| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २१ ॥
.. nāṭyaśāstram adhyāya 21 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ एकविंशोऽध्यायः ।
atha ekaviṃśo'dhyāyaḥ .
आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः ॥ १॥
āhāryābhinayaṃ viprā vyākhyāsyāmyanupūrvaśaḥ . ysmāt prayogaḥ sarvo'yamāhāryābhinaye sthitaḥ .. 1..
नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ २॥
nānāvasthā prakṛtaya pūrvaṃ naipathyasādhitāḥ . aṅgādibhirabhivyaktimupagacchantyayatnataḥ .. 2..
आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ ३॥
āhāryābhinayo nāma jñeyo nepathyajo vidhiḥ . tatra kāryaḥ prayatnastu nāṭyasya śubhamicchatā .. 3..
[तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ॥] ॥ ४॥
[tasminyatnastu kartavyo naipathye siddhimicchatā . nāṭyasyeha tvalaṅkāro naipathyaṃ yatprakīrtitam ..] .. 4..
चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ ५॥
caturvidhaṃ tu nepathyaṃ pusto'laṅkāra eva ca . tathāṅkaracanā caiva jñeyaṃ sajjīvameva ca .. 5..
पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ ६॥
pustastu trividho jñeyo nānārūpapramāṇataḥ . sandhimo vyājimaścaiva veṣṭimaśca prakīrtitaḥ .. 6..
किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ ७॥
kiliñjacarmavastrādyairyadrūpaṃ kriyate budhaiḥ . sandhimo nāma vijñeyaḥ pusto nāṭakasaṃsśrayaḥ .. 7..
व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु सन्ज्ञितः ॥ ८॥
vyājimo nāma vijñeayo yantreṇa kriyate tu yaḥ . veṣṭyate caiva yadrupaṃ veṣṭimaḥ sa tu sanjñitaḥ .. 8..
शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति सन्ज्ञितः ॥ ९॥
śailayānavimānāni carmavarmadhvajā nagāḥ . ye kriyante hi nāṭye tu sa pusta iti sanjñitaḥ .. 9..
अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ १०॥
alaṅkārastu vijñeyo mālyābharaṇavāsasām . nānāvidhaḥ samāyogo'pyaṅgopāṅgavidhiḥ smṛtaḥ .. 10..
वेष्टिमं विततं चैव सङ्घात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥११॥
veṣṭimaṃ vitataṃ caiva saṅghātyaṃ granthimaṃ tathā . prālambitaṃ tathā caiva mālyaṃ pañcavidhaṃ smṛtam ..11..
चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ १२॥
caturvidhaṃ tu vijñeyaṃ nāṭye hyābharaṇaṃ budhaiḥ . āvedhyaṃ bandhanīyaṃ ca kṣepyamāropyameva ca .. 12..
आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ १३॥
āvedhyaṃ kuṇḍalādīha yatsyācchravaṇabhūṣaṇam . āropyaṃ hemasūtrādi hārāśca vividhāśrayāḥ .. 13..
श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ १४॥
śroṇīsūtrāṅgade muktābandhanīyāni sarvadā . prakṣepya nūpuraṃ vidyādvastrābharaṇameva ca .. 14..
भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥१५॥
bhūṣaṇānāṃ vikalpaṃ hi puruṣastrīsamāśrayam . nāvidhaṃ pravakṣyāmi deśajātisamudbhavam ..15..
चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ १६॥
cūḍāmaṇiḥ samukuṭaḥ śiraso bhūṣaṇaṃ smṛtam . kuṇḍalaṃ mocakaṃ kīlā karṇābharaṇamiṣyate .. 16..
मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥१७॥
muktāvalī harṣakaṃ ca sūtrakaṃ kaṇṭhabhūṣaṇam . vetikāṅgulimudrā ca syādaṅgulivibhūṣaṇam ..17..
हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ १८॥
hastalī valayaṃ caiva bāhunālīvibhūṣaṇam . rucakaścūlikā kāryā maṇibandhavibhūṣaṇam .. 18..
केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ १९॥
keyūre aṅgade caiva kūrparoparibhūṣaṇe . trisaraścaiva hāraśca tathā vakṣovibhūṣaṇam .. 19..
व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ २०॥
vyālambamauktiko hāro mālā caivāṅgabhūṣaṇam . talakaṃ sūtrakaṃ caiva bhavetkaṭivibhūṣaṇam .. 20..
अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ २१॥
ayaṃ puruṣaniryogaḥ kāryastvābharaṇāśrayaḥ . devānāṃ pārthivānāṃ ca punarvakṣyāmi yoṣitām .. 21..
शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ॥२२॥
śikhāpāśaṃ śikhāvyālaṃ piṇḍīpatraṃ tathaiva ca . cūḍāmaṇirmakarikā muktājālagavākṣikam ..22..
शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ २३॥
śiraso bhūṣaṇaṃ caiva vicitraṃ śīrṣajolakam . kaṇḍakaṃ śikhipatraṃ ca veṇīpucchaḥ sadorakaḥ .. 23..
ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ २४॥
lalāṭatilakaṃ caiva nānāśilpaprayojitam . bhrūgucchoparigucchaśca kusumānukṛtistathā .. 24..
कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ २५॥
karṇikā karṇavalayaṃ tathā syātpatrakarṇikā . kuṇḍalaṃ karṇamudrā ca karṇotkīlakameva ca .. 25..
नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ २६॥
nānāratnavicitrāṇi dantapatrāṇi caiva hi . karṇayorbhūṣaṇaṃ hyetatkarṇapūrastathaiva ca .. 26..
तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ २७॥
tilakāḥ patralekhāśca bhavedgaṇḍavibhūṣaṇam . trivaṇī caiva vijñeyaṃ bhavedvakṣovibhūṣaṇam .. 27..
नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ २८॥
netrayorañjanaṃ jñeyamadharasya ca rañjanam . dantānāṃ vividho rāgaścaturṇāṃ śuklatāpi vā .. 28..
रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ २९॥
rāgāntaravikalpo'tha śobhanenādhikojvalaḥ . mugdhānāṃ sundarīṇāṃ ca muktābhāsitaśobhanāḥ .. 29..
सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ ३०॥
suraktā vāpi dantā syuḥḥ padmapallavarañjanāḥ . aśmarāgoddyotitaḥ syādadharaḥ pallavaprabhaḥ .. 30..
विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ ३१॥
vilāsaśca bhavettāsāṃ savibhrāntanirīkṣitam . muktāvalī vyālapaṅktirmañjarī ratnamālikā .. 31..
रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥३२॥
ratnāvalī sūtrakaṃ ca jñeyaṃ kaṇṭhavibhūṣaṇam . dvisarastrisaraścaiva catussarakameva ca ..32..
तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ ३३॥
tathā śṛṅkhalikā caiva bhavetkaṇṭhavibhūṣaṇam . aṅgadaṃ valayaṃ caiva bāhumūlavibhūṣaṇam .. 33..
नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ ३४॥
nānāśilpakṛtāścaiva hārā vakṣovibhūṣaṇam . maṇijālāvanaddhaṃ ca bhavet stanavibhūṣaṇam .. 34..
खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ ३५॥
kharjūrakaṃ socchitikaṃ bāhunālīvibhūṣaṇam . kalāpī kaṭakaṃ śaṅkho hastapatraṃ sapūrakam .. 35..
मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा ॥ ३६॥
mudrāṅgulīyakaṃ caiva hyaṅgulīnāṃ vibhūṣaṇam . muktājālāḍhyatalakaṃ mekhalā kāñcikāpi vā .. 36..
रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ ३७॥
raśanā ca kalāpaśca bhavecchroṇīvibhūṣaṇam . ekayaṣṭirbhavetkāñcī mekhalā tvaṣṭayaṣṭikā .. 37..
द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ ३८॥
dviraṣṭayaṣṭi raśanā kalāpaḥ pañcaviṃśakaḥ . dvātriṃśacca catuḥṣaṣṭiḥ śatamaṣṭottaraṃ tathā .. 38..
मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥३९॥
muktāhārā bhavantyete devapārthivayoṣitām . nūpuraḥ kiṅkiṇīkāśca ghaṇṭikā ratnajālakam ..39..
सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ ४०॥
saghoṣe kaṭake caiva gulphoparivibhūṣāṇam . jaṅghayoḥ pādapatraṃ syādaṅgulīṣvaṅgulīyakam .. 40..
अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ ४१॥
aṅguṣṭhatilakāścaiva pādayośca vibhūṣaṇam . tathālaktakarāgaśca nānābhaktiniveśitaḥ .. 41..
अशोकपलावच्छायः स्यात् स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ ४२॥
aśokapalāvacchāyaḥ syāt svābhāvika eva ca . etadvibhūṣaṇaṃ nāryā ākeśādānakhādapi .. 42..
यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ ४३॥
yathābhavarasāvasthaṃ vijñeyaṃ dvijasattamāḥ . āgamaśca pramāṇaṃ ca rūpanirvarṇanaṃ tathā .. 43..
विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ ४४॥
viśvakarmamatātkāryaṃ subuddhyāpi prayoktṛbhiḥ . na hi śakyaṃ suvarṇena muktābhirmaṇibhistathā .. 44..
स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ ४५॥
svādhīnamiti rucyaiva kartumaṅgasya bhūṣaṇam . vibhāgato'bhiprayuktamaṅgaśobhākaraṃ bhavet .. 45..
यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ ४६॥
yathā sthānāntaragataṃ bhūṣaṇaṃ ratnasaṃyutam . na tu nāṭyaprayogeṣu kartavyaṃ bhūṣaṇaṃ guru .. 46..
खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ ४७॥
khedaṃ janayate taddhi savyāyataviceṣṭanāt . gurubhāvāvasannasya svedo mūrchā ca jāyate .. 47..
गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ ४८॥
gurvābharaṇasanno hi ceṣṭāṃ na kurute punaḥ . tasmāttanutvacakṛtaṃ sauvarṇaṃ bhūṣaṇaṃ bhavet .. 48..
रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ ४९॥
ratnavajjatubaddhaṃ vā na khedajananaṃ bhavet . svecchayā bhūṣaṇavidhirdivyānāmupadiśyate .. 49..
यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव सङ्घात्यं ग्रथिमं तथ ॥ ५०॥
yatnabhāvaviniṣpannaṃ mānuṣāṇāṃ vibhūṣaṇam . [veṣṭitaṃ vitataṃ caiva saṅghātyaṃ grathimaṃ tatha .. 50..
लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसम्भवम् ॥ ५१॥
lambaśobhi tathā caiva mālyaṃ pañcavidhaṃ smṛtam . ācchādanaṃ bahuvidhaṃ nānāpattanasambhavam .. 51..
तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] । दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ ५२॥
tajjñeyaṃ triprakāraṃ tu śuddhaṃ raktaṃ vicitritam] . divyānāṃ bhūṣaṇavidhirya eṣa parikīrtitaḥ .. 52..
मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ ५३॥
mānuṣāṇāṃ tu kartavyo nānādeśasamāśrayaḥ . bhūṣaṇaiścāpi veṣaiśca nānāvasthāsamāśrayaiḥ .. 53..
दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ ५४॥
divyāṅganānāṃ kartavyā vibhaktiḥ svasvabhūmijā . vidyādharīṇāṃ yakṣīṇāmapsaronāgayoṣitām .. 54..
ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ ५५॥
ṛṣidaivatakanyānāṃ veṣairnānātvamiṣyate . tathā ca siddhagandharvarākṣasāsurayoṣitām .. 55..
दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ ५६॥
divyānāṃ naranārīṇāṃ tathaiva ca śikhaṇḍakam . śikhāpuṭaśikhaṇḍaṃ tu muktābhūyiṣṭhabhūṣaṇam .. 56..
विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ ५७॥
vidyādharīṇāṃ kartavyaḥ śuddho veṣaparicchadaḥ . yakṣiṇyo'psaraścaiva karyā ratnavibhūṣaṇāḥ .. 57..
समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ ५८॥
samastānāṃ bhavedveṣo yakṣīṇā kevalaṃ śikhā . divyanāmiva kartavyaṃ nāgastrīṇāṃ vibhūṣaṇam .. 58..
मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ ५९॥
muktāmaṇilatāprāyāḥ phaṇāstāsāṃ tu kevalāḥ . kāryaṃ tu munikanyānāmekaveṇīdharaṃ śiraḥ .. 59..
न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ ६०॥
na cāpi vibhūṣaṇavidhistāsāṃ veṣo vanocitaḥ . muktāmarakataprāyaṃ maṇḍanaṃ siddhayoṣitām .. 60..
तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ ६१॥
tāsāṃ tu caiva kartavyaṃ pītavastraparicchadam . padmarāgamaṇiprāyaṃ gandharvīṇāṃ vibhūṣaṇam .. 61..
वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ ६२॥
vīṇāhastaśca kartavyaḥ kausumbhavasanastathā . indranīlaistu kartavyaṃ rākṣasīṇāṃ vibhūṣaṇam .. 62..
सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ ६३॥
sitadaṃṣṭrā ca kartavyā kṛṣṇavastraparicchadam . vaiḍūryamuktābharaṇāḥ kartavyā surayoṣitām .. 63..
शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ ६४॥
śukapiñchanibhaiarvastraiḥ kāryastāsāṃ paricchadaḥ . puṣyarāgaistu maṇibhiḥ kvacidvaiḍūryabhūṣitaiḥ .. 64..
दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ ६५॥
divyavānaranārīṇāṃ kāryo nīlaparicchadaḥ . evaṃ śṛṅgāriṇaḥ kāryā veṣā divyāṅganāśrayāḥ .. 65..
अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ ६६॥
avasthāntamāsādya śuddhāḥ kāryāḥ punastathā . mānuṣīṇāṃ tu kartavyā nānādeśasamudbhavāḥ .. 66..
वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ ६७॥
veṣābharaṇasaṃyogān gadatastānnibodhata . āvantyayuvatīnāṃ tu śirassālakakuntalam .. 67..
गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ ६८॥
gauḍīyānāmalakaprāyaṃ saśikhāpāśaveṇikam . ābhīrayuvatīnāṃ tu dviveṇīdhara eva tu .. 68..
शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ ६९॥
śiraḥ parigamaḥ kāryo nīlaprāyamathāmbaram . tathā pūrvotarastrīṇāṃ samunnaddhaśikhaṇḍakam .. 69..
आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ ७०॥
ākeśācchādanaṃ tāsāṃ deśakarmaṇi kīrtitam . tathaiva dakṣiṇastrīṇāṃ kāryamullekhyasaṃśrayam .. 70..
कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ ७१॥
kumbhībandhakasaṃyuktaṃ tathāvartalalāṭikam . [gaṇikānāṃ tu kartavyamicchāvicchitti maṇḍanam] .. 71..
देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ ७२॥
deśajātividhānena śeṣāṇāmapi kārayet . veṣaṃ tathā cābharaṇaṃ kṣurakarma paricchadam .. 72..
[आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] । अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ ७३॥
[āgamaṃ cāpi naipathye nāṭyasyaivaṃ prayojayet] . adeśayukto veṣo hi na śobhāṃ janayiṣyati .. 73..
मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ ७४॥
mekhalorasi baddhā tu hāsyaṃ samupapādayet . tathā proṣitakāntāsu vyasanābhihatāsu ca .. 74..
वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ ७५॥
veṣo vai malinaḥ kārya ekaveṇīdharaṃ śiraḥ . vipralambhe tu nāryāstu śuddho veṣo bhavediha .. 75..
नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ ७६॥
nātyābharaṇasaṃyukto na cāpi mṛjayānvitaḥ . evaṃ strīṇāṃ bhavedveṣo deśāvasthāsamudbhavaḥ .. 76..
पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ ७७॥
puruṣāṇāṃ punaścaiva veṣānvakṣyāmi tattvataḥ . tatrāṅkaracanā pūrvaṃ kartavyā nāṭyayoktṛbhiḥ .. 77..
ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ ७८॥
tataḥ paraṃ prayoktavyā veṣā deśasamudbhavāḥ . sito nīlaśca pītaśca caturtho rakta eva ca .. 78..
एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥७९॥
ete svabhāvajā varṇā yaiḥ kāryaṃ tvaṅgavartanam . saṃyogajāḥ punaścānye upavarṇā bhavanti hi ..79..
तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ ८०॥
tānahaṃ sampravakṣyāmi yathākāryaṃ prayoktṛbhiḥ . sitanīlasamāyoge kāraṇḍava iti smṛtaḥ .. 80..
सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ ८१॥
sitapītasāmāyogātpāṇḍuvarṇaḥ prakīrtitaḥ . sitiaraktasamāyoge padmavarṇaḥ prakīrtitaḥ .. 81..
पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ ८२॥
pītanīlasamāyogāddharito nāma jāyate . nīlaraktasamāyogātkaṣāyo nāma jāyate .. 82..
रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ ८३॥
raktapītasamāyogādgauravarṇa iti smṛtaḥ . ete saṃyogajā varṇā hyupavarṇāstathāpare .. 83..
त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ ८४॥
tricaturvarṇasaṃyuktā bahavaḥ samprakīrtitāḥ . balastho yo bhavedvarṇastasya bhāgo bhavettataḥ .. 84..
दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके ॥ ८५॥
durbalasya ca bhāgau dvau nīlaṃ muktvā pradāpayet . nīlasyaiko bhavedbhāgaścatvāro'nye tu varṇake .. 85..
बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ ८६॥
balavānsarvavarṇānāṃ nīla eva prakīrtitaḥ . evaṃ varṇavidhiṃ jñātvā nānāsaṃyogasaṃśrayam .. 86..
ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ ८७॥
tataḥ kuryādyathāyogamaṅgānāṃ vartanaṃ budhaḥ . vartanacchādanaṃ rūpaṃ svaveṣaparivarjitam .. 87..
नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ ८८॥
nāṭyadharmapravṛttaṃ tu jñeyaṃ tatprakṛtisthitam . svavarṇamātmanaśchādyaṃ varṇakairveṣasaṃśrayaiḥ .. 88..
आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥८९॥
ākṛtistasya kartavyā yasya prakṛtirāsthitā . yathā jantuḥ svabhāvaṃ svaṃ parityajyānyadaihikam ..89..
तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ ९०॥
tatsvabhāvaṃ hi bhajate dehāntaramupāśritaḥ . veṣeṇa varṇakaiścaiva cchāditaḥ puruṣastathā .. 90..
परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ९१॥
parabhāvaṃ prakurute yasya veṣaṃ samāśritaḥ . devadānavagandharvayakṣarākṣasapannagāḥ .. 91..
प्राणिसन्ज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ ९२॥
prāṇisanjñāḥ smṛtā hyete jīvabandhāśca ye'pare . [strībhāvāḥ parvatāḥ nadyaḥ samudrā vāhanāni ca .. 92..
नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसन्ज्ञया] । शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ ९३॥
nānāśastrāṇyapi tathā vijñeyāḥ prāṇisanjñayā] . śailaprāsādayantrāṇi carmavarmadhvajāstathā .. 93..
नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ ९४॥
nānāpraharaṇādyāśca te'prāṇina iti smṛtāḥ . athavā kāraṇopetā bhavantyete śarīriṇaḥ .. 94..
वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ ९५॥
veṣabhāṣāśrayopetā nāṭyadharmamavekṣya tu . varṇānāṃ tu vidhiṃ jñātvā vayaḥ prakṛtimeva ca .. 95..
कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ ९६॥
kuryādaṅgasya racanāṃ deśajātivayaḥśritatām . devā gaurāstu vijñeyā yakṣāścāpsarastathā .. 96..
रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ ९७॥
rudrārkadruhiṇaskandāstapanīyaprabhāḥ smṛtāḥ . somo bṛhaspatiḥ śukro varuṇastārakāgaṇāḥ .. 97..
समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ ९८॥
samudrahimavadgaṅgāḥ śvetā hi syurbalastathā . raktamaṅgārakaṃ vidyāt pītau budhahutāśanau .. 98..
नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ ९९॥
nārāyaṇo naraścaiva śyāmo nāgaśca vāsukiḥ . daityāśca dānavāścaiva rākṣasā guhyakā nagāḥ .. 99..
पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ १००॥
piśācā jalamākāśamasitāni tu varṇataḥ . bhavanti ṣaṭsu dvīpeṣu puruṣaścaiva varṇataḥ .. 100..
कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ १०१॥
kartavyā nāṭyayogena niṣṭaptakanakaprabhāḥ . jāmbūdvīpasya varṣe tu nānāvarṇāśrayā narāḥ .. 101..
उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ १०२॥
uttarāṃstu kurustyaktvā te cāpi kanakaprabhāḥ . bhadrāśvapuruṣāḥ śvetāḥ kartavyā varṇatastathā .. 102..
केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ १०३॥
ketumāle narā nīlā gaurāḥ śeṣeṣu kīrtitāḥ . nānāvarṇāḥ smṛtā bhūtā gandharvā yakṣapannagāḥ .. 103..
विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ १०४॥
vidyādharāstathā caiva pitarastu samā narāḥ . punaśca bhārate varṣe tāṃstānvarṇānnibodhata .. 104..
राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ १०५॥
rājānaḥ padmavarṇāstu gaurāḥ śyāmāstathaiva ca . ye cāpi sukhino martyā gaurā kāryāstu vaiḥ budhaiḥ .. 105..
कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ १०६॥
kukarmiṇo grahagrastāḥ vyādhitāstapasi sthitāḥ . āyastakarmiṇaścaiva hyasitāśca kujātayaḥ .. 106..
ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ १०७॥
ṛṣyayaścaiva kartavyā nityaṃ tu badaraprabhāḥ . tapaḥsthitāśca ṛṣayo nityāmevāsitā budhaiḥ .. 107..
कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ १०८॥
kāraṇavyapadeśena tathā cātmecchayā punaḥ . varṇastatra prakartavyo deśajativaśānugaḥ .. 108..
देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ १०९॥
deśaṃ karma ca jātiṃ ca pṛthivyuddeśasaṃśrayam . vijñāya vartanā kāryā puruṣāṇāṃ prayogataḥ .. 109..
किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ ११०॥
kirātabarbarāndhrāśca draviḍāḥ kāśikosalāḥ . pulindā dākṣiṇātyāśca prāyeṇa tvasitāḥ smṛtāḥ .. 110..
शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ १११॥
śakāśca yavanāścaiva pahlavā vāhlikāśca ye . prāyeṇa gaurāḥ kartavyā uttarā ye śritā diśam .. 111..
पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ ११२॥
pāñcālāḥ śaurasenāśca māhiṣāścauḍramāgadhāḥ . aṅgā vaṅgāḥ kaliṅgāśca śyāmāḥ kāryāstu varṇataḥ .. 112..
ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ ११३॥
brāhmaṇāḥ kṣatriyāścaiva gaurāḥ kāryāstathaiva hi . vaiśyāḥ śūdrāstathā caiva śyāmāḥ kāryāstu varṇataḥ .. 113..
एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ॥११४॥
evaṃ kṛtvā yathānyāyaṃ mukhāṅgopāṅgavartanām . śmaśrukarma prayuñjīta deśakālavayo'nugam ..114..
शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ ११५॥
śuddhaṃ vicitraṃ śyāmaṃ ca tathā romaśameva ca . bhaveccaturvidhaṃ śmaśru nānāvasthāntarātmakam .. 115..
शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ ११६॥
śuddhaṃ tu liṅgināṃ kāryaṃ tathāmātyapurodhasām . madhyasthā ye ca puruṣā ye ca dīkṣāṃ samāśritāḥ .. 116..
दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ ११७॥
divyā ye puruṣāḥ kecitsiddhavidyādharādayaḥ . pārthivāśca kumārāśca ye ca rājopajīvinaḥ .. 117..
शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ ११८॥
śṛṅgāriṇaśca ye martyā yauvanonmādinaśca ye . teṣāṃ vicitraṃ kartavyaṃ śmaśru nāṭyaprayoktṛbhiḥ .. 118..
अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ ११९॥
anistīrṇapratijñānāṃ duḥkhitānāṃ tapasvinām . vyasanābhihatānāṃ ca śyāmaṃ śmaśru prayojayet .. 119..
ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ १२०॥
ṛṣīṇāṃ tāpasānāṃ ca ye ca dīrghavratā narāḥ . tathā ca cīrabaddhānāṃ romaśaṃ śmaśru kīrtitam .. 120..
एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ १२१॥
evaṃ nānāprakāraṃ tu śmaśru kāryaṃ prayoktṛbhiḥ . ata ūrdhvaṃ pravakṣyāmi veṣānnānāprayogajān .. 121..
शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ १२२॥
śuddho vicitro malinastrividho veṣa ucyate . teṣāṃ niyogaṃ vakṣyāmi yathāvadanupūrvaśaḥ .. 122..
देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ १२३॥
devābhigamane caiva maṅgale niyamasthite . tithinakṣatrayoge ca vivāhakaraṇe tathā .. 123..
धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ १२४॥
dharmapravṛttaṃ yatkarma striyo vā puruṣasya vā . veṣasteṣāṃ bhavecchuddho ye ca prāyatnikā narāḥ .. 124..
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ १२५॥
devadānavayakṣāṇāṃ gandharvoragarakṣasām . nṛpāṇāṃ karkaśānāṃ ca citro veṣa udāhṛtaḥ .. 125..
वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् ॥ १२६॥
vṛddhānāṃ brāhmaṇānāṃ ca śreṣṭhyamātyapurodhasām . vaṇijāṃ kāñcukīyānāṃ tathā caiva tapasvinām .. 126..
विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ १२७॥
viprakṣetriyavaiśyānāṃ sthānīyā ye ca mānavāḥ . śuddho vastravidhisteṣāṃ kartavyo nāṭakāśrayaḥ .. 127..
उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ १२८॥
unmattānāṃ pramattānāmadhvagānāṃ tathaiva ca . vyasanopahatānāṃ ca malino veṣa ucyate .. 128..
शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ १२९॥
śuddharaktavicitrāṇi vāsāṃsyūrdhvāmbarāṇi ca . yojayennāṭyatattvajño veṣayoḥ śuddhacitrayoḥ .. 129..
कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ १३०॥
kuryādveṣe tu maline malinaṃ tu vicakṣaṇaḥ . muninirgranthaśākyeṣu yatipāśupateṣu ca .. 130..
व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ १३१॥
vratānugastu kartavyo veṣo lokasvabhāvataḥ . cīravalkalacarmāṇi tāpasānāṃ tu yojayet .. 131..
परिवाण्मुनिष्क्यानां वासः काषायमिष्यते । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ १३२॥
parivāṇmuniṣkyānāṃ vāsaḥ kāṣāyamiṣyate . nānācitrāṇi vāsāṃsi kuryātpāśupateṣvatha .. 132..
कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ १३३॥
kujātayaśca ye proktāsteṣāṃ caiva yathārhataḥ . antaḥpurapraveśe ca viniyuktā hi ye narāḥ .. 133..
काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ १३४॥
kāṣāyakañcukapaṭāḥ kāryāste'pi yathāvidhi . avasthānatarataścaiva nṛṇāṃ veṣo bhavedatha .. 134..
वेषः साङ्ग्रामिकश्चैव शूराणां सम्प्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ १३५॥
veṣaḥ sāṅgrāmikaścaiva śūrāṇāṃ samprakīrtitaḥ . vicitraśastrakavaco baddhatūṇo dhanurdharaḥ .. 135..
चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ १३६॥
citro veṣastu kartavyo nṛpāṇāṃ nityameva ca . kevalastu bhavecchuddho nakṣatrotpātamaṅgale .. 136..
एवमेष भवेद्वेषो देशजातिवयोऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ १३७॥
evameṣa bhavedveṣo deśajātivayo'nugaḥ . uttamādhamamadhyānāṃ strīṇāṃ nṛṇāmathāpi ca .. 137..
एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ १३८॥
evaṃ vastravidhiḥ kāryaḥ prayoge nāṭakāśraye . nānāvasthāṃ samāsādya śubhāśubhakṛtastathā .. 138..
तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ १३९॥
tathā pratiśiraścāpi kartavyaṃ nāṭakāśrayam . divyānāṃ mānuṣāṇāṃ ca deśajātivayaḥśritam .. 139..
पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ १४०॥
pārśvāgatā mastakinastathā caiva kirīṭinaḥ . trividho mukuṭo jñeyo divyapārthivasaṃśritaḥ .. 140..
देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ १४१॥
devagandharvayakṣāṇāṃ pannagānāṃ sarakṣasām . kartavyā naikavihiata mukuṭāḥ pārśvamaulayaḥ .. 141..
उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ १४२॥
uttamā ye ca divyānāṃ te ca kāryāḥ kirīṭinaḥ . madhyamā maulinaścaiva kaniṣṭhāḥ ṣirṣamaulinaḥ .. 142..
नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ १४३॥
narādhipānāṃ kartavyā mastake mukuṭā budhaiḥ . vidyādharāṇāṃ ca siddhānāṃ cāraṇānāṃ tathaiva ca .. 143..
ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ १४४॥
granthimatkeśamukuṭāḥ kartavyāstu prayoktṛbhiḥ . rākṣodānavadaityānāṃ piṅgakeśekṣaṇāni hi .. 144..
हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ १४५॥
haricchśmaśrūṇi ca tathā mukuṭāsyāni kārayet . uttamaścāpi ye tatra te kāryāḥ pārśvamaulinaḥ .. 145..
कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ १४६॥
kasmāttu mukuṭāḥ sṛṣṭāḥ prayoge divypārthive . keśānāṃ chedanaṃ dṛṣṭaṃ vedavāde yathāśruti .. 146..
भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ १४७॥
bhadrīkṛtasya vā yajñe śirasaśchādanecchayā . keśānāmapyadīrghatvātsmṛtaṃ mukuṭadhāraṇam .. 147..
सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ १४८॥
senāpateḥ punaścāpi yuvarājasya caiva hi . yojayedardhamukuṭaṃ mahāmātrāśca ye narāḥ .. 148..
अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ १४९॥
amātyānāṃ kañcukināṃ tathā śreṣṭhipurodhasām . veṣṭanābaddhapaṭṭāni pratiśīrṣāṇi kārayet .. 149..
पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ १५०॥
piśāconmattabhūtānāṃ sādhakānāṃ tapasvinām . anistīrṇapratijñānāṃ lambakeśaṃ bhavecchiraḥ .. 150..
शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ १५१॥
śākyaśrotriyanirgranthaparivrāḍdīkṣiteṣu ca . śiromuṇḍaṃ tu kartavyaṃ yajñadīkṣānviteṣu ca .. 151..
तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ १५२॥
tathā vratānugaṃ caiva śeṣānāṃ liṅgināṃ śiraḥ . muṇḍaṃ vā kuñcitaṃ vāpi lambakeśamathāpi vā .. 152..
धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ १५३॥
dhūrtānāṃ caiva kartavyaṃ ye ca rātryupajīvinaḥ . śṛṅgāracittāḥ puruṣāsteṣāṃ kuñcitamūrdhajāḥ .. 153..
बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ १५४॥
bālānāmapi kartavyaṃ triśikhaṇḍavibhūṣitam . jaṭāmakuṭabaddhaṃ ca munīnāṃ tu bhavecchiraḥ .. 154..
चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ १५५॥
ceṭānāmapi kartavyaṃ triśikhaṃ muṇḍameva vā . vidūṣakasya khalatiḥ syātkākapadameva vā .. 155..
शीषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ १५६॥
śīṣāṇāmarthayogena deśajātisamāśrayam . śiraḥ prayoktṛbhiḥ kāryaṃ nānāvasthāntarāśrayam .. 156..
भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ १५७॥
bhūṣaṇairvarṇakairvastrairmālyaiścaiva yathāvidhi . evaṃ nānāprakāraistu buddhyā veṣānprakalpayet .. 157..
पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसम्भवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ १५८॥
pūrvaṃ tu prakṛtiṃ sthāpya prayogaguṇasambhavām . strīṇāṃ vā puruṣāṇāṃ vāpyavasthāṃ prāpya tādṛśīm .. 158..
सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ १५९॥
sarve bhāvāśca divyānāṃ kāryā mānuṣasaṃśrayāḥ . teṣāṃ cānimiṣatvādi naiva kāryaṃ prayoktṛbhiḥ .. 159..
इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ १६०॥
iha bhāvarasāścaiva dṛṣṭibhiḥ sampratiṣṭhitāḥ . dṛṣṭyaiva sthāpito hyarthaḥ paścādaṅgairvibhāvyate .. 160..
एवं ज्ञीयाङ्गरचना नानाप्रकृतिसम्भवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ १६१॥
evaṃ jñīyāṅgaracanā nānāprakṛtisambhavā . sajīva iti yaḥ proktastasya vakṣyāmi lakṣaṇam .. 161..
यः प्राणिनां प्रवेशो वै सजीव इति सन्ज्ञितः । चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ १६२॥
yaḥ prāṇināṃ praveśo vai sajīva iti sanjñitaḥ . catuṣpado'tha dvipadastathā caivāpadaḥ smṛtaḥ .. 162..
उरगानपदान् विद्याद् द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ १६३॥
uragānapadān vidyād dvipadānkhagamānuṣān . grāmyā āraṇyāḥ paśavo vijñeyāḥ syuścatuṣpadāḥ .. 163..
ये ते तु यद्धसम्फेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ १६४॥
ye te tu yaddhasampheṭairuparodhaistathaiva ca . nānāpraharaṇopetāḥ prayojyā nāṭake budhaiḥ .. 164..
आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ १६५॥
āyudhāni ca kāryāṇi puruṣāṇāṃ pramāṇataḥ . tānyahaṃ vartayiṣyāmi yathāpustapramāṇataḥ .. 165..
भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ १६६॥
bhiṇḍirdvādaśatālaḥ syāddaśa kunto bhavedatha . aṣṭau śataghnī śūlaṃ ca tomaraḥ śaktireva vā .. 166..
अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ १६७॥
aṣṭau tālā dhanurjñeyamāyāmo'sya dvihastakaḥ . śaro gadā ca vajrā ca catustālaṃ vidhīyate .. 167..
अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते ॥ १६८॥
aṅgulāni tvasiḥ kāryaścatvāriṃśatpramāṇataḥ . dvādaśāṅgulakaṃ cakraṃ tato'rdhaṃ prāsa iṣyate .. 168..
प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ १६९॥
prāsavatpaṭṭasaṃ vidyāddaṇḍaścaiva tu viṃśatiḥ . viṃśatiḥ kaṇayaścaiva hyaṅgulāni pramāṇataḥ .. 169..
शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ १७०॥
śoḍaṣāṅgulavistīrṇaṃ sabalaṃ sampraghaṇṭikam . triṃśadaṅgulimānena kartavyaṃ kheṭakaṃ budhaiḥ .. 170..
जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ १७१॥
jarjaro daṇḍakāṣṭhaṃ ca tathaiva pratiśīrṣakam . chatraṃ cāmaraṃ caiva dhvajo śṛṅgāra eva ca .. 171..
यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् ॥ १७२॥
yatkiñcinmānuṣe loke dravyaṃ puṃsāṃ prayojakam . yaccopakaraṇaṃ sarve nāṭye tatsamprakīrtitam .. 172..
यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् ॥ १७३॥
yadyasya viṣayaprāptaṃ tenohyaṃ tasya lakṣaṇam . jarjare daṇḍakāṣṭhe ca sampravakṣyāmi lakṣaṇam .. 173..
माहेन्द्रा वै ध्वजाज़् प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ १७४॥
māhendrā vai dhvajāz proktā lakṣaṇairviśvakarmaṇā . eṣānyatamaṃ kuryājjarjaraṃ dārukarmataḥ .. 174..
अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥१७५॥
athavā vṛkṣayoniḥ syātpraroho vāpi jarjaraḥ . veṇureva bhavecchreṣṭhastasya vakṣyāmi lakṣaṇam ..175..
श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा । सङ्ग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ १७६॥
śvetabhūmyāṃ tu yo jātaḥ puṣyanakṣatrajastathā . saṅgrāhyo vai bhavedveṇurjarjarārthe prayatnataḥ .. 176..
प्रमाणमङ्गुलानां तु शतमष्टोत्तर<ं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ १७७॥
pramāṇamaṅgulānāṃ tu śatamaṣṭottara<ṃ bhavet . pañcaparvā caturgranthistālamātrastathaiva ca .. 177..
स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ १७८॥
sthūlagranthirna kartavyo na śākhī na ca kīṭavān . na kṛmikṣataparvā ca na hīnaścānyaveṇubhiḥ .. 178..
मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ १७९॥
madhusarpissarṣapāktaṃ mālyadhūpapuraskṛtam . upāsya vidhivadveṇuṃ gṛhṇiyājjarjaraṃ prati .. 179..
यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ १८०॥
yo vidhiryaḥ kramaścaiva māhebdre tu dhvaje smṛtaḥ . sa jarjarasya kartavyaḥ puṣyaveṇusamāśrayaḥ .. 180..
भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ १८१॥
bhavedyo dīrghaparvā tu tanupatrastathaiva ca . parvāgrataṇḍulaścaiva puṣyaveṇuḥ sa kīrtitaḥ .. 181..
विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज़्ः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डकाष्ठस्य लक्षणम् ॥ १८२॥
vidhireṣa mayā prokto jarjarasya pramāṇatazḥ . ata ūrdhvaṃ pravakṣyāmi daṇḍakāṣṭhasya lakṣaṇam .. 182..
कपित्थबिल्ववंशेभ्यो दण्डकाष्ठं भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ १८३॥
kapitthabilvavaṃśebhyo daṇḍakāṣṭhaṃ bhavedatha . vakraṃ caiva hi kartavyaṃ tribhāge lakṣaṇānvitam .. 183..
कीटैर्नोपहतं यच्च व्याधिना न च पीडितम् । मन्दशाखं भवेद्यच्च दण्डकाष्ठं तु तद्भवेत् ॥१८४॥
kīṭairnopahataṃ yacca vyādhinā na ca pīḍitam . mandaśākhaṃ bhavedyacca daṇḍakāṣṭhaṃ tu tadbhavet ..184..
यस्त्वेभिर्लक्षणैर्हीनं दण्डकाष्ठं सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ १८५॥
yastvebhirlakṣaṇairhīnaṃ daṇḍakāṣṭhaṃ sajarjaram . kārayetsa tvapacayaṃ mahāntaṃ prāpnuyāddhruvam .. 185..
अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ १८६॥
atha śīrṣavibhāgārthaṃ ghaṭī kāryā prayatnataḥ . svapramāṇavinirdiṣṭā dvātriṃśatyaṅgulāni vai .. 186..
बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ १८७॥
bilvamadhyena kartavyā ghaṭī sirasamāśrayā . svinnena bilvakalkena draveṇa ca samanvitā .. 187..
भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । सञ्छाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ १८८॥
bhasmanā vā tuṣairvāpi kārayetpratiśīrṣakam . sañchādya tu tato vastrairbilvadugdhairghaṭāśrayaiḥ .. 188..
बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्। ॥ १८९॥
bilvakalkena cīraṃ tu digdhvā saṃyojayedghaṭīm . na sthūlāṃ nānatāṃ tanvīṃ dīrghāṃ naiva ca kārayet. .. 189..
तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १९०॥
tasyāmātapaśuṣkāyāṃ suśuṣkāyāmathāpi vā . chedyaṃ budhāḥ prakurvanti vidhidṛṣṭena karmaṇā .. 190..
सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ १९१॥
sutīkṣṇena tu śastreṇa ardhārdhaṃ pravibhajya ca . svapramāṇavinirdiṣṭaṃ lalāṭakṛtakoṇakam .. 191..
अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ १९२॥
ardhāṅgulaṃ lalāṭaṃ tu kāryaṃ chedyaṃ ṣaḍaṅgulam . ardhārdhamaṅgulaṃ chedyaṃ kaṭayordvyaṅgulaṃ bhavet .. 192..
कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ १९३॥
kaṭānte karṇanālasya chedyaṃ dvyadhikamaṅgulam . tryaṅgulaṃ karṇavivaraṃ tathā syācchedyameva hi .. 193..
ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ १९४॥
tataścaivāvaṭuḥ kāryā susamā dvādaśāṅgulā . ghaṭyāṃ hyetatsadā cchedye vidhānaṃ vihitaṃ mayā .. 194..
तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ १९४॥
tasyoparigatā kāryā mukuṭā bahuśilpajāḥ . nānāratnapraticchannā bahurūpopaśobhitāḥ .. 194..
तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ १९६॥
tathopakaraṇānīha nāṭyayogakṛtāni vai . bahuprakārayuktāni kurvīta prakṛtiṃ prati .. 196..
यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥१९७॥
yatkiñcidasmin loke tu carācarasamanvite . vihitaṃ karma śilpaṃ vā tattūpakaraṇaṃ smṛtam ..197..
यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ १९८॥
yadyasya viṣayaṃ prāptaṃ tattadevābhigacchati . nāstantaḥ puruṣāṇāṃ hi nāṭyopakaraṇāśraye .. 198..
यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ १९९॥
yadyenotpāditaṃ karma śilpayogakriyāpi vā . tasya tena kṛtā sṛṣṭiḥ pramāṇaṃ lakṣaṇaṃ tathā .. 199..
या काष्ठयन्त्रभूयिष्ठा कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ २००॥
yā kāṣṭhayantrabhūyiṣṭhā kṛtā sṛṣṭirmahātmanā . na sāsmākaṃ nāṭyayoge kasmātkhedāvahā hi sā .. 200..
यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्यूपकरणं भवेत् ॥ २०१॥
yaddravyaṃ jīvaloke tu nānālakṣaṇalakṣitam . tasyānukṛtisaṃsthānaṃ nāṭyūpakaraṇaṃ bhavet .. 201..
प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ २०२॥
prāsādagṛhayānāni nānāpraharaṇāni ca . na śakyaṃ tāni vai kartuṃ yathoktānīha lakṣaṇaiḥ .. 202..
लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ २०३॥
lokadharmī bhavettvanyā nāṭyadharmī tathāparā . svabhāvo lokadharmī tu vibhāvo nāṭyameva hi .. 203..
आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर< भवेत् ॥ २०४॥
āyasaṃ na tu kartavyaṃ na ca sāramayaṃ tathā . nāṭyopakaraṇaṃ tajjñairgurukhedakara< bhavet .. 204..
काष्ठचर्मसु वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ २०५॥
kāṣṭhacarmasu vastrṣu jatuveṇudaleṣu ca . nāṭyopakaraṇānīha laghukarmāṇi kārayet .. 205..
चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ २०६॥
carmavarmadhvajāḥ śailāḥ prāsādā devatāgṛhāḥ . hayavāraṇayānāni vimānāni gṛhāṇi ca .. 206..
पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ २०७॥
pūrvaṃ veṇudalaiḥ kṛtvā kṛtīrbhāvasamāśrayāḥ . tataḥ suraṅgairacchādya vastraiḥ sārūpyamānayet .. 207..
अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ २०८॥
athavā yadi vastrāṇāmasānnidhyaṃ bhavediha . tālīyairvā kiliñjairvā ślakṣṇairvastrakriyā bhavet .. 208..
तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ २०९॥
tathā praharaṇāni syustṛṇaveṇudalādibhiḥ . jantubhāṇḍakriyābhiśca nānārūpāṇi nāṭake .. 209..
प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ २१०॥
pratipādaṃ pratiśiraḥ pratihastaṃ pratitvacam . tṛṇaiḥ kiliñjairbhāṇḍairvā sārūpyāṇi tu kārayet .. 210..
यद्यस्य सदृशं रूपं सारूप्यगुणसम्भवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥२११॥
yadyasya sadṛśaṃ rūpaṃ sārūpyaguṇasambhavam . mṛṇmayaṃ tattu kṛtsnaṃ tu nānārūpaṃ tu kārayet ..211..
भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ २१२॥
bhāṇḍavastramadhūcchiṣṭairlākṣayābhradalena ca . nāgāste vividhāḥ kāryā hyatasīśaṇabilvajaiḥ .. 212..
नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥२१३॥
nānākusumajātīśca phalāni vividhāni ca . bhāṇḍavastramadhūcchiṣṭairlākṣayā vāpi kārayet ..213..
भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ २१४॥
bhāṇḍavastramadhūcchiṣṭaistāmrapatraistathaiva ca . samyakca nīlīrāgeṇāpyabhrapatreṇa caiva hi .. 214..
रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ २१५॥
rañjitenābhrapatreṇa maṇīścaiva prakārayet . upāśrayamathāpyeṣaṃ śulbavaṅgena kārayet .. 215..
विविधा मुकुटा दिवा पूर्वं ये गदिता मया । तेऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ २१६॥
vividhā mukuṭā divā pūrvaṃ ye gaditā mayā . te'bhrapatrojvalāḥ kāryā maṇīvyālopaśobhitāḥ .. 216..
न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ २१७॥
na śāstraprabhavaṃ karma teṣāṃ hi samudāhṛtam . ācāryabuddhyā kartavyamūhāpohaprayojitam .. 217..
एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ २१८॥
eṣa martyakriyāyogo bhaviṣyatkalpito mayā . kasmādalpabalatvaṃ hi manuṣyeṣu bhaviṣyati .. 218..
मर्त्यानामपि नो शक्या विभावाः सर्वकाञ्चनाः । नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ २१९॥
martyānāmapi no śakyā vibhāvāḥ sarvakāñcanāḥ . neṣṭāḥ suvarṇaratnaistu mukuṭā bhūṣaṇāni vā .. 219..
युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ २२०॥
yuddhe niyuddhe nṛtte vā vṛṣṭivyāpārakarmaṇi . gurubhāvāvasannasya svedo mūrchā ca jāyate .. 220..
स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ २२१॥
svedamūrchāklamārtasya prayogastu vinaśyati . prāṇātyayaḥ kadācicca bhavedvyāyataceṣṭayā .. 221..
तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ २२२॥
tasmāttāmramayaiḥ patrairabhrakai rañjitairapi . bheṇḍairapi madhūcchiṣṭaiḥ kāryāṇyābharaṇāni tu .. 222..
एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ २२३॥
evaṃ lokopacāreṇa svabuddhivibhavena ca . nāṭyopakaraṇānīha budhaḥ samyak prayojayet .. 223..
न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं सन्ज्ञामात्रं तु कारयेत् ॥२२४॥
na bhedyaṃ naiva ca cchedyaṃ na prahartavyameva ca . raṅge praharaṇaiḥ kāryaṃ sanjñāmātraṃ tu kārayet ..224..
अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ २२५॥
athavā yogaśikṣābhirvidyāmāyākṛtena vā . śastramokṣaḥ prakartavyo raṅgamadhye prayoktṛbhiḥ .. 225..
एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ २२६॥
evaṃ nānāprakāraistu āyudhābharaṇāni ca . noktāni yāni ca mayā lokād grāhyāṇi tānyapi .. 226..
आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ २२७॥
āhāryābhinayo hyeṣa mayā proktaḥ samāsataḥ . ata ūrdhvaṃ pravakṣyāmi sāmānyābhinayaṃ prati .. 227..
इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशोऽध्यायः ।
iti bhāratīye nāṭyaśāstre āhāryābhinayo nāmaikaviṃśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In