṇa jaya-śabdena ca eva hi .. 53..
स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥ ५४॥
स्तम्भानाम् स्थापनम् कार्यम् पुष्प-माला-पुरस्कृतम् । रत्न-दानैः स गो-दानैः वस्त्र-दानैः अनल्पकैः ॥ ५४॥
stambhānām sthāpanam kāryam puṣpa-mālā-puraskṛtam . ratna-dānaiḥ sa go-dānaiḥ vastra-dānaiḥ analpakaiḥ .. 54..
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥ ५५॥
ब्राह्मणान् तर्पयित्वा तु स्तम्भान् उत्थापयेत् ततस् । अचलम् च अपि अकम्पन् च तथा एव अ वलितम् पुनर् ॥ ५५॥
brāhmaṇān tarpayitvā tu stambhān utthāpayet tatas . acalam ca api akampan ca tathā eva a valitam punar .. 55..
स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥ ५६॥
स्तम्भस्य उत्थापने सम्यक् दोषाः हि एते प्रकीर्तिताः । अवृष्टिः उक्ता चलने वलने मृत्युतः भयम् ॥ ५६॥
stambhasya utthāpane samyak doṣāḥ hi ete prakīrtitāḥ . avṛṣṭiḥ uktā calane valane mṛtyutaḥ bhayam .. 56..
कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥ ५७॥
कम्पने पर-चक्रात् तु भयम् भवति दारुणम् । दोषैः एतैः विहीनम् तु स्तम्भम् उत्थापयेत् शिवम् ॥ ५७॥
kampane para-cakrāt tu bhayam bhavati dāruṇam . doṣaiḥ etaiḥ vihīnam tu stambham utthāpayet śivam .. 57..
पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥ ५८॥
पवित्रे ब्राह्मण-स्तम्भे दातव्या दक्षिणा च गौः । शेषाणाम् भोजनम् कार्यम् स्थापने कर्तृ-संश्रयम् ॥ ५८॥
pavitre brāhmaṇa-stambhe dātavyā dakṣiṇā ca gauḥ . śeṣāṇām bhojanam kāryam sthāpane kartṛ-saṃśrayam .. 58..
मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥ ५९॥
मन्त्र-पूतम् च तत् देयम् नाट्य-आचार्येण धीमता । पुरोहितम् नृपम् च एव भोजयेत् मधु-पायसैः ॥ ५९॥
mantra-pūtam ca tat deyam nāṭya-ācāryeṇa dhīmatā . purohitam nṛpam ca eva bhojayet madhu-pāyasaiḥ .. 59..
कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ ६०॥
कर्तॄन् आ अपि तथा सर्वान् कृसराम् लवण-उत्तराम् । सर्वम् एवम् विधिम् कृत्वा सर्व-आतोद्यैः प्रवादितैः ॥ ६०॥
kartṝn ā api tathā sarvān kṛsarām lavaṇa-uttarām . sarvam evam vidhim kṛtvā sarva-ātodyaiḥ pravāditaiḥ .. 60..
अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः । ' यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥ ६१॥
अभिमन्त्र्य यथान्यायम् स्तम्भान् उत्थापयेत् शुचिः । यथा अचलः गिरिः मेरुः हिमवान् च महा-बलः ॥ ६१॥
abhimantrya yathānyāyam stambhān utthāpayet śuciḥ . yathā acalaḥ giriḥ meruḥ himavān ca mahā-balaḥ .. 61..
जयावहो नरेन्द्रस्य तथा त्वमचलो भव ।' स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ ६२॥
जय-आवहः नरेन्द्रस्य तथा त्वम् अचलः भव ।स्तम्भ-द्वारम् च भित्तिम् च नेपथ्य-गृहम् एव च ॥ ६२॥
jaya-āvahaḥ narendrasya tathā tvam acalaḥ bhava .stambha-dvāram ca bhittim ca nepathya-gṛham eva ca .. 62..
एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ ६३॥
एवम् उत्थापय इतद्-ज्ञः विधि-दृष्टेन कर्मणा । रङ्ग-पीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ ६३॥
evam utthāpaya itad-jñaḥ vidhi-dṛṣṭena karmaṇā . raṅga-pīṭhasya pārśve tu kartavyā mattavāraṇī .. 63..
चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥ ६४॥
चतु-स्तम्भ-समायुक्ताः रङ्ग-पीठ-प्रमाणतः । अध्यर्ध-हस्त-उत्सेधेन कर्तव्या मत्तवारणी ॥ ६४॥
catu-stambha-samāyuktāḥ raṅga-pīṭha-pramāṇataḥ . adhyardha-hasta-utsedhena kartavyā mattavāraṇī .. 64..
उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ ६५॥
उत्सेधेन तयोः तुल्यम् कर्तव्यम् रङ्गमण्डपम् । तस्याम् माल्यम् च धूपम् च गन्धम् वस्त्रम् तथा एव च ॥ ६५॥
utsedhena tayoḥ tulyam kartavyam raṅgamaṇḍapam . tasyām mālyam ca dhūpam ca gandham vastram tathā eva ca .. 65..
नानावर्णानि देयानि तथा भूतप्रियो बलिः । आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥ ६६॥
नाना वर्णानि देयानि तथा भूत-प्रियः बलिः । आयसम् तत्र दातव्यम् स्तम्भानाम् कुशैलैः अधस् ॥ ६६॥
nānā varṇāni deyāni tathā bhūta-priyaḥ baliḥ . āyasam tatra dātavyam stambhānām kuśailaiḥ adhas .. 66..
भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् । एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ ६७॥
भोजने कृसराः च एव दातव्यम् ब्राह्मण-अशनम् । एवम् विधि-पुरस्कारैः कर्तव्या मत्तवारणी ॥ ६७॥
bhojane kṛsarāḥ ca eva dātavyam brāhmaṇa-aśanam . evam vidhi-puraskāraiḥ kartavyā mattavāraṇī .. 67..
रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥ ६८॥
रङ्ग-पीठम् ततस् कार्यम् विधि-दृष्टेण कर्मणा । रङ्ग-शीर्षः तु कर्तव्यम् षष्-दारुक-समन्वितम् ॥ ६८॥
raṅga-pīṭham tatas kāryam vidhi-dṛṣṭeṇa karmaṇā . raṅga-śīrṣaḥ tu kartavyam ṣaṣ-dāruka-samanvitam .. 68..
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ ६९॥
कार्यम् द्वार-द्वयम् च अत्र नेपथ्य-गृहकस्य तु । पूरणे मृत्तिका च अत्र कृष्णा देया प्रयत्नतः ॥ ६९॥
kāryam dvāra-dvayam ca atra nepathya-gṛhakasya tu . pūraṇe mṛttikā ca atra kṛṣṇā deyā prayatnataḥ .. 69..
लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥ ७०॥
लाङ्गलेन समुत्कृष्य निर्लोष्ट-तृण-शर्करम् । लाङ्गले तु धुर्यौ योज्यौ प्रयत्नतः ॥ ७०॥
lāṅgalena samutkṛṣya nirloṣṭa-tṛṇa-śarkaram . lāṅgale tu dhuryau yojyau prayatnataḥ .. 70..
कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः । अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥ ७१॥
कर्तारः पुरुषः च अत्र ये अङ्ग-दोष-विविर्जिताः । अहीन-अङ्गैः च वोढव्या मृत्तिका पिटकैः नवैः ॥ ७१॥
kartāraḥ puruṣaḥ ca atra ye aṅga-doṣa-vivirjitāḥ . ahīna-aṅgaiḥ ca voḍhavyā mṛttikā piṭakaiḥ navaiḥ .. 71..
एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ ७२॥
एवंविधैः प्रकर्तव्यम् रङ्ग-शीर्षम् प्रयत्नतः । कूर्म-पृष्ठम् न कर्तव्यम् मत्स्य-पृष्ठम् तथा एव च ॥ ७२॥
evaṃvidhaiḥ prakartavyam raṅga-śīrṣam prayatnataḥ . kūrma-pṛṣṭham na kartavyam matsya-pṛṣṭham tathā eva ca .. 72..
शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ ७३॥
शुद्ध-आदर्श-तल-आकारम् रङ्ग-शीर्षम् प्रशस्यते । रत्नानि च अत्र देयानि पूर्वे वज्रम् विचक्षणैः ॥ ७३॥
śuddha-ādarśa-tala-ākāram raṅga-śīrṣam praśasyate . ratnāni ca atra deyāni pūrve vajram vicakṣaṇaiḥ .. 73..
वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ ७४॥
वैडूर्यम् दक्षिणे पार्श्वे स्फटिकम् पश्चिमे तथा । प्रवालम् उत्तरे च एव मध्ये तु कनकम् भवेत् ॥ ७४॥
vaiḍūryam dakṣiṇe pārśve sphaṭikam paścime tathā . pravālam uttare ca eva madhye tu kanakam bhavet .. 74..
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् । ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥ ७५॥
एवम् रङ्ग-शिरः कृत्वा दारु-कर्म प्रयोजयेत् । ऊह-प्रत्यूह-संयुक्तः नाना शिल्प-प्रयोजितम् ॥ ७५॥
evam raṅga-śiraḥ kṛtvā dāru-karma prayojayet . ūha-pratyūha-saṃyuktaḥ nānā śilpa-prayojitam .. 75..
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ ७६॥
नाना सञ्जवन-उपेतम् बहु-व्याल-उपशोभितम् । स सालभञ्जिकाभिः च समन्तात् समलङ्कृतम् ॥ ७६॥
nānā sañjavana-upetam bahu-vyāla-upaśobhitam . sa sālabhañjikābhiḥ ca samantāt samalaṅkṛtam .. 76..
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥ ७७॥
निर्व्यूह-कुहर-उपेतम् नाना ग्रथित-वेदिकम् । नाना विन्यास-संयुक्तम् चित्र-जाल-गवाक्षकम् ॥ ७७॥
nirvyūha-kuhara-upetam nānā grathita-vedikam . nānā vinyāsa-saṃyuktam citra-jāla-gavākṣakam .. 77..
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ ७८॥
। नाना कुट्टिम-विन्यस्तैः स्तम्भैः च अपि उपशोभितम् ॥ ७८॥
. nānā kuṭṭima-vinyastaiḥ stambhaiḥ ca api upaśobhitam .. 78..
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ ७९॥
एवम् काष्ठ-विधिम् कृत्वा भित्ति-कर्म प्रयोजयेत् । स्तम्भम् वा नागदन्तम् वा वातायनम् अथ अपि वा ॥ ७९॥
evam kāṣṭha-vidhim kṛtvā bhitti-karma prayojayet . stambham vā nāgadantam vā vātāyanam atha api vā .. 79..
कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ ८०॥
कोणम् वा स प्रतिद्वारम् द्वार-विद्धम् न कारयेत् । कार्यः शैल-गुहा-आकारः द्वि-भूमिः नाट्य-मण्डपः ॥ ८०॥
koṇam vā sa pratidvāram dvāra-viddham na kārayet . kāryaḥ śaila-guhā-ākāraḥ dvi-bhūmiḥ nāṭya-maṇḍapaḥ .. 80..
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ ८१॥
मन्द-वातायन-उपेतः निर्वातः धीर-शब्दवान् । तस्मात् निवातः कर्तव्यः कर्तृभिः नाट्य-मण्डपः ॥ ८१॥
manda-vātāyana-upetaḥ nirvātaḥ dhīra-śabdavān . tasmāt nivātaḥ kartavyaḥ kartṛbhiḥ nāṭya-maṇḍapaḥ .. 81..
गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ ८२॥
गम्भीर-स्वर-ता येन कुतपस्य भविष्यति । भित्ति-कर्म-विधिम् कृत्वा भित्ति-लेपम् प्रदापयेत् ॥ ८२॥
gambhīra-svara-tā yena kutapasya bhaviṣyati . bhitti-karma-vidhim kṛtvā bhitti-lepam pradāpayet .. 82..
सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ ८३॥
सुधा-कर्म बहिस् तस्य विधातव्यम् प्रयत्नतः । भित्तिषु अथ विलिप्तासु परिमृष्टासु सर्वतस् ॥ ८३॥
sudhā-karma bahis tasya vidhātavyam prayatnataḥ . bhittiṣu atha viliptāsu parimṛṣṭāsu sarvatas .. 83..
समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥ ८४॥
समासु जात-शोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि च आलेख्याः पुरुषाः स्री-जनाः तथा ॥ ८४॥
samāsu jāta-śobhāsu citrakarma prayojayet . citrakarmaṇi ca ālekhyāḥ puruṣāḥ srī-janāḥ tathā .. 84..
लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् । एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ ८५॥
लताबन्धाः च कर्तव्याः चरितम् । एवम् विकृष्टम् कर्तव्यम् नाट्य-वेश्म प्रयोक्तृभिः ॥ ८५॥
latābandhāḥ ca kartavyāḥ caritam . evam vikṛṣṭam kartavyam nāṭya-veśma prayoktṛbhiḥ .. 85..
पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥ ८६॥
पुनर् एव हि वक्ष्यामि चतुर्-अश्रस्य लक्षणम् । समन्ततः च कर्तव्याः हस्ताः द्वात्रिंशत् एव तु ॥ ८६॥
punar eva hi vakṣyāmi catur-aśrasya lakṣaṇam . samantataḥ ca kartavyāḥ hastāḥ dvātriṃśat eva tu .. 86..
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥ ८७॥
शुभ-भूमि-विभाग-स्थः नाट्य-ज्ञैः नाट्य-मण्डपः । यः विधिः पूर्वम् उक्तः तु लक्षणम् मङ्गलानि च ॥ ८७॥
śubha-bhūmi-vibhāga-sthaḥ nāṭya-jñaiḥ nāṭya-maṇḍapaḥ . yaḥ vidhiḥ pūrvam uktaḥ tu lakṣaṇam maṅgalāni ca .. 87..
विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ ८८॥
विकृष्टे तानि अशेषाणि चतुर्-अश्रे अपि कारयेत् । चतुर्-अश्रम् समम् कृत्वा सूत्रेण प्रविभज्य च ॥ ८८॥
vikṛṣṭe tāni aśeṣāṇi catur-aśre api kārayet . catur-aśram samam kṛtvā sūtreṇa pravibhajya ca .. 88..
बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ ८९॥
बाह्यतस् सर्वतस् कार्या भित्तिः श्लिष्ट-इष्टका दृढा । तत्र अभ्यन्तरतस् कार्याः रङ्ग-पीठ-उपरि स्थिताः ॥ ८९॥
bāhyatas sarvatas kāryā bhittiḥ śliṣṭa-iṣṭakā dṛḍhā . tatra abhyantaratas kāryāḥ raṅga-pīṭha-upari sthitāḥ .. 89..
दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥ ९०॥
दश प्रयोक्तृभिः स्तम्भाः शक्ताः मण्डप-धारणे । स्तम्भानाम् बाह्यतस् च अपि सोपान-आकृति पीठकम् ॥ ९०॥
daśa prayoktṛbhiḥ stambhāḥ śaktāḥ maṇḍapa-dhāraṇe . stambhānām bāhyatas ca api sopāna-ākṛti pīṭhakam .. 90..
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ ९१॥
इष्टका-दारुभिः कार्यम् प्रेक्षकाणाम् निवेशनम् । हस्त-प्रमाणैः उत्सेधैः भूमि-भाग-समुत्थितैः ॥ ९१॥
iṣṭakā-dārubhiḥ kāryam prekṣakāṇām niveśanam . hasta-pramāṇaiḥ utsedhaiḥ bhūmi-bhāga-samutthitaiḥ .. 91..
रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥ ९२॥
रङ्ग-पीठ-अवलोक्यम् तु कुर्यात् आसन-जम् विधिम् । षष् अन्य-अनन्तरे च एव पुनर् स्तम्भान् यथादिशम् ॥ ९२॥
raṅga-pīṭha-avalokyam tu kuryāt āsana-jam vidhim . ṣaṣ anya-anantare ca eva punar stambhān yathādiśam .. 92..
विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे । अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ ९३॥
विधिना स्थापयेत अज्ञः दृढान् मण्डप-धारणे । अष्टौ स्तम्भान् पुनर् च एव तेषाम् उपरि कल्पयेत् ॥ ९३॥
vidhinā sthāpayeta ajñaḥ dṛḍhān maṇḍapa-dhāraṇe . aṣṭau stambhān punar ca eva teṣām upari kalpayet .. 93..
स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥ ९४॥
स्थाप्यम् च एव ततस् पीठम् अष्ट-हस्त-प्रमाणतः । विद्ध-आस्यम् अष्ट-हस्तम् च पीठम् तेषु ततस् न्यसेत् ॥ ९४॥
sthāpyam ca eva tatas pīṭham aṣṭa-hasta-pramāṇataḥ . viddha-āsyam aṣṭa-hastam ca pīṭham teṣu tatas nyaset .. 94..
तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥ ९५॥
तत्र स्तम्भाः प्रदातव्याः तद्-ज्ञैः मण्डप-धारणे । धारणी-धारणाः ते च शाल-स्त्रीभिः अलङ्कृताः ॥ ९५॥
tatra stambhāḥ pradātavyāḥ tad-jñaiḥ maṇḍapa-dhāraṇe . dhāraṇī-dhāraṇāḥ te ca śāla-strībhiḥ alaṅkṛtāḥ .. 95..
नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥ ९६॥
नेपथ्य-गृहकम् च एव ततस् कार्यम् प्रयत्नतः । द्वारम् च एकम् भवेत् तत्र रङ्ग-पीठ-प्रवेशनम् ॥ ९६॥
nepathya-gṛhakam ca eva tatas kāryam prayatnataḥ . dvāram ca ekam bhavet tatra raṅga-pīṭha-praveśanam .. 96..
जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ ९७॥
जन-प्रवेशनम् च अन्यत् आभिमुख्येन कारयेत् । रङ्गस्य अभिमुखम् कार्यम् द्वितीयम् द्वारम् एव तु ॥ ९७॥
jana-praveśanam ca anyat ābhimukhyena kārayet . raṅgasya abhimukham kāryam dvitīyam dvāram eva tu .. 97..
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥ ९८॥
अष्ट-हस्तम् तु कर्तव्यम् रङ्ग-पीठम् प्रमाणतः । चतुरश्रम् सम-तलम् वेदिका-समलङ्कृतम् ॥ ९८॥
aṣṭa-hastam tu kartavyam raṅga-pīṭham pramāṇataḥ . caturaśram sama-talam vedikā-samalaṅkṛtam .. 98..
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ ९९॥
पूर्व-प्रमाण-निर्दिष्टा कर्तव्या मत्तवारणी । चतुर्-स्तम्भ-समायुक्ता वेदिकायाः तु पार्श्वतस् ॥ ९९॥
pūrva-pramāṇa-nirdiṣṭā kartavyā mattavāraṇī . catur-stambha-samāyuktā vedikāyāḥ tu pārśvatas .. 99..
समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥ १००॥
समुन्नतम् समम् च एव रङ्ग-शीर्षम् तु कारयेत् । विकृष्टे तु उन्नतम् कार्यम् चतुर्-अश्रे समम् तथा ॥ १००॥
samunnatam samam ca eva raṅga-śīrṣam tu kārayet . vikṛṣṭe tu unnatam kāryam catur-aśre samam tathā .. 100..
एवमेतेन विधिना चतुरश्रं गृहं भवेत् । अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ १०१॥
एवम् एतेन विधिना चतुर्-अश्रम् गृहम् भवेत् । अतस् परम् प्रवक्ष्यामि त्रि-अश्र-गेहस्य लक्षणम् ॥ १०१॥
evam etena vidhinā catur-aśram gṛham bhavet . atas param pravakṣyāmi tri-aśra-gehasya lakṣaṇam .. 101..
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ १०२॥
त्रि-अश्रम् त्रि-कोणम् कर्तव्यम् नाट्य-वेश्म-प्रयोक्तृभिः । मध्ये त्रि-कोणम् एव अस्य रङ्ग-पीठम् तु कारयेत् ॥ १०२॥
tri-aśram tri-koṇam kartavyam nāṭya-veśma-prayoktṛbhiḥ . madhye tri-koṇam eva asya raṅga-pīṭham tu kārayet .. 102..
द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ १०३॥
द्वारम् तैन एव कोणेन कर्तव्यम् तस्य वेश्मनः । द्वितीयम् च एव कर्तव्यम् रङ्ग-पीठस्य पृष्ठतस् ॥ १०३॥
dvāram taina eva koṇena kartavyam tasya veśmanaḥ . dvitīyam ca eva kartavyam raṅga-pīṭhasya pṛṣṭhatas .. 103..
विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ १०४॥
विधिः यः चतुर्-अश्रस्य भित्ति-स्तम्भ-समाश्रयः । स तु सर्वः प्रयोक्तव्यः त्रि-अश्रस्य अपि प्रयोक्तृभिः ॥ १०४॥
vidhiḥ yaḥ catur-aśrasya bhitti-stambha-samāśrayaḥ . sa tu sarvaḥ prayoktavyaḥ tri-aśrasya api prayoktṛbhiḥ .. 104..
एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥ १०५॥
एवम् एतेन विधिना कार्याः नाट्य-गृहाः बुधैः । पुनर् एषाम् प्रवक्ष्यामि पूजाम् एवम् यथा विधिः ॥ १०५॥
evam etena vidhinā kāryāḥ nāṭya-gṛhāḥ budhaiḥ . punar eṣām pravakṣyāmi pūjām evam yathā vidhiḥ .. 105..
इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः ॥
इति भारतीये नाट्यशास्त्रे मण्डपविधानः नाम द्वितीयः अध्यायः ॥
iti bhāratīye nāṭyaśāstre maṇḍapavidhānaḥ nāma dvitīyaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In