| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ११ ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥
एताः च आर्यः मया प्रोक्ताः यथावत् शस्त्र-मोक्षणे । चारी-संयोग-जानि इह मण्डलानि निबोधत ॥ १॥
etāḥ ca āryaḥ mayā proktāḥ yathāvat śastra-mokṣaṇe . cārī-saṃyoga-jāni iha maṇḍalāni nibodhata .. 1..
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥
अतिक्रान्तम् विचित्रम् च तथा ललित-सञ्चरम् । सूची-विद्धम् दण्ड-पादम् विहृत-अलातके तथा ॥ २॥
atikrāntam vicitram ca tathā lalita-sañcaram . sūcī-viddham daṇḍa-pādam vihṛta-alātake tathā .. 2..
वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥
वाम-बन्धम् स ललितम् क्रान्तम् च आकाश-गामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमि-गानि निबोधत ॥ ३॥
vāma-bandham sa lalitam krāntam ca ākāśa-gāmi ca . maṇḍalāni dvijaśreṣṭhāḥ ! bhūmi-gāni nibodhata .. 3..
भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥
भ्रमर-आस्कन्दिते स्याताम् आवर्तम् च ततस् परम् । समाक्रन्दितम् अपि आहुः एडकाक्रीडितम् तथा ॥ ४॥
bhramara-āskandite syātām āvartam ca tatas param . samākranditam api āhuḥ eḍakākrīḍitam tathā .. 4..
अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥
अड्डितम् शकट-आस्यम् च तथा अध्यर्धकम् एव च । पिष्टकुट्टम् च विज्ञेयम् तथा चाष-गतम् पुनर् ॥ ५॥
aḍḍitam śakaṭa-āsyam ca tathā adhyardhakam eva ca . piṣṭakuṭṭam ca vijñeyam tathā cāṣa-gatam punar .. 5..
एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥
एतानि अपि दश उक्तानि भूमि-गानि इह नामतः । आद्यम् पादम् च जनितम् कृत्वा उद्वाहितम् आचरेत् ॥ ६॥
etāni api daśa uktāni bhūmi-gāni iha nāmataḥ . ādyam pādam ca janitam kṛtvā udvāhitam ācaret .. 6..
अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥
अलातम् वामकम् च एव पार्श्वक्रान्तम् च दक्षिणम् । सूची-वामम् पुनर् च एव पार्श्व-क्रान्तम् च दक्षिणम् ॥ ७॥
alātam vāmakam ca eva pārśvakrāntam ca dakṣiṇam . sūcī-vāmam punar ca eva pārśva-krāntam ca dakṣiṇam .. 7..
सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥
सूचीम् वाम-क्रमम् दद्यात् अपक्रान्तम् च दक्षिणम् । सूची-वामम् पुनर् च एव त्रिकम् च परिवर्तयेत् ॥ ८॥
sūcīm vāma-kramam dadyāt apakrāntam ca dakṣiṇam . sūcī-vāmam punar ca eva trikam ca parivartayet .. 8..
तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥
तथा दक्षिणम् उद्वृत्तम् अलातम् च एव वामकम् । परिच्छिन्नम् तु कर्तव्यम् बाह्य-भ्रमरकेण हि ॥ ९॥
tathā dakṣiṇam udvṛttam alātam ca eva vāmakam . paricchinnam tu kartavyam bāhya-bhramarakeṇa hi .. 9..
अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥
अतिक्रान्तम् पुनर् वामम् दण्ड-पादम् च दक्षिणम् । विज्ञेयम् एतत् व्यायामे तु अतिक्रान्तम् तु मण्डलम् ॥ १०॥
atikrāntam punar vāmam daṇḍa-pādam ca dakṣiṇam . vijñeyam etat vyāyāme tu atikrāntam tu maṇḍalam .. 10..
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥
आद्यम् तु जनितम् कृत्वा तेन एव च निकुट्टकम् । आस्पन्दितम् तु वामेन पार्श्व-क्रान्तम् च दक्षिणम् ॥ ११॥
ādyam tu janitam kṛtvā tena eva ca nikuṭṭakam . āspanditam tu vāmena pārśva-krāntam ca dakṣiṇam .. 11..
वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥
वामम् सूची-पदम् दद्यात् अपक्रान्तम् च दक्षिणम् । भुजङ्ग-त्रासितम् वामम् अतिक्रान्तम् च दक्षिणम् ॥ १२॥
vāmam sūcī-padam dadyāt apakrāntam ca dakṣiṇam . bhujaṅga-trāsitam vāmam atikrāntam ca dakṣiṇam .. 12..
उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥
उद्वृत्तम् दक्षिणम् च एव अलातम् च एव अत्र वामकम् । पार्श्व-क्रान्तम् पुनर् सव्यम् सूची-वाम-क्रमम् तथा ॥ १३॥
udvṛttam dakṣiṇam ca eva alātam ca eva atra vāmakam . pārśva-krāntam punar savyam sūcī-vāma-kramam tathā .. 13..
विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥
विक्षेपः दक्षिणस्य स्यात् अपक्रान्तम् च वामकम् । बाह्य-भ्रमरकम् च एव विक्षेपम् च एव योजयेत् ॥ १४॥
vikṣepaḥ dakṣiṇasya syāt apakrāntam ca vāmakam . bāhya-bhramarakam ca eva vikṣepam ca eva yojayet .. 14..
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥
विज्ञेयम् एतत् व्यायामे विचित्रम् नाम मण्डलम् । कृत्वा ऊर्ध्व-जानु-चरणम् आद्यम् सूचीम् प्रयोजयेत् ॥ १५॥
vijñeyam etat vyāyāme vicitram nāma maṇḍalam . kṛtvā ūrdhva-jānu-caraṇam ādyam sūcīm prayojayet .. 15..
अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥
अपक्रान्तः पुनर् वामः आद्यः पार्श्व-गतः भवेत् । वाम-सूचीम् पुनर् दद्यात् त्रिकम् च परिवर्तयेत् ॥ १६॥
apakrāntaḥ punar vāmaḥ ādyaḥ pārśva-gataḥ bhavet . vāma-sūcīm punar dadyāt trikam ca parivartayet .. 16..
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥
पार्श्व-क्रान्तम् पुनर् च आद्यम् अतिक्रान्तम् च वामकम् । सूची-वाम-क्रमम् कृत्वा हि अपक्रान्तः च वामकम् ॥ १७॥
pārśva-krāntam punar ca ādyam atikrāntam ca vāmakam . sūcī-vāma-kramam kṛtvā hi apakrāntaḥ ca vāmakam .. 17..
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥
पार्श्व-क्रान्तम् पुनर् च आद्यम् अतिक्रान्तम् च वामकम् । परिच्छिन्नम् च कर्तव्यम् बाह्य-भ्रमणकेन हि ॥ १८॥
pārśva-krāntam punar ca ādyam atikrāntam ca vāmakam . paricchinnam ca kartavyam bāhya-bhramaṇakena hi .. 18..
एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥
एष चारी-प्रयोगः तु कार्यः ललित-सञ्चरैः । सूची-वाम-पदम् दद्यात् त्रिकम् च परिवर्तयेत् ॥ १९॥
eṣa cārī-prayogaḥ tu kāryaḥ lalita-sañcaraiḥ . sūcī-vāma-padam dadyāt trikam ca parivartayet .. 19..
पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥
पार्श्व-क्रान्तः पुनर् च आद्यः वामः अतिक्रान्तः एव च । सूचीम् आद्यम् पुनर् दद्यात् अतिक्रान्तम् च वामकम् ॥ २०॥
pārśva-krāntaḥ punar ca ādyaḥ vāmaḥ atikrāntaḥ eva ca . sūcīm ādyam punar dadyāt atikrāntam ca vāmakam .. 20..
पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥
पार्श्व-क्रान्तम् पुनर् च आद्यम् सूची-विद्धे तु मण्डले । आद्यः तु जनितः भूत्वा स च दण्डक्रमः भवेत् ॥ २१॥
pārśva-krāntam punar ca ādyam sūcī-viddhe tu maṇḍale . ādyaḥ tu janitaḥ bhūtvā sa ca daṇḍakramaḥ bhavet .. 21..
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥
वाम-सूचीम् पुनर् दद्यात् त्रिकम् च परिवर्तयेत् । उद्वृत्तः दक्षिणः च स्यात् अलातः च एव वामकः ॥ २२॥
vāma-sūcīm punar dadyāt trikam ca parivartayet . udvṛttaḥ dakṣiṇaḥ ca syāt alātaḥ ca eva vāmakaḥ .. 22..
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥
पार्श्वक्रान्तः पुनर् च आद्यः भुजङ्ग-त्रासितः तथा । अतिक्रान्तः पुनर् वामः दण्ड-पादः च दक्षिणः ॥ २३॥
pārśvakrāntaḥ punar ca ādyaḥ bhujaṅga-trāsitaḥ tathā . atikrāntaḥ punar vāmaḥ daṇḍa-pādaḥ ca dakṣiṇaḥ .. 23..
वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥
वाम-सूची-त्रिक-आवर्तः दण्ड-पादे तु मण्डले । आद्यम् तु जनितम् कृत्वा तेन एव च निकुट्टकम् ॥ २४॥
vāma-sūcī-trika-āvartaḥ daṇḍa-pāde tu maṇḍale . ādyam tu janitam kṛtvā tena eva ca nikuṭṭakam .. 24..
आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥
आस्पन्दितम् च वामेन हि उद्वृत्तम् दक्षिणेन च । अलातम् वामकम् पादम् सूचीम् दद्यात् तु दक्षिणम् ॥ २५॥
āspanditam ca vāmena hi udvṛttam dakṣiṇena ca . alātam vāmakam pādam sūcīm dadyāt tu dakṣiṇam .. 25..
पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥
पार्श्व-क्रान्तः पुनर् वामः आक्षिप्तः दक्षिणः तथा । समावर्त्य त्रिकम् च एव दण्ड-पादम् प्रसारयेत् ॥ २६॥
pārśva-krāntaḥ punar vāmaḥ ākṣiptaḥ dakṣiṇaḥ tathā . samāvartya trikam ca eva daṇḍa-pādam prasārayet .. 26..
सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥
सूची-वाम-पदम् दद्यात् त्रिकम् तु परिवर्तयेत् । भुजङ्ग-त्रासितः च आद्यः वामः अतिक्रान्तः एव च ॥ २७॥
sūcī-vāma-padam dadyāt trikam tu parivartayet . bhujaṅga-trāsitaḥ ca ādyaḥ vāmaḥ atikrāntaḥ eva ca .. 27..
एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥
एष चारी-प्रयोगः तु विहृते मण्डले भवेत् । सूचीम् आद्य-क्रमम् कृत्वा च अ अपक्रान्तम् च वामकम् ॥ २८॥
eṣa cārī-prayogaḥ tu vihṛte maṇḍale bhavet . sūcīm ādya-kramam kṛtvā ca a apakrāntam ca vāmakam .. 28..
पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥
पार्श्वक्रान्तः ततस् च आद्यः अपि अलातः च एव वामकः । भ्रान्त्वा चारीभिः एताभिः पर्यायेण अथ मण्डलम् ॥ २९॥
pārśvakrāntaḥ tatas ca ādyaḥ api alātaḥ ca eva vāmakaḥ . bhrāntvā cārībhiḥ etābhiḥ paryāyeṇa atha maṇḍalam .. 29..
षट्सङ्ख्यं सप्तसङ्ख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥
षष्-सङ्ख्यम् सप्त-सङ्ख्यम् च ललितैः पाद-विक्रमैः । अधिकुर्यात् अपक्रान्तम् अतिक्रान्तम् च वामकम् ॥ ३०॥
ṣaṣ-saṅkhyam sapta-saṅkhyam ca lalitaiḥ pāda-vikramaiḥ . adhikuryāt apakrāntam atikrāntam ca vāmakam .. 30..
अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥
अपक्रन्तः पुनर् च आद्यः वामः अतिक्रान्तः एव च । पादभ्रमरकः च स्यात् अलाते खलु मण्डले ॥ ३१॥
apakrantaḥ punar ca ādyaḥ vāmaḥ atikrāntaḥ eva ca . pādabhramarakaḥ ca syāt alāte khalu maṇḍale .. 31..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥
सूचीम् आद्य-क्रमम् कृत्वा हि अपक्रान्तम् च वामकम् । आद्यः दण्ड-क्रमः च एव सूचीपादः तु वामकः ॥ ३२॥
sūcīm ādya-kramam kṛtvā hi apakrāntam ca vāmakam . ādyaḥ daṇḍa-kramaḥ ca eva sūcīpādaḥ tu vāmakaḥ .. 32..
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥
कार्यः त्रिक-विवर्तः च पार्श्व-क्रान्तः च दक्षिणः । आक्षिप्तम् वामकम् कुर्यात् दण्ड-पार्श्वम् च दक्षिणम् ॥ ३३॥
kāryaḥ trika-vivartaḥ ca pārśva-krāntaḥ ca dakṣiṇaḥ . ākṣiptam vāmakam kuryāt daṇḍa-pārśvam ca dakṣiṇam .. 33..
उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥
उरु-द्वृत्तम् च तेन एव कर्तव्यम् दक्षिणेन तु । सूची-वाम-क्रमम् कृत्वा त्रिकम् च परिवर्तयेत् ॥ ३४॥
uru-dvṛttam ca tena eva kartavyam dakṣiṇena tu . sūcī-vāma-kramam kṛtvā trikam ca parivartayet .. 34..
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥
अलातः च भवेत् वामः पार्श्व-क्रान्तः च दक्षिणः । अतिक्रान्तः पुनर् वामः वाम-बन्धे तु मण्डले ॥ ३५॥
alātaḥ ca bhavet vāmaḥ pārśva-krāntaḥ ca dakṣiṇaḥ . atikrāntaḥ punar vāmaḥ vāma-bandhe tu maṇḍale .. 35..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥
सूचीम् आद्य-क्रमम् कृत्वा हि अपक्रान्तम् च वामकम् । पार्श्व-क्रान्तः पुनर् च आद्यः भुजङ्ग-त्रासितः स च ॥ ३६॥
sūcīm ādya-kramam kṛtvā hi apakrāntam ca vāmakam . pārśva-krāntaḥ punar ca ādyaḥ bhujaṅga-trāsitaḥ sa ca .. 36..
अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥
अतिक्रान्तः पुनर् वामः आक्षिप्तः दक्षिणः तथा । अतिक्रान्तः पुनर् वामः उरु-द्वृत्तः तथा एव च ॥ ३७॥
atikrāntaḥ punar vāmaḥ ākṣiptaḥ dakṣiṇaḥ tathā . atikrāntaḥ punar vāmaḥ uru-dvṛttaḥ tathā eva ca .. 37..
अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥
अलातः च पुनर् वामः पार्श्वक्रान्तः च दक्षिणः । सूची-वामम् पुनर् दद्यात् अपक्रान्तः तु दक्षिणः ॥ ३८॥
alātaḥ ca punar vāmaḥ pārśvakrāntaḥ ca dakṣiṇaḥ . sūcī-vāmam punar dadyāt apakrāntaḥ tu dakṣiṇaḥ .. 38..
अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥
अतिक्रान्तः पुनर् वामः कार्यः ललित-संज्ञकः । एष पाद-प्रसारः तु ललिते मण्डले भवेत् ॥ ३९॥
atikrāntaḥ punar vāmaḥ kāryaḥ lalita-saṃjñakaḥ . eṣa pāda-prasāraḥ tu lalite maṇḍale bhavet .. 39..
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥
सूची-वाम-क्रमम् कृत्वा हि अपक्रान्तः च वामकम् । पार्श्व-क्रान्तम् पुनर् च आद्यम् वाम-पार्श्व-क्रमम् तथा ॥ ४०॥
sūcī-vāma-kramam kṛtvā hi apakrāntaḥ ca vāmakam . pārśva-krāntam punar ca ādyam vāma-pārśva-kramam tathā .. 40..
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥
भ्रान्त्वा चारीभिः एताभिः पर्यायेण अथ मण्डलम् । वाम-सूचीम् ततस् दद्यात् अपक्रान्तम् च दक्षिणम् ॥ ४१॥
bhrāntvā cārībhiḥ etābhiḥ paryāyeṇa atha maṇḍalam . vāma-sūcīm tatas dadyāt apakrāntam ca dakṣiṇam .. 41..
स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥
स्वभाव-गमने हि एतत् मण्डलम् संविधीयते । क्रान्तम् एतत् तु विज्ञेयम् नामतः नाट्य-योक्तृभिः ॥ ४२॥
svabhāva-gamane hi etat maṇḍalam saṃvidhīyate . krāntam etat tu vijñeyam nāmataḥ nāṭya-yoktṛbhiḥ .. 42..
एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥
एतानि आकाश-गामीनि ज्ञेयानि एवम् दश एव तु । अतस् परम् प्रवक्ष्यामि भौमानाम् इह लक्षणम् ॥ ४३॥
etāni ākāśa-gāmīni jñeyāni evam daśa eva tu . atas param pravakṣyāmi bhaumānām iha lakṣaṇam .. 43..
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥
आद्यः तु जनितः कार्यः वामः च अस्पन्दितः भवेत् । शकटास्यः पुनर् च आद्यः वामः च अपि प्रसारितः ॥ ४४॥
ādyaḥ tu janitaḥ kāryaḥ vāmaḥ ca aspanditaḥ bhavet . śakaṭāsyaḥ punar ca ādyaḥ vāmaḥ ca api prasāritaḥ .. 44..
आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥
आद्यः भ्रमरकः कार्यः त्रिकम् च परिवर्तयेत् । आस्कन्दितः पुनर् वामः शकट-आस्यः च दक्षिणः ॥ ४५॥
ādyaḥ bhramarakaḥ kāryaḥ trikam ca parivartayet . āskanditaḥ punar vāmaḥ śakaṭa-āsyaḥ ca dakṣiṇaḥ .. 45..
वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥
वामः पृष्ठ-अपसर्पी च दद्यात् भ्रमरकम् तथा । सः एव अस्पन्दितः कार्यः तु एतत् भ्रमर-मण्डलम् ॥ ४६॥
vāmaḥ pṛṣṭha-apasarpī ca dadyāt bhramarakam tathā . saḥ eva aspanditaḥ kāryaḥ tu etat bhramara-maṇḍalam .. 46..
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥
आद्यः भ्रमरकः कार्यः वामः च एव अड्डितः भवेत् । कार्यः त्रिक-विवर्त्तः च शकट-आस्यः च दक्षिणः ॥ ४७॥
ādyaḥ bhramarakaḥ kāryaḥ vāmaḥ ca eva aḍḍitaḥ bhavet . kāryaḥ trika-vivarttaḥ ca śakaṭa-āsyaḥ ca dakṣiṇaḥ .. 47..
उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥
उरु-द्वृत्तः सः एव स्यात् वामः च एव अपसर्पितः । कार्यः त्रिक-विवर्त्तः च दक्षिणः स्पन्दितः भवेत् ॥ ४८॥
uru-dvṛttaḥ saḥ eva syāt vāmaḥ ca eva apasarpitaḥ . kāryaḥ trika-vivarttaḥ ca dakṣiṇaḥ spanditaḥ bhavet .. 48..
शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥
शकट-आस्यः भवेत् वामः तत् एव आस्फोटनम् भवेत् । एतत् आस्पन्दितम् नाम व्यायामे युद्ध-मण्डलम् ॥ ४९॥
śakaṭa-āsyaḥ bhavet vāmaḥ tat eva āsphoṭanam bhavet . etat āspanditam nāma vyāyāme yuddha-maṇḍalam .. 49..
आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥
आद्यः तु जनितम् कृत्वा वामः च एव निकुट्टकम् । शकटास्यः पुनर् च आद्यः उरु-द्वृत्तः सः एव तु ॥ ५०॥
ādyaḥ tu janitam kṛtvā vāmaḥ ca eva nikuṭṭakam . śakaṭāsyaḥ punar ca ādyaḥ uru-dvṛttaḥ saḥ eva tu .. 50..
पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥
पृष्ठ-अपसर्पी वामः च स च चाष-गतिः भवेत् । आस्पन्दितः पुनर् दक्षः शकटास्यः च वामकः ॥ ५१॥
pṛṣṭha-apasarpī vāmaḥ ca sa ca cāṣa-gatiḥ bhavet . āspanditaḥ punar dakṣaḥ śakaṭāsyaḥ ca vāmakaḥ .. 51..
आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥
आद्यः भ्रमरकः च एव त्रिकम् च परिवर्तयेत् । पृष्ठ-अपसर्पी वामः च इति आवर्तम् मण्डलम् भवेत् ॥ ५२॥
ādyaḥ bhramarakaḥ ca eva trikam ca parivartayet . pṛṣṭha-apasarpī vāmaḥ ca iti āvartam maṇḍalam bhavet .. 52..
समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥
सम-पादम् बुधः कृत्वा स्थानम् हस्तौ प्रसारयेत् । निरन्तरौ ऊर्ध्व-तलौ आवेष्ट्य उद्वेष्ट्य च एव हि ॥ ५३॥
sama-pādam budhaḥ kṛtvā sthānam hastau prasārayet . nirantarau ūrdhva-talau āveṣṭya udveṣṭya ca eva hi .. 53..
कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥
कटी-तटे विनिक्षिप्य च आद्यम् आवर्त्तयेत् क्रमात् । यथाक्रमम् पुनर् वामम् आवर्तेन प्रसारयेत् ॥ ५४॥
kaṭī-taṭe vinikṣipya ca ādyam āvarttayet kramāt . yathākramam punar vāmam āvartena prasārayet .. 54..
चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥
चारया च अनया भ्रान्त्वा पर्यायेण अथ मण्डलम् । सम-उत्सरितम् एतत् तु कार्यम् व्यायाम-मण्डलम् ॥ ५५॥
cārayā ca anayā bhrāntvā paryāyeṇa atha maṇḍalam . sama-utsaritam etat tu kāryam vyāyāma-maṇḍalam .. 55..
पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥
पादैः तु भूमि-संयुक्तैः सूची-विद्धैः तथा एव च । एडक-आक्रीडितैः च एव तूर्णैः त्रिक-विवर्तितैः ॥ ५६॥
pādaiḥ tu bhūmi-saṃyuktaiḥ sūcī-viddhaiḥ tathā eva ca . eḍaka-ākrīḍitaiḥ ca eva tūrṇaiḥ trika-vivartitaiḥ .. 56..
सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥
सूचीविद्ध-अपविद्धैः च क्रमेण आवृत्त्य मण्डलम् । विद्यात् ॥ ५७॥
sūcīviddha-apaviddhaiḥ ca krameṇa āvṛttya maṇḍalam . vidyāt .. 57..
सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥
सव्यम् उद्घट्टितम् कृत्वा तेन एव आवर्तम् आचरेत् । तेन एव अस्कन्दितः कार्यः शकट-आस्यः च वामकः ॥ ५८॥
savyam udghaṭṭitam kṛtvā tena eva āvartam ācaret . tena eva askanditaḥ kāryaḥ śakaṭa-āsyaḥ ca vāmakaḥ .. 58..
आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥
आद्यः पृष्ठ-अपसर्पी च स च चाष-गतिः भवेत् । अड्डितः च पुनर् वामः आद्यः च एव अपसर्पितः ॥ ५९॥
ādyaḥ pṛṣṭha-apasarpī ca sa ca cāṣa-gatiḥ bhavet . aḍḍitaḥ ca punar vāmaḥ ādyaḥ ca eva apasarpitaḥ .. 59..
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥
वामः भ्रमरकः कार्यः आद्यः आस्कन्दितः भवेत् । तेन एव आस्फोटनम् कुर्यात् एतत् अड्डित-मण्डलम् ॥ ६०॥
vāmaḥ bhramarakaḥ kāryaḥ ādyaḥ āskanditaḥ bhavet . tena eva āsphoṭanam kuryāt etat aḍḍita-maṇḍalam .. 60..
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥
आद्यम् तु जनितम् कृत्वा तेन एव च निकुट्टकम् । सः एव शकट-आस्यः च वामः च अस्कन्दितः भवेत् ॥ ६१॥
ādyam tu janitam kṛtvā tena eva ca nikuṭṭakam . saḥ eva śakaṭa-āsyaḥ ca vāmaḥ ca askanditaḥ bhavet .. 61..
विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥
विज्ञेयम् शकटास्यम् तु व्यायामे युद्ध-मण्डलम् । पादैः च शकट-आस्य-स्थैः पर्यायेण अथ मण्डलम् ॥ ६२॥
vijñeyam śakaṭāsyam tu vyāyāme yuddha-maṇḍalam . pādaiḥ ca śakaṭa-āsya-sthaiḥ paryāyeṇa atha maṇḍalam .. 62..
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥
आद्यः तु जनितः भूत्वा सः एव आस्कन्दितः भवेत् । अपसर्पी पुनर् वामः शकट-आस्यः च दक्षिणः ॥ ६३॥
ādyaḥ tu janitaḥ bhūtvā saḥ eva āskanditaḥ bhavet . apasarpī punar vāmaḥ śakaṭa-āsyaḥ ca dakṣiṇaḥ .. 63..
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥
भ्रान्त्वा चारीभिः एताभिः पर्यायेण अथ मण्डलम् । अध्यर्धम् एतत् विज्ञेयम् नियुद्धे च अपि मण्डलम् ॥ ६४॥
bhrāntvā cārībhiḥ etābhiḥ paryāyeṇa atha maṇḍalam . adhyardham etat vijñeyam niyuddhe ca api maṇḍalam .. 64..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥
सूचीम् आद्य-क्रमम् कृत्वा हि अपक्रान्तम् च वामकम् । भुजङ्ग-त्रासितः च आद्यः एवम् एव तु वामकः ॥ ६५॥
sūcīm ādya-kramam kṛtvā hi apakrāntam ca vāmakam . bhujaṅga-trāsitaḥ ca ādyaḥ evam eva tu vāmakaḥ .. 65..
भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥
भुजङ्ग-त्रासितैः भ्रान्त्वा पादैः अपि च मण्डलम् । पिष्टकुट्टम् च विज्ञेयम् चारीभिः मण्डलम् बुधैः ॥ ६६॥
bhujaṅga-trāsitaiḥ bhrāntvā pādaiḥ api ca maṇḍalam . piṣṭakuṭṭam ca vijñeyam cārībhiḥ maṇḍalam budhaiḥ .. 66..
सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥
सर्वैः चाष-गतैः पादैः परिभ्राम्य तु मण्डलम् । एतत् चाष-गतम् विद्यात् नियुद्धे च अपि मण्डलम् ॥ ६७॥
sarvaiḥ cāṣa-gataiḥ pādaiḥ paribhrāmya tu maṇḍalam . etat cāṣa-gatam vidyāt niyuddhe ca api maṇḍalam .. 67..
नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥
नाना चारी-समुत्थानि मण्डलानि समासतस् । उक्तानि अतस् परम् च एव सम-चारीणि योजयेत् ॥ ६८॥
nānā cārī-samutthāni maṇḍalāni samāsatas . uktāni atas param ca eva sama-cārīṇi yojayet .. 68..
समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥
समचारी-प्रयोगः यः तत् समम् नाम मण्डलम् । आचार्य-बुद्ध्या तानि इह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥
samacārī-prayogaḥ yaḥ tat samam nāma maṇḍalam . ācārya-buddhyā tāni iha kartavyāni prayoktṛbhiḥ .. 69..
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥
एतानि खण्डानि स मण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीला-अङ्ग-माधुर्य-पुरस्कृतानि कार्याणि वाद्य-अनुगतानि तज्ज्ञैः ॥ ७०॥
etāni khaṇḍāni sa maṇḍalāni yuddhe niyuddhe ca parikrame ca . līlā-aṅga-mādhurya-puraskṛtāni kāryāṇi vādya-anugatāni tajjñaiḥ .. 70..
इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।
इति भरतीये नाट्यशास्त्रे मण्डलविधानम् नाम एकादशः अध्यायः समाप्तः ।
iti bharatīye nāṭyaśāstre maṇḍalavidhānam nāma ekādaśaḥ adhyāyaḥ samāptaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In