| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ११ ॥
.. nāṭyaśāstram adhyāya 11 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ १॥
etāścāryo mayā proktā yathāvacchastramokṣaṇe . cārīsaṃyogajānīha maṇḍalāni nibodhata .. 1..
अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ २॥
atikrāntaṃ vicitraṃ ca tathā lalitasañcaram . sūcīviddhaṃ daṇḍapādaṃ vihṛtālātake tathā .. 2..
वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ ३॥
vāmabandhaṃ salalitaṃ krāntañcākāśagāmi ca . maṇḍalāni dvijaśreṣṭhāḥ ! bhūmigāni nibodhata .. 3..
भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । समाक्रन्दितमप्याहुरेडकाक्रीडितं तथा ॥ ४॥
bhramarāskandite syātāmāvartaṃ ca tataḥ param . samākranditamapyāhureḍakākrīḍitaṃ tathā .. 4..
अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥
aḍḍitaṃ śakaṭāsyaṃ ca tathā'dhyardhakameva ca . piṣṭakuṭṭaṃ ca vijñeyaṃ tathā cāṣagataṃ punaḥ .. 5..
एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ ६॥
etānyapi daśoktāni bhūmigānīha nāmataḥ . ādyaṃ pādaṃ ca janitaṃ kṛtvodvāhitamācaret .. 6..
अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ ७॥
alātaṃ vāmakaṃ caiva pārśvakrāntaṃ ca dakṣiṇam . sūcīvāmaṃ punaścaiva pārśvakrāntaṃ ca dakṣiṇam .. 7..
सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ ८॥
sūcīṃ vāmakramaṃ dadyādapakrāntaṃ ca dakṣiṇam . sūcīvāmaṃ punaścaiva trikaṃ ca parivartayet .. 8..
तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ ९॥
tathā dakṣiṇamudvṛttamalātañcaiva vāmakam . paricchinnaṃ tu kartavyaṃ bāhyabhramarakeṇa hi .. 9..
अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ १०॥
atikrāntaṃ punarvāmaṃ daṇḍapādañca dakṣiṇam . vijñeyametad vyāyāme tvatikrāntaṃ tu maṇḍalam .. 10..
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ ११॥
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam . āspanditaṃ tu vāmena pārśvakrāntaṃ ca dakṣiṇam .. 11..
वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ १२॥
vāmaṃ sūcīpadaṃ dadyādapakrāntañca dakṣiṇam . bhujaṅgatrāsitaṃ vāmamatikrāntaṃ ca dakṣiṇam .. 12..
उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ १३॥
udvṛttaṃ dakṣiṇaṃ caivā'lātaṃ caivātra vāmakam . pārśvakrāntaṃ punaḥ savyaṃ sūcīvāmakramaṃ tathā .. 13..
विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ १४॥
vikṣepo dakṣiṇasya syādapakrāntaṃ ca vāmakam . bāhyabhramarakaṃ caiva vikṣepaṃ caiva yojayet .. 14..
विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ १५॥
vijñeyametadvyāyāme vicitraṃ nāma maṇḍalam . kṛtvordhvajānucaraṇamādyaṃ sūcīṃ prayojayet .. 15..
अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १६॥
apakrāntaḥ punarvāma ādyaḥ pārśvagato bhavet . vāmasūcīṃ punardadyāt trikañca parivartayet .. 16..
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ १७॥
pārśvakrāntaṃ punaścādyamatikrāntañca vāmakam . sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam .. 17..
पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ १८॥
pārśvakrāntaṃ punaścādyamatikrāntaṃ ca vāmakam . paricchinnaṃ ca kartavyaṃ bāhyabhramaṇakena hi .. 18..
एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ १९॥
eṣa cārīprayogastu kāryo lalitasañcaraiḥ . sūcīvāmapadaṃ dadyāt trikañca parivartayet .. 19..
पार्श्वक्रान्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ २०॥
pārśvakrāntaḥ punaścādyo vāmo'tikrānta eva ca . sūcīmādyaṃ punardadyādatikrāntañca vāmakam .. 20..
पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ २१॥
pārśvakrāntaṃ punaścādyaṃ sūcīviddhe tu maṇḍale . ādyastu janito bhūtvā sa ca daṇḍakramo bhavet .. 21..
वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ २२॥
vāmasūcīṃ punardadyāt trikañca parivartayet . udvṛtto dakṣiṇaśca syādalātaścaiva vāmakaḥ .. 22..
पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ २३॥
pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitastathā . atikrāntaḥ punarvāmo daṇḍapādaśca dakṣiṇaḥ .. 23..
वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ २४॥
vāmasūcītrikāvarto daṇḍapāde tu maṇḍale . ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam .. 24..
आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ २५॥
āspanditaṃ ca vāmena hyudvṛttaṃ dakṣiṇena ca . alātaṃ vāmakaṃ pādaṃ sūcīṃ dadyāttu dakṣiṇam .. 25..
पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ २६॥
pārśvakrāntaḥ punarvāma ākṣipto dakṣiṇastathā . samāvartya trikaṃ caiva daṇḍapādaṃ prasārayet .. 26..
सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामोऽतिक्रान्त एव च ॥ २७॥
sūcīvāmapadaṃ dadyāt trikaṃ tu parivartayet . bhujaṅgatrāsitaścādyo vāmo'tikrānta eva ca .. 27..
एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ २८॥
eṣa cārīprayogastu vihṛte maṇḍale bhavet . sūcīmādyakramaṃ kṛtvā cā'pakrāntaṃ ca vāmakam .. 28..
पार्श्वक्रान्तस्ततश्चाद्योऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ २९॥
pārśvakrāntastataścādyo'pyalātaścaiva vāmakaḥ . bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam .. 29..
षट्सङ्ख्यं सप्तसङ्ख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ ३०॥
ṣaṭsaṅkhyaṃ saptasaṅkhyaṃ ca lalitaiḥ pādavikramaiḥ . adhikuryādapakrāntamatikrāntaṃ ca vāmakam .. 30..
अपक्रन्तः पुनश्चाद्यो वामोऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ ३१॥
apakrantaḥ punaścādyo vāmo'tikrānta eva ca . pādabhramarakaśca syādalāte khalu maṇḍale .. 31..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ ३२॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam . ādyo daṇḍakramaścaiva sūcīpādastu vāmakaḥ .. 32..
कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ ३३॥
kāryastrikavivartaśca pārśvakrāntaśca dakṣiṇaḥ . ākṣiptaṃ vāmakaṃ kuryāt daṇḍapārśvaṃ ca dakṣiṇam .. 33..
उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ ३४॥
urudvṛttaṃ ca tenaiva kartavyaṃ dakṣiṇena tu . sūcīvāmakramaṃ kṛtvā trikaṃ ca parivartayet .. 34..
अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ ३५॥
alātaśca bhavedvāmaḥ pārśvakrāntaśca dakṣiṇaḥ . atikrāntaḥ punarvāmo vāmabandhe tu maṇḍale .. 35..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ ३६॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam . pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitaḥ sa ca .. 36..
अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ ३७॥
atikrāntaḥ punarvāma ākṣipto dakṣiṇastathā . atikrāntaḥ punarvāma urudvṛttastathaiva ca .. 37..
अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ ३८॥
alātaśca punarvāmaḥ pārśvakrāntaśca dakṣiṇaḥ . sūcīvāmaṃ punardadyādapakrāntastu dakṣiṇaḥ .. 38..
अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ ३९॥
atikrāntaḥ punarvāmaḥ kāryo lalitasaṃjñakaḥ . eṣa pādaprasārastu lalite maṇḍale bhavet .. 39..
सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ ४०॥
sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam . pārśvakrāntaṃ punaścādyaṃ vāmapārśvakramaṃ tathā .. 40..
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ ४१॥
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam . vāmasūcīṃ tato dadyādapakrāntaṃ ca dakṣiṇam .. 41..
स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ ४२॥
svabhāvagamane hyetanmaṇḍalaṃ saṃvidhīyate . krāntametattu vijñeyaṃ nāmato nāṭyayoktṛbhiḥ .. 42..
एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ ४३॥
etānyākāśagāmīni jñeyānyevaṃ daśaiva tu . ataḥ paraṃ pravakṣyāmi bhaumānāmiha lakṣaṇam .. 43..
आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ ४४॥
ādyastu janitaḥ kāryo vāmaścāspandito bhavet . śakaṭāsyaḥ punaścādyo vāmaścāpi prasāritaḥ .. 44..
आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ ४५॥
ādyo bhramarakaḥ kāryastrikaṃ ca parivartayet . āskanditaḥ punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ .. 45..
वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ ४६॥
vāmaḥ pṛṣṭhāpasarpī ca dadyād bhramarakaṃ tathā . sa evāspanditaḥ kāryastvetad bhramaramaṇḍalam .. 46..
आद्यो भ्रमरकः कार्यो वामश्चैवाड्डितो भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ ४७॥
ādyo bhramarakaḥ kāryo vāmaścaivāḍḍito bhavet . kāryastrikavivarttaśca śakaṭāsyaśca dakṣiṇaḥ .. 47..
उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ ४८॥
urudvṛttaḥ sa eva syādvāmaścaivāpasarpitaḥ . kāryastrikavivarttaśca dakṣiṇaḥ spandito bhavet .. 48..
शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ ४९॥
śakaṭāsyo bhavedvāmastadevāsphoṭanaṃ bhavet . etadāspanditaṃ nāma vyāyāme yuddhamaṇḍalam .. 49..
आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ ५०॥
ādyastu janitaṃ kṛtvā vāmaścaiva nikuṭṭakam . śakaṭāsyaḥ punaścādya urudvṛttaḥ sa eva tu .. 50..
पृष्ठापसर्पी वामश्च स च चाषगतिर्भवेत् । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ ५१॥
pṛṣṭhāpasarpī vāmaśca sa ca cāṣagatirbhavet . āspanditaḥ punardakṣaḥ śakaṭāsyaśca vāmakaḥ .. 51..
आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ ५२॥
ādyo bhramarakaścaiva trikaṃ ca parivartayet . pṛṣṭhāpasarpī vāmaścetyāvartaṃ maṇḍalaṃ bhavet .. 52..
समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ ५३॥
samapādaṃ budhaḥ kṛtvā sthānaṃ hastau prasārayet . nirantarāvūrdhvatalāvāveṣṭyodveṣṭya caiva hi .. 53..
कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ ५४॥
kaṭītaṭe vinikṣipya cādyamāvarttayet kramāt . yathākramaṃ punarvāmamāvartena prasārayet .. 54..
चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ ५५॥
cārayā cānayā bhrāntvā paryāyeṇātha maṇḍalam . samotsaritametattu kāryaṃ vyāyāmamaṇḍalam .. 55..
पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । एडकाक्रीडितैश्चैव तूर्णैस्त्रिकविवर्तितैः ॥ ५६॥
pādaistu bhūmisaṃyuktaiḥ sūcīviddhaistathaiva ca . eḍakākrīḍitaiścaiva tūrṇaistrikavivartitaiḥ .. 56..
सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । एडकाक्रीडितं विद्यात् खण्डमण्डलसंज्ञितम् ॥ ५७॥
sūcīviddhāpaviddhaiśca krameṇāvṛttya maṇḍalam . eḍakākrīḍitaṃ vidyāt khaṇḍamaṇḍalasaṃjñitam .. 57..
सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ ५८॥
savyamudghaṭṭitaṃ kṛtvā tenaivāvartamācaret . tenaivāskanditaḥ kāryaḥ śakaṭāsyaśca vāmakaḥ .. 58..
आद्यः पृष्ठापसर्पी च स च चाषगतिर्भवेत् । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ ५९॥
ādyaḥ pṛṣṭhāpasarpī ca sa ca cāṣagatirbhavet . aḍḍitaśca punarvāma ādyaścaivāpasarpitaḥ .. 59..
वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ ६०॥
vāmo bhramarakaḥ kārya ādya āskandito bhavet . tenaivāsphoṭanaṃ kuryādetadaḍḍitamaṇḍalam .. 60..
आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ ६१॥
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam . sa eva śakaṭāsyaśca vāmaścāskandito bhavet .. 61..
विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ ६२॥
vijñeyaṃ śakaṭāsyaṃ tu vyāyāme yuddhamaṇḍalam . pādaiśca śakaṭāsyasthaiḥ paryāyeṇātha maṇḍalam .. 62..
आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ ६३॥
ādyastu janito bhūtvā sa evāskandito bhavet . apasarpī punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ .. 63..
भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ ६४॥
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam . adhyardhametadvijñeyaṃ niyuddhe cāpi maṇḍalam .. 64..
सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ ६५॥
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam . bhujaṅgatrāsitaścādya evameva tu vāmakaḥ .. 65..
भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ ६६॥
bhujaṅgatrāsitairbhrāntvā pādairapi ca maṇḍalam . piṣṭakuṭṭaṃ ca vijñeyaṃ cārībhirmaṇḍalaṃ budhaiḥ .. 66..
सर्वैश्चाषगतैः पादैः परिभ्राम्य तु मण्डलम् । एतच्चाषगतं विद्यान्नियुद्धे चापि मण्डलम् ॥ ६७॥
sarvaiścāṣagataiḥ pādaiḥ paribhrāmya tu maṇḍalam . etaccāṣagataṃ vidyānniyuddhe cāpi maṇḍalam .. 67..
नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ ६८॥
nānācārīsamutthāni maṇḍalāni samāsataḥ . uktānyataḥ paraṃ caiva samacārīṇi yojayet .. 68..
समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ ६९॥
samacārīprayogo yastatsamaṃ nāma maṇḍalam . ācāryabuddhyā tānīha kartavyāni prayoktṛbhiḥ .. 69..
एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ ७०॥
etāni khaṇḍāni samaṇḍalāni yuddhe niyuddhe ca parikrame ca . līlāṅgamādhuryapuraskṛtāni kāryāṇi vādyānugatāni tajjñaiḥ .. 70..
इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशोऽध्यायः समाप्तः ।
iti bharatīye nāṭyaśāstre maṇḍalavidhānaṃ nāma ekādaśo'dhyāyaḥ samāptaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In