| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ९ ॥
॥ नाट्यशास्त्रम् अध्याय ॥
.. nāṭyaśāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ नवमोऽध्यायः ।
अथ नवमः अध्यायः ।
atha navamaḥ adhyāyaḥ .
एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् । कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् ॥ १॥
एवम् एतत् शिरः-नेत्र-भ्रु-नासा-उष्ठ-कपोल-जम् । कर्म लक्षण-संयक्तम् उपाङ्गानाम् मया उदितम् ॥ १॥
evam etat śiraḥ-netra-bhru-nāsā-uṣṭha-kapola-jam . karma lakṣaṇa-saṃyaktam upāṅgānām mayā uditam .. 1..
हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः । लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ २॥
हस्त-ऊर-पार्श्व-जठर-कटी-जङ्घा-ऊरु-पादतः । लक्षणम् सम्प्रवक्ष्यामि विनियोगम् च तत्त्वतः ॥ २॥
hasta-ūra-pārśva-jaṭhara-kaṭī-jaṅghā-ūru-pādataḥ . lakṣaṇam sampravakṣyāmi viniyogam ca tattvataḥ .. 2..
हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥ ३॥
हस्त-आदीनाम् प्रवक्ष्यामि कर्म नाट्य-प्रयोजकम् यथा येन अभिनेयम् च तत् मे निगदतः शृणु ॥ ३॥
hasta-ādīnām pravakṣyāmi karma nāṭya-prayojakam yathā yena abhineyam ca tat me nigadataḥ śṛṇu .. 3..
पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ ४॥
पताकः त्रिपताकः च तथा वै कर्तरीमुखः । अर्धचन्द्रः हि अरालः च शुकतुण्डः तथा एव च ॥ ४॥
patākaḥ tripatākaḥ ca tathā vai kartarīmukhaḥ . ardhacandraḥ hi arālaḥ ca śukatuṇḍaḥ tathā eva ca .. 4..
मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥ ५॥
मुष्टिः च शिखर-आख्यः च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशः च तथा वै सर्पशीर्षकः ॥ ५॥
muṣṭiḥ ca śikhara-ākhyaḥ ca kapitthaḥ khaṭakāmukhaḥ . sūcyāsyaḥ padmakośaḥ ca tathā vai sarpaśīrṣakaḥ .. 5..
मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ ६॥
मृगशीर्षः परः ज्ञेयः हस्त-अभिनय-योक्तृभिः । चतुरः भ्रमरः तथ ॥ ६॥
mṛgaśīrṣaḥ paraḥ jñeyaḥ hasta-abhinaya-yoktṛbhiḥ . caturaḥ bhramaraḥ tatha .. 6..
हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥ ७॥
हंसास्यः हंसपक्षः च सन्दंशः मुकुलः तथा । ऊर्णनाभः ताम्रचूड-चतुर्विंशतिः ईरिताः ॥ ७॥
haṃsāsyaḥ haṃsapakṣaḥ ca sandaṃśaḥ mukulaḥ tathā . ūrṇanābhaḥ tāmracūḍa-caturviṃśatiḥ īritāḥ .. 7..
असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ८॥
असंयुताः संयुताः च गदतः मे निबोधत । अञ्जलिः च कपोतः च कर्कटः स्वस्तिकः तथा ॥ ८॥
asaṃyutāḥ saṃyutāḥ ca gadataḥ me nibodhata . añjaliḥ ca kapotaḥ ca karkaṭaḥ svastikaḥ tathā .. 8..
खटकावर्धमानश्च ह्युत्सङ्गो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ९॥
खटका-वर्धमानः च हि उत्सङ्गः निषधः तथा । दोलः पुष्पपुटः च एव तथा मकरः एव च ॥ ९॥
khaṭakā-vardhamānaḥ ca hi utsaṅgaḥ niṣadhaḥ tathā . dolaḥ puṣpapuṭaḥ ca eva tathā makaraḥ eva ca .. 9..
गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ १०॥
गजदन्तः अवहित्थः च वर्धमानः तथा एव च । एते तु संयुताः हस्ताः मया प्रोक्ताः त्रयोदश ॥ १०॥
gajadantaḥ avahitthaḥ ca vardhamānaḥ tathā eva ca . ete tu saṃyutāḥ hastāḥ mayā proktāḥ trayodaśa .. 10..
नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ ११॥
नृत्त-हस्तान् अतस् च ऊर्ध्व गदतः मे निबोधत । चतुर्-अस्रौ तथा उद्वृत्तौ तथा तल-मुखौ स्मृतौ ॥ ११॥
nṛtta-hastān atas ca ūrdhva gadataḥ me nibodhata . catur-asrau tathā udvṛttau tathā tala-mukhau smṛtau .. 11..
स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ १२॥
स्वस्तिकौ विप्रकीर्णौ च अपि अराल-खटका-मुखौ । आविद्ध-वक्रौ सूचि-आस्यौ रेचितौ अर्ध-रेचितौ ॥ १२॥
svastikau viprakīrṇau ca api arāla-khaṭakā-mukhau . āviddha-vakrau sūci-āsyau recitau ardha-recitau .. 12..
उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ १३॥
उत्तानौ अञ्चितौ वा अपि पल्लवौ च तथा करौ । नितम्बौ च अपि विज्ञेयौ केशबन्धौ तथा एव च ॥ १३॥
uttānau añcitau vā api pallavau ca tathā karau . nitambau ca api vijñeyau keśabandhau tathā eva ca .. 13..
सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ १४॥
सम्प्रोक्तौ करि-हस्तौ च लता-आख्यौ च तथा एव च । पक्ष-वञ्चितकौ च एव पक्ष-प्रद्योतकौ तथा ॥ १४॥
samproktau kari-hastau ca latā-ākhyau ca tathā eva ca . pakṣa-vañcitakau ca eva pakṣa-pradyotakau tathā .. 14..
ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ १५॥
ज्ञेयः गरुड-पक्षौ च हंस-पक्षौ तथा एव च । ऊर्ध्व-मण्डलिनौ च एव पार्श्व-मण्डलिनौ तथा ॥ १५॥
jñeyaḥ garuḍa-pakṣau ca haṃsa-pakṣau tathā eva ca . ūrdhva-maṇḍalinau ca eva pārśva-maṇḍalinau tathā .. 15..
उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥ १६॥
उरः-मण्डलिनौ च एव उरः-पार्श्व-अर्ध-मण्डलौ । मुष्टिक-स्वस्तिकौ च अपि नलिनी-पद्म-कोशकौ ॥ १६॥
uraḥ-maṇḍalinau ca eva uraḥ-pārśva-ardha-maṇḍalau . muṣṭika-svastikau ca api nalinī-padma-kośakau .. 16..
अलपद्मावुल्बनौ च ललितौ वलितौ तथा । सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया ॥ १७॥
अलपद्मौ उल्बनौ च ललितौ वलितौ तथा । सप्तषष्टि-कराः हि एते नामतः अभिहिताः मया ॥ १७॥
alapadmau ulbanau ca lalitau valitau tathā . saptaṣaṣṭi-karāḥ hi ete nāmataḥ abhihitāḥ mayā .. 17..
यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ १८॥
यथा लक्षणम् एतेषाम् कर्माणि च निबोधत । प्रसारिताः समाः सर्वाः यस्य अङ्गुल्यः भवन्ति हि । कुञ्चितः च तथा अङ्गुष्ठः स पताकः इति स्मृतः ॥ १८॥
yathā lakṣaṇam eteṣām karmāṇi ca nibodhata . prasāritāḥ samāḥ sarvāḥ yasya aṅgulyaḥ bhavanti hi . kuñcitaḥ ca tathā aṅguṣṭhaḥ sa patākaḥ iti smṛtaḥ .. 18..
एष प्रहारपाते प्रतापन नोदने प्रहर्षे च । गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥ १९॥
एष प्रहार-पाते प्रतापन नोदने प्रहर्षे च । गर्वे अपि अहम् इति तद्-ज्ञैः ललाट-देश-उत्थितः कार्यः ॥ १९॥
eṣa prahāra-pāte pratāpana nodane praharṣe ca . garve api aham iti tad-jñaiḥ lalāṭa-deśa-utthitaḥ kāryaḥ .. 19..
एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ २०॥
एषः अग्नि-वर्ष-धारा-निरूपणे पुष्प-वृष्टि-पतने च । संयुत-करणः कार्यः प्रविरल-चलित-अङ्गुलिः हस्तः ॥ २०॥
eṣaḥ agni-varṣa-dhārā-nirūpaṇe puṣpa-vṛṣṭi-patane ca . saṃyuta-karaṇaḥ kāryaḥ pravirala-calita-aṅguliḥ hastaḥ .. 20..
स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि । विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् ॥ २१॥
स्वस्तिक-विच्युति-करणात् पल्लव-पुष्प-उपहार-शष्पाणि । यत् तत् च निर्द्देश्यम् ॥ २१॥
svastika-vicyuti-karaṇāt pallava-puṣpa-upahāra-śaṣpāṇi . yat tat ca nirddeśyam .. 21..
स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् । संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥ २२॥
स्वस्तिक-विच्युति-करणात् पुनर् एव अधोमुखेन कर्तव्यम् । संवृत-विवृतम् पाल्यम् छन्नम् निबिडम् च गोप्यम् च ॥ २२॥
svastika-vicyuti-karaṇāt punar eva adhomukhena kartavyam . saṃvṛta-vivṛtam pālyam channam nibiḍam ca gopyam ca .. 22..
अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः । वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥ २३॥
अस्य एव च अङ्गुलीभिः अधोमुख-प्रस्थित-उत्थित-चलाभिः । वायु-ऊर्मि-वेग-वेला-क्षोभः च ओघः च कर्तव्यः ॥ २३॥
asya eva ca aṅgulībhiḥ adhomukha-prasthita-utthita-calābhiḥ . vāyu-ūrmi-vega-velā-kṣobhaḥ ca oghaḥ ca kartavyaḥ .. 23..
उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् । पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥ २४॥
उत्साहनम् बहु तथा महाजन-प्रांशु-पुष्कर-प्रहतम् । पक्ष-उत्क्षेप-अभिनयम् रेचक-करणेन च अभिनयेत् ॥ २४॥
utsāhanam bahu tathā mahājana-prāṃśu-puṣkara-prahatam . pakṣa-utkṣepa-abhinayam recaka-karaṇena ca abhinayet .. 24..
परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च । पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥ २५॥
परिघृष्ट-तल-स्थेन तु धौतम् मृदितम् प्रमृष्टपिष्टे च । पुनर् एव शैल-धारणम् उद्घाटनम् एव च अभिनयेत् ॥ २५॥
parighṛṣṭa-tala-sthena tu dhautam mṛditam pramṛṣṭapiṣṭe ca . punar eva śaila-dhāraṇam udghāṭanam eva ca abhinayet .. 25..
एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ २६॥
एवम् एष प्रयोक्तव्यः स्त्रीपुंस-अभिनये करः । पताकाभ्याम् तु हस्ताभ्याम् अभिनेयः प्रयोक्तृभिः ॥ २६॥
evam eṣa prayoktavyaḥ strīpuṃsa-abhinaye karaḥ . patākābhyām tu hastābhyām abhineyaḥ prayoktṛbhiḥ .. 26..
दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २७॥
दश-आख्यः च शत-आख्यः च सहस्र-आख्यः तथा एव च । अतस् परम् प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ २७॥
daśa-ākhyaḥ ca śata-ākhyaḥ ca sahasra-ākhyaḥ tathā eva ca . atas param pravakṣyāmi tripatākasya lakṣaṇam .. 27..
पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ २८॥
पताके तु यदा वक्रा अनामिका तु अङ्गुलिः भवेत् । त्रिपताकः स विज्ञेयः कर्म च अस्य निबोधत ॥ २८॥
patāke tu yadā vakrā anāmikā tu aṅguliḥ bhavet . tripatākaḥ sa vijñeyaḥ karma ca asya nibodhata .. 28..
आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च । उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ २९॥
आवाहनम् अवतरणम् विसर्जनम् वारणम् प्रवेशः च । उन्नामनम् प्रणामः निदर्शनम् विविध-वचनम् च ॥ २९॥
āvāhanam avataraṇam visarjanam vāraṇam praveśaḥ ca . unnāmanam praṇāmaḥ nidarśanam vividha-vacanam ca .. 29..
मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च । उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥ ३०॥
मङ्गल्य-द्रव्याणाम् स्पर्शः शिरसः अथ सन्निवेशः च । उष्णीष-मुकुट-धारणम् नासा-आस्य-श्रोत्र-संवरणम् ॥ ३०॥
maṅgalya-dravyāṇām sparśaḥ śirasaḥ atha sanniveśaḥ ca . uṣṇīṣa-mukuṭa-dhāraṇam nāsā-āsya-śrotra-saṃvaraṇam .. 30..
अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥ ३१॥
अस्य एव च अङ्गुलीभ्याम् अधोमुख-प्रस्थित-उत्थित-चलाभ्याम् । लघु-पवन-स्रोतः-भुजग-भ्रमर-आदिकान् कुर्यात् ॥ ३१॥
asya eva ca aṅgulībhyām adhomukha-prasthita-utthita-calābhyām . laghu-pavana-srotaḥ-bhujaga-bhramara-ādikān kuryāt .. 31..
अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥ ३२॥
अश्रु-प्रमार्जने तिलक-विरचनम् रोचनया आलम्भकम् च त्रिपताका-अनामिकया स्पर्शनम् अलकस्य कार्यम् च ॥ ३२॥
aśru-pramārjane tilaka-viracanam rocanayā ālambhakam ca tripatākā-anāmikayā sparśanam alakasya kāryam ca .. 32..
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥ ३३॥
स्वस्तिकौ त्रि-पताकौ तु गुरूणाम् पाद-वन्दने । विच्युतौ चलित-अवस्थौ कार्यौ उद्वाह-दर्शने ॥ ३३॥
svastikau tri-patākau tu gurūṇām pāda-vandane . vicyutau calita-avasthau kāryau udvāha-darśane .. 33..
परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने । तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥ ३४॥
परस्पर-अग्र-संश्लिष्टौ कर्तव्यौ नृप-दर्शने । तिर्यक् स्वस्तिक-स्म्बद्धौ स्याताम् तौ ग्रह-दर्शने ॥ ३४॥
paraspara-agra-saṃśliṣṭau kartavyau nṛpa-darśane . tiryak svastika-smbaddhau syātām tau graha-darśane .. 34..
तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ । परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥ ३५॥
तपस्वि-दर्शने कार्यौ ऊर्ध्वौ च अपि पराङ्मुखौ । परस्पर-अभिमुखौ च कर्तव्यौ वर-दर्शने ॥ ३५॥
tapasvi-darśane kāryau ūrdhvau ca api parāṅmukhau . paraspara-abhimukhau ca kartavyau vara-darśane .. 35..
उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । वडवानलसङ्ग्राममकराणां च दर्शने ॥ ३६॥
उत्तान-अधोमुखौ कार्यौ अग्रे वक्त्रस्य संस्थितौ । वडवानल-सङ्ग्राम-मकराणाम् च दर्शने ॥ ३६॥
uttāna-adhomukhau kāryau agre vaktrasya saṃsthitau . vaḍavānala-saṅgrāma-makarāṇām ca darśane .. 36..
अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः । पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ ३७॥
वानर-प्लवन-ऊर्मयः । पवनः च स्त्रियः च एव नाट्ये नाट्य-विचक्षणैः ॥ ३७॥
vānara-plavana-ūrmayaḥ . pavanaḥ ca striyaḥ ca eva nāṭye nāṭya-vicakṣaṇaiḥ .. 37..
सम्मुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥ ३८॥
सम्मुख-प्रसृत-अङ्गुष्ठः कार्यः बाल-इन्दु-दर्शने । पराङ्ग्मुखः तु कर्तव्यः याने नृणाम् प्रयोक्तृभिः ॥ ३८॥
sammukha-prasṛta-aṅguṣṭhaḥ kāryaḥ bāla-indu-darśane . parāṅgmukhaḥ tu kartavyaḥ yāne nṛṇām prayoktṛbhiḥ .. 38..
त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ ३९॥
त्रिपताके यदा हस्ते भवेत् पृष्ठ-अवलोकनी तर्जनी मध्यमायाः च तदा असौ कर्तरी-मुखः ॥ ३९॥
tripatāke yadā haste bhavet pṛṣṭha-avalokanī tarjanī madhyamāyāḥ ca tadā asau kartarī-mukhaḥ .. 39..
पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव । ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च ॥ ४०॥
पथि चरण-रचन-रञ्जन-रङ्गण-करणानि अधोमुखेन एव । ऊर्ध्व-मुखेन तु कुर्यात् दष्टम् शृङ्गम् च लेख्यम् च ॥ ४०॥
pathi caraṇa-racana-rañjana-raṅgaṇa-karaṇāni adhomukhena eva . ūrdhva-mukhena tu kuryāt daṣṭam śṛṅgam ca lekhyam ca .. 40..
पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् । भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन ॥ ४१॥
न्यस्तम् । भिन्न-वलितेन कुर्यात् कर्तरि आस्य-अङ्गुलि-मुखेन ॥ ४१॥
nyastam . bhinna-valitena kuryāt kartari āsya-aṅguli-mukhena .. 41..
संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः । रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥ ४२॥
संयुत-करणः स्यात् असंयुतः वा प्रयुज्यते तद्-ज्ञैः । रुरु-चमर-महिष-सुर-गज-वृष-गोपुर-शैल-शिखरेषु ॥ ४२॥
saṃyuta-karaṇaḥ syāt asaṃyutaḥ vā prayujyate tad-jñaiḥ . ruru-camara-mahiṣa-sura-gaja-vṛṣa-gopura-śaila-śikhareṣu .. 42..
यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् । सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥ ४३॥
यस्य अङ्गुल्यः तु विनताः सह अङ्गुष्ठेन चाप-वत् । सः अर्धचन्द्रः हि विज्ञेयः करः कर्म अस्य वक्ष्यते ॥ ४३॥
yasya aṅgulyaḥ tu vinatāḥ saha aṅguṣṭhena cāpa-vat . saḥ ardhacandraḥ hi vijñeyaḥ karaḥ karma asya vakṣyate .. 43..
एतेन बालतरवः शशिलेखाम्बुकलशवलयानि । निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥ ४४॥
एतेन बाल-तरवः शशि-लेखा-अम्बु-कलश-वलयानि । निर्घाटनम् आयस्तम् मध्य-औपम्यम् च पीनम् च ॥ ४४॥
etena bāla-taravaḥ śaśi-lekhā-ambu-kalaśa-valayāni . nirghāṭanam āyastam madhya-aupamyam ca pīnam ca .. 44..
रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् । कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण ॥ ४५॥
रशना-जघन-कटीनाम् आनन-तल-पत्र-कुण्डल-आदीनाम् । कर्तव्यः नारीणाम् अभिनय-योगः अर्धचन्द्रेण ॥ ४५॥
raśanā-jaghana-kaṭīnām ānana-tala-patra-kuṇḍala-ādīnām . kartavyaḥ nārīṇām abhinaya-yogaḥ ardhacandreṇa .. 45..
आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे ॥ ४६॥
आद्या धनुः-नता कार्या कुञ्चित-अङ्गुष्ठकः तथा । शेषाः भिन्न-ऊर्ध्व-वलिताः हि अराले अङ्गुलयः करे ॥ ४६॥
ādyā dhanuḥ-natā kāryā kuñcita-aṅguṣṭhakaḥ tathā . śeṣāḥ bhinna-ūrdhva-valitāḥ hi arāle aṅgulayaḥ kare .. 46..
एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् । आशीर्वादाश्च तथा भावा हितसन्ज्ञकाः कार्याः ॥ ४७॥
एतेन सत्त्व-शौण्डीर्य-वीर्य-धृति-कान्ति-दिव्य-गाम्भीय्रम् । आशीर्वादाः च तथा भावाः हित-सन्ज्ञकाः कार्याः ॥ ४७॥
etena sattva-śauṇḍīrya-vīrya-dhṛti-kānti-divya-gāmbhīyram . āśīrvādāḥ ca tathā bhāvāḥ hita-sanjñakāḥ kāryāḥ .. 47..
एतेन पुनः स्त्रीणां केशानां सङ्ग्रहोत्कर्षौ । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ ४८॥
एतेन पुनर् स्त्रीणाम् केशानाम् सङ्ग्रह-उत्कर्षौ । सर्व-आङ्गिकम् तथा एव च निर्वर्णनम् आत्मनः कार्यम् ॥ ४८॥
etena punar strīṇām keśānām saṅgraha-utkarṣau . sarva-āṅgikam tathā eva ca nirvarṇanam ātmanaḥ kāryam .. 48..
कौतुकविवाहयोगं प्रदक्षिणेनैव सम्प्रयोगं च । अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ ४९॥
कौतुक-विवाह-योगम् प्रदक्षिणेन एव सम्प्रयोगम् च । अङ्गुलि-अग्र-स्वस्तिक-योगान् परिमण्डलेन एव ॥ ४९॥
kautuka-vivāha-yogam pradakṣiṇena eva samprayogam ca . aṅguli-agra-svastika-yogān parimaṇḍalena eva .. 49..
प्राद्क्षिण्य< परिमण्डलं च कुर्यान् महाजनं चैव । यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ ५०॥
प्राद्क्षिण्य< परिमण्डलम् च कुर्यात् महाजनम् च एव । यत् च मही-तल-रचितम् द्रव्यम् तत् च अभिनेयम् स्यात् ॥ ५०॥
prādkṣiṇya< parimaṇḍalam ca kuryāt mahājanam ca eva . yat ca mahī-tala-racitam dravyam tat ca abhineyam syāt .. 50..
आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च । स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥ ५१॥
आह्वाने च निवारण-निर्माणे च अपि अनेक-वचने च । स्वेदस्य आ च अपनयने गन्ध-आघ्राणे शुभः शुभे च एष ॥ ५१॥
āhvāne ca nivāraṇa-nirmāṇe ca api aneka-vacane ca . svedasya ā ca apanayane gandha-āghrāṇe śubhaḥ śubhe ca eṣa .. 51..
त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि । तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥ ५२॥
त्रि-पताक-हस्त-जानि तु पूर्वम् यानि अभिहितानि कर्माणि । तानि त्वराल-योगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥ ५२॥
tri-patāka-hasta-jāni tu pūrvam yāni abhihitāni karmāṇi . tāni tvarāla-yogāt strībhiḥ samyak prayojyāni .. 52..
अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् । शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥ ५३॥
अरालस्य यदा वक्रा अनामिका-तु अङ्गुलिः भवेत् । शुकतुण्डः तु स करः कर्म च अस्य निबोधत ॥ ५३॥
arālasya yadā vakrā anāmikā-tu aṅguliḥ bhavet . śukatuṇḍaḥ tu sa karaḥ karma ca asya nibodhata .. 53..
एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये । आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥ ५४॥
एतेन तु अभिनेयम् न अहम् न त्वम् न कृत्यम् इति च आर्ये । आवाहने विसर्गे धिक् इति वचने च स अवज्ञम् ॥ ५४॥
etena tu abhineyam na aham na tvam na kṛtyam iti ca ārye . āvāhane visarge dhik iti vacane ca sa avajñam .. 54..
अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति सन्ज्ञितः ॥ ५५॥।
अङ्गुल्यः यस्य हस्तस्य तल-मध्ये अग्र-संस्थिताः । तासाम् उपरि च अङ्गुष्ठः सः मुष्टिः इति सन्ज्ञितः ॥ ५५॥।
aṅgulyaḥ yasya hastasya tala-madhye agra-saṃsthitāḥ . tāsām upari ca aṅguṣṭhaḥ saḥ muṣṭiḥ iti sanjñitaḥ .. 55...
एष प्रहारे व्यायामे निर्गमे पीडने तथा । संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥ ५६॥
एष प्रहारे व्यायामे निर्गमे पीडने तथा । संवाहने असि-यष्टीनाम् कुन्त-दण्ड-ग्रहे तथा ॥ ५६॥
eṣa prahāre vyāyāme nirgame pīḍane tathā . saṃvāhane asi-yaṣṭīnām kunta-daṇḍa-grahe tathā .. 56..
अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ५७॥
अस्य एव तु यदा मुष्टेः ऊर्ध्व-उङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरः नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ५७॥
asya eva tu yadā muṣṭeḥ ūrdhva-uṅguṣṭhaḥ prayujyate . hastaḥ sa śikharaḥ nāma tadā jñeyaḥ prayoktṛbhiḥ .. 57..
रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव । अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ ५८॥
रश्मि-कुश-अङ्कुश-धनुषाम् तोमर-शक्ति-प्रमोक्षणे च एव । अधर-उष्ठ-पाद-रञ्जनम् अलकस्य उत्क्षेपणम् च एव ॥ ५८॥
raśmi-kuśa-aṅkuśa-dhanuṣām tomara-śakti-pramokṣaṇe ca eva . adhara-uṣṭha-pāda-rañjanam alakasya utkṣepaṇam ca eva .. 58..
अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता । यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ ५९॥
अस्य एव शिखर-आख्यस्य हि अङ्गुष्ठक-निपीडिता । यदा प्रदेशिनी वक्रा स कपित्थः तदा स्मृतः ॥ ५९॥
asya eva śikhara-ākhyasya hi aṅguṣṭhaka-nipīḍitā . yadā pradeśinī vakrā sa kapitthaḥ tadā smṛtaḥ .. 59..
असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि । शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥ ६०॥
असि-चाप-चक्र-तोमर-कुन्त-गदा-शक्ति-वज्र-बाणानि । शस्त्राणि अभिनेयानि तु कार्यम् सत्यम् च पथ्यम् च ॥ ६०॥
asi-cāpa-cakra-tomara-kunta-gadā-śakti-vajra-bāṇāni . śastrāṇi abhineyāni tu kāryam satyam ca pathyam ca .. 60..
उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी । अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥ ६१॥
उत्क्षिप्त-वक्रा तु यदा अनामिका स कनीयसी । अस्य एव तु कपित्थस्य खटकामुखः ॥ ६१॥
utkṣipta-vakrā tu yadā anāmikā sa kanīyasī . asya eva tu kapitthasya khaṭakāmukhaḥ .. 61..
होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च । आदर्शधारणं खण्डनं तथा पेषणं चैव ॥ ६२॥
होत्रम् हव्यम् छत्रम् प्रग्रह-परिकर्षणम् व्यजनकञ्च च । आदर्श-धारणम् खण्डनम् तथा पेषणम् च एव ॥ ६२॥
hotram havyam chatram pragraha-parikarṣaṇam vyajanakañca ca . ādarśa-dhāraṇam khaṇḍanam tathā peṣaṇam ca eva .. 62..
आयतदण्डग्रहणं मुक्ताप्रालम्बसङ्ग्रहं चैव । स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ ६३॥
आयत-दण्ड-ग्रहणम् मुक्ता-प्रालम्ब-सङ्ग्रहम् च एव । स्रज्-दाम-पुष्प-माला वस्त्र-अन्त-आलम्बनम् च एव ॥ ६३॥
āyata-daṇḍa-grahaṇam muktā-prālamba-saṅgraham ca eva . sraj-dāma-puṣpa-mālā vastra-anta-ālambanam ca eva .. 63..
मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि । अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥ ६४॥
मन्मथ-शराव-कर्ष्ण-पुष्प-वचय-प्रतोद-कार्याणि । अङ्कुश-रज्व-आकर्षण-स्त्री-दर्शनम् एव कार्यम् च ॥ ६४॥
manmatha-śarāva-karṣṇa-puṣpa-vacaya-pratoda-kāryāṇi . aṅkuśa-rajva-ākarṣaṇa-strī-darśanam eva kāryam ca .. 64..
खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ६५॥
खटक-आख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखः नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ ६५॥
khaṭaka-ākhye yadā haste tarjanī samprasāritā . hastaḥ sūcīmukhaḥ nāma tadā jñeyaḥ prayoktṛbhiḥ .. 65..
अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः ॥ ऊर्ध्वनतलोलकम्पितविजृम्भितोद्वाहितचलायाः ॥ ६६॥
अस्य विविधान् योगान् वक्ष्यामि समासतस् प्रदेशिन्याः ॥ ऊर्ध्व-नत-लोल-कम्पित-विजृम्भित-उद्वाहित-चलायाः ॥ ६६॥
asya vividhān yogān vakṣyāmi samāsatas pradeśinyāḥ .. ūrdhva-nata-lola-kampita-vijṛmbhita-udvāhita-calāyāḥ .. 66..
चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥ ६७॥
चक्रम् तडित्-पताका-मञ्जर्यः कर्ण-चूलिकाः च एव । कुटिलगतयः च सर्वे निर्देश्याः साधुवादाः च ॥ ६७॥
cakram taḍit-patākā-mañjaryaḥ karṇa-cūlikāḥ ca eva . kuṭilagatayaḥ ca sarve nirdeśyāḥ sādhuvādāḥ ca .. 67..
बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च । परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ ६८॥
बाल-उरग-बल्य-वधू-पदीप-वल्ली-लता-शिखण्डाः च । परिपतन-वक्र-मण्डलम् अभिनेयानि ऊर्ध्व-लोलितया ॥ ६८॥
bāla-uraga-balya-vadhū-padīpa-vallī-latā-śikhaṇḍāḥ ca . paripatana-vakra-maṇḍalam abhineyāni ūrdhva-lolitayā .. 68..
वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ ६९॥
वदन-आम्यासे कुञ्चित-विजृम्भिता वाक्य-रूपणे कार्या । भूयस् च ऊर्ध्व-विरचिता तारा-घोणा-एक-दण्ड-यष्टिषु च । विनताः च पुनर् कार्याः दंष्ट्रिषु च तथा आस्य-योगेन ॥ ६९॥
vadana-āmyāse kuñcita-vijṛmbhitā vākya-rūpaṇe kāryā . bhūyas ca ūrdhva-viracitā tārā-ghoṇā-eka-daṇḍa-yaṣṭiṣu ca . vinatāḥ ca punar kāryāḥ daṃṣṭriṣu ca tathā āsya-yogena .. 69..
पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य । प्रणतोन्ती च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ ७०॥
पुनर् अपि मण्डल-गतया सर्व-ग्रहणम् तथा एव लोकस्य । प्रणत-ऊन्ती च कार्ये हि आद्ये दीर्घे च दिवसे च ॥ ७०॥
punar api maṇḍala-gatayā sarva-grahaṇam tathā eva lokasya . praṇata-ūntī ca kārye hi ādye dīrghe ca divase ca .. 70..
[श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे ॥] मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥ ७१॥
[श्रवण-अभ्यासे वक्रा विजृम्भणा वाक्य-रूपण-अवसरे ॥] मा इति वद इति च योज्या प्रसारित-उत्कम्पित-उत्ताना ॥ ७१॥
[śravaṇa-abhyāse vakrā vijṛmbhaṇā vākya-rūpaṇa-avasare ..] mā iti vada iti ca yojyā prasārita-utkampita-uttānā .. 71..
कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव । कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय ॥ ७२॥
कार्या रोव-दर्शन-स्वेद-रूपणे च एव । कुन्तल-कुण्डल-अङ्गद-गण्ड-आश्रये अभिनय ॥ ७२॥
kāryā rova-darśana-sveda-rūpaṇe ca eva . kuntala-kuṇḍala-aṅgada-gaṇḍa-āśraye abhinaya .. 72..
गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे । कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव ॥ ७३॥
गर्वे अहम् इति ललाटे रिपु-दर्शने तथा एव च क्रोधे । कः असौ इति निर्देशे अथ कर्ण-कण्डु-नयने च एव ॥ ७३॥
garve aham iti lalāṭe ripu-darśane tathā eva ca krodhe . kaḥ asau iti nirdeśe atha karṇa-kaṇḍu-nayane ca eva .. 73..
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे ॥ ७४॥
संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिक-युपताम् परस्पर-उत्पीडिताः बन्धे ॥ ७४॥
saṃyuktā saṃyoge kāryā viśleṣitā viyoge ca . kalahe svastika-yupatām paraspara-utpīḍitāḥ bandhe .. 74..
द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि । अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥ ७५॥
द्वाभ्याम् तु वा आत्म-पार्श्वे दक्षिणतस् निन-निशा-अवसानानि । अभिमुख-पराङ्मुखाभ्याम् विश्लिष्टाभ्याम् प्रयुञ्जीत ॥ ७५॥
dvābhyām tu vā ātma-pārśve dakṣiṇatas nina-niśā-avasānāni . abhimukha-parāṅmukhābhyām viśliṣṭābhyām prayuñjīta .. 75..
पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु । परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥ ७६॥
पुनर् अपि च भ्रमित-अग्र-रूपा शिला-वर्त-यन्त्र-शैलेषु । परिवेषणे तथा एव हि कार्या च अधोमुखी नित्यम् ॥ ७६॥
punar api ca bhramita-agra-rūpā śilā-varta-yantra-śaileṣu . pariveṣaṇe tathā eva hi kāryā ca adhomukhī nityam .. 76..
श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या । शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥ ७७॥
श्लिष्टा ललाट-पट्टेषु अधोमुखी शम्भु-रूपणे । शकस्य अपि उत्ताना तद्-ज्ञैः तिर्यक्-स्थिता कार्या ॥ ७७॥
śliṣṭā lalāṭa-paṭṭeṣu adhomukhī śambhu-rūpaṇe . śakasya api uttānā tad-jñaiḥ tiryak-sthitā kāryā .. 77..
द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥ ७८॥
द्वाभ्याम् सन्दर्शयेत् नित्यम् सम्पूर्ण चन्द्र-मण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या हि उत्तान-संश्रया ॥ ७८॥
dvābhyām sandarśayet nityam sampūrṇa candra-maṇḍalam . śliṣṭā lalāṭe śakrasya kāryā hi uttāna-saṃśrayā .. 78..
परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य । हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना ॥ ७९॥
परिमण्डलम् भ्रमित-तया मण्डलम् आदर्शयेत् च चन्द्रस्य । हर-नयने च ललाटे शक्रस्य अपि उच् उत्ताना ॥ ७९॥
parimaṇḍalam bhramita-tayā maṇḍalam ādarśayet ca candrasya . hara-nayane ca lalāṭe śakrasya api uc uttānā .. 79..
यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वा ह्यसङ्गताग्राश्च स भवेत् पद्मकोशकः ॥ ८०॥
यस्य अङ्गुल्यः तु वितताः सह अङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वाः हि असङ्ग-ता-अग्राः च स भवेत् पद्म-कोशकः ॥ ८०॥
yasya aṅgulyaḥ tu vitatāḥ saha aṅguṣṭhena kuñcitāḥ . ūrdhvāḥ hi asaṅga-tā-agrāḥ ca sa bhavet padma-kośakaḥ .. 80..
बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् । ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥ ८१॥
बिल्व-कपित्थ-फलानाम् ग्रहणे कुच-दर्शनः च नारीणाम् । ग्रहणे हि आमिष-लाभे भवन्ति ताः कुञ्चित-अग्राः तु ॥ ८१॥
bilva-kapittha-phalānām grahaṇe kuca-darśanaḥ ca nārīṇām . grahaṇe hi āmiṣa-lābhe bhavanti tāḥ kuñcita-agrāḥ tu .. 81..
बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ ८२॥
बहु-जाति-बीजपूरकम् आमिष-खण्डम् च निर्देश्यम् । देव-अर्चन-बलि-हरणे स मुद्गके साग्र-पिण्ड-दाने च । कार्यः पुष्प-प्रकरः च पद्म-कोशेन हस्तेन ॥ ८२॥
bahu-jāti-bījapūrakam āmiṣa-khaṇḍam ca nirdeśyam . deva-arcana-bali-haraṇe sa mudgake sāgra-piṇḍa-dāne ca . kāryaḥ puṣpa-prakaraḥ ca padma-kośena hastena .. 82..
मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् । कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥ ८३॥
मणिबन्धन-विश्लिष्टाभ्याम् प्रविरल-चलित-अङ्गुलि-कराभ्याम् । कार्यः विवर्तिताभ्याम् विकसित-कमल-उत्पल-अ विनयः ॥ ८३॥
maṇibandhana-viśliṣṭābhyām pravirala-calita-aṅguli-karābhyām . kāryaḥ vivartitābhyām vikasita-kamala-utpala-a vinayaḥ .. 83..
अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च । तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ ८४॥
अङ्गुल्यः संहताः सर्वाः सह अङ्गुष्ठेन यस्य च । तथा निम्न-तलः च एव स तु सर्प-शिराः करः ॥ ८४॥
aṅgulyaḥ saṃhatāḥ sarvāḥ saha aṅguṣṭhena yasya ca . tathā nimna-talaḥ ca eva sa tu sarpa-śirāḥ karaḥ .. 84..
एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव । आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥ ८५॥
एषः सलिल-प्रदाने भुज-गतौ तोय-सेचने च एव । आस्फोटने च योज्यः करि-कुम्भ-आस्फालन-आद्येषु ॥ ८५॥
eṣaḥ salila-pradāne bhuja-gatau toya-secane ca eva . āsphoṭane ca yojyaḥ kari-kumbha-āsphālana-ādyeṣu .. 85..
अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः ॥ ८६॥
अधोमुखीनाम् सर्वासाम् अङ्गुलीनाम् समागमः । स भवेत् मृगशीर्षकः ॥ ८६॥
adhomukhīnām sarvāsām aṅgulīnām samāgamaḥ . sa bhavet mṛgaśīrṣakaḥ .. 86..
इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च । स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥ ८७॥
इह साम्प्रतम् अस्ति अद्य शक्तेः च उल्लासने अक्षपाते च । स्वेद-अपमार्जनेषु च कुट्ट-मिते प्रचलितः तु भवेत् ॥ ८७॥
iha sāmpratam asti adya śakteḥ ca ullāsane akṣapāte ca . sveda-apamārjaneṣu ca kuṭṭa-mite pracalitaḥ tu bhavet .. 87..
त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा । काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥ ८८॥
त्रेताग्नि-संस्थिता मध्या तर्जन्या अङ्गुष्ठका यदा । वक्रा यदाः च ऊर्ध्वा कनीयसी ॥ ८८॥
tretāgni-saṃsthitā madhyā tarjanyā aṅguṣṭhakā yadā . vakrā yadāḥ ca ūrdhvā kanīyasī .. 88..
एतेन तरुणफलानि नानाविधानि च लघूनि । कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥ ८९॥
एतेन तरुण-फलानि नानाविधानि च लघूनि । कार्यानि रोष-जानि स्त्री-वचानि अङ्गुलि-क्षेपैः ॥ ८९॥
etena taruṇa-phalāni nānāvidhāni ca laghūni . kāryāni roṣa-jāni strī-vacāni aṅguli-kṣepaiḥ .. 89..
मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥ ९०॥
मरकत-वैदूर्य-आदेः प्रदर्शनम् सुमनसाम् च कर्तव्यम् । ग्राह्यम् मरालपदम् इति तद्-ज्ञैः एव प्रयोगेषु ॥ ९०॥
marakata-vaidūrya-ādeḥ pradarśanam sumanasām ca kartavyam . grāhyam marālapadam iti tad-jñaiḥ eva prayogeṣu .. 90..
आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥ ९१॥
आवर्तिताः कर-तले यस्य अङ्गुल्यः भवन्ति हि । पार्श्व-आगत-विकीर्णाः च स भवेत् अलपल्लवः ॥ ९१॥
āvartitāḥ kara-tale yasya aṅgulyaḥ bhavanti hi . pārśva-āgata-vikīrṇāḥ ca sa bhavet alapallavaḥ .. 91..
प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु । पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ ९२॥
प्रतिषेध-कृते योज्यः कस्य शून्य-वचनेषु । पुनर् आत्म-उपन्यासः स्त्रीणाम् एतेन कर्तव्यः ॥ ९२॥
pratiṣedha-kṛte yojyaḥ kasya śūnya-vacaneṣu . punar ātma-upanyāsaḥ strīṇām etena kartavyaḥ .. 92..
तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥ ९३॥
तिस्रः प्रसारिताः यत्र तथा च ऊर्ध्वा कनीयसी । तासाम् मध्ये स्थित-उङ्गुष्ठः स करः चतुर-स्मृतः ॥ ९३॥
tisraḥ prasāritāḥ yatra tathā ca ūrdhvā kanīyasī . tāsām madhye sthita-uṅguṣṭhaḥ sa karaḥ catura-smṛtaḥ .. 93..
नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ ९४॥
नय-विनय-नियम-सु नि-तुण-बाल-आतुर-सत्य-कैतव-अर्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ ९४॥
naya-vinaya-niyama-su ni-tuṇa-bāla-ātura-satya-kaitava-artheṣu . vākye yukte pathye satye praśame ca viniyojyaḥ .. 94..
एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन । विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥ ९५॥
एकेन द्वाभ्याम् वा किञ्चिद् मण्डल-कृतेन हस्तेन । विकृत-विचारित-चरितम् वितर्कितम् लज्जितम् च एव ॥ ९५॥
ekena dvābhyām vā kiñcid maṇḍala-kṛtena hastena . vikṛta-vicārita-caritam vitarkitam lajjitam ca eva .. 95..
नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः । संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥ ९६॥
नयन-औपम्यम् पद्म-दल-रूपणम् हरिण-कर्ण-निर्देशः । संयुत-करणेन एव तु चरेण एतानि कुर्वीत ॥ ९६॥
nayana-aupamyam padma-dala-rūpaṇam hariṇa-karṇa-nirdeśaḥ . saṃyuta-karaṇena eva tu careṇa etāni kurvīta .. 96..
लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च । सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥ ९७॥
लीला रती रुचि च स्मृति-बुद्धि-विभावनाः क्षमाम् पुष्टिम् च । सञ्ज्ञा-मात्रम् प्रणयम् विचारणम् सङ्ग-तम् शौचम् ॥ ९७॥
līlā ratī ruci ca smṛti-buddhi-vibhāvanāḥ kṣamām puṣṭim ca . sañjñā-mātram praṇayam vicāraṇam saṅga-tam śaucam .. 97..
चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् । प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥ ९८॥
चातुर्यम् माधुर्यम् दाक्षिण्यम् मार्दवम् सुखम् शीलम् । प्रश्नम् वार्ता-युक्तिम् वेषम् मृदु-शाद्वलम् स्तोकम् ॥ ९८॥
cāturyam mādhuryam dākṣiṇyam mārdavam sukham śīlam . praśnam vārtā-yuktim veṣam mṛdu-śādvalam stokam .. 98..
विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् । नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ ९९॥
विभव-अविभौ सुरतम् गुण-अगुणौ यौवनम् गृहान् दारान् । नाना वर्णाः च तथा चतुरेण एवम् प्रयुञ्जीत ॥ ९९॥
vibhava-avibhau suratam guṇa-aguṇau yauvanam gṛhān dārān . nānā varṇāḥ ca tathā catureṇa evam prayuñjīta .. 99..
सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन । परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥ १००॥
सितम् ऊर्ध्वेन तु कुर्यात् रक्तम् पीतम् च मण्डल-कृतेन । परिमुदितेन तु नीलम् वर्णाः चतुरेण हस्तेन ॥ १००॥
sitam ūrdhvena tu kuryāt raktam pītam ca maṇḍala-kṛtena . parimuditena tu nīlam varṇāḥ catureṇa hastena .. 100..
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥ १०१॥
मध्यमाङ्गुष्ठ-सन्दंशः वक्रा च एव प्रदेशिनी । ऊर्ध्वम् अन्ये प्रकीर्णे च द्वि-अङ्गुल्यौ भ्रमरे करे ॥ १०१॥
madhyamāṅguṣṭha-sandaṃśaḥ vakrā ca eva pradeśinī . ūrdhvam anye prakīrṇe ca dvi-aṅgulyau bhramare kare .. 101..
पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् । पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥ १०२॥
पद्म-उत्पल-कुमुदानाम् अन्येषाम् च एव दीर्घवृन्तानाम् । पुष्पाणाम् ग्रहण-विधिः कर्तव्यः कर्ण-पुरः च ॥ १०२॥
padma-utpala-kumudānām anyeṣām ca eva dīrghavṛntānām . puṣpāṇām grahaṇa-vidhiḥ kartavyaḥ karṇa-puraḥ ca .. 102..
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । बालालापे च शीघ्रे च ताले विश्वासने तथा ॥ १०३॥
विच्युतः च स शब्दः च कार्यः निर्भत्सन-आदिषु । बाल-आलापे च शीघ्रे च ताले विश्वासने तथा ॥ १०३॥
vicyutaḥ ca sa śabdaḥ ca kāryaḥ nirbhatsana-ādiṣu . bāla-ālāpe ca śīghre ca tāle viśvāsane tathā .. 103..
तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः । भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ १०४॥
तर्जनी-मध्यमा-अङ्गुष्ठाः त्रेताग्नि-स्थाः निरन्तराः । भवेयुः हंस-वक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ १०४॥
tarjanī-madhyamā-aṅguṣṭhāḥ tretāgni-sthāḥ nirantarāḥ . bhaveyuḥ haṃsa-vaktrasya śeṣe dve samprasārite .. 104..
श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु । कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥ १०५॥
श्लक्ष्ण-अल्प-शिथिल-लाघव-निस्सार-अर्थे मृदु-त्व-योगेषु । कार्यः अभिनय-विशेषः किञ्चिद् प्रस्यन्दित-अग्रेण ॥ १०५॥
ślakṣṇa-alpa-śithila-lāghava-nissāra-arthe mṛdu-tva-yogeṣu . kāryaḥ abhinaya-viśeṣaḥ kiñcid prasyandita-agreṇa .. 105..
समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ १०६॥
समाः प्रसारिताः तिस्रः तथा च ऊर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितः च एव हंसपक्षः इति स्मृतः ॥ १०६॥
samāḥ prasāritāḥ tisraḥ tathā ca ūrdhvā kanīyasī . aṅguṣṭhaḥ kuñcitaḥ ca eva haṃsapakṣaḥ iti smṛtaḥ .. 106..
एष च निवापसलिले दातव्ये गण्डसंश्रये चैव । कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥ १०७॥
एष च निवाप-सलिले दातव्ये गण्ड-संश्रये च एव । कार्यः प्रतिग्रह-आचमन-भोजन-अर्थेषु विप्राणाम् ॥ १०७॥
eṣa ca nivāpa-salile dātavye gaṇḍa-saṃśraye ca eva . kāryaḥ pratigraha-ācamana-bhojana-artheṣu viprāṇām .. 107..
आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव । स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव ॥ १०८॥
आलिङ्गने महा-स्तम्भ-दर्शने रोमहर्षणे च एव । स्पर्शे अनुलेपन-अर्थे योज्यः संवाहने च एव ॥ १०८॥
āliṅgane mahā-stambha-darśane romaharṣaṇe ca eva . sparśe anulepana-arthe yojyaḥ saṃvāhane ca eva .. 108..
पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥ १०९॥
पुनर् एव च नारीणाम् स्तनान्तर-स्थेन विभ्रम-विशेषाः । कार्याः यथारसम् स्युः दुःखे हनु-धारणे च एव ॥ १०९॥
punar eva ca nārīṇām stanāntara-sthena vibhrama-viśeṣāḥ . kāryāḥ yathārasam syuḥ duḥkhe hanu-dhāraṇe ca eva .. 109..
तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ ११०॥
तर्जनी-अङ्गुष्ठ-सन्दंशः तु हि अरालस्य यथा भवेत् । आभुग्न-तल-मध्य-स्थः स सन्दंशः इति स्मृतः ॥ ११०॥
tarjanī-aṅguṣṭha-sandaṃśaḥ tu hi arālasya yathā bhavet . ābhugna-tala-madhya-sthaḥ sa sandaṃśaḥ iti smṛtaḥ .. 110..
सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा । तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ १११॥
सन्दंशः त्रिविधः हि अग्र-जः मुख-जः तथा । तथा पार्श्व-गतः च एव रस-भाव-उपबृंहितः ॥ १११॥
sandaṃśaḥ trividhaḥ hi agra-jaḥ mukha-jaḥ tathā . tathā pārśva-gataḥ ca eva rasa-bhāva-upabṛṃhitaḥ .. 111..
पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् । शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥ ११२॥
पुष्प-अपचय-ग्रथने ग्रहणे तृण-पर्ण-केश-सूत्राणाम् । शल्य-अवयव-ग्रहण-अपकर्षणे च अग्र-सन्दंशः ॥ ११२॥
puṣpa-apacaya-grathane grahaṇe tṛṇa-parṇa-keśa-sūtrāṇām . śalya-avayava-grahaṇa-apakarṣaṇe ca agra-sandaṃśaḥ .. 112..
वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव । धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥ ११३॥
वृन्तात् पुष्प-उद्धरणम् वर्ति-शलाका-आदि-पूरणम् । धिक् इति च वचनम् रोषे मुख-सन्दंशस्य कर्माणि ॥ ११३॥
vṛntāt puṣpa-uddharaṇam varti-śalākā-ādi-pūraṇam . dhik iti ca vacanam roṣe mukha-sandaṃśasya karmāṇi .. 113..
यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु । योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥ ११४॥
यज्ञोपवीत-धारण-वेधन-गुण-सूक्ष्म-बाण-लक्ष्येषु । योगे ध्याने स्तोके संयुक्त-करणः तु कर्तव्यः ॥ ११४॥
yajñopavīta-dhāraṇa-vedhana-guṇa-sūkṣma-bāṇa-lakṣyeṣu . yoge dhyāne stoke saṃyukta-karaṇaḥ tu kartavyaḥ .. 114..
पेशलकुत्सासूयादोषवचने च वामहस्तेन । किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ ११५॥
पेशल-कुत्स-असूया-दोष-वचने च वाम-हस्तेन । किञ्चिद् विवर्तित-कर-अग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ ११५॥
peśala-kutsa-asūyā-doṣa-vacane ca vāma-hastena . kiñcid vivartita-kara-agraḥ prayujyate pārśvasandaṃśaḥ .. 115..
आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च । निष्पीडनं तथालक्तकस्य कार्य च नारीभिः ॥ ११६॥
आलेख्य-नेत्र-रञ्जन-वितर्कवन्त-प्रवाल-रचने च । निष्पीडनम् तथा अलक्तकस्य च नारीभिः ॥ ११६॥
ālekhya-netra-rañjana-vitarkavanta-pravāla-racane ca . niṣpīḍanam tathā alaktakasya ca nārībhiḥ .. 116..
समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥ ११७॥
समागत-अग्राः सहिताः यस्य अङ्गुल्यः भवन्ति हि । ऊर्ध्वा हंस-मुखस्य इव स भवेत् मुकुलः करः ॥ ११७॥
samāgata-agrāḥ sahitāḥ yasya aṅgulyaḥ bhavanti hi . ūrdhvā haṃsa-mukhasya iva sa bhavet mukulaḥ karaḥ .. 117..
देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव । विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥ ११८॥
देव-अर्च्चन-बलि-करणे पद्म-उत्पल-कुमुद-रूपणे च एव । विट-चुम्बने च कार्यः विकुत्सिते विप्रकीर्णः च ॥ ११८॥
deva-arccana-bali-karaṇe padma-utpala-kumuda-rūpaṇe ca eva . viṭa-cumbane ca kāryaḥ vikutsite viprakīrṇaḥ ca .. 118..
भोजनहिरण्यगणनामुखसङ्कोचप्रदानशीघ्रेषु । मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥ ११९॥
भोजन-हिरण्य-गणना-मुख-सङ्कोच-प्रदान-शीघ्रेषु । मुकुलित-कुसुमेषु च तथा तद्-ज्ञैः एष प्रयोक्तव्यः ॥ ११९॥
bhojana-hiraṇya-gaṇanā-mukha-saṅkoca-pradāna-śīghreṣu . mukulita-kusumeṣu ca tathā tad-jñaiḥ eṣa prayoktavyaḥ .. 119..
पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा । ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥ १२०॥
पद्मकोशस्य हस्तस्य हि अङ्गुल्यः कुञ्चिताः यदा । ऊर्णनाभः स विज्ञेयः केश-चौर्य-ग्रह-आदिषु ॥ १२०॥
padmakośasya hastasya hi aṅgulyaḥ kuñcitāḥ yadā . ūrṇanābhaḥ sa vijñeyaḥ keśa-caurya-graha-ādiṣu .. 120..
शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे । संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ १२१॥
शिरः कण्डूयने च एव कुष्ठ-व्याधि-निरूपणे । संह-व्याघ्रेषु अभिनयः प्रस्तर-ग्रहणे तथा ॥ १२१॥
śiraḥ kaṇḍūyane ca eva kuṣṭha-vyādhi-nirūpaṇe . saṃha-vyāghreṣu abhinayaḥ prastara-grahaṇe tathā .. 121..
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली ॥ १२२॥
मध्यमाङ्गुष्ठ-सन्दंशः वक्रा च एव प्रदेशिनी । शेषे तल-स्थे कर्तव्ये ताम्र-चूल-करे अङ्गुली ॥ १२२॥
madhyamāṅguṣṭha-sandaṃśaḥ vakrā ca eva pradeśinī . śeṣe tala-sthe kartavye tāmra-cūla-kare aṅgulī .. 122..
विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । ताले विश्वसने चैव शीघ्रार्थे सन्ज्ञितेषु च ॥ १२३॥
विच्युतः च स शब्दः च कार्यः निर्भत्सन-आदिषु । ताले विश्वसने च एव शीघ्र-अर्थे सन्ज्ञितेषु च ॥ १२३॥
vicyutaḥ ca sa śabdaḥ ca kāryaḥ nirbhatsana-ādiṣu . tāle viśvasane ca eva śīghra-arthe sanjñiteṣu ca .. 123..
तथा कलासु काष्ठासु निमेषे तु क्षणे तथा । एश एव करः कार्यो बालालापनिमन्त्रणे ॥ १२४॥
तथा कलासु काष्ठासु निमेषे तु क्षणे तथा । एशः एव करः कार्यः बाल-आलाप-निमन्त्रणे ॥ १२४॥
tathā kalāsu kāṣṭhāsu nimeṣe tu kṣaṇe tathā . eśaḥ eva karaḥ kāryaḥ bāla-ālāpa-nimantraṇe .. 124..
अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः । प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः ॥ १२५॥
अथवा अङ्गुल्यः संहिताः वक्राः उपरि उङ्गुष्ठ-पीडिताः । प्रसारिता ताम्रचूडः करः स्मृतः ॥ १२५॥
athavā aṅgulyaḥ saṃhitāḥ vakrāḥ upari uṅguṣṭha-pīḍitāḥ . prasāritā tāmracūḍaḥ karaḥ smṛtaḥ .. 125..
शतं सहस्रं लक्षं च करेणैकेन योजयेत् । क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥ १२६॥
शतम् सहस्रम् लक्षम् च करेण एकेन योजयेत् । क्षिप्र-मुक्त-अङ्गुलीभिः तु स्फुलिङ्गान् विप्रुषः तथा ॥ १२६॥
śatam sahasram lakṣam ca kareṇa ekena yojayet . kṣipra-mukta-aṅgulībhiḥ tu sphuliṅgān vipruṣaḥ tathā .. 126..
असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥ १२७॥
असंयुताः कराः हि एते मया प्रोक्ताः द्विजोत्तमाः । अतस् च संयुतान् हस्तान् गदतः मे निबोधत ॥ १२७॥
asaṃyutāḥ karāḥ hi ete mayā proktāḥ dvijottamāḥ . atas ca saṃyutān hastān gadataḥ me nibodhata .. 127..
पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने ॥ १२८॥
पताकाभ्याम् तु हस्ताभ्याम् संश्लेषात् अञ्जलिः स्मृतः । देवतानाम् गुरूणाम् च मित्राणाम् च अभिवादने ॥ १२८॥
patākābhyām tu hastābhyām saṃśleṣāt añjaliḥ smṛtaḥ . devatānām gurūṇām ca mitrāṇām ca abhivādane .. 128..
स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा । देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥ १२९॥
स्थानानि अस्य पुनर् त्रीणि वक्षः वक्त्रम् शिरः तथा । देवतानाम् शिरः-स्थः तु गुरूणाम् आस्य-संस्थितः । वक्ष-स्थः च एव मित्राणाम् स्त्रीणाम् तु अनियतः भवेत् ॥ १२९॥
sthānāni asya punar trīṇi vakṣaḥ vaktram śiraḥ tathā . devatānām śiraḥ-sthaḥ tu gurūṇām āsya-saṃsthitaḥ . vakṣa-sthaḥ ca eva mitrāṇām strīṇām tu aniyataḥ bhavet .. 129..
उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसङ्ग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ १३०॥
उभाभ्याम् अपि हस्ताभ्याम् अन्यः अन्यम् पार्श्व-सङ्ग्रहात् । हस्तः कपोतकः नाम कर्म च अस्य निबोधत ॥ १३०॥
ubhābhyām api hastābhyām anyaḥ anyam pārśva-saṅgrahāt . hastaḥ kapotakaḥ nāma karma ca asya nibodhata .. 130..
एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे । शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥ १३१॥
एष विनय-अभ्युपगमे प्रणाम-करणे गुरोः च सम्भाषे । शीते भये च कार्यः वक्षः-स्थः कम्पितः स्त्रीभिः ॥ १३१॥
eṣa vinaya-abhyupagame praṇāma-karaṇe guroḥ ca sambhāṣe . śīte bhaye ca kāryaḥ vakṣaḥ-sthaḥ kampitaḥ strībhiḥ .. 131..
अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु । एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥ १३२॥
अयम् एव अङ्गुलि-परिघृष्यमाण-मुक्तः तु खिन्न-वाक्येषु । एतावत् इति च कार्यः न इदानीम् कृत्यम् इति च अर्थे ॥ १३२॥
ayam eva aṅguli-parighṛṣyamāṇa-muktaḥ tu khinna-vākyeṣu . etāvat iti ca kāryaḥ na idānīm kṛtyam iti ca arthe .. 132..
अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १३३॥
अङ्गुल्यः यस्य हस्तस्य हि अन्योन्य-अन्तर-निस्सृताः । स कर्कटः इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १३३॥
aṅgulyaḥ yasya hastasya hi anyonya-antara-nissṛtāḥ . sa karkaṭaḥ iti jñeyaḥ karaḥ karma ca vakṣyate .. 133..
एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे । हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः ॥ १३४॥
एष मदन-अङ्गमर्दे सुप्त-उत्थित-विजृम्भणे बृहत्-देहे । हनु-धारणे च योज्यः शङ्ख-ग्रहणे अर्थ-तत्त्व-ज्ञैः ॥ १३४॥
eṣa madana-aṅgamarde supta-utthita-vijṛmbhaṇe bṛhat-dehe . hanu-dhāraṇe ca yojyaḥ śaṅkha-grahaṇe artha-tattva-jñaiḥ .. 134..
मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ १३५॥
मणिबन्ध-विन्यस्तौ अरालौ स्त्री-प्रयोजितौ । उत्तानौ वाम-पार्श्व-स्थौ स्वस्तिकः परिकीर्तितः ॥ १३५॥
maṇibandha-vinyastau arālau strī-prayojitau . uttānau vāma-pārśva-sthau svastikaḥ parikīrtitaḥ .. 135..
स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च । ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥ १३६॥
स्वस्तिक-विच्युइति-करणात् दिशः घनाः खम् वनम् समुद्राः च । ऋतवः मही तथा ओघम् विस्तीर्णम् च अभिनेयम् स्यात् ॥ १३६॥
svastika-vicyuiti-karaṇāt diśaḥ ghanāḥ kham vanam samudrāḥ ca . ṛtavaḥ mahī tathā ogham vistīrṇam ca abhineyam syāt .. 136..
खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ १३७॥
खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गार-अर्थेषु योक्तव्यः प्रणाम-करणे तथा ॥ १३७॥
khaṭakaḥ khaṭake nyastaḥ khaṭakāvardhamānakaḥ . śṛṅgāra-artheṣu yoktavyaḥ praṇāma-karaṇe tathā .. 137..
अन्ये - कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे । इति ॥ १३८॥
अन्ये कुमुदी-तालवृन्तेषु कर्तव्यः छत्र-धरणे । इति ॥ १३८॥
anye kumudī-tālavṛnteṣu kartavyaḥ chatra-dharaṇe . iti .. 138..
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ । उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ १३९॥
अरालौ तु विपर्यस्तौ उत्तानौ वर्धमानकौ । उत्सङ्गः इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ १३९॥
arālau tu viparyastau uttānau vardhamānakau . utsaṅgaḥ iti vijñeyaḥ sparśasya grahaṇe karaḥ .. 139..
सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च । निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ १४०॥
स निष्पेष-कृते च एव रोम-अमर्ष-कृते अपि च । निष्पीडितः पुनर् च एव स्त्रीणाम् ईर्ष्या-कृते भवेत् ॥ १४०॥
sa niṣpeṣa-kṛte ca eva roma-amarṣa-kṛte api ca . niṣpīḍitaḥ punar ca eva strīṇām īrṣyā-kṛte bhavet .. 140..
मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ १४१॥
मुकुलम् तु यदा हस्तम् कपित्थः परिचेष्टयेत् । स मन्तव्यः तदा हस्तः निषधौ नाम नामतः ॥ १४१॥
mukulam tu yadā hastam kapitthaḥ pariceṣṭayet . sa mantavyaḥ tadā hastaḥ niṣadhau nāma nāmataḥ .. 141..
सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १४२॥
सङ्ग्रह-परिग्रहौ धारणम् च समयः च सत्य-वचनम् च । सङ्क्षेपः संक्षिप्तम् निपीडितेन अभिनेतव्यम् ॥ १४२॥
saṅgraha-parigrahau dhāraṇam ca samayaḥ ca satya-vacanam ca . saṅkṣepaḥ saṃkṣiptam nipīḍitena abhinetavyam .. 142..
शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः । निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥ १४३॥
शिखरः तु यदा हस्तः मृगशीर्षेण पीडितः । निषधः नाम विज्ञेयः स भय-आर्ते विधीयते ॥ १४३॥
śikharaḥ tu yadā hastaḥ mṛgaśīrṣeṇa pīḍitaḥ . niṣadhaḥ nāma vijñeyaḥ sa bhaya-ārte vidhīyate .. 143..
गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् । दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥ १४४॥
गृहीत्वा वाम-हस्तेन कर्पुर-अभ्यन्तरे भुजम् । दक्षिणम् च अपि वामस्य कर्पुर-अभ्यन्तरे न्यसेत् ॥ १४४॥
gṛhītvā vāma-hastena karpura-abhyantare bhujam . dakṣiṇam ca api vāmasya karpura-abhyantare nyaset .. 144..
स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् । इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ १४५॥
स च अपि दक्षिणः हस्तः सम्यक् मुष्टीकृतः भवेत् । इति एष निषधः हस्तः कर्म च अस्य निबोधत ॥ १४५॥
sa ca api dakṣiṇaḥ hastaḥ samyak muṣṭīkṛtaḥ bhavet . iti eṣa niṣadhaḥ hastaḥ karma ca asya nibodhata .. 145..
एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥ १४६॥
एतेन धैर्य-मद-गर्व-सौष्ठव-औत्सुक्य-विक्रम-आटोपाः । अभिमान-अवष्टम्भः स्तम्भ-स्थैर्य-आदयः कार्याः ॥ १४६॥
etena dhairya-mada-garva-sauṣṭhava-autsukya-vikrama-āṭopāḥ . abhimāna-avaṣṭambhaḥ stambha-sthairya-ādayaḥ kāryāḥ .. 146..
ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने ॥ १४७॥
ज्ञेयः वै निषधः नाम हंस-पक्षौ पर-अङ्ग-मुखौ । जालवातायन-आदीनाम् प्रयोक्तव्यः अभिघट्टने ॥ १४७॥
jñeyaḥ vai niṣadhaḥ nāma haṃsa-pakṣau para-aṅga-mukhau . jālavātāyana-ādīnām prayoktavyaḥ abhighaṭṭane .. 147..
अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करणे स दोल इति सन्ज्ञितः ॥ १४८॥
अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेताम् करणे स दोलः इति सन्ज्ञितः ॥ १४८॥
aṃsau praśithilau muktau patākau tu pralambitau . yadā bhavetām karaṇe sa dolaḥ iti sanjñitaḥ .. 148..
सम्भ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे । व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः ॥ १४९॥
सम्भ्रम-विषाद-मूर्च्छित-मद-अभिघाते तथा एव च अ वेगे । व्याधि-प्लुते च शस्त्र-क्षते च कार्यः अभिनय-योगः ॥ १४९॥
sambhrama-viṣāda-mūrcchita-mada-abhighāte tathā eva ca a vege . vyādhi-plute ca śastra-kṣate ca kāryaḥ abhinaya-yogaḥ .. 149..
यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ १५०॥
यः तु सर्पशिराः प्रोक्तः तस्य अङ्गुलि-निरन्तरः । द्वितीयः पार्श्व-संश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ १५०॥
yaḥ tu sarpaśirāḥ proktaḥ tasya aṅguli-nirantaraḥ . dvitīyaḥ pārśva-saṃśliṣṭaḥ sa tu puṣpapuṭaḥ smṛtaḥ .. 150..
धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि । ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥ १५१॥
धान्य-फल-पुष्प-सदृशानि अनेन नानाविधानि युक्तानि । ग्राह्याणि उपनेयानि च तोय-आनयन-अपनयने च ॥ १५१॥
dhānya-phala-puṣpa-sadṛśāni anena nānāvidhāni yuktāni . grāhyāṇi upaneyāni ca toya-ānayana-apanayane ca .. 151..
पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ १५२॥
पताकौ तु यदा हस्तौ ऊर्र्धा-अङ्गुष्ठौ अधोमुखौ । उपरि उपरि विन्यस्तौ तदा स मकरः करः ॥ १५२॥
patākau tu yadā hastau ūrrdhā-aṅguṣṭhau adhomukhau . upari upari vinyastau tadā sa makaraḥ karaḥ .. 152..
सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् । ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन ॥ १५३॥
सिंह-व्याल-द्विपि-प्रदर्शनम् नक्र-मकर-मत्स्यानाम् । ये च अन्ये क्रव्यादाः हि अभिनेयाः ते अर्थ-योगेन ॥ १५३॥
siṃha-vyāla-dvipi-pradarśanam nakra-makara-matsyānām . ye ca anye kravyādāḥ hi abhineyāḥ te artha-yogena .. 153..
कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः कर्म चास्य निबोधत॥ १५४॥
कूर्पर-अंस-उचितौ हस्तौ यदा आस्ताम् सर्प-शीर्षकौ । गज-दन्तः स विज्ञेयः कर्म च अस्य निबोधत॥ १५४॥
kūrpara-aṃsa-ucitau hastau yadā āstām sarpa-śīrṣakau . gaja-dantaḥ sa vijñeyaḥ karma ca asya nibodhata.. 154..
एव च वधुवराणमुद्वाहे चातिभारयोगे च । स्तम्भग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ १५५॥
एव च वधु-वराणम् उद्वाहे च अति भार-योगे च । स्तम्भ-ग्रहणे च तथा शैल-शिला-उत्पाटने च एव ॥ १५५॥
eva ca vadhu-varāṇam udvāhe ca ati bhāra-yoge ca . stambha-grahaṇe ca tathā śaila-śilā-utpāṭane ca eva .. 155..
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ । शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः ॥ १५६॥
शुकतुण्डौ करौ कृत्वा वक्षसि अभिमुख-आञ्चितौ । शनैस् अधोमुख-आविद्धौ सः अवहित्थः इति स्मृतः ॥ १५६॥
śukatuṇḍau karau kṛtvā vakṣasi abhimukha-āñcitau . śanais adhomukha-āviddhau saḥ avahitthaḥ iti smṛtaḥ .. 156..
दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥ १५७॥
दौर्बल्ये निःश्वसिते गात्राणाम् दर्शने तनु-त्वे च । उत्कण्ठिते च तद्-ज्ञैः अभिनय-योगः तु कर्तव्यः ॥ १५७॥
daurbalye niḥśvasite gātrāṇām darśane tanu-tve ca . utkaṇṭhite ca tad-jñaiḥ abhinaya-yogaḥ tu kartavyaḥ .. 157..
मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः । वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥ १५८॥
मुकुलः तु यदा हस्तः कपित्थ-परिवेष्टितः । वर्धमानः स विज्ञेयः कर्म च अस्य निबोधत ॥ १५८॥
mukulaḥ tu yadā hastaḥ kapittha-pariveṣṭitaḥ . vardhamānaḥ sa vijñeyaḥ karma ca asya nibodhata .. 158..
सङ्ग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च । संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् ॥ १५९॥
सङ्ग्रह-परिग्रहौ धारणम् च समयः च सत्यवचम् च । संक्षेपतः तु संक्षिप्तम् निपीडितेन अभिनेतव्यम् ॥ १५९॥
saṅgraha-parigrahau dhāraṇam ca samayaḥ ca satyavacam ca . saṃkṣepataḥ tu saṃkṣiptam nipīḍitena abhinetavyam .. 159..
ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥ १६०॥
ज्ञेयः वै वर्धमानः तु पर-अङ्ग-मुखौ । जालवातायन-आदीनाम् प्रयोक्तव्यः विघाटने ॥ १६०॥
jñeyaḥ vai vardhamānaḥ tu para-aṅga-mukhau . jālavātāyana-ādīnām prayoktavyaḥ vighāṭane .. 160..
उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् । अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः ॥ १६१॥
उक्ताः हि एते द्विविधाः हि असंयुताः संयुताः च संक्षेपात् । अभिनय-कराः तु ये तु इह ते अन्यत्र अपि अर्थतः साध्याः ॥ १६१॥
uktāḥ hi ete dvividhāḥ hi asaṃyutāḥ saṃyutāḥ ca saṃkṣepāt . abhinaya-karāḥ tu ye tu iha te anyatra api arthataḥ sādhyāḥ .. 161..
आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ १६२॥
आकृत्या चेष्टया चिह्नैः जात्या विज्ञाय तत् पुनर् । स्वयम् वितर्क्य कर्तव्यम् हस्त-अभिनयनम् बुधैः ॥ १६२॥
ākṛtyā ceṣṭayā cihnaiḥ jātyā vijñāya tat punar . svayam vitarkya kartavyam hasta-abhinayanam budhaiḥ .. 162..
नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति । यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ॥१६३॥
न अस्ति कश्चिद् अहस्तः तु नाट्ये अर्थः अभिनयम् प्रति । यस्य यत् दृश्यते रूपम् बहुशस् तत् मया उषितम् ॥१६३॥
na asti kaścid ahastaḥ tu nāṭye arthaḥ abhinayam prati . yasya yat dṛśyate rūpam bahuśas tat mayā uṣitam ..163..
अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह । छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥ १६४॥
अन्ये च अपि अर्थ-संयुक्ताः लौकिकाः ये कराः तु इह । छन्दतः ते नियोक्तव्याः रस-भाव-विचेष्टितैः ॥ १६४॥
anye ca api artha-saṃyuktāḥ laukikāḥ ye karāḥ tu iha . chandataḥ te niyoktavyāḥ rasa-bhāva-viceṣṭitaiḥ .. 164..
देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च । हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥ १६५॥
देशम् कालम् प्रयोगम् च अपि अर्थ-युक्तिम् अवेक्ष्य च । हस्ताः हि एते प्रयोक्तव्याः नृणाम् स्त्रीणाम् विशेषतः ॥ १६५॥
deśam kālam prayogam ca api artha-yuktim avekṣya ca . hastāḥ hi ete prayoktavyāḥ nṛṇām strīṇām viśeṣataḥ .. 165..
सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि । तान्यहं सम्प्रवक्ष्यामि रसभावकृतानि तु ॥ १६६॥
सर्वेषाम् एव हस्तानाम् यानि कर्माणि सन्ति हि । तानि अहम् सम्प्रवक्ष्यामि रस-भाव-कृतानि तु ॥ १६६॥
sarveṣām eva hastānām yāni karmāṇi santi hi . tāni aham sampravakṣyāmi rasa-bhāva-kṛtāni tu .. 166..
उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् । परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥ १६७॥
उत्कर्षणम् विकर्षणम् तथा च एव अपकर्षणम् । परिग्रहः निग्रहः च आह्वानम् नोदनम् एव च ॥ १६७॥
utkarṣaṇam vikarṣaṇam tathā ca eva apakarṣaṇam . parigrahaḥ nigrahaḥ ca āhvānam nodanam eva ca .. 167..
संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा । विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ १६८॥
संश्लेषः च वियोगः च रक्षणम् मोक्षणम् तथा । विक्षेप-धूनने च एव विसर्गः तर्जनम् तथा ॥ १६८॥
saṃśleṣaḥ ca viyogaḥ ca rakṣaṇam mokṣaṇam tathā . vikṣepa-dhūnane ca eva visargaḥ tarjanam tathā .. 168..
छेदनं भेदनं चैव स्फोटनं मोटनं तथा । ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥ १६९॥
छेदनम् भेदनम् च एव स्फोटनम् मोटनम् तथा । ताडनम् च इति विज्ञेयम् तद्-ज्ञैः कर्म करान् प्रति ॥ १६९॥
chedanam bhedanam ca eva sphoṭanam moṭanam tathā . tāḍanam ca iti vijñeyam tad-jñaiḥ karma karān prati .. 169..
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ १७०॥
उत्तानः पार्श्व-गः च एव तथा अधोमुखः एव च । हस्त-प्रचारः त्रिविधः नाट्य-तत्त्व-समाश्रयः ॥ १७०॥
uttānaḥ pārśva-gaḥ ca eva tathā adhomukhaḥ eva ca . hasta-pracāraḥ trividhaḥ nāṭya-tattva-samāśrayaḥ .. 170..
सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥ १७१॥
सर्वे हस्त-प्रचाराः च प्रयोगेषु यथा विधिः नेत्र-भ्रू-मुख-रागैः च कर्तव्या बुधैः ॥ १७१॥
sarve hasta-pracārāḥ ca prayogeṣu yathā vidhiḥ netra-bhrū-mukha-rāgaiḥ ca kartavyā budhaiḥ .. 171..
करणं कर्म स्थानं प्रचायुक्तिं क्रियां च सम्प्रेक्ष्य । हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥ १७२॥
करणम् कर्म स्थानम् प्रचायुक्तिम् क्रियाम् च सम्प्रेक्ष्य । ॥ १७२॥
karaṇam karma sthānam pracāyuktim kriyām ca samprekṣya . .. 172..
उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः । वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥ १७३॥
उत्तामानाम् कराः कार्याः ललाट-क्षेत्र-चारिणः । वक्षःस्थाः च एव मध्यानाम् अधमाम् अधस् गता ॥ १७३॥
uttāmānām karāḥ kāryāḥ lalāṭa-kṣetra-cāriṇaḥ . vakṣaḥsthāḥ ca eva madhyānām adhamām adhas gatā .. 173..
ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः । अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥ १७४॥
ज्येष्ठे सु अल्प-प्रचाराः स्युः मध्ये मध्य-विचारिणः । अधमेषु प्रकीर्णाः च हस्ताः कार्या प्रयोक्तृभिः ॥ १७४॥
jyeṣṭhe su alpa-pracārāḥ syuḥ madhye madhya-vicāriṇaḥ . adhameṣu prakīrṇāḥ ca hastāḥ kāryā prayoktṛbhiḥ .. 174..
लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ १७५॥
लक्षण-व्यञ्जिताः हस्ताः कार्याः तु उत्तम-मध्यमैः । लोक-क्रिया-स्वभावेन नीचैः अपि अर्थ-संश्रयाः ॥ १७५॥
lakṣaṇa-vyañjitāḥ hastāḥ kāryāḥ tu uttama-madhyamaiḥ . loka-kriyā-svabhāvena nīcaiḥ api artha-saṃśrayāḥ .. 175..
अथवान्यादृशं प्राप्य प्रयोगं कालमेव च । विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥ १७६॥
अथवा अन्यादृशम् प्राप्य प्रयोगम् कालम् एव च । विपरीत-आश्रयाः हस्ताः प्रयोक्तव्याः बुधैः न वा ॥ १७६॥
athavā anyādṛśam prāpya prayogam kālam eva ca . viparīta-āśrayāḥ hastāḥ prayoktavyāḥ budhaiḥ na vā .. 176..
विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते । ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ १७७॥
विषण्णे मूर्च्छिते भीते जुगुप्सा-शोक-पीडिते । ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ १७७॥
viṣaṇṇe mūrcchite bhīte jugupsā-śoka-pīḍite . glāne svapne vihaste ca niśceṣṭe tandrite jaḍe .. 177..
व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ १७८॥
व्याधि-ग्रस्ते जरा-आर्ते च भय-आर्ते शीत-विप्लुते । मत्ते प्रमत्ते च उन्मत्ते चिन्तायाम् तपसि स्थिते ॥ १७८॥
vyādhi-graste jarā-ārte ca bhaya-ārte śīta-viplute . matte pramatte ca unmatte cintāyām tapasi sthite .. 178..
हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते । स्वप्नायिते च सम्भ्रान्ते नतसंस्फोटने तथा ॥ १७९॥
हिम-वर्ष-हते बद्धे वरिणा-प्लव-संश्रिते । स्वप्नायिते च सम्भ्रान्ते नत-संस्फोटने तथा ॥ १७९॥
hima-varṣa-hate baddhe variṇā-plava-saṃśrite . svapnāyite ca sambhrānte nata-saṃsphoṭane tathā .. 179..
न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य सङ्ग्रहः । तथा काकुविशेषश्च नानाभवरसान्वितः ॥ १८०॥
न हस्त-अभिनयः कार्यः कार्यः सत्त्वस्य सङ्ग्रहः । तथा काकु-विशेषः च नाना भव-रस-अन्वितः ॥ १८०॥
na hasta-abhinayaḥ kāryaḥ kāryaḥ sattvasya saṅgrahaḥ . tathā kāku-viśeṣaḥ ca nānā bhava-rasa-anvitaḥ .. 180..
यत्र व्यग्रावुभौ हस्तौ तत्तद् दृष्टिविलोकनैः । वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥ १८१॥
यत्र व्यग्रौ उभौ हस्तौ तत् तत् दृष्टि-विलोकनैः । वाचक-अभिनयम् कुर्यात् विराम-ऐर्थ-दर्शकैः ॥ १८१॥
yatra vyagrau ubhau hastau tat tat dṛṣṭi-vilokanaiḥ . vācaka-abhinayam kuryāt virāma-airtha-darśakaiḥ .. 181..
उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ १८२॥
उत्तानः पार्श्व-गः च एव तथा अधोमुखः एव च । प्रचारः त्रिविधः अङ्गानाम् नाट्य-नृत्त-समाश्रयः ॥ १८२॥
uttānaḥ pārśva-gaḥ ca eva tathā adhomukhaḥ eva ca . pracāraḥ trividhaḥ aṅgānām nāṭya-nṛtta-samāśrayaḥ .. 182..
उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ १८३॥
उत्तानः वर्तुलः त्रि-अश्रः स्थितः अधोमुखः एव च । पञ्च प्रकाराः हस्तस्य नाट्य-नृत्त-समाश्रयाः ॥ १८३॥
uttānaḥ vartulaḥ tri-aśraḥ sthitaḥ adhomukhaḥ eva ca . pañca prakārāḥ hastasya nāṭya-nṛtta-samāśrayāḥ .. 183..
एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः । अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् ॥ १८४॥
एवम् ज्ञेयाः कराः हि एते न अभिनय-संश्रिताः । अतस् ऊर्ध्वम् प्रवक्ष्यामि हस्तान् नृत्त-समाश्रयान् ॥ १८४॥
evam jñeyāḥ karāḥ hi ete na abhinaya-saṃśritāḥ . atas ūrdhvam pravakṣyāmi hastān nṛtta-samāśrayān .. 184..
वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ । समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥ १८५॥
वक्षसः अष्ट-अङ्गुल-स्थौ तु प्राच्-मुखौ खटका-मुखौ । समान-कूर्पर-अंसौ तु चतुर्-अस्रौ प्रकीर्तितौ ॥ १८५॥
vakṣasaḥ aṣṭa-aṅgula-sthau tu prāc-mukhau khaṭakā-mukhau . samāna-kūrpara-aṃsau tu catur-asrau prakīrtitau .. 185..
हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् । उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ १८६॥
हंस-पक्ष-कृतौ हस्तौ व्यावृतौ तालवृन्त-वत् । उद्वृत्तौ इति विज्ञेयौ अथवा तालवृन्तकौ ॥ १८६॥
haṃsa-pakṣa-kṛtau hastau vyāvṛtau tālavṛnta-vat . udvṛttau iti vijñeyau athavā tālavṛntakau .. 186..
चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा । तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥ १८७॥
चतुर्-अस्त्र-स्थितौ हस्तौ हंस-पक्ष-कृतौ तथा । तिर्यक्-स्थितौ च अभिमुखौ ज्ञेयौ ताल-मुखौ इति ॥ १८७॥
catur-astra-sthitau hastau haṃsa-pakṣa-kṛtau tathā . tiryak-sthitau ca abhimukhau jñeyau tāla-mukhau iti .. 187..
तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ । स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ १८८॥
तौ एव मणिबन्ध-अन्ते स्वस्तिक-आकृति-संस्थितौ । स्वस्तिकौ इति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ १८८॥
tau eva maṇibandha-ante svastika-ākṛti-saṃsthitau . svastikau iti vikhyātau vicyutau viprakīrṇakau .. 188..
अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ । अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥ १८९॥
अलपल्लव-संस्थानौ उर्ध्व-आस्यौ पद्म-कोशकौ । अराल-खटक-आख्यौ च अपि अराल-खटका-मुखौ ॥ १८९॥
alapallava-saṃsthānau urdhva-āsyau padma-kośakau . arāla-khaṭaka-ākhyau ca api arāla-khaṭakā-mukhau .. 189..
तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥ १९०॥
मणिबन्ध-अन्ते हि अरालौ विच्युतौ उभौ । ज्ञेयौ प्रयोक्तृभिः नित्य-मराल खटकौ इति ॥ १९०॥
maṇibandha-ante hi arālau vicyutau ubhau . jñeyau prayoktṛbhiḥ nitya-marāla khaṭakau iti .. 190..
भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ । पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥ १९१॥
भुज-अंस-कूर्पर-अग्रैः तु कुटिल-आवर्तितौ करौ । पर-अङ्ग-मुख-तल-आविद्धौ ज्ञेयौ आविद्ध-वक्रकौ ॥ १९१॥
bhuja-aṃsa-kūrpara-agraiḥ tu kuṭila-āvartitau karau . para-aṅga-mukha-tala-āviddhau jñeyau āviddha-vakrakau .. 191..
हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा । तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥ १९२॥
हस्तौ तु सर्प-शिरसौ मध्यमा-अङ्गुष्ठकौ यदा । तिर्यक्-प्रसारित-आस्यौ च तदा सूचीमुखौ स्मृतौ ॥ १९२॥
hastau tu sarpa-śirasau madhyamā-aṅguṣṭhakau yadā . tiryak-prasārita-āsyau ca tadā sūcīmukhau smṛtau .. 192..
सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ । मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ १९३॥
सर्प-शीर्षौ यदा हस्तौ भवेताम् स्वस्तिक-स्थितौ । मध्य-प्रसारित-अङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ १९३॥
sarpa-śīrṣau yadā hastau bhavetām svastika-sthitau . madhya-prasārita-aṅguṣṭhau jñeyau sūcīmukhau tadā .. 193..
रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ । प्रसारितोत्तानतलौ रेचिताविति सन्ज्ञितौ ॥ १९४॥
रेचितौ च अपि विज्ञेयौ हंस-पक्षौ द्रुत-भ्रमौ । प्रसारित-उत्तान-तलौ रेचितौ इति सन्ज्ञितौ ॥ १९४॥
recitau ca api vijñeyau haṃsa-pakṣau druta-bhramau . prasārita-uttāna-talau recitau iti sanjñitau .. 194..
चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसन्ज्ञकौ ॥ १९५॥
चतुर्-अस्रः भवेत् वामः सव्य-हस्तः च रेचितः । विज्ञेयौ नृत्त-तत्त्व-ज्ञैः धरा-ईचित-सन्ज्ञकौ ॥ १९५॥
catur-asraḥ bhavet vāmaḥ savya-hastaḥ ca recitaḥ . vijñeyau nṛtta-tattva-jñaiḥ dharā-īcita-sanjñakau .. 195..
अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ । किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥ १९६॥
अञ्चितौ कूर्पर-अंसौ तु त्रि-पताकौ करौ कृतौ । किञ्चिद् तिर्यक्-गतौ एतौ स्मृतौ उत्तन-वञ्चितौ ॥ १९६॥
añcitau kūrpara-aṃsau tu tri-patākau karau kṛtau . kiñcid tiryak-gatau etau smṛtau uttana-vañcitau .. 196..
मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥ १९७॥
मणिबन्ध-मुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहु-शीर्षात् विनिष्क्रान्तौ नितम्बौ इति कीर्तितौ ॥ १९७॥
maṇibandha-muktau tu patākau pallavau smṛtau . bāhu-śīrṣāt viniṣkrāntau nitambau iti kīrtitau .. 197..
केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा । विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥ १९८॥
केश-देशात् विनिष्क्रान्तौ परिपार्श्व-उत्थितौ यदा । केशबन्धौ तु करव-आचार्य-सम्मतौ ॥ १९८॥
keśa-deśāt viniṣkrāntau paripārśva-utthitau yadā . keśabandhau tu karava-ācārya-sammatau .. 198..
तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ १९९॥
तिर्यक्-प्रसारितौ च एव पार्श्व-संस्थौ तथा एव च । लता-आख्यौ च करौ ज्ञेयौ नृत्त-अभिनयनम् प्रति ॥ १९९॥
tiryak-prasāritau ca eva pārśva-saṃsthau tathā eva ca . latā-ākhyau ca karau jñeyau nṛtta-abhinayanam prati .. 199..
समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः । त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥ २००॥
समुन्नतः लता-हस्तः पार्श्वात् पार्श्व विलोलितः । त्रि-पताकः अपरः कर्णे करि-हस्तः प्रकीर्तितः ॥ २००॥
samunnataḥ latā-hastaḥ pārśvāt pārśva vilolitaḥ . tri-patākaḥ aparaḥ karṇe kari-hastaḥ prakīrtitaḥ .. 200..
कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ । पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०१॥
कटि-शीर्ष-निविष्ट-अग्रौ त्रि-पताकौ यदा करौ । पक्ष-वञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०१॥
kaṭi-śīrṣa-niviṣṭa-agrau tri-patākau yadā karau . pakṣa-vañcitakau hastau tadā jñeyau prayoktṛbhiḥ .. 201..
तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ । अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ २०२॥
तौ एव तु परावृत्तौ पक्ष-प्रद्योतकौ स्मृतौ । अधोमुख-तल-आविद्धौ ज्ञेयौ गरुड-पक्षकौ ॥ २०२॥
tau eva tu parāvṛttau pakṣa-pradyotakau smṛtau . adhomukha-tala-āviddhau jñeyau garuḍa-pakṣakau .. 202..
हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ २०३॥
हंस-पक्ष-कृतौ हस्तौ व्यावृत्त-परिवर्तितौ । तथा प्रसारित-भुजौ दण्डपक्षौ इति स्मृतौ ॥ २०३॥
haṃsa-pakṣa-kṛtau hastau vyāvṛtta-parivartitau . tathā prasārita-bhujau daṇḍapakṣau iti smṛtau .. 203..
ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ २०४॥
ऊर्ध्व-मण्डलिनौ हस्तौ ऊर्ध्व-देश-विवर्तनात् । तौ एव पार्श्व-विन्यस्तौ पार्श्व-मण्डलिनौ स्मृतौ ॥ २०४॥
ūrdhva-maṇḍalinau hastau ūrdhva-deśa-vivartanāt . tau eva pārśva-vinyastau pārśva-maṇḍalinau smṛtau .. 204..
उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः । भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ २०५॥
उद्वेष्टितौ भवेत् एकौ द्वितीयः च अपवेष्टितः । भ्रमितौ उरसः स्थाने हि उरः-मण्डलिनौ स्मृतौ ॥ २०५॥
udveṣṭitau bhavet ekau dvitīyaḥ ca apaveṣṭitaḥ . bhramitau urasaḥ sthāne hi uraḥ-maṇḍalinau smṛtau .. 205..
अलपल्लवकारालावुरोद्वभ्रमणक्रमात् । पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥ २०६॥
अल-पल्लव-काराल-वुर-उद्व-भ्रमण-क्रमात् । पार्श्वावर्तः च विज्ञेयौ उरः पार्श्व-अर्ध-मण्डलौ ॥ २०६॥
ala-pallava-kārāla-vura-udva-bhramaṇa-kramāt . pārśvāvartaḥ ca vijñeyau uraḥ pārśva-ardha-maṇḍalau .. 206..
हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ २०७॥
हस्तौ तु मणीबन्ध-अन्ते कुञ्चितौ अञ्चितौ यदा । खटक-आख्यौ तु तौ स्याताम् मुष्टिक-स्वस्तिकौ तदा ॥ २०७॥
hastau tu maṇībandha-ante kuñcitau añcitau yadā . khaṭaka-ākhyau tu tau syātām muṣṭika-svastikau tadā .. 207..
पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ । नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०८॥
पद्म-कोशौ यदा हस्तौ व्यावृत्त-परिवर्तितौ । नलिनी-पद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ २०८॥
padma-kośau yadā hastau vyāvṛtta-parivartitau . nalinī-padmakośau tu tadā jñeyau prayoktṛbhiḥ .. 208..
करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ । ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥ २०९॥
करौ उद्वेष्टित-अग्रौ तु प्रविधाय अल-पल्लवौ । ऊर्ध्वप्रसरित-आविद्धौ कर्तव्यौ उल्बणौ इति ॥ २०९॥
karau udveṣṭita-agrau tu pravidhāya ala-pallavau . ūrdhvaprasarita-āviddhau kartavyau ulbaṇau iti .. 209..
पल्लवौ च शिरोदेशे सम्प्राप्तौ ललितौ स्मृतौ । कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥ २१०॥
पल्लवौ च शिरः-देशे सम्प्राप्तौ ललितौ स्मृतौ । कर्पूर-स्वस्तिक-गतौ लता-आख्यौ वलितौ इति ॥ २१०॥
pallavau ca śiraḥ-deśe samprāptau lalitau smṛtau . karpūra-svastika-gatau latā-ākhyau valitau iti .. 210..
करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः । तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥ २११॥
करणे तु प्रयोक्तव्यः नृत्त-हस्तः विशेषतः । तथा अर्थ-अभिनये च एव पताकायाः प्रयोक्तृभिः ॥ २११॥
karaṇe tu prayoktavyaḥ nṛtta-hastaḥ viśeṣataḥ . tathā artha-abhinaye ca eva patākāyāḥ prayoktṛbhiḥ .. 211..
सङ्करोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः । प्राधान्येन पुनः सन्ज्ञा नाट्ये नृत्ते करेष्विह ॥ २१२॥
सङ्करः अपि भवेत् तेषाम् प्रयोगः अर्थ-वशात् पुनर् । प्राधान्येन पुनर् सन्ज्ञा नाट्ये नृत्ते करेषु इह ॥ २१२॥
saṅkaraḥ api bhavet teṣām prayogaḥ artha-vaśāt punar . prādhānyena punar sanjñā nāṭye nṛtte kareṣu iha .. 212..
वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः । अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥ २१३॥
वियुताः संयुताः च एव नृत्त-हस्ताः प्रकीर्तिताः । अतस् परम् प्रवक्ष्यामि करान् करण-संश्रयान् ॥ २१३॥
viyutāḥ saṃyutāḥ ca eva nṛtta-hastāḥ prakīrtitāḥ . atas param pravakṣyāmi karān karaṇa-saṃśrayān .. 213..
सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः । विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥ २१४॥
सर्वेषाम् एव हस्तानाम् नाट्य-हस्त-निदेशिभिः । विधातव्या प्रयत्नेन करणम् तु चतुर्विधम् ॥ २१४॥
sarveṣām eva hastānām nāṭya-hasta-nideśibhiḥ . vidhātavyā prayatnena karaṇam tu caturvidham .. 214..
अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ २१५॥
अपवेष्टितम् एकम् स्यात् उद्वेष्टितम् अथ अपरम् । व्यावर्तितम् तृतीयम् तु चतुर्थम् परिवर्तितम् ॥ २१५॥
apaveṣṭitam ekam syāt udveṣṭitam atha aparam . vyāvartitam tṛtīyam tu caturtham parivartitam .. 215..
आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् । अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥ २१६॥
आवेष्ट्यन्ते यत् अङ्गुल्यः तर्जन-आद्याः यथाक्रमम् । अभ्यन्तरेण करणम् तत् आवेष्टितम् उच्यते ॥ २१६॥
āveṣṭyante yat aṅgulyaḥ tarjana-ādyāḥ yathākramam . abhyantareṇa karaṇam tat āveṣṭitam ucyate .. 216..
उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् । क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ २१७॥
उद्वेष्ट्यन्ते यत् अङ्गुल्यः तर्जनी-आद्याः बहिस् मुखम् । क्रमशस् करणम् विप्राः तत् उद्वेष्टितम् उच्यते ॥ २१७॥
udveṣṭyante yat aṅgulyaḥ tarjanī-ādyāḥ bahis mukham . kramaśas karaṇam viprāḥ tat udveṣṭitam ucyate .. 217..
आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु । यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥ २१८॥
आवर्त्यन्ते कनिष्ठा-आद्याः हि अङ्गुल्यः अभ्यन्तरेण तु । यथा क्रमेण करणम् तत् व्यावर्तितम् उच्यते ॥ २१८॥
āvartyante kaniṣṭhā-ādyāḥ hi aṅgulyaḥ abhyantareṇa tu . yathā krameṇa karaṇam tat vyāvartitam ucyate .. 218..
उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा । अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ २१९॥
उद्वर्त्यन्ते कनिष्ठ-आद्याः बाह्यतस् क्रमशस् यदा । अङ्गुल्यः करणम् विप्राः तत् उक्तम् परिवर्तितम् ॥ २१९॥
udvartyante kaniṣṭha-ādyāḥ bāhyatas kramaśas yadā . aṅgulyaḥ karaṇam viprāḥ tat uktam parivartitam .. 219..
नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये । मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ २२०॥
नृत्ते अभिनय-योगे वा पाणिभिः वर्तन-आश्रये । मुख-भ्रु-नेत्र-युक्तानि करणानि प्रयोजयेत् ॥ २२०॥
nṛtte abhinaya-yoge vā pāṇibhiḥ vartana-āśraye . mukha-bhru-netra-yuktāni karaṇāni prayojayet .. 220..
तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु । मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥ २२१॥
तिर्यक् तथा ऊर्ध्व-संस्थः हि अधोमुखः च अञ्चितः अपविद्धः तु । मण्डल-गतिः तथा स्वस्तिकः च पृष्ठ-अनुसारि च ॥ २२१॥
tiryak tathā ūrdhva-saṃsthaḥ hi adhomukhaḥ ca añcitaḥ apaviddhaḥ tu . maṇḍala-gatiḥ tathā svastikaḥ ca pṛṣṭha-anusāri ca .. 221..
उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥ २२२॥
उद्वेष्टितः प्रसारितः इति एते वै स्मृताः प्रकाराः तु । बाह्वोः इति करण-गता विज्ञेया नित्यम् नृत्त-प्रयोक्तृभिः ॥ २२२॥
udveṣṭitaḥ prasāritaḥ iti ete vai smṛtāḥ prakārāḥ tu . bāhvoḥ iti karaṇa-gatā vijñeyā nityam nṛtta-prayoktṛbhiḥ .. 222..
हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥ २२३॥
हस्तानाम् करण-विधिः मया समासेन निगदितः विप्राः । अतस् ऊर्ध्वम् व्याख्यास्ये हृदय-उदर-पार्श्व-कर्माणि ॥ २२३॥
hastānām karaṇa-vidhiḥ mayā samāsena nigaditaḥ viprāḥ . atas ūrdhvam vyākhyāsye hṛdaya-udara-pārśva-karmāṇi .. 223..
आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥ २२४॥
आभुग्नम् अथ निर्भुग्नम् तथा च एव प्रकम्पितम् । उद्वाहितम् समम् च एव उरः पञ्चविधम् स्मृतम् ॥ २२४॥
ābhugnam atha nirbhugnam tathā ca eva prakampitam . udvāhitam samam ca eva uraḥ pañcavidham smṛtam .. 224..
निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ २२५॥
निम्नम् उन्नत-पृष्ठम् च व्याभुग्न-अंसम् श्लथम् क्वचिद् आभुग्नम् तत् उरः ज्ञेयम् कर्म च अस्य निबोधत ॥ २२५॥
nimnam unnata-pṛṣṭham ca vyābhugna-aṃsam ślatham kvacid ābhugnam tat uraḥ jñeyam karma ca asya nibodhata .. 225..
संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु । कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् ॥ २२६॥
संभ्रम-विषाद-मूर्च्छा-शोक-भय-व्याधि-हृदय-शल्येषु । कार्यम् शीत-स्पर्शे वर्षे लाज-अन्विते अर्थ-वशात् ॥ २२६॥
saṃbhrama-viṣāda-mūrcchā-śoka-bhaya-vyādhi-hṛdaya-śalyeṣu . kāryam śīta-sparśe varṣe lāja-anvite artha-vaśāt .. 226..
स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् । उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ २२७॥
स्तब्धम् च निम्न-पृष्ठम् च निर्भुग्न-अंसम् समुन्नतम् । उरः निर्भुग्नम् एतत् हि कर्म च अस्य निबोधत ॥ २२७॥
stabdham ca nimna-pṛṣṭham ca nirbhugna-aṃsam samunnatam . uraḥ nirbhugnam etat hi karma ca asya nibodhata .. 227..
स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च । अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥२२८॥
स्तम्भे मान-ग्रहणे विस्मय-दृष्टे च सत्य-वचने च । अहम् इति च दर्प-वचने गर्व-उत्सेके तु कर्तव्यम् ॥२२८॥
stambhe māna-grahaṇe vismaya-dṛṣṭe ca satya-vacane ca . aham iti ca darpa-vacane garva-utseke tu kartavyam ..228..
[दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा । बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ] ॥ २२९॥
[दीर्घ-निश्वसिते च एव जृम्भणे मोटने तथा । बिब्बोके च पुनर् स्त्रीणाम् तत् विज्ञेयम् प्रयोक्तृभिः ॥ २२९॥
[dīrgha-niśvasite ca eva jṛmbhaṇe moṭane tathā . bibboke ca punar strīṇām tat vijñeyam prayoktṛbhiḥ .. 229..
ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् । प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ २३०॥
ऊर्ध्व-उत्क्षेपैः उरः यत्र निरन्तर-कृतैः कृतम् । प्रकम्पितम् तु विज्ञेयम् उरः नाट्य-प्रयोक्तृभिः ॥ २३०॥
ūrdhva-utkṣepaiḥ uraḥ yatra nirantara-kṛtaiḥ kṛtam . prakampitam tu vijñeyam uraḥ nāṭya-prayoktṛbhiḥ .. 230..
हसितरुदितादिसम्भ्रमभयश्रमव्याधिपीडितार्थेषु । नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥ २३१॥
हसित-रुदित-आदि-सम्भ्रम-भय-श्रम-व्याधि-पीडित-अर्थेषु । नाना भाव-उपगतम् कार्यम् उरः नाट्य-योगेषु ॥ २३१॥
hasita-rudita-ādi-sambhrama-bhaya-śrama-vyādhi-pīḍita-artheṣu . nānā bhāva-upagatam kāryam uraḥ nāṭya-yogeṣu .. 231..
हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ २३२॥
हसित-रुदितेषु कार्ये श्रमे भये श्वस-काशयोः च एव । हिक्का-दुःखे च तथा नाट्य-ज्ञैः अर्थ-योगेन ॥ २३२॥
hasita-ruditeṣu kārye śrame bhaye śvasa-kāśayoḥ ca eva . hikkā-duḥkhe ca tathā nāṭya-jñaiḥ artha-yogena .. 232..
उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते॥ २३३॥
उद्वाहितम् ऊर्ध्व-गतम् उरः ज्ञेयम् प्रयोक्तृभिः । दीर्घ-उच्छ्वसन-ता लोके जृम्भन-आदिषु च ईक्ष्यते॥ २३३॥
udvāhitam ūrdhva-gatam uraḥ jñeyam prayoktṛbhiḥ . dīrgha-ucchvasana-tā loke jṛmbhana-ādiṣu ca īkṣyate.. 233..
सर्वैः ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् । उरः समन्। तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ २३४॥
सर्वैः स सौष्ठवैः अञ्गैः चतुरस्र-कृतैः कृतम् । उरः समन्। तु विज्ञेयम् स्वस्थम् सौष्ठव-संयुतम् ॥ २३४॥
sarvaiḥ sa sauṣṭhavaiḥ añgaiḥ caturasra-kṛtaiḥ kṛtam . uraḥ saman. tu vijñeyam svastham sauṣṭhava-saṃyutam .. 234..
एतदुक्तं मय सम्यगरसस्तु विकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥ २३५॥
एतत् उक्तम् मय सम्यक् अरसः तु विकल्पनम् । अतस् ऊर्ध्वम् प्रवक्ष्यामि पार्श्वयोः इह लक्षणम् ॥ २३५॥
etat uktam maya samyak arasaḥ tu vikalpanam . atas ūrdhvam pravakṣyāmi pārśvayoḥ iha lakṣaṇam .. 235..
नतं समुन्नतं चैव प्रसारितविवर्तितो । तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ २३६॥
नतम् समुन्नतम् च एव । तथा अपसृतम् एवम् तु पार्श्वयोः कर्म पञ्चधा ॥ २३६॥
natam samunnatam ca eva . tathā apasṛtam evam tu pārśvayoḥ karma pañcadhā .. 236..
कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च । तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥ २३७॥
कटिः भवेत् तु व्याभुग्ना पार्श्वम् आभुग्नम् एव च । तथा एव अपसृत-अंसम् च किञ्चिद् पार्श्व-नतम् स्मृतम् ॥ २३७॥
kaṭiḥ bhavet tu vyābhugnā pārśvam ābhugnam eva ca . tathā eva apasṛta-aṃsam ca kiñcid pārśva-natam smṛtam .. 237..
तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥ २३८॥
तस्य एव च अपरम् पार्श्वम् विपरीतम् तु युक्तितः । कटी-पार्श्व-भुज-अंसैः च अभ्युन्नतैः उतम् भवेत् ॥ २३८॥
tasya eva ca aparam pārśvam viparītam tu yuktitaḥ . kaṭī-pārśva-bhuja-aṃsaiḥ ca abhyunnataiḥ utam bhavet .. 238..
आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् । परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ २३९॥
आयामनात् उभयतस् स्यात् प्रसारितम् । परिवर्तात्रिकस्य अपि विवर्तितम् इह इष्यते ॥ २३९॥
āyāmanāt ubhayatas syāt prasāritam . parivartātrikasya api vivartitam iha iṣyate .. 239..
विवर्तितापनयनाद् भवेदपसृतं पुनः । पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ २४०॥
विवर्तित-अपनयनात् भवेत् अपसृतम् पुनर् । पार्श्व-लक्षणम् इति उक्तम् विनियोगम् निबोधत ॥ २४०॥
vivartita-apanayanāt bhavet apasṛtam punar . pārśva-lakṣaṇam iti uktam viniyogam nibodhata .. 240..
उपसर्पे नतं कार्यमुन्नतं चापसर्पणे । प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥२४१॥
उपसर्पे नतम् कार्यम् उन्नतम् च अपसर्पणे । प्रसारितम् प्रहर्ष-आदौ परिवृत्ते विवर्तितम् ॥२४१॥
upasarpe natam kāryam unnatam ca apasarpaṇe . prasāritam praharṣa-ādau parivṛtte vivartitam ..241..
विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ २४२॥
विनिवृत्ते तु अपसृतम् पार्श्वम् अर्थ-वशात् भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ २४२॥
vinivṛtte tu apasṛtam pārśvam artha-vaśāt bhavet . etāni pārśvakarmāṇi jaṭharasya nibodhata .. 242..
क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा । तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते ॥ २४३॥
क्षामम् खल्वम् च पूर्णम् च सम्प्रोक्तम् उदरम् त्रिधा । तनु क्षामम् नतम् खल्वम् पूर्णम् आध्मातम् उच्यते ॥ २४३॥
kṣāmam khalvam ca pūrṇam ca samproktam udaram tridhā . tanu kṣāmam natam khalvam pūrṇam ādhmātam ucyate .. 243..
क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ २४४॥
क्षामम् हास्ये अथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधा-आर्ते खल्वम् इष्यते ॥ २४४॥
kṣāmam hāsye atha rudite niḥśvāse jṛmbhane bhavet . vyādhite tapasi śrānte kṣudhā-ārte khalvam iṣyate .. 244..
पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु । इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥ २४५॥
पूर्णम् उच्छ्वसिते स्थूले व्याधित-अत्यशन-आदिषु । इति एतत् उदरम् प्रोक्तम् कट्याः कर्म निबोधत ॥ २४५॥
pūrṇam ucchvasite sthūle vyādhita-atyaśana-ādiṣu . iti etat udaram proktam kaṭyāḥ karma nibodhata .. 245..
अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥
अन्ये तु क्षामम् खल्वम् समम् पूर्णम् उदरम् स्यात् चतुर्विधम् । छिना च एव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता च एव कटी नाट्ये नृत्ते च पञ्चधा ॥ २४६॥
anye tu kṣāmam khalvam samam pūrṇam udaram syāt caturvidham . chinā ca eva nivṛttā ca recitā kampitā tathā . udvāhitā ca eva kaṭī nāṭye nṛtte ca pañcadhā .. 246..
कटी मध्यस्य वलनात्च्छिना सम्परिकीर्तिता । पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥ २४७॥
कटी मध्यस्य वलनात् शिना सम्परिकीर्तिता । पराङ्ग्मुखस्य अभिमुखी निवृत्ता स्यात् निवर्तिता ॥ २४७॥
kaṭī madhyasya valanāt śinā samparikīrtitā . parāṅgmukhasya abhimukhī nivṛttā syāt nivartitā .. 247..
सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी । तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ २४८॥
सर्वतस् भ्रमणात् च अपि विज्ञेया रेचिता कटी । तिर्यग्गता आगता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ २४८॥
sarvatas bhramaṇāt ca api vijñeyā recitā kaṭī . tiryaggatā āgatā kṣiptā kaṭī jñeyā prakampitā .. 248..
नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी । कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥ २४९॥
नितम्ब-पार्श्व-उद्वहनात् शनेइः उद्वाहिता कटी । कटी-कर्म मया प्रोक्तम् विनियोगम् निबोधत ॥ २४९॥
nitamba-pārśva-udvahanāt śaneiḥ udvāhitā kaṭī . kaṭī-karma mayā proktam viniyogam nibodhata .. 249..
छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु । निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥ २५०॥
छिन्नाः व्यायाम-सम्भ्रान्त-व्यावृत्त-प्रेक्षण-आदिषु । निवृत्ताः वर्तने च एव रेचिताः भ्रमण-आदिषु ॥ २५०॥
chinnāḥ vyāyāma-sambhrānta-vyāvṛtta-prekṣaṇa-ādiṣu . nivṛttāḥ vartane ca eva recitāḥ bhramaṇa-ādiṣu .. 250..
कुब्जवामननीचानां गतौ कार्या प्रकम्पिता । स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥ २५१॥
कुब्ज-वामन-नीचानाम् गतौ कार्या प्रकम्पिता । स्थूलेषु उद्वाहिओता योज्या स्त्रीणाम् लीला-गतेषु च ॥ २५१॥
kubja-vāmana-nīcānām gatau kāryā prakampitā . sthūleṣu udvāhiotā yojyā strīṇām līlā-gateṣu ca .. 251..
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ २५२॥
कम्पनम् वलनम् च एव स्तम्भन-उद्वर्तने तथा । निवर्तनम् च पञ्च एतानि ऊरुकर्माणि कारयेत् ॥ २५२॥
kampanam valanam ca eva stambhana-udvartane tathā . nivartanam ca pañca etāni ūrukarmāṇi kārayet .. 252..
नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् । गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥ २५३॥
नमन-उन्नमनात् पार्ष्णेः मुहुर् स्यात् ऊरु-कम्पनम् । गच्छेत् अभ्यन्तरम् जानु यत्र तत् वलनम् स्मृतम् ॥ २५३॥
namana-unnamanāt pārṣṇeḥ muhur syāt ūru-kampanam . gacchet abhyantaram jānu yatra tat valanam smṛtam .. 253..
स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् । वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥ २५४॥
स्तम्भनम् च अपि विज्ञेयम् अपविद्ध-क्रिया-आत्मकम् । वलित-आविद्ध-करणात् ऊर्वोः उद्वर्तनम् स्मृतम् ॥ २५४॥
stambhanam ca api vijñeyam apaviddha-kriyā-ātmakam . valita-āviddha-karaṇāt ūrvoḥ udvartanam smṛtam .. 254..
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् । गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥ २५५॥
पार्ष्णिः अभ्यन्तरम् गच्छेत् यत्र तत् तु निवर्तनम् । गतिषु अधम-पात्रणाम् भये च अपि हि कम्पनम् ॥ २५५॥
pārṣṇiḥ abhyantaram gacchet yatra tat tu nivartanam . gatiṣu adhama-pātraṇām bhaye ca api hi kampanam .. 255..
वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे । साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥२५६॥
वलनम् च एव हि कर्तव्यम् स्त्रीणाम् स्वैर-परिक्रमे । साध्वसे च विषादे च स्तम्भनम् तु प्रयोजयेत् ॥२५६॥
valanam ca eva hi kartavyam strīṇām svaira-parikrame . sādhvase ca viṣāde ca stambhanam tu prayojayet ..256..
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः । निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥ २५७॥
व्यायामे ताण्डवे च एव कार्यम् उद्वर्तनम् बुधैः । निवर्तनम् तु कर्तव्यम् सम्भ्र-आदि-परिभ्रमे ॥ २५७॥
vyāyāme tāṇḍave ca eva kāryam udvartanam budhaiḥ . nivartanam tu kartavyam sambhra-ādi-paribhrame .. 257..
यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः । इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥ २५८॥
यथादर्शनम् अन्यत् च लोकात् ग्राह्यम् प्रयोक्तृभिः । इति ऊरु-रोः लक्षणम् प्रोक्तम् जङ्घायाः तु निबोधत ॥ २५८॥
yathādarśanam anyat ca lokāt grāhyam prayoktṛbhiḥ . iti ūru-roḥ lakṣaṇam proktam jaṅghāyāḥ tu nibodhata .. 258..
आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च । परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥ २५९॥
आवर्तितम् नतम् क्षिप्तम् उद्वाहितम् अथ अपि च । परिवृत्तम् तथा च एव जङ्घा-कर्माणि पञ्चधा ॥ २५९॥
āvartitam natam kṣiptam udvāhitam atha api ca . parivṛttam tathā ca eva jaṅghā-karmāṇi pañcadhā .. 259..
वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥ २६०॥
वामः दक्षिण-पार्श्वेन दक्षिणः च अपि वामतः । पादः यत्र व्रजेत् विप्राः तत् आवर्तितम् उच्यते ॥ २६०॥
vāmaḥ dakṣiṇa-pārśvena dakṣiṇaḥ ca api vāmataḥ . pādaḥ yatra vrajet viprāḥ tat āvartitam ucyate .. 260..
जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् । जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः । विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥ २६१॥
जङ्घा-स्वस्तिक-योगेन क्रमात् आवर्तितम् नयेत् । जानुनः कुञ्चनात् च एव नतम् ज्ञेयम् प्रयोक्तृभिः । विक्षेपात् च एव जङ्घायाः क्षिप्तम् इति अभिधीयते ॥ २६१॥
jaṅghā-svastika-yogena kramāt āvartitam nayet . jānunaḥ kuñcanāt ca eva natam jñeyam prayoktṛbhiḥ . vikṣepāt ca eva jaṅghāyāḥ kṣiptam iti abhidhīyate .. 261..
[नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि] ।
[नतम् स्यात् जानु-नमनात् क्षिप्तम् विक्षेपणात् बहि ।
[natam syāt jānu-namanāt kṣiptam vikṣepaṇāt bahi .
उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि । प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥ २६२॥
उद्वाहितम् च विज्ञेयम् ऊर्ध्वम् ऊद्वाहनात् अपि । प्रतीप-नयनम् यत् तु परिवृत्तम् तत् उच्यते ॥ २६२॥
udvāhitam ca vijñeyam ūrdhvam ūdvāhanāt api . pratīpa-nayanam yat tu parivṛttam tat ucyate .. 262..
आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे । नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥ २६३॥
आवर्तितम् प्रयोक्तव्यम् विदूषक-परिक्रमे । नतम् च अपि हि कर्तव्यम् स्थान-आसन-गत-आदिषु ॥ २६३॥
āvartitam prayoktavyam vidūṣaka-parikrame . natam ca api hi kartavyam sthāna-āsana-gata-ādiṣu .. 263..
क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते । तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥ २६४॥
क्षिप्तम् व्यायाम-योगेषु ताण्डवे च प्रयुज्यते । तथा च उद्वाहितम् कुर्यात् आविद्ध-गमन-आदिषु ॥ २६४॥
kṣiptam vyāyāma-yogeṣu tāṇḍave ca prayujyate . tathā ca udvāhitam kuryāt āviddha-gamana-ādiṣu .. 264..
ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः । इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥ २६५॥
ताण्डवेषु प्रयोक्तव्यम् परिवृत्तम् प्रयोक्तृभिः । इति एतत् जङ्घयोः कर्म पादयोः तु निबोधत ॥ २६५॥
tāṇḍaveṣu prayoktavyam parivṛttam prayoktṛbhiḥ . iti etat jaṅghayoḥ karma pādayoḥ tu nibodhata .. 265..
उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः । अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥ २६६॥
उद्घट्टितः समः च एव तथा अग्र-तल-सञ्चरः । अञ्चितः कुञ्चितः च एव पादः स्मृतः ॥ २६६॥
udghaṭṭitaḥ samaḥ ca eva tathā agra-tala-sañcaraḥ . añcitaḥ kuñcitaḥ ca eva pādaḥ smṛtaḥ .. 266..
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते । यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥ २६७॥
स्थित्वा पाद-तल-अग्रेण पार्ष्णिः भूमौ निपात्यते । यस्य पादस्य करणे भवेत् उद्घट्टितः तु सः ॥ २६७॥
sthitvā pāda-tala-agreṇa pārṣṇiḥ bhūmau nipātyate . yasya pādasya karaṇe bhavet udghaṭṭitaḥ tu saḥ .. 267..
अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य । द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥ २६८॥
अयम् उद्वेष्टित-करणे तु अनुकरण-अर्थम् प्रयोगम् आसाद्य । द्रुत-मध्यम-प्रचारः सकृत् अ सकृदा प्रयोक्तव्यः ॥ २६८॥
ayam udveṣṭita-karaṇe tu anukaraṇa-artham prayogam āsādya . druta-madhyama-pracāraḥ sakṛt a sakṛdā prayoktavyaḥ .. 268..
स्वभावरचिते भूमौ समस्थाने च यो भवेत् । समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥ २६९॥
स्वभाव-रचिते भूमौ सम-स्थाने च यः भवेत् । समः पादः स विज्ञेयः स्वभाव-अभिनय-आश्रयः ॥ २६९॥
svabhāva-racite bhūmau sama-sthāne ca yaḥ bhavet . samaḥ pādaḥ sa vijñeyaḥ svabhāva-abhinaya-āśrayaḥ .. 269..
स्थिरस्वभावाभिनये नानाकरणसंश्रये । चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥ २७०॥
स्थिर-स्वभाव-अभिनये नाना करण-संश्रये । चलितः च पुनर् कार्यः विधि-ज्ञैः पाद-रेचिते ॥ २७०॥
sthira-svabhāva-abhinaye nānā karaṇa-saṃśraye . calitaḥ ca punar kāryaḥ vidhi-jñaiḥ pāda-recite .. 270..
समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् । बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥ २७१॥
समस्य एव यदा पार्ष्णिः पादस्य अभ्यन्तरे भवेत् । बहिस् पार्श्व-स्थितः अङ्गुष्ठः त्रि-अश्र-पादः तु स स्मृतः ॥ २७१॥
samasya eva yadā pārṣṇiḥ pādasya abhyantare bhavet . bahis pārśva-sthitaḥ aṅguṣṭhaḥ tri-aśra-pādaḥ tu sa smṛtaḥ .. 271..
त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च । स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥ २७२॥
त्यक्त्वा (कृत्वा?) सम-पदम् स्थानम् अश्वक्रान्ते तथा एव च । स्यात् विक्लव-आदिषु अर्थेषु त्रि-अश्रः पादः यथा विधिः ॥ २७२॥
tyaktvā (kṛtvā?) sama-padam sthānam aśvakrānte tathā eva ca . syāt viklava-ādiṣu artheṣu tri-aśraḥ pādaḥ yathā vidhiḥ .. 272..
अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् । त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥ २७३॥
अस्य एव सम-पादस्य पार्ष्णिः अभ्यन्तरे भवेत् । त्रि-अश्र-पादः स विज्ञेयः स्थानक-आदिषु संश्रयः ॥ २७३॥
asya eva sama-pādasya pārṣṇiḥ abhyantare bhavet . tri-aśra-pādaḥ sa vijñeyaḥ sthānaka-ādiṣu saṃśrayaḥ .. 273..
उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा । अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः ॥ २७४॥
उत्क्षिप्ता तु भवेत् पार्ष्णिः प्रसृत-उङ्गुष्ठकः तथा । अङ्गुल्यः च आञ्चिताः सर्वा पादे अग्र-तल-सञ्चरः ॥ २७४॥
utkṣiptā tu bhavet pārṣṇiḥ prasṛta-uṅguṣṭhakaḥ tathā . aṅgulyaḥ ca āñcitāḥ sarvā pāde agra-tala-sañcaraḥ .. 274..
तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे । विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥ २७५॥
तोदन-निकुट्टने स्थित-निशुम्भने भूमि-ताडने भ्रमणे । विक्षेप-विविध-रेचक-पार्ष्णि-कृत-आगमनम् एतेन ॥ २७५॥
todana-nikuṭṭane sthita-niśumbhane bhūmi-tāḍane bhramaṇe . vikṣepa-vividha-recaka-pārṣṇi-kṛta-āgamanam etena .. 275..
पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा । अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः ॥ २७६॥
पार्ष्णिः यस्य आञ्चिता भूमौ पादम् अग्र-तलम् तथा । अङ्गुल्यः च अञ्चिताः सर्वाः स पादः तु अञ्चितः स्मृतः ॥ २७६॥
pārṣṇiḥ yasya āñcitā bhūmau pādam agra-talam tathā . aṅgulyaḥ ca añcitāḥ sarvāḥ sa pādaḥ tu añcitaḥ smṛtaḥ .. 276..
पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा । एव पादाहते कार्यो नानाभ्रमरकेषु च ॥ २७७॥
पाद-अग्र-तल-सञ्चारे वर्तित-उद्वर्तिते तथा । एव पाद-आहते कार्यः नाना भ्रमरकेषु च ॥ २७७॥
pāda-agra-tala-sañcāre vartita-udvartite tathā . eva pāda-āhate kāryaḥ nānā bhramarakeṣu ca .. 277..
उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ २७८॥
उत्क्षिप्ता यस्य पार्ष्णी स्यात् अङ्गुल्यः कुङ्चिताः तथा । तथा कुञ्चित-मध्यः च स पादम् कुञ्चितः स्मृतः ॥ २७८॥
utkṣiptā yasya pārṣṇī syāt aṅgulyaḥ kuṅcitāḥ tathā . tathā kuñcita-madhyaḥ ca sa pādam kuñcitaḥ smṛtaḥ .. 278..
उदत्तगमने चैव वर्तितोद्वर्तिते तथा । उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥ २७९॥
उदत्त-गमने च एव वर्तित-उद्वर्तिते तथा । उत्क्षिप्ता तु भवेत् पार्ष्णिः अङ्गुष्ठ-अग्रेण संस्थितः ॥ २७९॥
udatta-gamane ca eva vartita-udvartite tathā . utkṣiptā tu bhavet pārṣṇiḥ aṅguṣṭha-agreṇa saṃsthitaḥ .. 279..
वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥ २८०॥
वामः च एव स्वभाव-स्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुर-करणे प्रयोगः तस्य कीर्त्यते ॥ २८०॥
vāmaḥ ca eva svabhāva-sthaḥ sūcīpādaḥ prakīrtitaḥ . nṛtte nūpura-karaṇe prayogaḥ tasya kīrtyate .. 280..
अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् । पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥ २८१॥
अतिक्रान्त-क्रमे च एव पादम् एतम् प्रयोजयेत् । पाद-जङ्घा-ऊरु-करणम् कर्म कार्य प्रयोक्तृभिः ॥ २८१॥
atikrānta-krame ca eva pādam etam prayojayet . pāda-jaṅghā-ūru-karaṇam karma kārya prayoktṛbhiḥ .. 281..
पादस्य करणं सर्व जङ्घोरुकृतमिष्यते । यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥ २८२॥
पादस्य करणम् सर्व जङ्घा-ऊरु-कृतम् इष्यते । यथा पादः प्रवर्तेत तथा एव ऊरुः प्रवर्तते ॥ २८२॥
pādasya karaṇam sarva jaṅghā-ūru-kṛtam iṣyate . yathā pādaḥ pravarteta tathā eva ūruḥ pravartate .. 282..
अनयोः समानकरणात् पादचारी प्रयोजयेत् । इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥ २८३॥
अनयोः समान-करणात् पाद-चारी प्रयोजयेत् । इति एतत् अङ्ग-जम् प्रोक्तम् लक्षणम् कर्म च एव हि ॥ २८३॥
anayoḥ samāna-karaṇāt pāda-cārī prayojayet . iti etat aṅga-jam proktam lakṣaṇam karma ca eva hi .. 283..
अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ २८४॥
अतस् परम् प्रवक्ष्यामि चारी-व्यायाम-लक्षणम् ॥ २८४॥
atas param pravakṣyāmi cārī-vyāyāma-lakṣaṇam .. 284..
इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः ।
इति भारतीये नाट्य-शास्त्रे अङ्गाभिनयः नाम नवमः अध्यायः ।
iti bhāratīye nāṭya-śāstre aṅgābhinayaḥ nāma navamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In