| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २१ ॥
॥ नाट्यशास्त्रम् अध्याय ॥
.. nāṭyaśāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ एकविंशोऽध्यायः ।
अथ एकविंशः अध्यायः ।
atha ekaviṃśaḥ adhyāyaḥ .
आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ १॥
आहार्य-अभिनयम् विप्राः व्याख्यास्यामि अनुपूर्वशस् । य्स्मात् प्रयोगः सर्वः अयम् आहार्य-अभिनये स्थितः ॥ १॥
āhārya-abhinayam viprāḥ vyākhyāsyāmi anupūrvaśas . ysmāt prayogaḥ sarvaḥ ayam āhārya-abhinaye sthitaḥ .. 1..
नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २॥
नाना अवस्था-प्रकृतयः पूर्वम् नैपथ्य-साधिताः । अङ्ग-आदिभिः अभिव्यक्तिम् उपगच्छन्ति अयत्नतः ॥ २॥
nānā avasthā-prakṛtayaḥ pūrvam naipathya-sādhitāḥ . aṅga-ādibhiḥ abhivyaktim upagacchanti ayatnataḥ .. 2..
आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३॥
आहार्य-अभिनयः नाम ज्ञेयः नेपथ्य-जः विधिः । तत्र कार्यः प्रयत्नः तु नाट्यस्य शुभम् इच्छता ॥ ३॥
āhārya-abhinayaḥ nāma jñeyaḥ nepathya-jaḥ vidhiḥ . tatra kāryaḥ prayatnaḥ tu nāṭyasya śubham icchatā .. 3..
[तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ॥] ॥ ४॥
[तस्मिन् यत्नः तु कर्तव्यः नैपथ्ये सिद्धिम् इच्छता । नाट्यस्य इह तु अलङ्कारः नैपथ्यम् यत् प्रकीर्तितम् ॥] ॥ ४॥
[tasmin yatnaḥ tu kartavyaḥ naipathye siddhim icchatā . nāṭyasya iha tu alaṅkāraḥ naipathyam yat prakīrtitam ..] .. 4..
चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ ५॥
चतुर्विधम् तु नेपथ्यम् पुस्तः अलङ्कारः एव च । तथा अङ्क-रचना च एव ज्ञेयम् सत्-जीवम् एव च ॥ ५॥
caturvidham tu nepathyam pustaḥ alaṅkāraḥ eva ca . tathā aṅka-racanā ca eva jñeyam sat-jīvam eva ca .. 5..
पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ ६॥
पुस्तः तु त्रिविधः ज्ञेयः नाना रूप-प्रमाणतः । सन्धिमः व्याजिमः च एव वेष्टिमः च प्रकीर्तितः ॥ ६॥
pustaḥ tu trividhaḥ jñeyaḥ nānā rūpa-pramāṇataḥ . sandhimaḥ vyājimaḥ ca eva veṣṭimaḥ ca prakīrtitaḥ .. 6..
किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ ७॥
किलिञ्ज-चर्म-वस्त्र-आद्यैः यत् रूपम् क्रियते बुधैः । सन्धिमः नाम विज्ञेयः पुस्तः नाटक-संस्श्रयः ॥ ७॥
kiliñja-carma-vastra-ādyaiḥ yat rūpam kriyate budhaiḥ . sandhimaḥ nāma vijñeyaḥ pustaḥ nāṭaka-saṃsśrayaḥ .. 7..
व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु सन्ज्ञितः ॥ ८॥
व्याजिमः नाम विज्ञेअयः यन्त्रेण क्रियते तु यः । वेष्ट्यते च एव यत् रुपम् वेष्टिमः स तु सन्ज्ञितः ॥ ८॥
vyājimaḥ nāma vijñeayaḥ yantreṇa kriyate tu yaḥ . veṣṭyate ca eva yat rupam veṣṭimaḥ sa tu sanjñitaḥ .. 8..
शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति सन्ज्ञितः ॥ ९॥
शैल-यान-विमानानि चर्म-वर्म-ध्वजाः नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्तः इति सन्ज्ञितः ॥ ९॥
śaila-yāna-vimānāni carma-varma-dhvajāḥ nagāḥ . ye kriyante hi nāṭye tu sa pustaḥ iti sanjñitaḥ .. 9..
अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ १०॥
अलङ्कारः तु विज्ञेयः माल्य-आभरण-वाससाम् । नानाविधः समायोगः अपि अङ्ग-उपाङ्ग-विधिः स्मृतः ॥ १०॥
alaṅkāraḥ tu vijñeyaḥ mālya-ābharaṇa-vāsasām . nānāvidhaḥ samāyogaḥ api aṅga-upāṅga-vidhiḥ smṛtaḥ .. 10..
वेष्टिमं विततं चैव सङ्घात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥११॥
वेष्टिमम् विततम् च एव सङ्घात्यम् ग्रन्थिमम् तथा । प्रालम्बितम् तथा च एव माल्यम् पञ्चविधम् स्मृतम् ॥११॥
veṣṭimam vitatam ca eva saṅghātyam granthimam tathā . prālambitam tathā ca eva mālyam pañcavidham smṛtam ..11..
चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ १२॥
चतुर्विधम् तु विज्ञेयम् नाट्ये हि आभरणम् बुधैः । आवेध्यम् बन्धनीयम् च क्षेप्यम् आरोप्यम् एव च ॥ १२॥
caturvidham tu vijñeyam nāṭye hi ābharaṇam budhaiḥ . āvedhyam bandhanīyam ca kṣepyam āropyam eva ca .. 12..
आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ १३॥
आवेध्यम् कुण्डल-आदि इह यत् स्यात् श्रवण-भूषणम् । आरोप्यम् हेमसूत्र-आदि हाराः च विविध-आश्रयाः ॥ १३॥
āvedhyam kuṇḍala-ādi iha yat syāt śravaṇa-bhūṣaṇam . āropyam hemasūtra-ādi hārāḥ ca vividha-āśrayāḥ .. 13..
श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ १४॥
श्रोणी-सूत्र-अङ्गदे मुक्ता-बन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरम् विद्यात् वस्त्र-आभरणम् एव च ॥ १४॥
śroṇī-sūtra-aṅgade muktā-bandhanīyāni sarvadā . prakṣepya nūpuram vidyāt vastra-ābharaṇam eva ca .. 14..
भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥१५॥
भूषणानाम् विकल्पम् हि पुरुष-स्त्री-समाश्रयम् । प्रवक्ष्यामि देश-जाति-समुद्भवम् ॥१५॥
bhūṣaṇānām vikalpam hi puruṣa-strī-samāśrayam . pravakṣyāmi deśa-jāti-samudbhavam ..15..
चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ १६॥
चूडामणिः स मुकुटः शिरसः भूषणम् स्मृतम् । कुण्डलम् मोचकम् कीला कर्ण-आभरणम् इष्यते ॥ १६॥
cūḍāmaṇiḥ sa mukuṭaḥ śirasaḥ bhūṣaṇam smṛtam . kuṇḍalam mocakam kīlā karṇa-ābharaṇam iṣyate .. 16..
मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥१७॥
मुक्ता-आवली हर्षकम् च सूत्रकम् कण्ठभूषणम् । वेतिका अङ्गुलिमुद्रा च स्यात् अङ्गुलि-विभूषणम् ॥१७॥
muktā-āvalī harṣakam ca sūtrakam kaṇṭhabhūṣaṇam . vetikā aṅgulimudrā ca syāt aṅguli-vibhūṣaṇam ..17..
हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ १८॥
वलयम् च एव बाहु-नाली-विभूषणम् । रुचकः चूलिका कार्या मणिबन्ध-विभूषणम् ॥ १८॥
valayam ca eva bāhu-nālī-vibhūṣaṇam . rucakaḥ cūlikā kāryā maṇibandha-vibhūṣaṇam .. 18..
केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ १९॥
केयूरे अङ्गदे च एव कूर्पर-उपरि भूषणे । त्रिसरः च एव हारः च तथा वक्षः-विभूषणम् ॥ १९॥
keyūre aṅgade ca eva kūrpara-upari bhūṣaṇe . trisaraḥ ca eva hāraḥ ca tathā vakṣaḥ-vibhūṣaṇam .. 19..
व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २०॥
व्यालम्ब-मौक्तिकः हारः माला च एव अङ्गभूषणम् । तलकम् सूत्रकम् च एव भवेत् कटि-विभूषणम् ॥ २०॥
vyālamba-mauktikaḥ hāraḥ mālā ca eva aṅgabhūṣaṇam . talakam sūtrakam ca eva bhavet kaṭi-vibhūṣaṇam .. 20..
अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१॥
अयम् पुरुष-निर्योगः कार्यः तु आभरण-आश्रयः । देवानाम् पार्थिवानाम् च पुनर् वक्ष्यामि योषिताम् ॥ २१॥
ayam puruṣa-niryogaḥ kāryaḥ tu ābharaṇa-āśrayaḥ . devānām pārthivānām ca punar vakṣyāmi yoṣitām .. 21..
शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥२२॥
शिखा-पाशम् शिखा-व्यालम् पिण्डी-पत्रम् तथा एव च । ॥२२॥
śikhā-pāśam śikhā-vyālam piṇḍī-patram tathā eva ca . ..22..
शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २३॥
शिरसः भूषणम् च एव विचित्रम् शीर्ष-जोलकम् । कण्डकम् शिखिपत्रम् च वेणी-पुच्छः स दोरकः ॥ २३॥
śirasaḥ bhūṣaṇam ca eva vicitram śīrṣa-jolakam . kaṇḍakam śikhipatram ca veṇī-pucchaḥ sa dorakaḥ .. 23..
ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २४॥
ललाट-तिलकम् च एव नाना शिल्प-प्रयोजितम् । भ्रू-गुच्छ-उपरि गुच्छः च कुसुम-अनुकृतिः तथा ॥ २४॥
lalāṭa-tilakam ca eva nānā śilpa-prayojitam . bhrū-guccha-upari gucchaḥ ca kusuma-anukṛtiḥ tathā .. 24..
कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २५॥
कर्णिका कर्ण-वलयम् तथा स्यात् पत्रकर्णिका । कुण्डलम् कर्ण-मुद्रा च कर्ण-उत्कीलकम् एव च ॥ २५॥
karṇikā karṇa-valayam tathā syāt patrakarṇikā . kuṇḍalam karṇa-mudrā ca karṇa-utkīlakam eva ca .. 25..
नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २६॥
नाना रत्न-विचित्राणि दन्तपत्राणि च एव हि । कर्णयोः भूषणम् हि एतत् कर्णपूरः तथा एव च ॥ २६॥
nānā ratna-vicitrāṇi dantapatrāṇi ca eva hi . karṇayoḥ bhūṣaṇam hi etat karṇapūraḥ tathā eva ca .. 26..
तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २७॥
तिलकाः पत्र-लेखाः च भवेत् गण्ड-विभूषणम् । त्रिवणी च एव विज्ञेयम् भवेत् वक्षः-विभूषणम् ॥ २७॥
tilakāḥ patra-lekhāḥ ca bhavet gaṇḍa-vibhūṣaṇam . trivaṇī ca eva vijñeyam bhavet vakṣaḥ-vibhūṣaṇam .. 27..
नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २८॥
नेत्रयोः अञ्जनम् ज्ञेयम् अधरस्य च रञ्जनम् । दन्तानाम् विविधः रागः चतुर्णाम् शुक्ल-ता अपि वा ॥ २८॥
netrayoḥ añjanam jñeyam adharasya ca rañjanam . dantānām vividhaḥ rāgaḥ caturṇām śukla-tā api vā .. 28..
रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २९॥
राग-अन्तर-विकल्पः अथ शोभनेन अधिकः ज्वलः । मुग्धानाम् सुन्दरीणाम् च मुक्ता-भासित-शोभनाः ॥ २९॥
rāga-antara-vikalpaḥ atha śobhanena adhikaḥ jvalaḥ . mugdhānām sundarīṇām ca muktā-bhāsita-śobhanāḥ .. 29..
सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ ३०॥
सु रक्ताः स्युः पद्म-पल्लव-रञ्जनाः । अश्म-राग-उद्द्योतितः स्यात् अधरः पल्लव-प्रभः ॥ ३०॥
su raktāḥ syuḥ padma-pallava-rañjanāḥ . aśma-rāga-uddyotitaḥ syāt adharaḥ pallava-prabhaḥ .. 30..
विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ ३१॥
विलासः च भवेत् तासाम् स विभ्रान्त-निरीक्षितम् । मुक्ता-आवली व्याल-पङ्क्तिः मञ्जरी रत्नमालिका ॥ ३१॥
vilāsaḥ ca bhavet tāsām sa vibhrānta-nirīkṣitam . muktā-āvalī vyāla-paṅktiḥ mañjarī ratnamālikā .. 31..
रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥३२॥
च । द्वि-सरः त्रि-सरः च एव चतुर्-सरकम् एव च ॥३२॥
ca . dvi-saraḥ tri-saraḥ ca eva catur-sarakam eva ca ..32..
तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ ३३॥
तथा शृङ्खलिका च एव भवेत् कण्ठ-विभूषणम् । अङ्गदम् वलयम् च एव बाहुमूल-विभूषणम् ॥ ३३॥
tathā śṛṅkhalikā ca eva bhavet kaṇṭha-vibhūṣaṇam . aṅgadam valayam ca eva bāhumūla-vibhūṣaṇam .. 33..
नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ ३४॥
नाना शिल्प-कृताः च एव हाराः वक्षः-विभूषणम् । मणि-जाल-अवनद्धम् च भवेत् स्तन-विभूषणम् ॥ ३४॥
nānā śilpa-kṛtāḥ ca eva hārāḥ vakṣaḥ-vibhūṣaṇam . maṇi-jāla-avanaddham ca bhavet stana-vibhūṣaṇam .. 34..
खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ ३५॥
। कलापी कटकम् शङ्खः हस्त-पत्रम् स पूरकम् ॥ ३५॥
. kalāpī kaṭakam śaṅkhaḥ hasta-patram sa pūrakam .. 35..
मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ ३६॥
मुद्रा अङ्गुलीयकम् च एव हि अङ्गुलीनाम् विभूषणम् । मुक्ता-जाल-आढ्य-तलकम् मेखला काञ्चिका अपि वा ॥ ३६॥
mudrā aṅgulīyakam ca eva hi aṅgulīnām vibhūṣaṇam . muktā-jāla-āḍhya-talakam mekhalā kāñcikā api vā .. 36..
रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ ३७॥
रशना च कलापः च भवेत् श्रोणी-विभूषणम् । एक-यष्टिः भवेत् काञ्ची मेखला तु अष्ट-यष्टिका ॥ ३७॥
raśanā ca kalāpaḥ ca bhavet śroṇī-vibhūṣaṇam . eka-yaṣṭiḥ bhavet kāñcī mekhalā tu aṣṭa-yaṣṭikā .. 37..
द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ ३८॥
द्विस् अष्ट-यष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशत् च चतुःषष्टिः शतम् अष्ट-उत्तरम् तथा ॥ ३८॥
dvis aṣṭa-yaṣṭi raśanā kalāpaḥ pañcaviṃśakaḥ . dvātriṃśat ca catuḥṣaṣṭiḥ śatam aṣṭa-uttaram tathā .. 38..
मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥३९॥
मुक्ता-हाराः भवन्ति एते देव-पार्थिव-योषिताम् । नूपुरः किङ्किणीकाः च घण्टिकाः रत्न-जालकम् ॥३९॥
muktā-hārāḥ bhavanti ete deva-pārthiva-yoṣitām . nūpuraḥ kiṅkiṇīkāḥ ca ghaṇṭikāḥ ratna-jālakam ..39..
सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ ४०॥
स घोषे कटके च एव गुल्फ-उपरि विभूषाणम् । जङ्घयोः पाद-पत्रम् स्यात् अङ्गुलीषु अङ्गुलीयकम् ॥ ४०॥
sa ghoṣe kaṭake ca eva gulpha-upari vibhūṣāṇam . jaṅghayoḥ pāda-patram syāt aṅgulīṣu aṅgulīyakam .. 40..
अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ ४१॥
अङ्गुष्ठ-तिलकाः च एव पादयोः च विभूषणम् । तथा अलक्तक-रागः च नाना भक्ति-निवेशितः ॥ ४१॥
aṅguṣṭha-tilakāḥ ca eva pādayoḥ ca vibhūṣaṇam . tathā alaktaka-rāgaḥ ca nānā bhakti-niveśitaḥ .. 41..
अशोकपलावच्छायः स्यात् स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ ४२॥
अशोक-पला-वत् छायः स्यात् स्वाभाविकः एव च । एतत् विभूषणम् नार्याः आ केशात् आ नखात् अपि ॥ ४२॥
aśoka-palā-vat chāyaḥ syāt svābhāvikaḥ eva ca . etat vibhūṣaṇam nāryāḥ ā keśāt ā nakhāt api .. 42..
यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ ४३॥
यथा भव-रस-अवस्थम् विज्ञेयम् द्विजसत्तमाः । आगमः च प्रमाणम् च रूप-निर्वर्णनम् तथा ॥ ४३॥
yathā bhava-rasa-avastham vijñeyam dvijasattamāḥ . āgamaḥ ca pramāṇam ca rūpa-nirvarṇanam tathā .. 43..
विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ ४४॥
विश्वकर्म-मतात् कार्यम् सुबुद्ध्या अपि प्रयोक्तृभिः । न हि शक्यम् सुवर्णेन मुक्ताभिः मणिभिः तथा ॥ ४४॥
viśvakarma-matāt kāryam subuddhyā api prayoktṛbhiḥ . na hi śakyam suvarṇena muktābhiḥ maṇibhiḥ tathā .. 44..
स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ ४५॥
स्वाधीनम् इति रुच्या एव कर्तुम् अङ्गस्य भूषणम् । विभागतः अभिप्रयुक्तम् अङ्ग-शोभा-करम् भवेत् ॥ ४५॥
svādhīnam iti rucyā eva kartum aṅgasya bhūṣaṇam . vibhāgataḥ abhiprayuktam aṅga-śobhā-karam bhavet .. 45..
यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ ४६॥
यथा स्थान-अन्तर-गतम् भूषणम् रत्न-संयुतम् । न तु नाट्य-प्रयोगेषु कर्तव्यम् भूषणम् गुरु ॥ ४६॥
yathā sthāna-antara-gatam bhūṣaṇam ratna-saṃyutam . na tu nāṭya-prayogeṣu kartavyam bhūṣaṇam guru .. 46..
खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ ४७॥
खेदम् जनयते तत् हि स व्यायत-विचेष्टनात् । गुरु-भाव-अवसन्नस्य स्वेदः मूर्छा च जायते ॥ ४७॥
khedam janayate tat hi sa vyāyata-viceṣṭanāt . guru-bhāva-avasannasya svedaḥ mūrchā ca jāyate .. 47..
गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ ४८॥
गुरु-आभरण-सन्नः हि चेष्टाम् न कुरुते पुनर् । तस्मात् तनु-त्वच-कृतम् सौवर्णम् भूषणम् भवेत् ॥ ४८॥
guru-ābharaṇa-sannaḥ hi ceṣṭām na kurute punar . tasmāt tanu-tvaca-kṛtam sauvarṇam bhūṣaṇam bhavet .. 48..
रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ ४९॥
रत्न-वत् जतु-बद्धम् वा न खेद-जननम् भवेत् । स्व-इच्छया भूषण-विधिः दिव्यानाम् उपदिश्यते ॥ ४९॥
ratna-vat jatu-baddham vā na kheda-jananam bhavet . sva-icchayā bhūṣaṇa-vidhiḥ divyānām upadiśyate .. 49..
यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव सङ्घात्यं ग्रथिमं तथ ॥ ५०॥
यत्न-भाव-विनिष्पन्नम् मानुषाणाम् विभूषणम् । [वेष्टितम् विततम् च एव सङ्घात्यम् ग्रथिमम् तथ ॥ ५०॥
yatna-bhāva-viniṣpannam mānuṣāṇām vibhūṣaṇam . [veṣṭitam vitatam ca eva saṅghātyam grathimam tatha .. 50..
लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसम्भवम् ॥ ५१॥
लम्ब-शोभि तथा च एव माल्यम् पञ्चविधम् स्मृतम् । आच्छादनम् बहुविधम् नाना पत्तन-सम्भवम् ॥ ५१॥
lamba-śobhi tathā ca eva mālyam pañcavidham smṛtam . ācchādanam bahuvidham nānā pattana-sambhavam .. 51..
तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] । दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ ५२॥
तत् ज्ञेयम् त्रि-प्रकारम् तु शुद्धम् रक्तम् विचित्रितम् । दिव्यानाम् भूषण-विधिः यः एष परिकीर्तितः ॥ ५२॥
tat jñeyam tri-prakāram tu śuddham raktam vicitritam . divyānām bhūṣaṇa-vidhiḥ yaḥ eṣa parikīrtitaḥ .. 52..
मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ ५३॥
मानुषाणाम् तु कर्तव्यः नाना देश-समाश्रयः । भूषणैः च अपि वेषैः च नाना अवस्था-समाश्रयैः ॥ ५३॥
mānuṣāṇām tu kartavyaḥ nānā deśa-samāśrayaḥ . bhūṣaṇaiḥ ca api veṣaiḥ ca nānā avasthā-samāśrayaiḥ .. 53..
दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ ५४॥
दिव्य-अङ्गनानाम् कर्तव्या विभक्तिः स्व-स्व-भूमि-जा । विद्याधरीणाम् यक्षीणाम् अप्सरः-नाग-योषिताम् ॥ ५४॥
divya-aṅganānām kartavyā vibhaktiḥ sva-sva-bhūmi-jā . vidyādharīṇām yakṣīṇām apsaraḥ-nāga-yoṣitām .. 54..
ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ ५५॥
ऋषि-दैवत-कन्यानाम् वेषैः नानात्वम् इष्यते । तथा च सिद्ध-गन्धर्व-राक्षस-असुर-योषिताम् ॥ ५५॥
ṛṣi-daivata-kanyānām veṣaiḥ nānātvam iṣyate . tathā ca siddha-gandharva-rākṣasa-asura-yoṣitām .. 55..
दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ ५६॥
दिव्यानाम् नर-नारीणाम् तथा एव च शिखण्डकम् । शिखा-पुट-शिखण्डम् तु मुक्ता-भूयिष्ठ-भूषणम् ॥ ५६॥
divyānām nara-nārīṇām tathā eva ca śikhaṇḍakam . śikhā-puṭa-śikhaṇḍam tu muktā-bhūyiṣṭha-bhūṣaṇam .. 56..
विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ ५७॥
विद्याधरीणाम् कर्तव्यः शुद्धः वेष-परिच्छदः । यक्षिण्यः अप्सरः च एव ॥ ५७॥
vidyādharīṇām kartavyaḥ śuddhaḥ veṣa-paricchadaḥ . yakṣiṇyaḥ apsaraḥ ca eva .. 57..
समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ ५८॥
समस्तानाम् भवेत् वेषः यक्षीणा केवलम् शिखा । कर्तव्यम् नाग-स्त्रीणाम् विभूषणम् ॥ ५८॥
samastānām bhavet veṣaḥ yakṣīṇā kevalam śikhā . kartavyam nāga-strīṇām vibhūṣaṇam .. 58..
मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ ५९॥
मुक्तामणि-लता-प्रायाः फणाः तासाम् तु केवलाः । कार्यम् तु मुनि-कन्यानाम् एक-वेणी-धरम् शिरः ॥ ५९॥
muktāmaṇi-latā-prāyāḥ phaṇāḥ tāsām tu kevalāḥ . kāryam tu muni-kanyānām eka-veṇī-dharam śiraḥ .. 59..
न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ ६०॥
न च अपि विभूषण-विधिः तासाम् वेषः वन-उचितः । मुक्ता-मरकत-प्रायम् मण्डनम् सिद्ध-योषिताम् ॥ ६०॥
na ca api vibhūṣaṇa-vidhiḥ tāsām veṣaḥ vana-ucitaḥ . muktā-marakata-prāyam maṇḍanam siddha-yoṣitām .. 60..
तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ ६१॥
तासाम् तु च एव कर्तव्यम् पीत-वस्त्र-परिच्छदम् । पद्मराग-मणि-प्रायम् गन्धर्वीणाम् विभूषणम् ॥ ६१॥
tāsām tu ca eva kartavyam pīta-vastra-paricchadam . padmarāga-maṇi-prāyam gandharvīṇām vibhūṣaṇam .. 61..
वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ ६२॥
वीणा-हस्तः च कर्तव्यः कौसुम्भ-वसनः तथा । इन्द्रनीलैः तु कर्तव्यम् राक्षसीणाम् विभूषणम् ॥ ६२॥
vīṇā-hastaḥ ca kartavyaḥ kausumbha-vasanaḥ tathā . indranīlaiḥ tu kartavyam rākṣasīṇām vibhūṣaṇam .. 62..
सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ ६३॥
सित-दंष्ट्रा च कर्तव्या कृष्ण-वस्त्र-परिच्छदम् । वैडूर्य-मुक्ता-आभरणाः कर्तव्या सुर-योषिताम् ॥ ६३॥
sita-daṃṣṭrā ca kartavyā kṛṣṇa-vastra-paricchadam . vaiḍūrya-muktā-ābharaṇāḥ kartavyā sura-yoṣitām .. 63..
शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ ६४॥
शुक-पिञ्छ-निभैः अर्वस्त्रैः कार्यः तासाम् परिच्छदः । पुष्यरागैः तु मणिभिः क्वचिद् वैडूर्य-भूषितैः ॥ ६४॥
śuka-piñcha-nibhaiḥ arvastraiḥ kāryaḥ tāsām paricchadaḥ . puṣyarāgaiḥ tu maṇibhiḥ kvacid vaiḍūrya-bhūṣitaiḥ .. 64..
दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ ६५॥
दिव्य-वानर-नारीणाम् कार्यः नील-परिच्छदः । एवम् शृङ्गारिणः कार्याः वेषाः दिव्य-अङ्गना-आश्रयाः ॥ ६५॥
divya-vānara-nārīṇām kāryaḥ nīla-paricchadaḥ . evam śṛṅgāriṇaḥ kāryāḥ veṣāḥ divya-aṅganā-āśrayāḥ .. 65..
अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ ६६॥
अवस्था-अन्तम् आसाद्य शुद्धाः कार्याः पुनर् तथा । मानुषीणाम् तु कर्तव्याः नाना देश-समुद्भवाः ॥ ६६॥
avasthā-antam āsādya śuddhāḥ kāryāḥ punar tathā . mānuṣīṇām tu kartavyāḥ nānā deśa-samudbhavāḥ .. 66..
वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ ६७॥
वेष-आभरण-संयोगान् गदतः तान् निबोधत । आवन्त्य-युवतीनाम् तु शिरः-सालक-कुन्तलम् ॥ ६७॥
veṣa-ābharaṇa-saṃyogān gadataḥ tān nibodhata . āvantya-yuvatīnām tu śiraḥ-sālaka-kuntalam .. 67..
गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ ६८॥
गौडीय-अनामलक-प्रायम् स शिखा-पाश-वेणिकम् । आभीर-युवतीनाम् तु द्वि-वेणीधरः एव तु ॥ ६८॥
gauḍīya-anāmalaka-prāyam sa śikhā-pāśa-veṇikam . ābhīra-yuvatīnām tu dvi-veṇīdharaḥ eva tu .. 68..
शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ ६९॥
शिरः परिगमः कार्यः नील-प्रायम् अथ अम्बरम् । तथा समुन्नद्ध-शिखण्डकम् ॥ ६९॥
śiraḥ parigamaḥ kāryaḥ nīla-prāyam atha ambaram . tathā samunnaddha-śikhaṇḍakam .. 69..
आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ ७०॥
आ केश-आच्छादनम् तासाम् देश-कर्मणि कीर्तितम् । तथा एव दक्षिण-स्त्रीणाम् कार्यम् उल्लेख्य-संश्रयम् ॥ ७०॥
ā keśa-ācchādanam tāsām deśa-karmaṇi kīrtitam . tathā eva dakṣiṇa-strīṇām kāryam ullekhya-saṃśrayam .. 70..
कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ ७१॥
कुम्भीबन्धक-संयुक्तम् तथा आवर्त-ललाटिकम् । [गणिकानाम् तु कर्तव्यम् इच्छा-विच्छित्ति मण्डनम् ॥ ७१॥
kumbhībandhaka-saṃyuktam tathā āvarta-lalāṭikam . [gaṇikānām tu kartavyam icchā-vicchitti maṇḍanam .. 71..
देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ ७२॥
देश-जाति-विधानेन शेषाणाम् अपि कारयेत् । वेषम् तथा च आभरणम् क्षुर-कर्म परिच्छदम् ॥ ७२॥
deśa-jāti-vidhānena śeṣāṇām api kārayet . veṣam tathā ca ābharaṇam kṣura-karma paricchadam .. 72..
[आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] । अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ ७३॥
[आगमम् च अपि नैपथ्ये नाट्यस्य एवम् प्रयोजयेत् । अ देश-युक्तः वेषः हि न शोभाम् जनयिष्यति ॥ ७३॥
[āgamam ca api naipathye nāṭyasya evam prayojayet . a deśa-yuktaḥ veṣaḥ hi na śobhām janayiṣyati .. 73..
मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ ७४॥
मेखला-उरसि बद्धा तु हास्यम् समुपपादयेत् । तथा प्रोषित-कान्तासु व्यसन-अभिहतासु च ॥ ७४॥
mekhalā-urasi baddhā tu hāsyam samupapādayet . tathā proṣita-kāntāsu vyasana-abhihatāsu ca .. 74..
वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ ७५॥
वेषः वै मलिनः कार्यः एक-वेणी-धरम् शिरः । विप्रलम्भे तु नार्याः तु शुद्धः वेषः भवेत् इह ॥ ७५॥
veṣaḥ vai malinaḥ kāryaḥ eka-veṇī-dharam śiraḥ . vipralambhe tu nāryāḥ tu śuddhaḥ veṣaḥ bhavet iha .. 75..
नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ ७६॥
न अति आभरण-संयुक्तः न च अपि मृजया अन्वितः । एवम् स्त्रीणाम् भवेत् वेषः देश-अवस्था-समुद्भवः ॥ ७६॥
na ati ābharaṇa-saṃyuktaḥ na ca api mṛjayā anvitaḥ . evam strīṇām bhavet veṣaḥ deśa-avasthā-samudbhavaḥ .. 76..
पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ ७७॥
पुरुषाणाम् पुनर् च एव वेषान् वक्ष्यामि तत्त्वतः । तत्र अङ्क-रचना पूर्वम् कर्तव्या नाट्य-योक्तृभिः ॥ ७७॥
puruṣāṇām punar ca eva veṣān vakṣyāmi tattvataḥ . tatra aṅka-racanā pūrvam kartavyā nāṭya-yoktṛbhiḥ .. 77..
ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ ७८॥
ततस् परम् प्रयोक्तव्याः वेषाः देश-समुद्भवाः । सितः नीलः च पीतः च चतुर्थः रक्तः एव च ॥ ७८॥
tatas param prayoktavyāḥ veṣāḥ deśa-samudbhavāḥ . sitaḥ nīlaḥ ca pītaḥ ca caturthaḥ raktaḥ eva ca .. 78..
एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥७९॥
एते स्वभाव-जाः वर्णाः यैः कार्यम् तु अङ्ग-वर्तनम् । संयोग-जाः पुनर् च अन्ये उपवर्णाः भवन्ति हि ॥७९॥
ete svabhāva-jāḥ varṇāḥ yaiḥ kāryam tu aṅga-vartanam . saṃyoga-jāḥ punar ca anye upavarṇāḥ bhavanti hi ..79..
तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ ८०॥
तान् अहम् सम्प्रवक्ष्यामि यथाकार्यम् प्रयोक्तृभिः । सित-नील-समायोगे कारण्डवः इति स्मृतः ॥ ८०॥
tān aham sampravakṣyāmi yathākāryam prayoktṛbhiḥ . sita-nīla-samāyoge kāraṇḍavaḥ iti smṛtaḥ .. 80..
सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ ८१॥
सित-पीत-साम-आयोगात् पाण्डु-वर्णः प्रकीर्तितः । सिति-अ रक्त-समायोगे पद्म-वर्णः प्रकीर्तितः ॥ ८१॥
sita-pīta-sāma-āyogāt pāṇḍu-varṇaḥ prakīrtitaḥ . siti-a rakta-samāyoge padma-varṇaḥ prakīrtitaḥ .. 81..
पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ ८२॥
पीत-नील-समायोगात् हरितः नाम जायते । नील-रक्त-समायोगात् कषायः नाम जायते ॥ ८२॥
pīta-nīla-samāyogāt haritaḥ nāma jāyate . nīla-rakta-samāyogāt kaṣāyaḥ nāma jāyate .. 82..
रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ ८३॥
रक्त-पीत-समायोगात् गौर-वर्णः इति स्मृतः । एते संयोग-जाः वर्णाः हि उपवर्णाः तथा अपरे ॥ ८३॥
rakta-pīta-samāyogāt gaura-varṇaḥ iti smṛtaḥ . ete saṃyoga-jāḥ varṇāḥ hi upavarṇāḥ tathā apare .. 83..
त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ ८४॥
त्रि-चतुर्-वर्ण-संयुक्ताः बहवः सम्प्रकीर्तिताः । बल-स्थः यः भवेत् वर्णः तस्य भागः भवेत् ततस् ॥ ८४॥
tri-catur-varṇa-saṃyuktāḥ bahavaḥ samprakīrtitāḥ . bala-sthaḥ yaḥ bhavet varṇaḥ tasya bhāgaḥ bhavet tatas .. 84..
दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ ८५॥
दुर्बलस्य च भागौ द्वौ नीलम् मुक्त्वा प्रदापयेत् । नीलस्य एकः भवेत् भागः चत्वारः अन्ये तु वर्णके ॥ ८५॥
durbalasya ca bhāgau dvau nīlam muktvā pradāpayet . nīlasya ekaḥ bhavet bhāgaḥ catvāraḥ anye tu varṇake .. 85..
बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ ८६॥
बलवान् सर्व-वर्णानाम् नीलः एव प्रकीर्तितः । एवम् वर्ण-विधिम् ज्ञात्वा नाना संयोग-संश्रयम् ॥ ८६॥
balavān sarva-varṇānām nīlaḥ eva prakīrtitaḥ . evam varṇa-vidhim jñātvā nānā saṃyoga-saṃśrayam .. 86..
ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ ८७॥
ततस् कुर्यात् यथायोगम् अङ्गानाम् वर्तनम् बुधः । वर्तन-छादनम् रूपम् स्व-वेष-परिवर्जितम् ॥ ८७॥
tatas kuryāt yathāyogam aṅgānām vartanam budhaḥ . vartana-chādanam rūpam sva-veṣa-parivarjitam .. 87..
नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ ८८॥
नाट्य-धर्म-प्रवृत्तम् तु ज्ञेयम् तत् प्रकृति-स्थितम् । स्व-वर्णम् आत्मनः छाद्यम् वर्णकैः वेष-संश्रयैः ॥ ८८॥
nāṭya-dharma-pravṛttam tu jñeyam tat prakṛti-sthitam . sva-varṇam ātmanaḥ chādyam varṇakaiḥ veṣa-saṃśrayaiḥ .. 88..
आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥८९॥
आकृतिः तस्य कर्तव्या यस्य प्रकृतिः आस्थिता । यथा जन्तुः स्वभावम् स्वम् परित्यज्य अन्य-दैहिकम् ॥८९॥
ākṛtiḥ tasya kartavyā yasya prakṛtiḥ āsthitā . yathā jantuḥ svabhāvam svam parityajya anya-daihikam ..89..
तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ ९०॥
तद्-स्वभावम् हि भजते देह-अन्तरम् उपाश्रितः । वेषेण वर्णकैः च एव छादितः पुरुषः तथा ॥ ९०॥
tad-svabhāvam hi bhajate deha-antaram upāśritaḥ . veṣeṇa varṇakaiḥ ca eva chāditaḥ puruṣaḥ tathā .. 90..
परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ९१॥
पर-भावम् प्रकुरुते यस्य वेषम् समाश्रितः । देव-दानव-गन्धर्व-यक्ष-राक्षस-पन्नगाः ॥ ९१॥
para-bhāvam prakurute yasya veṣam samāśritaḥ . deva-dānava-gandharva-yakṣa-rākṣasa-pannagāḥ .. 91..
प्राणिसन्ज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ ९२॥
प्राणि-सन्ज्ञाः स्मृताः हि एते जीवबन्धाः च ये अपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्राः वाहनानि च ॥ ९२॥
prāṇi-sanjñāḥ smṛtāḥ hi ete jīvabandhāḥ ca ye apare . [strībhāvāḥ parvatāḥ nadyaḥ samudrāḥ vāhanāni ca .. 92..
नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसन्ज्ञया] । शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ ९३॥
नाना शस्त्राणि अपि तथा विज्ञेयाः प्राणि-सन्ज्ञया । शैल-प्रासाद-यन्त्राणि चर्म-वर्म-ध्वजाः तथा ॥ ९३॥
nānā śastrāṇi api tathā vijñeyāḥ prāṇi-sanjñayā . śaila-prāsāda-yantrāṇi carma-varma-dhvajāḥ tathā .. 93..
नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ ९४॥
नाना प्रहरण-आद्याः च ते अप्राणिनः इति स्मृताः । अथवा कारण-उपेताः भवन्ति एते शरीरिणः ॥ ९४॥
nānā praharaṇa-ādyāḥ ca te aprāṇinaḥ iti smṛtāḥ . athavā kāraṇa-upetāḥ bhavanti ete śarīriṇaḥ .. 94..
वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ ९५॥
वेष-भाषा-आश्रय-उपेताः नाट्य-धर्मम् अवेक्ष्य तु । वर्णानाम् तु विधिम् ज्ञात्वा वयः प्रकृतिम् एव च ॥ ९५॥
veṣa-bhāṣā-āśraya-upetāḥ nāṭya-dharmam avekṣya tu . varṇānām tu vidhim jñātvā vayaḥ prakṛtim eva ca .. 95..
कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ ९६॥
कुर्यात् अङ्गस्य रचनाम् देश-जाति-वयः-श्रित-ताम् । देवाः गौराः तु विज्ञेयाः यक्षाः च अप्सरः तथा ॥ ९६॥
kuryāt aṅgasya racanām deśa-jāti-vayaḥ-śrita-tām . devāḥ gaurāḥ tu vijñeyāḥ yakṣāḥ ca apsaraḥ tathā .. 96..
रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ ९७॥
रुद्र-अर्क-द्रुहिण-स्कन्दाः तपनीय-प्रभाः स्मृताः । सोमः बृहस्पतिः शुक्रः वरुणः तारका-गणाः ॥ ९७॥
rudra-arka-druhiṇa-skandāḥ tapanīya-prabhāḥ smṛtāḥ . somaḥ bṛhaspatiḥ śukraḥ varuṇaḥ tārakā-gaṇāḥ .. 97..
समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ ९८॥
समुद्र-हिमवत्-गङ्गाः श्वेताः हि स्युः बलः तथा । रक्तम् अङ्गारकम् विद्यात् पीतौ बुध-हुताशनौ ॥ ९८॥
samudra-himavat-gaṅgāḥ śvetāḥ hi syuḥ balaḥ tathā . raktam aṅgārakam vidyāt pītau budha-hutāśanau .. 98..
नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ ९९॥
नारायणः नरः च एव श्यामः नागः च वासुकिः । दैत्याः च दानवाः च एव राक्षसाः गुह्यकाः नगाः ॥ ९९॥
nārāyaṇaḥ naraḥ ca eva śyāmaḥ nāgaḥ ca vāsukiḥ . daityāḥ ca dānavāḥ ca eva rākṣasāḥ guhyakāḥ nagāḥ .. 99..
पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ १००॥
पिशाचाः जलम् आकाशम् असितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषः च एव वर्णतः ॥ १००॥
piśācāḥ jalam ākāśam asitāni tu varṇataḥ . bhavanti ṣaṭsu dvīpeṣu puruṣaḥ ca eva varṇataḥ .. 100..
कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ १०१॥
कर्तव्याः नाट्य-योगेन निष्टप्त-कनक-प्रभाः । जाम्बूद्वीपस्य वर्षे तु नाना वर्ण-आश्रयाः नराः ॥ १०१॥
kartavyāḥ nāṭya-yogena niṣṭapta-kanaka-prabhāḥ . jāmbūdvīpasya varṣe tu nānā varṇa-āśrayāḥ narāḥ .. 101..
उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ १०२॥
उत्तरान् तु कुरुः त्यक्त्वा ते च अपि कनक-प्रभाः । भद्राश्व-पुरुषाः श्वेताः कर्तव्याः वर्णतः तथा ॥ १०२॥
uttarān tu kuruḥ tyaktvā te ca api kanaka-prabhāḥ . bhadrāśva-puruṣāḥ śvetāḥ kartavyāḥ varṇataḥ tathā .. 102..
केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ १०३॥
केतुमाले नराः नीलाः गौराः शेषेषु कीर्तिताः । नाना वर्णाः स्मृताः भूताः गन्धर्वाः यक्ष-पन्नगाः ॥ १०३॥
ketumāle narāḥ nīlāḥ gaurāḥ śeṣeṣu kīrtitāḥ . nānā varṇāḥ smṛtāḥ bhūtāḥ gandharvāḥ yakṣa-pannagāḥ .. 103..
विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ १०४॥
विद्याधराः तथा च एव पितरः तु समाः नराः । पुनर् च भारते वर्षे तान् तान् वर्णान् निबोधत ॥ १०४॥
vidyādharāḥ tathā ca eva pitaraḥ tu samāḥ narāḥ . punar ca bhārate varṣe tān tān varṇān nibodhata .. 104..
राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ १०५॥
राजानः पद्म-वर्णाः तु गौराः श्यामाः तथा एव च । ये च अपि सुखिनः मर्त्याः गौरा कार्या अस्तु बैः बुधैः ॥ १०५॥
rājānaḥ padma-varṇāḥ tu gaurāḥ śyāmāḥ tathā eva ca . ye ca api sukhinaḥ martyāḥ gaurā kāryā astu baiḥ budhaiḥ .. 105..
कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ १०६॥
कुकर्मिणः ग्रह-ग्रस्ताः व्याधिताः तपसि स्थिताः । आयस्त-कर्मिणः च एव हि असिताः च कु जातयः ॥ १०६॥
kukarmiṇaḥ graha-grastāḥ vyādhitāḥ tapasi sthitāḥ . āyasta-karmiṇaḥ ca eva hi asitāḥ ca ku jātayaḥ .. 106..
ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ १०७॥
ऋष्ययः च एव कर्तव्याः नित्यम् तु बदर-प्रभाः । तपः-स्थिताः च ऋषयः नित्याम् एव असिताः बुधैः ॥ १०७॥
ṛṣyayaḥ ca eva kartavyāḥ nityam tu badara-prabhāḥ . tapaḥ-sthitāḥ ca ṛṣayaḥ nityām eva asitāḥ budhaiḥ .. 107..
कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ १०८॥
कारण-व्यपदेशेन तथा च आत्म-इच्छया पुनर् । वर्णः तत्र प्रकर्तव्यः देश-जति-वश-अनुगः ॥ १०८॥
kāraṇa-vyapadeśena tathā ca ātma-icchayā punar . varṇaḥ tatra prakartavyaḥ deśa-jati-vaśa-anugaḥ .. 108..
देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ १०९॥
देशम् कर्म च जातिम् च पृथिवी-उद्देश-संश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणाम् प्रयोगतः ॥ १०९॥
deśam karma ca jātim ca pṛthivī-uddeśa-saṃśrayam . vijñāya vartanā kāryā puruṣāṇām prayogataḥ .. 109..
किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ ११०॥
किरात-बर्बर-अन्ध्राः च द्रविडाः काशि-कोसलाः । पुलिन्दाः दाक्षिणात्याः च प्रायेण तु असिताः स्मृताः ॥ ११०॥
kirāta-barbara-andhrāḥ ca draviḍāḥ kāśi-kosalāḥ . pulindāḥ dākṣiṇātyāḥ ca prāyeṇa tu asitāḥ smṛtāḥ .. 110..
शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ १११॥
शकाः च यवनाः च एव पह्लवाः वाह्लिकाः च ये । प्रायेण गौराः कर्तव्याः उत्तराः ये श्रिताः दिशम् ॥ १११॥
śakāḥ ca yavanāḥ ca eva pahlavāḥ vāhlikāḥ ca ye . prāyeṇa gaurāḥ kartavyāḥ uttarāḥ ye śritāḥ diśam .. 111..
पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ ११२॥
पाञ्चालाः शौरसेनाः च माहिषाः च ओड्र-मागधाः । अङ्गाः वङ्गाः कलिङ्गाः च श्यामाः कार्याः तु वर्णतः ॥ ११२॥
pāñcālāḥ śaurasenāḥ ca māhiṣāḥ ca oḍra-māgadhāḥ . aṅgāḥ vaṅgāḥ kaliṅgāḥ ca śyāmāḥ kāryāḥ tu varṇataḥ .. 112..
ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ ११३॥
ब्राह्मणाः क्षत्रियाः च एव गौराः कार्याः तथा एव हि । वैश्याः शूद्राः तथा च एव श्यामाः कार्याः तु वर्णतः ॥ ११३॥
brāhmaṇāḥ kṣatriyāḥ ca eva gaurāḥ kāryāḥ tathā eva hi . vaiśyāḥ śūdrāḥ tathā ca eva śyāmāḥ kāryāḥ tu varṇataḥ .. 113..
एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥११४॥
एवम् कृत्वा यथान्यायम् मुख-अङ्ग-उपाङ्ग-वर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देश-काल-वयः-अनुगम् ॥११४॥
evam kṛtvā yathānyāyam mukha-aṅga-upāṅga-vartanām . śmaśrukarma prayuñjīta deśa-kāla-vayaḥ-anugam ..114..
शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ ११५॥
शुद्धम् विचित्रम् श्यामम् च तथा रोमशम् एव च । भवेत् चतुर्विधम् श्मश्रु नाना अवस्था-अन्तर-आत्मकम् ॥ ११५॥
śuddham vicitram śyāmam ca tathā romaśam eva ca . bhavet caturvidham śmaśru nānā avasthā-antara-ātmakam .. 115..
शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ ११६॥
शुद्धम् तु लिङ्गिनाम् कार्यम् तथा अमात्य-पुरोधसाम् । मध्यस्थाः ये च पुरुषाः ये च दीक्षाम् समाश्रिताः ॥ ११६॥
śuddham tu liṅginām kāryam tathā amātya-purodhasām . madhyasthāḥ ye ca puruṣāḥ ye ca dīkṣām samāśritāḥ .. 116..
दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ ११७॥
दिव्याः ये पुरुषाः केचिद् सिद्ध-विद्याधर-आदयः । पार्थिवाः च कुमाराः च ये च राज-उपजीविनः ॥ ११७॥
divyāḥ ye puruṣāḥ kecid siddha-vidyādhara-ādayaḥ . pārthivāḥ ca kumārāḥ ca ye ca rāja-upajīvinaḥ .. 117..
शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ ११८॥
शृङ्गारिणः च ये मर्त्याः यौवन-उन्मादिनः च ये । तेषाम् विचित्रम् कर्तव्यम् श्मश्रु नाट्य-प्रयोक्तृभिः ॥ ११८॥
śṛṅgāriṇaḥ ca ye martyāḥ yauvana-unmādinaḥ ca ye . teṣām vicitram kartavyam śmaśru nāṭya-prayoktṛbhiḥ .. 118..
अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ ११९॥
अ निस्तीर्ण-प्रतिज्ञानाम् दुःखितानाम् तपस्विनाम् । व्यसन-अभिहतानाम् च श्यामम् श्मश्रु प्रयोजयेत् ॥ ११९॥
a nistīrṇa-pratijñānām duḥkhitānām tapasvinām . vyasana-abhihatānām ca śyāmam śmaśru prayojayet .. 119..
ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ १२०॥
ऋषीणाम् तापसानाम् च ये च दीर्घ-व्रताः नराः । तथा च चीर-बद्धानाम् रोमशम् श्मश्रु कीर्तितम् ॥ १२०॥
ṛṣīṇām tāpasānām ca ye ca dīrgha-vratāḥ narāḥ . tathā ca cīra-baddhānām romaśam śmaśru kīrtitam .. 120..
एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ १२१॥
एवम् नाना प्रकारम् तु श्मश्रु कार्यम् प्रयोक्तृभिः । अतस् ऊर्ध्वम् प्रवक्ष्यामि वेषान् नाना प्रयोग-जान् ॥ १२१॥
evam nānā prakāram tu śmaśru kāryam prayoktṛbhiḥ . atas ūrdhvam pravakṣyāmi veṣān nānā prayoga-jān .. 121..
शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ १२२॥
शुद्धः विचित्रः मलिनः त्रिविधः वेषः उच्यते । तेषाम् नियोगम् वक्ष्यामि यथावत् अनुपूर्वशस् ॥ १२२॥
śuddhaḥ vicitraḥ malinaḥ trividhaḥ veṣaḥ ucyate . teṣām niyogam vakṣyāmi yathāvat anupūrvaśas .. 122..
देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ १२३॥
देव-अभिगमने च एव मङ्गले नियम-स्थिते । तिथि-नक्षत्र-योगे च विवाह-करणे तथा ॥ १२३॥
deva-abhigamane ca eva maṅgale niyama-sthite . tithi-nakṣatra-yoge ca vivāha-karaṇe tathā .. 123..
धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ १२४॥
धर्म-प्रवृत्तम् यत् कर्म स्त्रियः वा पुरुषस्य वा । वेषः तेषाम् भवेत् शुद्धः ये च प्रायत्निकाः नराः ॥ १२४॥
dharma-pravṛttam yat karma striyaḥ vā puruṣasya vā . veṣaḥ teṣām bhavet śuddhaḥ ye ca prāyatnikāḥ narāḥ .. 124..
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ १२५॥
देव-दानव-यक्षाणाम् गन्धर्व-उरग-रक्षसाम् । नृपाणाम् कर्कशानाम् च चित्रः वेषः उदाहृतः ॥ १२५॥
deva-dānava-yakṣāṇām gandharva-uraga-rakṣasām . nṛpāṇām karkaśānām ca citraḥ veṣaḥ udāhṛtaḥ .. 125..
वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ १२६॥
वृद्धानाम् ब्राह्मणानाम् च श्रेष्ठि-अमात्य-पुरोधसाम् । वणिजाम् काञ्चुकीयानाम् तथा च एव तपस्विनाम् ॥ १२६॥
vṛddhānām brāhmaṇānām ca śreṣṭhi-amātya-purodhasām . vaṇijām kāñcukīyānām tathā ca eva tapasvinām .. 126..
विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ १२७॥
विप्र-क्षेत्रिय-वैश्यानाम् स्थानीयाः ये च मानवाः । शुद्धः वस्त्र-विधिः तेषाम् कर्तव्यः नाटक-आश्रयः ॥ १२७॥
vipra-kṣetriya-vaiśyānām sthānīyāḥ ye ca mānavāḥ . śuddhaḥ vastra-vidhiḥ teṣām kartavyaḥ nāṭaka-āśrayaḥ .. 127..
उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ १२८॥
उन्मत्तानाम् प्रमत्तानाम् अध्वगानाम् तथा एव च । व्यसन-उपहतानाम् च मलिनः वेषः उच्यते ॥ १२८॥
unmattānām pramattānām adhvagānām tathā eva ca . vyasana-upahatānām ca malinaḥ veṣaḥ ucyate .. 128..
शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ १२९॥
शुद्ध-रक्त-विचित्राणि वासांसि ऊर्ध्व-अम्बराणि च । योजयेत् नाट्य-तत्त्व-ज्ञः वेषयोः शुद्ध-चित्रयोः ॥ १२९॥
śuddha-rakta-vicitrāṇi vāsāṃsi ūrdhva-ambarāṇi ca . yojayet nāṭya-tattva-jñaḥ veṣayoḥ śuddha-citrayoḥ .. 129..
कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ १३०॥
कुर्यात् वेषे तु मलिने मलिनम् तु विचक्षणः । मुनि-निर्ग्रन्थ-शाक्येषु यति-पाशुपतेषु च ॥ १३०॥
kuryāt veṣe tu maline malinam tu vicakṣaṇaḥ . muni-nirgrantha-śākyeṣu yati-pāśupateṣu ca .. 130..
व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ १३१॥
व्रत-अनुगः तु कर्तव्यः वेषः लोक-स्वभावतः । चीर-वल्कल-चर्माणि तापसानाम् तु योजयेत् ॥ १३१॥
vrata-anugaḥ tu kartavyaḥ veṣaḥ loka-svabhāvataḥ . cīra-valkala-carmāṇi tāpasānām tu yojayet .. 131..
परिवाण्मुनिष्क्यानां वासः काषायमिष्यते । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ १३२॥
परिवाट् मुनिष्क्यानाम् वासः काषायम् इष्यते । नाना चित्राणि वासांसि कुर्यात् पाशुपतेषु अथ ॥ १३२॥
parivāṭ muniṣkyānām vāsaḥ kāṣāyam iṣyate . nānā citrāṇi vāsāṃsi kuryāt pāśupateṣu atha .. 132..
कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ १३३॥
कुजातयः च ये प्रोक्ताः तेषाम् च एव यथार्हतः । अन्तःपुर-प्रवेशे च विनियुक्ताः हि ये नराः ॥ १३३॥
kujātayaḥ ca ye proktāḥ teṣām ca eva yathārhataḥ . antaḥpura-praveśe ca viniyuktāḥ hi ye narāḥ .. 133..
काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ १३४॥
काषाय-कञ्चुक-पटाः कार्याः ते अपि यथाविधि । अवस्थान-तरतः च एव नृणाम् वेषः भवेत् अथ ॥ १३४॥
kāṣāya-kañcuka-paṭāḥ kāryāḥ te api yathāvidhi . avasthāna-tarataḥ ca eva nṛṇām veṣaḥ bhavet atha .. 134..
वेषः साङ्ग्रामिकश्चैव शूराणां सम्प्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ १३५॥
वेषः साङ्ग्रामिकः च एव शूराणाम् सम्प्रकीर्तितः । विचित्र-शस्त्र-कवचः बद्ध-तूणः धनुः-धरः ॥ १३५॥
veṣaḥ sāṅgrāmikaḥ ca eva śūrāṇām samprakīrtitaḥ . vicitra-śastra-kavacaḥ baddha-tūṇaḥ dhanuḥ-dharaḥ .. 135..
चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ १३६॥
चित्रः वेषः तु कर्तव्यः नृपाणाम् नित्यम् एव च । केवलः तु भवेत् शुद्धः नक्षत्र-उत्पात-मङ्गले ॥ १३६॥
citraḥ veṣaḥ tu kartavyaḥ nṛpāṇām nityam eva ca . kevalaḥ tu bhavet śuddhaḥ nakṣatra-utpāta-maṅgale .. 136..
एवमेष भवेद्वेषो देशजातिवयोऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ १३७॥
एवम् एष भवेत् वेषः देश-जाति-वयः-अनुगः । उत्तम-अधम-मध्यानाम् स्त्रीणाम् नृणाम् अथ अपि च ॥ १३७॥
evam eṣa bhavet veṣaḥ deśa-jāti-vayaḥ-anugaḥ . uttama-adhama-madhyānām strīṇām nṛṇām atha api ca .. 137..
एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ १३८॥
एवम् वस्त्र-विधिः कार्यः प्रयोगे नाटक-आश्रये । नाना अवस्थाम् समासाद्य शुभ-अशुभ-कृतः तथा ॥ १३८॥
evam vastra-vidhiḥ kāryaḥ prayoge nāṭaka-āśraye . nānā avasthām samāsādya śubha-aśubha-kṛtaḥ tathā .. 138..
तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ १३९॥
तथा प्रतिशिरस् च अपि कर्तव्यम् नाटक-आश्रयम् । दिव्यानाम् मानुषाणाम् च देश-जाति-वयः-श्रितम् ॥ १३९॥
tathā pratiśiras ca api kartavyam nāṭaka-āśrayam . divyānām mānuṣāṇām ca deśa-jāti-vayaḥ-śritam .. 139..
पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ १४०॥
पार्श्व-आगताः मस्तकिनः तथा च एव किरीटिनः । त्रिविधः मुकुटः ज्ञेयः दिव्य-पार्थिव-संश्रितः ॥ १४०॥
pārśva-āgatāḥ mastakinaḥ tathā ca eva kirīṭinaḥ . trividhaḥ mukuṭaḥ jñeyaḥ divya-pārthiva-saṃśritaḥ .. 140..
देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ १४१॥
देव-गन्धर्व-यक्षाणाम् पन्नगानाम् स रक्षसाम् । कर्तव्याः पार्श्व-मौलयः ॥ १४१॥
deva-gandharva-yakṣāṇām pannagānām sa rakṣasām . kartavyāḥ pārśva-maulayaḥ .. 141..
उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ १४२॥
उत्तमाः ये च दिव्यानाम् ते च कार्याः किरीटिनः । मध्यमाः मौलिनः च एव कनिष्ठाः ॥ १४२॥
uttamāḥ ye ca divyānām te ca kāryāḥ kirīṭinaḥ . madhyamāḥ maulinaḥ ca eva kaniṣṭhāḥ .. 142..
नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ १४३॥
नराधिपानाम् कर्तव्याः मस्तके मुकुटाः बुधैः । विद्याधराणाम् च सिद्धानाम् चारणानाम् तथा एव च ॥ १४३॥
narādhipānām kartavyāḥ mastake mukuṭāḥ budhaiḥ . vidyādharāṇām ca siddhānām cāraṇānām tathā eva ca .. 143..
ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ १४४॥
ग्रन्थिमत्-केश-मुकुटाः कर्तव्याः तु प्रयोक्तृभिः । राक्षः-दानव-दैत्यानाम् पिङ्गकेश-ईक्षणानि हि ॥ १४४॥
granthimat-keśa-mukuṭāḥ kartavyāḥ tu prayoktṛbhiḥ . rākṣaḥ-dānava-daityānām piṅgakeśa-īkṣaṇāni hi .. 144..
हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥
च तथा मुकुट-आस्यानि कारयेत् । उत्तमः च अपि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥
ca tathā mukuṭa-āsyāni kārayet . uttamaḥ ca api ye tatra te kāryāḥ pārśvamaulinaḥ .. 145..
कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ १४६॥
कस्मात् तु मुकुटाः सृष्टाः प्रयोगे दिवि-पार्थिवे । केशानाम् छेदनम् दृष्टम् वेद-वादे यथाश्रुति ॥ १४६॥
kasmāt tu mukuṭāḥ sṛṣṭāḥ prayoge divi-pārthive . keśānām chedanam dṛṣṭam veda-vāde yathāśruti .. 146..
भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ १४७॥
भद्रीकृतस्य वा यज्ञे शिरसः छादन-इच्छया । केशानाम् अपि अदीर्घ-त्वात् स्मृतम् मुकुट-धारणम् ॥ १४७॥
bhadrīkṛtasya vā yajñe śirasaḥ chādana-icchayā . keśānām api adīrgha-tvāt smṛtam mukuṭa-dhāraṇam .. 147..
सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ १४८॥
सेनापतेः पुनर् च अपि युवराजस्य च एव हि । योजयेत् अर्ध-मुकुटम् महामात्राः च ये नराः ॥ १४८॥
senāpateḥ punar ca api yuvarājasya ca eva hi . yojayet ardha-mukuṭam mahāmātrāḥ ca ye narāḥ .. 148..
अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥
अमात्यानाम् कञ्चुकिनाम् तथा श्रेष्ठि-पुरोधसाम् । वेष्टन-आबद्ध-पट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥
amātyānām kañcukinām tathā śreṣṭhi-purodhasām . veṣṭana-ābaddha-paṭṭāni pratiśīrṣāṇi kārayet .. 149..
पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १५०॥
पिशाच-उन्मत्त-भूतानाम् साधकानाम् तपस्विनाम् । अनिस्तीर्ण-प्रतिज्ञानाम् लम्ब-केशम् भवेत् शिरः ॥ १५०॥
piśāca-unmatta-bhūtānām sādhakānām tapasvinām . anistīrṇa-pratijñānām lamba-keśam bhavet śiraḥ .. 150..
शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ १५१॥
शाक्य-श्रोत्रिय-निर्ग्रन्थ-परिव्राज्-दीक्षितेषु च । शिरः-मुण्डम् तु कर्तव्यम् यज्ञ-दीक्षा-अन्वितेषु च ॥ १५१॥
śākya-śrotriya-nirgrantha-parivrāj-dīkṣiteṣu ca . śiraḥ-muṇḍam tu kartavyam yajña-dīkṣā-anviteṣu ca .. 151..
तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ १५२॥
तथा व्रत-अनुगम् च एव शेषानाम् लिङ्गिनाम् शिरः । मुण्डम् वा कुञ्चितम् वा अपि लम्ब-केशम् अथ अपि वा ॥ १५२॥
tathā vrata-anugam ca eva śeṣānām liṅginām śiraḥ . muṇḍam vā kuñcitam vā api lamba-keśam atha api vā .. 152..
धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ १५३॥
धूर्तानाम् च एव कर्तव्यम् ये च रात्रि-उपजीविनः । शृङ्गार-चित्ताः पुरुषाः तेषाम् कुञ्चित-मूर्धजाः ॥ १५३॥
dhūrtānām ca eva kartavyam ye ca rātri-upajīvinaḥ . śṛṅgāra-cittāḥ puruṣāḥ teṣām kuñcita-mūrdhajāḥ .. 153..
बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ १५४॥
बालानाम् अपि कर्तव्यम् त्रि-शिखण्ड-विभूषितम् । जटा-मकुट-बद्धम् च मुनीनाम् तु भवेत् शिरः ॥ १५४॥
bālānām api kartavyam tri-śikhaṇḍa-vibhūṣitam . jaṭā-makuṭa-baddham ca munīnām tu bhavet śiraḥ .. 154..
चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ १५५॥
चेटानाम् अपि कर्तव्यम् त्रि-शिखम् मुण्डम् एव वा । विदूषकस्य खलतिः स्यात् काकपदम् एव वा ॥ १५५॥
ceṭānām api kartavyam tri-śikham muṇḍam eva vā . vidūṣakasya khalatiḥ syāt kākapadam eva vā .. 155..
शीषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ १५६॥
शीषाणाम् अर्थ-योगेन देश-जाति-समाश्रयम् । शिरः प्रयोक्तृभिः कार्यम् नाना अवस्था-अन्तर-आश्रयम् ॥ १५६॥
śīṣāṇām artha-yogena deśa-jāti-samāśrayam . śiraḥ prayoktṛbhiḥ kāryam nānā avasthā-antara-āśrayam .. 156..
भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ १५७॥
भूषणैः वर्णकैः वस्त्रैः माल्यैः च एव यथाविधि । एवम् नाना प्रकारैः तु बुद्ध्या वेषान् प्रकल्पयेत् ॥ १५७॥
bhūṣaṇaiḥ varṇakaiḥ vastraiḥ mālyaiḥ ca eva yathāvidhi . evam nānā prakāraiḥ tu buddhyā veṣān prakalpayet .. 157..
पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसम्भवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ १५८॥
पूर्वम् तु प्रकृतिम् स्थाप्य प्रयोग-गुण-सम्भवाम् । स्त्रीणाम् वा पुरुषाणाम् वा अपि अवस्थाम् प्राप्य तादृशीम् ॥ १५८॥
pūrvam tu prakṛtim sthāpya prayoga-guṇa-sambhavām . strīṇām vā puruṣāṇām vā api avasthām prāpya tādṛśīm .. 158..
सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ १५९॥
सर्वे भावाः च दिव्यानाम् कार्याः मानुष-संश्रयाः । तेषाम् च अनिमिष-त्व-आदि ना एव कार्यम् प्रयोक्तृभिः ॥ १५९॥
sarve bhāvāḥ ca divyānām kāryāḥ mānuṣa-saṃśrayāḥ . teṣām ca animiṣa-tva-ādi nā eva kāryam prayoktṛbhiḥ .. 159..
इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ १६०॥
इह भाव-रसाः च एव दृष्टिभिः सम्प्रतिष्ठिताः । दृष्ट्या एव स्थापितः हि अर्थः पश्चात् अङ्गैः विभाव्यते ॥ १६०॥
iha bhāva-rasāḥ ca eva dṛṣṭibhiḥ sampratiṣṭhitāḥ . dṛṣṭyā eva sthāpitaḥ hi arthaḥ paścāt aṅgaiḥ vibhāvyate .. 160..
एवं ज्ञीयाङ्गरचना नानाप्रकृतिसम्भवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ १६१॥
एवम् नाना प्रकृति-सम्भवा । सजीवः इति यः प्रोक्तः तस्य वक्ष्यामि लक्षणम् ॥ १६१॥
evam nānā prakṛti-sambhavā . sajīvaḥ iti yaḥ proktaḥ tasya vakṣyāmi lakṣaṇam .. 161..
यः प्राणिनां प्रवेशो वै सजीव इति सन्ज्ञितः । चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ १६२॥
यः प्राणिनाम् प्रवेशः वै सजीवः इति सन्ज्ञितः । चतुष्पदः अथ द्विपदः तथा च एव आपदः स्मृतः ॥ १६२॥
yaḥ prāṇinām praveśaḥ vai sajīvaḥ iti sanjñitaḥ . catuṣpadaḥ atha dvipadaḥ tathā ca eva āpadaḥ smṛtaḥ .. 162..
उरगानपदान् विद्याद् द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ १६३॥
उरगान् अपदान् विद्यात् द्विपदान् खग-मानुषान् । ग्राम्याः आरण्याः पशवः विज्ञेयाः स्युः चतुष्पदाः ॥ १६३॥
uragān apadān vidyāt dvipadān khaga-mānuṣān . grāmyāḥ āraṇyāḥ paśavaḥ vijñeyāḥ syuḥ catuṣpadāḥ .. 163..
ये ते तु यद्धसम्फेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ १६४॥
ये ते तु यद्ध-सम्फेटैः उपरोधैः तथा एव च । नाना प्रहरण-उपेताः प्रयोज्याः नाटके बुधैः ॥ १६४॥
ye te tu yaddha-sampheṭaiḥ uparodhaiḥ tathā eva ca . nānā praharaṇa-upetāḥ prayojyāḥ nāṭake budhaiḥ .. 164..
आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ १६५॥
आयुधानि च कार्याणि पुरुषाणाम् प्रमाणतः । तानि अहम् वर्तयिष्यामि यथा पुस्त-प्रमाणतः ॥ १६५॥
āyudhāni ca kāryāṇi puruṣāṇām pramāṇataḥ . tāni aham vartayiṣyāmi yathā pusta-pramāṇataḥ .. 165..
भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ १६६॥
भिण्डिः द्वादश-तालः स्यात् दश कुन्तः भवेत् अथ । अष्टौ शतघ्नी शूलम् च तोमरः शक्तिः एव वा ॥ १६६॥
bhiṇḍiḥ dvādaśa-tālaḥ syāt daśa kuntaḥ bhavet atha . aṣṭau śataghnī śūlam ca tomaraḥ śaktiḥ eva vā .. 166..
अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ १६७॥
अष्टौ तालाः धनुः ज्ञेयम् आयामः अस्य द्वि-हस्तकः । शरः गदा च वज्रा च चतुः तालम् विधीयते ॥ १६७॥
aṣṭau tālāḥ dhanuḥ jñeyam āyāmaḥ asya dvi-hastakaḥ . śaraḥ gadā ca vajrā ca catuḥ tālam vidhīyate .. 167..
अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ १६८॥
अङ्गुलानि तु असिः कार्यः चत्वारिंशत्-प्रमाणतः । द्वादश-अङ्गुलकम् चक्रम् ततस् अर्धम् प्रासः इष्यते ॥ १६८॥
aṅgulāni tu asiḥ kāryaḥ catvāriṃśat-pramāṇataḥ . dvādaśa-aṅgulakam cakram tatas ardham prāsaḥ iṣyate .. 168..
प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ १६९॥
प्रास-वत् पट्टसम् विद्यात् दण्डः च एव तु विंशतिः । विंशतिः कणयः च एव हि अङ्गुलानि प्रमाणतः ॥ १६९॥
prāsa-vat paṭṭasam vidyāt daṇḍaḥ ca eva tu viṃśatiḥ . viṃśatiḥ kaṇayaḥ ca eva hi aṅgulāni pramāṇataḥ .. 169..
शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ १७०॥
शोडष-अङ्गुल-विस्तीर्णम् स बलम् सम्प्रघण्टिकम् । त्रिंशत्-अङ्गुलि-मानेन कर्तव्यम् खेटकम् बुधैः ॥ १७०॥
śoḍaṣa-aṅgula-vistīrṇam sa balam sampraghaṇṭikam . triṃśat-aṅguli-mānena kartavyam kheṭakam budhaiḥ .. 170..
जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ १७१॥
जर्जरः दण्ड-काष्ठम् च तथा एव प्रतिशीर्षकम् । छत्रम् चामरम् च एव शृङ्गारः एव च ॥ १७१॥
jarjaraḥ daṇḍa-kāṣṭham ca tathā eva pratiśīrṣakam . chatram cāmaram ca eva śṛṅgāraḥ eva ca .. 171..
यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् ॥ १७२॥
यत् किञ्चिद् मानुषे लोके द्रव्यम् पुंसाम् प्रयोजकम् । यत् च उपकरणम् सर्वे नाट्ये तत् सम्प्रकीर्तितम् ॥ १७२॥
yat kiñcid mānuṣe loke dravyam puṃsām prayojakam . yat ca upakaraṇam sarve nāṭye tat samprakīrtitam .. 172..
यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥
यत् यस्य विषय-प्राप्तम् तेन उह्यम् तस्य लक्षणम् । जर्जरे दण्ड-काष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥
yat yasya viṣaya-prāptam tena uhyam tasya lakṣaṇam . jarjare daṇḍa-kāṣṭhe ca sampravakṣyāmi lakṣaṇam .. 173..
माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ १७४॥
माहेन्द्राः वै ध्वजाः प्रोक्ताः लक्षणैः विश्वकर्मणा । एषा अन्यतमम् कुर्यात् जर्जरम् दारु-कर्मतः ॥ १७४॥
māhendrāḥ vai dhvajāḥ proktāḥ lakṣaṇaiḥ viśvakarmaṇā . eṣā anyatamam kuryāt jarjaram dāru-karmataḥ .. 174..
अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥१७५॥
अथवा वृक्षयोनिः स्यात् प्ररोहः वा अपि जर्जरः । वेणुः एव भवेत् श्रेष्ठः तस्य वक्ष्यामि लक्षणम् ॥१७५॥
athavā vṛkṣayoniḥ syāt prarohaḥ vā api jarjaraḥ . veṇuḥ eva bhavet śreṣṭhaḥ tasya vakṣyāmi lakṣaṇam ..175..
श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा । सङ्ग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ १७६॥
श्वेत-भूम्याम् तु यः जातः पुष्य-नक्षत्र-जः तथा । सङ्ग्राह्यः वै भवेत् वेणुः जर्जर-अर्थे प्रयत्नतः ॥ १७६॥
śveta-bhūmyām tu yaḥ jātaḥ puṣya-nakṣatra-jaḥ tathā . saṅgrāhyaḥ vai bhavet veṇuḥ jarjara-arthe prayatnataḥ .. 176..
प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ १७७॥
प्रमाणम् अङ्गुलानाम् तु शतम् अष्ट-उत्तर<ं भवेत् । पञ्च-पर्वा चतुर्-ग्रन्थिः ताल-मात्रः तथा एव च ॥ १७७॥
pramāṇam aṅgulānām tu śatam aṣṭa-uttara<ṃ bhavet . pañca-parvā catur-granthiḥ tāla-mātraḥ tathā eva ca .. 177..
स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ १७८॥
स्थूलग्रन्थिः न कर्तव्यः न शाखी न च कीटवान् । न कृमि-क्षत-पर्वा च न हीनः च अन्य-वेणुभिः ॥ १७८॥
sthūlagranthiḥ na kartavyaḥ na śākhī na ca kīṭavān . na kṛmi-kṣata-parvā ca na hīnaḥ ca anya-veṇubhiḥ .. 178..
मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ १७९॥
मधु-सर्पिः-सर्षप-अक्तम् माल्य-धूप-पुरस्कृतम् । उपास्य विधिवत् वेणुम् गृह्णियात् जर्जरम् प्रति ॥ १७९॥
madhu-sarpiḥ-sarṣapa-aktam mālya-dhūpa-puraskṛtam . upāsya vidhivat veṇum gṛhṇiyāt jarjaram prati .. 179..
यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ १८०॥
यः विधिः यः क्रमः च एव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्य-वेणु-समाश्रयः ॥ १८०॥
yaḥ vidhiḥ yaḥ kramaḥ ca eva māhebdre tu dhvaje smṛtaḥ . sa jarjarasya kartavyaḥ puṣya-veṇu-samāśrayaḥ .. 180..
भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ १८१॥
भवेत् यः दीर्घपर्वा तु तनुपत्रः तथा एव च । पर्वाग्रतण्डुलः च एव पुष्यवेणुः स कीर्तितः ॥ १८१॥
bhavet yaḥ dīrghaparvā tu tanupatraḥ tathā eva ca . parvāgrataṇḍulaḥ ca eva puṣyaveṇuḥ sa kīrtitaḥ .. 181..
विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़्ः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १८२॥
विधिः एष मया प्रोक्तः जर्जरस्य । अतस् ऊर्ध्वम् प्रवक्ष्यामि दण्ड-काष्ठस्य लक्षणम् ॥ १८२॥
vidhiḥ eṣa mayā proktaḥ jarjarasya . atas ūrdhvam pravakṣyāmi daṇḍa-kāṣṭhasya lakṣaṇam .. 182..
कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ १८३॥
कपित्थ-बिल्व-वंशेभ्यः दण्ड-काष्ठम् भवेत् अथ । वक्रम् च एव हि कर्तव्यम् त्रि-भागे लक्षण-अन्वितम् ॥ १८३॥
kapittha-bilva-vaṃśebhyaḥ daṇḍa-kāṣṭham bhavet atha . vakram ca eva hi kartavyam tri-bhāge lakṣaṇa-anvitam .. 183..
कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् । मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥१८४॥
कीटैः न उपहतम् यत् च व्याधिना न च पीडितम् । मन्द-शाखम् भवेत् यत् च दण्डकाष्ठम् तु तत् भवेत् ॥१८४॥
kīṭaiḥ na upahatam yat ca vyādhinā na ca pīḍitam . manda-śākham bhavet yat ca daṇḍakāṣṭham tu tat bhavet ..184..
यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ १८५॥
यः तु एभिः लक्षणैः हीनम् दण्ड-काष्ठम् स जर्जरम् । कारयेत् स तु अपचयम् महान्तम् प्राप्नुयात् ध्रुवम् ॥ १८५॥
yaḥ tu ebhiḥ lakṣaṇaiḥ hīnam daṇḍa-kāṣṭham sa jarjaram . kārayet sa tu apacayam mahāntam prāpnuyāt dhruvam .. 185..
अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ १८६॥
अथ शीर्ष-विभाग-अर्थम् घटी कार्या प्रयत्नतः । स्व-प्रमाण-विनिर्दिष्टाः द्वात्रिंशति-अङ्गुलानि वै ॥ १८६॥
atha śīrṣa-vibhāga-artham ghaṭī kāryā prayatnataḥ . sva-pramāṇa-vinirdiṣṭāḥ dvātriṃśati-aṅgulāni vai .. 186..
बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ १८७॥
बिल्व-मध्येन कर्तव्या घटी सिर-समाश्रया । स्विन्नेन बिल्व-कल्केन द्रवेण च समन्विता ॥ १८७॥
bilva-madhyena kartavyā ghaṭī sira-samāśrayā . svinnena bilva-kalkena draveṇa ca samanvitā .. 187..
भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । सञ्छाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ १८८॥
भस्मना वा तुषैः वा अपि कारयेत् प्रतिशीर्षकम् । सञ्छाद्य तु ततस् वस्त्रैः बिल्व-दुग्धैः घट-आश्रयैः ॥ १८८॥
bhasmanā vā tuṣaiḥ vā api kārayet pratiśīrṣakam . sañchādya tu tatas vastraiḥ bilva-dugdhaiḥ ghaṭa-āśrayaiḥ .. 188..
बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्। ॥ १८९॥
बिल्व-कल्केन चीरम् तु दिग्ध्वा संयोजयेत् घटीम् । न स्थूलाम् न आनताम् तन्वीम् दीर्घाम् न एव च कारयेत्। ॥ १८९॥
bilva-kalkena cīram tu digdhvā saṃyojayet ghaṭīm . na sthūlām na ānatām tanvīm dīrghām na eva ca kārayet. .. 189..
तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९०॥
तस्याम् आतप-शुष्कायाम् सुशुष्कायाम् अथ अपि वा । छेद्यम् बुधाः प्रकुर्वन्ति विधि-दृष्टेन कर्मणा ॥ १९०॥
tasyām ātapa-śuṣkāyām suśuṣkāyām atha api vā . chedyam budhāḥ prakurvanti vidhi-dṛṣṭena karmaṇā .. 190..
सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ १९१॥
सु तीक्ष्णेन तु शस्त्रेण अर्ध-अर्धम् प्रविभज्य च । स्व-प्रमाण-विनिर्दिष्टम् ललाट-कृत-कोणकम् ॥ १९१॥
su tīkṣṇena tu śastreṇa ardha-ardham pravibhajya ca . sva-pramāṇa-vinirdiṣṭam lalāṭa-kṛta-koṇakam .. 191..
अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ १९२॥
अर्ध-अङ्गुलम् ललाटम् तु कार्यम् छेद्यम् षष्-अङ्गुलम् । अर्ध-अर्धम् अङ्गुलम् छेद्यम् कटयोः द्वि-अङ्गुलम् भवेत् ॥ १९२॥
ardha-aṅgulam lalāṭam tu kāryam chedyam ṣaṣ-aṅgulam . ardha-ardham aṅgulam chedyam kaṭayoḥ dvi-aṅgulam bhavet .. 192..
कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ १९३॥
। त्रि-अङ्गुलम् कर्ण-विवरम् तथा स्यात् छेद्यम् एव हि ॥ १९३॥
. tri-aṅgulam karṇa-vivaram tathā syāt chedyam eva hi .. 193..
ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ १९४॥
ततस् च एव अवटुः कार्या सु समा द्वादश-अङ्गुला । घट्याम् हि एतत् सदा छेद्ये विधानम् विहितम् मया ॥ १९४॥
tatas ca eva avaṭuḥ kāryā su samā dvādaśa-aṅgulā . ghaṭyām hi etat sadā chedye vidhānam vihitam mayā .. 194..
तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १९४॥
तस्य उपरि गता कार्या मुकुटाः बहु-शिल्प-जाः । नाना रत्न-प्रतिच्छन्नाः बहु-रूप-उपशोभिताः ॥ १९४॥
tasya upari gatā kāryā mukuṭāḥ bahu-śilpa-jāḥ . nānā ratna-praticchannāḥ bahu-rūpa-upaśobhitāḥ .. 194..
तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ १९६॥
तथा उपकरणानि इह नाट्य-योग-कृतानि वै । बहु-प्रकार-युक्तानि कुर्वीत प्रकृतिम् प्रति ॥ १९६॥
tathā upakaraṇāni iha nāṭya-yoga-kṛtāni vai . bahu-prakāra-yuktāni kurvīta prakṛtim prati .. 196..
यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥१९७॥
यत् किञ्चिद् अस्मिन् लोके तु चराचर-समन्विते । विहितम् कर्म शिल्पम् वा तत्तु उपकरणम् स्मृतम् ॥१९७॥
yat kiñcid asmin loke tu carācara-samanvite . vihitam karma śilpam vā tattu upakaraṇam smṛtam ..197..
यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १९८॥
यत् यस्य विषयम् प्राप्तम् तत् तत् एव अभिगच्छति । पुरुषाणाम् हि नाट्य-उपकरण-आश्रये ॥ १९८॥
yat yasya viṣayam prāptam tat tat eva abhigacchati . puruṣāṇām hi nāṭya-upakaraṇa-āśraye .. 198..
यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १९९॥
यत् येन उत्पादितम् कर्म शिल्प-योग-क्रिया अपि वा । तस्य तेन कृता सृष्टिः प्रमाणम् लक्षणम् तथा ॥ १९९॥
yat yena utpāditam karma śilpa-yoga-kriyā api vā . tasya tena kṛtā sṛṣṭiḥ pramāṇam lakṣaṇam tathā .. 199..
या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २००॥
या काष्ठ-यन्त्र-भूयिष्ठा कृता सृष्टिः महात्मना । न सा अस्माकम् नाट्य-योगे कस्मात् खेद-आवहा हि सा ॥ २००॥
yā kāṣṭha-yantra-bhūyiṣṭhā kṛtā sṛṣṭiḥ mahātmanā . na sā asmākam nāṭya-yoge kasmāt kheda-āvahā hi sā .. 200..
यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्यूपकरणं भवेत् ॥ २०१॥
यत् द्रव्यम् जीव-लोके तु नाना लक्षण-लक्षितम् । तस्य अनुकृति-संस्थानम् नाट्य-उपकरणम् भवेत् ॥ २०१॥
yat dravyam jīva-loke tu nānā lakṣaṇa-lakṣitam . tasya anukṛti-saṃsthānam nāṭya-upakaraṇam bhavet .. 201..
प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २०२॥
प्रासाद-गृह-यानानि नाना प्रहरणानि च । न शक्यम् तानि वै कर्तुम् यथा उक्तानि इह लक्षणैः ॥ २०२॥
prāsāda-gṛha-yānāni nānā praharaṇāni ca . na śakyam tāni vai kartum yathā uktāni iha lakṣaṇaiḥ .. 202..
लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २०३॥
लोक-धर्मी भवेत् तु अन्या नाट्य-धर्मी तथा अपरा । स्वभावः लोक-धर्मी तु विभावः नाट्यम् एव हि ॥ २०३॥
loka-dharmī bhavet tu anyā nāṭya-dharmī tathā aparā . svabhāvaḥ loka-dharmī tu vibhāvaḥ nāṭyam eva hi .. 203..
आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् ॥ २०४॥
आयसम् न तु कर्तव्यम् न च सार-मयम् तथा । नाट्य-उपकरणम् तद्-ज्ञैः गुरु-खेद-कर< भवेत् ॥ २०४॥
āyasam na tu kartavyam na ca sāra-mayam tathā . nāṭya-upakaraṇam tad-jñaiḥ guru-kheda-kara< bhavet .. 204..
काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २०५॥
काष्ठ-चर्मसु वस्त्र्षु जतु-वेणु-दलेषु च । नाट्य-उपकरणानि इह लघु-कर्माणि कारयेत् ॥ २०५॥
kāṣṭha-carmasu vastrṣu jatu-veṇu-daleṣu ca . nāṭya-upakaraṇāni iha laghu-karmāṇi kārayet .. 205..
चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ २०६॥
चर्म-वर्म-ध्वजाः शैलाः प्रासादाः देवतागृहाः । हय-वारण-यानानि विमानानि गृहाणि च ॥ २०६॥
carma-varma-dhvajāḥ śailāḥ prāsādāḥ devatāgṛhāḥ . haya-vāraṇa-yānāni vimānāni gṛhāṇi ca .. 206..
पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २०७॥
पूर्वम् वेणु-दलैः कृत्वा कृतीः भाव-समाश्रयाः । ततस् सु रङ्गैः अच्छाद्य वस्त्रैः सारूप्यम् आनयेत् ॥ २०७॥
pūrvam veṇu-dalaiḥ kṛtvā kṛtīḥ bhāva-samāśrayāḥ . tatas su raṅgaiḥ acchādya vastraiḥ sārūpyam ānayet .. 207..
अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २०८॥
अथवा यदि वस्त्राणाम् असान्निध्यम् भवेत् इह । तालीयैः वा किलिञ्जैः वा श्लक्ष्णैः वस्त्र-क्रिया भवेत् ॥ २०८॥
athavā yadi vastrāṇām asānnidhyam bhavet iha . tālīyaiḥ vā kiliñjaiḥ vā ślakṣṇaiḥ vastra-kriyā bhavet .. 208..
तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २०९॥
तथा प्रहरणानि स्युः तृण-वेणु-दल-आदिभिः । जन्तु-भाण्ड-क्रियाभिः च नाना रूपाणि नाटके ॥ २०९॥
tathā praharaṇāni syuḥ tṛṇa-veṇu-dala-ādibhiḥ . jantu-bhāṇḍa-kriyābhiḥ ca nānā rūpāṇi nāṭake .. 209..
प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१०॥
प्रतिपादम् प्रतिशिरस् प्रतिहस्तम् प्रतित्वचम् । तृणैः किलिञ्जैः भाण्डैः वा सारूप्याणि तु कारयेत् ॥ २१०॥
pratipādam pratiśiras pratihastam pratitvacam . tṛṇaiḥ kiliñjaiḥ bhāṇḍaiḥ vā sārūpyāṇi tu kārayet .. 210..
यद्यस्य सदृशं रूपं सारूप्यगुणसम्भवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥२११॥
यत् यस्य सदृशम् रूपम् सारूप्य-गुण-सम्भवम् । मृण्मयम् तत् तु कृत्स्नम् तु नाना रूपम् तु कारयेत् ॥२११॥
yat yasya sadṛśam rūpam sārūpya-guṇa-sambhavam . mṛṇmayam tat tu kṛtsnam tu nānā rūpam tu kārayet ..211..
भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१२॥
भाण्ड-वस्त्र-मधूच्छिष्टैः लाक्षया अभ्र-दलेन च । नागाः ते विविधाः कार्याः हि अतसी-शण-बिल्व-जैः ॥ २१२॥
bhāṇḍa-vastra-madhūcchiṣṭaiḥ lākṣayā abhra-dalena ca . nāgāḥ te vividhāḥ kāryāḥ hi atasī-śaṇa-bilva-jaiḥ .. 212..
नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥२१३॥
नाना कुसुम-जातीः च फलानि विविधानि च । भाण्ड-वस्त्र-मधूच्छिष्टैः लाक्षया वा अपि कारयेत् ॥२१३॥
nānā kusuma-jātīḥ ca phalāni vividhāni ca . bhāṇḍa-vastra-madhūcchiṣṭaiḥ lākṣayā vā api kārayet ..213..
भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१४॥
भाण्ड-वस्त्र-मधूच्छिष्टैः ताम्र-पत्रैः तथा एव च । सम्यक् च नीली-रागेण अपि अभ्र-पत्रेण च एव हि ॥ २१४॥
bhāṇḍa-vastra-madhūcchiṣṭaiḥ tāmra-patraiḥ tathā eva ca . samyak ca nīlī-rāgeṇa api abhra-patreṇa ca eva hi .. 214..
रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१५॥
रञ्जितेन अभ्र-पत्रेण मणीः च एव प्रकारयेत् । उपाश्रयम् अथ अपि एषम् शुल्ब-वङ्गेन कारयेत् ॥ २१५॥
rañjitena abhra-patreṇa maṇīḥ ca eva prakārayet . upāśrayam atha api eṣam śulba-vaṅgena kārayet .. 215..
विविधा मुकुटा दिवा पूर्वं ये गदिता मया । तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१६॥
विविधाः मुकुटाः दिवा पूर्वम् ये गदिताः मया । ते अभ्र-पत्र-उज्वलाः कार्याः मणी-व्याल-उपशोभिताः ॥ २१६॥
vividhāḥ mukuṭāḥ divā pūrvam ye gaditāḥ mayā . te abhra-patra-ujvalāḥ kāryāḥ maṇī-vyāla-upaśobhitāḥ .. 216..
न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१७॥
न शास्त्र-प्रभवम् कर्म तेषाम् हि समुदाहृतम् । आचार्य-बुद्ध्या कर्तव्यम् ऊह-अपोह-प्रयोजितम् ॥ २१७॥
na śāstra-prabhavam karma teṣām hi samudāhṛtam . ācārya-buddhyā kartavyam ūha-apoha-prayojitam .. 217..
एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१८॥
एष मर्त्य-क्रिया-योगः भविष्यत्-कल्पितः मया । कस्मात् अल्प-बल-त्वम् हि मनुष्येषु भविष्यति ॥ २१८॥
eṣa martya-kriyā-yogaḥ bhaviṣyat-kalpitaḥ mayā . kasmāt alpa-bala-tvam hi manuṣyeṣu bhaviṣyati .. 218..
मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१९॥
मर्त्यानाम् अपि नो शक्याः विभावाः सर्व-काञ्चनाः । न इष्टाः सुवर्ण-रत्नैः तु मुकुटाः भूषणानि वा ॥ २१९॥
martyānām api no śakyāḥ vibhāvāḥ sarva-kāñcanāḥ . na iṣṭāḥ suvarṇa-ratnaiḥ tu mukuṭāḥ bhūṣaṇāni vā .. 219..
युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २२०॥
युद्धे नियुद्धे नृत्ते वा वृष्टि-व्यापार-कर्मणि । गुरु-भाव-अवसन्नस्य स्वेदः मूर्छा च जायते ॥ २२०॥
yuddhe niyuddhe nṛtte vā vṛṣṭi-vyāpāra-karmaṇi . guru-bhāva-avasannasya svedaḥ mūrchā ca jāyate .. 220..
स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २२१॥
स्वेद-मूर्छा-क्लम-आर्तस्य प्रयोगः तु विनश्यति । प्राणात्ययः कदाचिद् च भवेत् व्यायत-चेष्टया ॥ २२१॥
sveda-mūrchā-klama-ārtasya prayogaḥ tu vinaśyati . prāṇātyayaḥ kadācid ca bhavet vyāyata-ceṣṭayā .. 221..
तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २२२॥
तस्मात् ताम्र-मयैः पत्रैः अभ्रकैः रञ्जितैः अपि । भेण्डैः अपि मधूच्छिष्टैः कार्याणि आभरणानि तु ॥ २२२॥
tasmāt tāmra-mayaiḥ patraiḥ abhrakaiḥ rañjitaiḥ api . bheṇḍaiḥ api madhūcchiṣṭaiḥ kāryāṇi ābharaṇāni tu .. 222..
एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥
एवम् लोक-उपचारेण स्व-बुद्धि-विभवेन च । नाट्य-उपकरणानि इह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥
evam loka-upacāreṇa sva-buddhi-vibhavena ca . nāṭya-upakaraṇāni iha budhaḥ samyak prayojayet .. 223..
न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं सन्ज्ञामात्रं तु कारयेत् ॥२२४॥
न भेद्यम् न एव च छेद्यम् न प्रहर्तव्यम् एव च । रङ्गे प्रहरणैः कार्यम् सन्ज्ञा-मात्रम् तु कारयेत् ॥२२४॥
na bhedyam na eva ca chedyam na prahartavyam eva ca . raṅge praharaṇaiḥ kāryam sanjñā-mātram tu kārayet ..224..
अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २२५॥
अथवा योग-शिक्षाभिः विद्या-माया-कृतेन वा । शस्त्र-मोक्षः प्रकर्तव्यः रङ्ग-मध्ये प्रयोक्तृभिः ॥ २२५॥
athavā yoga-śikṣābhiḥ vidyā-māyā-kṛtena vā . śastra-mokṣaḥ prakartavyaḥ raṅga-madhye prayoktṛbhiḥ .. 225..
एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ २२६॥
एवम् नाना प्रकारैः तु आयुध-आभरणानि च । न उक्तानि यानि च मया लोकात् ग्राह्याणि तानि अपि ॥ २२६॥
evam nānā prakāraiḥ tu āyudha-ābharaṇāni ca . na uktāni yāni ca mayā lokāt grāhyāṇi tāni api .. 226..
आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २२७॥
आहार्य-अभिनयः हि एष मया प्रोक्तः समासतस् । अतस् ऊर्ध्वम् प्रवक्ष्यामि सामान्य-अभिनयम् प्रति ॥ २२७॥
āhārya-abhinayaḥ hi eṣa mayā proktaḥ samāsatas . atas ūrdhvam pravakṣyāmi sāmānya-abhinayam prati .. 227..
इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः ।
इति भारतीये नाट्य-शास्त्रे आहार्याभिनयः नाम एकविंशः अध्यायः ।
iti bhāratīye nāṭya-śāstre āhāryābhinayaḥ nāma ekaviṃśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In