| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २९ ततातोद्यविधानं ॥
॥ नाट्य-शास्त्रम् अध्याय तत-आतोद्य-विधानम् ॥
.. nāṭya-śāstram adhyāya tata-ātodya-vidhānam ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ एकोनत्रिंशत्तमोऽध्यायः
अथ एकोनत्रिंशत्तमः अध्यायः
atha ekonatriṃśattamaḥ adhyāyaḥ
षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात् कार्या शृङ्गारहास्ययोः ॥ १॥
षड्ज-उदीच्यवती च एव षड्ज-मध्या तथा एव च । मध्य-पञ्चम-बाहुल्यात् कार्या शृङ्गार-हास्ययोः ॥ १॥
ṣaḍja-udīcyavatī ca eva ṣaḍja-madhyā tathā eva ca . madhya-pañcama-bāhulyāt kāryā śṛṅgāra-hāsyayoḥ .. 1..
षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ २॥
षाड्जी तु अथ आर्षभी च एव स्व-स्वर-अंश-परिग्रहात् । वीर-रौद्र-अद्भुतेषु एते प्रयोज्ये गान-योक्तृभिः ॥ २॥
ṣāḍjī tu atha ārṣabhī ca eva sva-svara-aṃśa-parigrahāt . vīra-raudra-adbhuteṣu ete prayojye gāna-yoktṛbhiḥ .. 2..
निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ ३॥
निषादे अंशे तु नैषादी गान्धारे षड्ज-कैशिकी । करुणे तु रसे कार्याः जाति-गान-विशारदैः ॥ ३॥
niṣāde aṃśe tu naiṣādī gāndhāre ṣaḍja-kaiśikī . karuṇe tu rase kāryāḥ jāti-gāna-viśāradaiḥ .. 3..
धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ ४॥
धैवती धैवत-अंशे तु बीभत्से स भयानके । ध्रुवा-विधाने कर्तव्या जातिः गाने प्रयत्नतः । रसम् कार्यम् अवस्थाम् च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्ज-ग्राम-आश्रिताः हि एताः प्रयोज्याः जातयः बुधैः ॥ ४॥
dhaivatī dhaivata-aṃśe tu bībhatse sa bhayānake . dhruvā-vidhāne kartavyā jātiḥ gāne prayatnataḥ . rasam kāryam avasthām ca jñātvā yojyā prayoktṛbhiḥ . ṣaḍja-grāma-āśritāḥ hi etāḥ prayojyāḥ jātayaḥ budhaiḥ .. 4..
अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ ५॥
अतस् परम् प्रवक्ष्यामि मध्यमग्राम-संश्रयाः । । करुणे तु रसे कार्ये निषादे अंशे तथा एव च ॥ ५॥
atas param pravakṣyāmi madhyamagrāma-saṃśrayāḥ . . karuṇe tu rase kārye niṣāde aṃśe tathā eva ca .. 5..
मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ ६॥
मध्यमा पञ्चमी च एव नन्दयन्ती तथा एव च । गान्धारपञ्चमी च एव मध्यमा उदीच्यवा तथा । मध्यम-पञ्चम-बाहुल्यात् कार्याः शृङ्गार-हास्ययोः ॥ ६॥
madhyamā pañcamī ca eva nandayantī tathā eva ca . gāndhārapañcamī ca eva madhyamā udīcyavā tathā . madhyama-pañcama-bāhulyāt kāryāḥ śṛṅgāra-hāsyayoḥ .. 6..
कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ ७॥
कार्मारवी तथा चान्ध्री गान्धारा उदीच्यवा तथा । वीरे रौद्रे अद्भुते कार्याः षड्ज-ऋषभ-अंश-योजिताः । कैशिकी धैवत-अंशे तु बीभत्से स भयानके ॥ ७॥
kārmāravī tathā cāndhrī gāndhārā udīcyavā tathā . vīre raudre adbhute kāryāḥ ṣaḍja-ṛṣabha-aṃśa-yojitāḥ . kaiśikī dhaivata-aṃśe tu bībhatse sa bhayānake .. 7..
एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ ८॥
एका एव षड्ज-मध्या ज्ञेया सर्व-रस-संश्रया जातिः । तस्याः तु अंशाः सर्वे स्वराः तु विहिताः प्रयोग-विधौ ॥ ८॥
ekā eva ṣaḍja-madhyā jñeyā sarva-rasa-saṃśrayā jātiḥ . tasyāḥ tu aṃśāḥ sarve svarāḥ tu vihitāḥ prayoga-vidhau .. 8..
यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ ९॥
यः यदा बलवान् यस्मिन् स्वरः जाति-समाश्रयात् । तत् प्रवृत्तम् रसे कार्यम् गानम् गेये प्रयोक्तृभिः ॥ ९॥
yaḥ yadā balavān yasmin svaraḥ jāti-samāśrayāt . tat pravṛttam rase kāryam gānam geye prayoktṛbhiḥ .. 9..
मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ १०॥
मध्य-पञ्चम-भूयिष्ठम् गानम् शृङ्गार-हास्ययोः । षड्ज-ऋषभ-प्राय-कृतम् वीर-रौद्र-अद्भुतेषु च ॥ १०॥
madhya-pañcama-bhūyiṣṭham gānam śṛṅgāra-hāsyayoḥ . ṣaḍja-ṛṣabha-prāya-kṛtam vīra-raudra-adbhuteṣu ca .. 10..
गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ ११॥
गान्धारः सप्तमः च अयम् करुणे गानम् इष्यते । तथा धैवत-भूयिष्ठम् बीभत्से स भयानके ॥ ११॥
gāndhāraḥ saptamaḥ ca ayam karuṇe gānam iṣyate . tathā dhaivata-bhūyiṣṭham bībhatse sa bhayānake .. 11..
एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ १२॥
एका एव षड्ज-मध्या विज्ञेया अखिल-रस-आश्रया जातिः । तस्याः तु अंशाः सर्वे स्वराः च विहिताः प्रयोग-विधौ ॥ १२॥
ekā eva ṣaḍja-madhyā vijñeyā akhila-rasa-āśrayā jātiḥ . tasyāḥ tu aṃśāḥ sarve svarāḥ ca vihitāḥ prayoga-vidhau .. 12..
सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ १३॥
सर्वेषु अंशेषु रसाः नियम-विधानेन सम्प्रयोक्तव्याः । काकली-अन्तर-विहिताः विशेष-युक्ताः तु बलवन्तः । एवम् एताः बुधैः ज्ञेयाः जातयः नाट्य-संश्रयाः ॥ १३॥
sarveṣu aṃśeṣu rasāḥ niyama-vidhānena samprayoktavyāḥ . kākalī-antara-vihitāḥ viśeṣa-yuktāḥ tu balavantaḥ . evam etāḥ budhaiḥ jñeyāḥ jātayaḥ nāṭya-saṃśrayāḥ .. 13..
पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ।
पाठ्य-प्रयोग-विहितान् स्वरान् च अपि निबोधत । हास्य-शृङ्गारयोः कार्यौ स्वरौ मध्यम-पञ्चमौ ।
pāṭhya-prayoga-vihitān svarān ca api nibodhata . hāsya-śṛṅgārayoḥ kāryau svarau madhyama-pañcamau .
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे । धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ॥
गान्धारः च निषादः च कर्तव्यौ करुणे रसे । धैवतः च प्रयोग-ज्ञैः बीभत्से स भयानके ॥
gāndhāraḥ ca niṣādaḥ ca kartavyau karuṇe rase . dhaivataḥ ca prayoga-jñaiḥ bībhatse sa bhayānake ..
अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥
अतस् ऊर्ध्वम् प्रवक्ष्यामि वर्ण-अलङ्कार-लक्षणम् । आरोही च अवरोही च स्थायि-सञ्चारिणौ तथा । वर्णाः चत्वारः एव एते हि अलङ्काराः तद्-आश्रयाः ॥ १४॥
atas ūrdhvam pravakṣyāmi varṇa-alaṅkāra-lakṣaṇam . ārohī ca avarohī ca sthāyi-sañcāriṇau tathā . varṇāḥ catvāraḥ eva ete hi alaṅkārāḥ tad-āśrayāḥ .. 14..
आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ १५॥
आरोहन्ति स्वराः यत्र आरोही इति स तु संज्ञितः । यत्र च एव अवरोहन्ति सः अवरोही प्रकीर्तितः ॥ १५॥
ārohanti svarāḥ yatra ārohī iti sa tu saṃjñitaḥ . yatra ca eva avarohanti saḥ avarohī prakīrtitaḥ .. 15..
स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ १६॥
स्थिराः स्वराः समाः यत्र स्थायी वर्णः सः उच्यते । सञ्चरन्ति स्वराः यत्र स सञ्चारी इति कीर्तितः ॥ १६॥
sthirāḥ svarāḥ samāḥ yatra sthāyī varṇaḥ saḥ ucyate . sañcaranti svarāḥ yatra sa sañcārī iti kīrtitaḥ .. 16..
शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ १७॥
शारीर-स्वर-सम्भूताः त्रि-स्थान-गुण-गोचराः । चत्वारः लक्षण-उपेताः वर्णाः तत्र प्रकीर्तिताः ॥ १७॥
śārīra-svara-sambhūtāḥ tri-sthāna-guṇa-gocarāḥ . catvāraḥ lakṣaṇa-upetāḥ varṇāḥ tatra prakīrtitāḥ .. 17..
एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ १८॥
एवम् लक्षण-संयुक्तम् यदा वर्णः अनुकर्षति । तदा वर्णस्य निष्पत्तिः ज्ञेया स्वर-समुद्भवा ॥ १८॥
evam lakṣaṇa-saṃyuktam yadā varṇaḥ anukarṣati . tadā varṇasya niṣpattiḥ jñeyā svara-samudbhavā .. 18..
एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ १९॥
एते वर्णाः तु विज्ञेयाः चत्वारः गीत-योजकाः । एतान् समाश्रितान् सम्यक् अलङ्कारान् निबोधत ॥ १९॥
ete varṇāḥ tu vijñeyāḥ catvāraḥ gīta-yojakāḥ . etān samāśritān samyak alaṅkārān nibodhata .. 19..
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥
प्रसन्न-आदिः प्रसन्न-अन्तः प्रसन्न-आदि-अन्तः एव च । प्रसन्न-मध्यः च तथा क्रम-रेचितः एव च । प्रस्तारः च प्रसादः च सप्त एते स्थायि-वर्ण-गाः ॥ २०॥
prasanna-ādiḥ prasanna-antaḥ prasanna-ādi-antaḥ eva ca . prasanna-madhyaḥ ca tathā krama-recitaḥ eva ca . prastāraḥ ca prasādaḥ ca sapta ete sthāyi-varṇa-gāḥ .. 20..
अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ २१॥
अथ सञ्चारि-जान् भूयस् कीर्त्यमानान् निबोधत । मन्द्रः तथा प्रसन्न-आदिः प्रेङ्खितः बिन्दुः एव च । सन्निवृत्तः प्रवृत्तः च रेचितः कम्पितः समः ॥ २१॥
atha sañcāri-jān bhūyas kīrtyamānān nibodhata . mandraḥ tathā prasanna-ādiḥ preṅkhitaḥ binduḥ eva ca . sannivṛttaḥ pravṛttaḥ ca recitaḥ kampitaḥ samaḥ .. 21..
कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ २२॥
कुहरः च एव वेणुः च रञ्चितः हि अवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यः चतुर्दश ॥ २२॥
kuharaḥ ca eva veṇuḥ ca rañcitaḥ hi avalokitaḥ . āvartakaḥ parāvṛttaḥ sañcāriṇyaḥ caturdaśa .. 22..
निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ २३॥
निष्कर्षः अभ्युचयः च एव हसितः बिन्दुः एव च । प्रेङ्खोलितः तथा आक्षिप्तः विस्तीर्ण-उद्धटितः तथा ॥ २३॥
niṣkarṣaḥ abhyucayaḥ ca eva hasitaḥ binduḥ eva ca . preṅkholitaḥ tathā ākṣiptaḥ vistīrṇa-uddhaṭitaḥ tathā .. 23..
ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ २४॥
ह्राद-मानः सम्प्रदानः सन्धिः प्रच्छादनः तथा । प्रसन्न-आदिः प्रसन्न-अन्तः इति आरोहे त्रयोदश ॥ २४॥
hrāda-mānaḥ sampradānaḥ sandhiḥ pracchādanaḥ tathā . prasanna-ādiḥ prasanna-antaḥ iti ārohe trayodaśa .. 24..
विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ २५॥
विधूतः च त्रि-वर्णः च तथा उद्वाहितः एव च । उद्गीतः च तथा वेणिः विज्ञेयाः हि अवरोहिणः ॥ २५॥
vidhūtaḥ ca tri-varṇaḥ ca tathā udvāhitaḥ eva ca . udgītaḥ ca tathā veṇiḥ vijñeyāḥ hi avarohiṇaḥ .. 25..
सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ २६॥
सप्त-रूप-गताः ज्ञेयाः अलङ्काराः बुधैः तु इमे । न एते सर्वे ध्रुवासु इष्टाः श्रुति-वर्ण-प्रकर्षणात् ॥ २६॥
sapta-rūpa-gatāḥ jñeyāḥ alaṅkārāḥ budhaiḥ tu ime . na ete sarve dhruvāsu iṣṭāḥ śruti-varṇa-prakarṣaṇāt .. 26..
न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ २७॥
न हि वर्ण-प्रकर्षः तु ध्रुवाणाम् सिद्धिः इष्यते । श्येनः वा अपि अथवा बिन्दुः ये च अन्ये इति प्रकर्षिणः ॥ २७॥
na hi varṇa-prakarṣaḥ tu dhruvāṇām siddhiḥ iṣyate . śyenaḥ vā api athavā binduḥ ye ca anye iti prakarṣiṇaḥ .. 27..
ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ २८॥
ते ध्रुवाणाम् प्रयोगेषु न कार्याः स्व-प्रमाणतः । तद्-ध्रुवाणाम् प्रयोगे तु कार्याः हि आरोहिणः स्वराः ॥ २८॥
te dhruvāṇām prayogeṣu na kāryāḥ sva-pramāṇataḥ . tad-dhruvāṇām prayoge tu kāryāḥ hi ārohiṇaḥ svarāḥ .. 28..
यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ २९॥
यस्मात् अर्थ-अनुरूपा हि ध्रुवा कार्य-अर्थ-दर्शिका । वर्णानाम् तु पुनर् कार्यम् कृश-त्वम् पद-संश्रयम् ॥ २९॥
yasmāt artha-anurūpā hi dhruvā kārya-artha-darśikā . varṇānām tu punar kāryam kṛśa-tvam pada-saṃśrayam .. 29..
येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ ३०॥
ये अत्र प्रयोगे गच्छन्ति तान् च वर्णान् निबोधत । प्रसन्न-आदिः प्रसन्न-अन्तः प्रसन्न-आदि-अन्तः एव च ॥ ३०॥
ye atra prayoge gacchanti tān ca varṇān nibodhata . prasanna-ādiḥ prasanna-antaḥ prasanna-ādi-antaḥ eva ca .. 30..
प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥
प्रसन्न-मध्यमः च एव बिन्दुः कम्पित-रेचितौ । तारः च एव हि मन्द्रः च तथा तारतरः पुनर् । प्रेङ्खोलितः तारमन्द्रः मन्द्र-तारः समः तथा ॥ ३१॥
prasanna-madhyamaḥ ca eva binduḥ kampita-recitau . tāraḥ ca eva hi mandraḥ ca tathā tārataraḥ punar . preṅkholitaḥ tāramandraḥ mandra-tāraḥ samaḥ tathā .. 31..
सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ ३२॥
सन्निवृत्तः प्रवृत्तः च प्रसादः अपाङ्गः एव च । ऊर्मिः प्रेङ्खः अवलोकः च इति एते सर्व-वर्ण-गाः ॥ ३२॥
sannivṛttaḥ pravṛttaḥ ca prasādaḥ apāṅgaḥ eva ca . ūrmiḥ preṅkhaḥ avalokaḥ ca iti ete sarva-varṇa-gāḥ .. 32..
स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ ३३॥
स्थायि-वर्णात् ऋते च एषाम् सम्प्रवक्ष्यामि लक्षणम् । क्रमशस् दीपितः यः स्यात् प्रसन्न-आदिः स कथ्यते ॥ ३३॥
sthāyi-varṇāt ṛte ca eṣām sampravakṣyāmi lakṣaṇam . kramaśas dīpitaḥ yaḥ syāt prasanna-ādiḥ sa kathyate .. 33..
व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ ३४॥
व्यस्त-उच्चारितः एव एष प्रसन्न-अन्तः विधीयते । आदि-अन्तयोः प्रसन्न-त्वात् प्रसन्न-आदि-अन्तः इष्यते ॥ ३४॥
vyasta-uccāritaḥ eva eṣa prasanna-antaḥ vidhīyate . ādi-antayoḥ prasanna-tvāt prasanna-ādi-antaḥ iṣyate .. 34..
प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ ३५॥
प्रसन्न-मध्यः मध्ये तु प्रसन्न-त्वात् उदाहृतः । सर्व-साम्यात् समः ज्ञेयः स्थितः तु एक-स्वरः अपि यः ॥ ३५॥
prasanna-madhyaḥ madhye tu prasanna-tvāt udāhṛtaḥ . sarva-sāmyāt samaḥ jñeyaḥ sthitaḥ tu eka-svaraḥ api yaḥ .. 35..
आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयोऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ ३६॥
आदि-मध्य-लयः यत्र स च ऊर्मिः इति संज्ञितः । श्रुतयः अन्त्यात् द्वितीयस्य मृदु-मध्य-आयताः स्वराः ॥ ३६॥
ādi-madhya-layaḥ yatra sa ca ūrmiḥ iti saṃjñitaḥ . śrutayaḥ antyāt dvitīyasya mṛdu-madhya-āyatāḥ svarāḥ .. 36..
आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ ३७॥
आयत-त्वम् भवेत् नीचे मृदु-त्वम् तु विपर्यये । स्वे स्वरे मध्यम-त्वम् च मृदु-मध्यमयोः तथा । दीप्तायते करुणानाम् श्रुतीनाम् एष निश्चयः ॥ ३७॥
āyata-tvam bhavet nīce mṛdu-tvam tu viparyaye . sve svare madhyama-tvam ca mṛdu-madhyamayoḥ tathā . dīptāyate karuṇānām śrutīnām eṣa niścayaḥ .. 37..
बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ ३८॥
बिन्दुः एक-कलः ज्ञेयः कम्पितः च कला-द्वयम् । गत-आगत-प्रवृत्तः यः स प्रेङ्खोलितः इष्यते ॥ ३८॥
binduḥ eka-kalaḥ jñeyaḥ kampitaḥ ca kalā-dvayam . gata-āgata-pravṛttaḥ yaḥ sa preṅkholitaḥ iṣyate .. 38..
यस्तु कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ ३९॥
यः तु कण्ठे स्वरः अधस् स्यात् स तु तारः प्रकीर्तितः । उरः-गतः तथा मन्द्रः मूर्ध्नि तारतरः तथा ॥ ३९॥
yaḥ tu kaṇṭhe svaraḥ adhas syāt sa tu tāraḥ prakīrtitaḥ . uraḥ-gataḥ tathā mandraḥ mūrdhni tārataraḥ tathā .. 39..
क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ ४०॥
क्रम-आगतः तु यः तारः षष्ठः पञ्चमः एव वा । तारमन्द्रप्रसन्नः तु ज्ञेयः मन्द्र-गतः स च ॥ ४०॥
krama-āgataḥ tu yaḥ tāraḥ ṣaṣṭhaḥ pañcamaḥ eva vā . tāramandraprasannaḥ tu jñeyaḥ mandra-gataḥ sa ca .. 40..
लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ ४१॥
लङ्घयित्वा परात् मन्द्रात् पराम् तार-गतिम् गतः । मन्द्र-तार-प्रसन्नः तु विज्ञेयः हि अवरोहणात् ॥ ४१॥
laṅghayitvā parāt mandrāt parām tāra-gatim gataḥ . mandra-tāra-prasannaḥ tu vijñeyaḥ hi avarohaṇāt .. 41..
प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ ४२॥
प्रसन्न-अन्तः स्वरः यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिः तु विज्ञेयः स्वराणाम् अथ सञ्चरात् ॥ ४२॥
prasanna-antaḥ svaraḥ yatra prasādaḥ sa tu saṃjñitaḥ . apāṅgakiḥ tu vijñeyaḥ svarāṇām atha sañcarāt .. 42..
रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ ४३॥
रेचितः शिरसि ज्ञेयः कम्पितम् तु कला-त्रयम् । कण्ठे निरुद्ध-पवनः कुहरः नाम जायते ॥ ४३॥
recitaḥ śirasi jñeyaḥ kampitam tu kalā-trayam . kaṇṭhe niruddha-pavanaḥ kuharaḥ nāma jāyate .. 43..
एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ ४४॥
एवम् एते तु अलङ्काराः विज्ञेयाः वर्ण-संश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दः-अक्षर-समन्विताः ॥ ४४॥
evam ete tu alaṅkārāḥ vijñeyāḥ varṇa-saṃśrayāḥ . atha gītīḥ pravakṣyāmi chandaḥ-akṣara-samanvitāḥ .. 44..
शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ ४५॥
शशिना रहिता इव निशा विजला इव नदी लता विपुष्पा इव । अ विभूषिता इव च स्त्री गीतिः अलङ्कार-हीना स्यात् ॥ ४५॥
śaśinā rahitā iva niśā vijalā iva nadī latā vipuṣpā iva . a vibhūṣitā iva ca strī gītiḥ alaṅkāra-hīnā syāt .. 45..
प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ ४६॥
प्रथमा मागधी ज्ञेया द्वितीया च अर्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ ४६॥
prathamā māgadhī jñeyā dvitīyā ca ardhamāgadhī . sambhāvitā tṛtīyā tu caturthī pṛthulā smṛtā .. 46..
त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ ४७॥
त्रि-निवृत्त-प्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया हि अर्धमागधी ॥ ४७॥
tri-nivṛtta-pragītā yā gītiḥ sā māgadhī smṛtā . ardhataḥ sannivṛttā ca vijñeyā hi ardhamāgadhī .. 47..
सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ ४८॥
सम्भाविता च विज्ञेया गुरु-अक्षर-समन्विता । पृथुल-आख्या च विज्ञेया नित्यम् लघु-अक्षर-अन्विता ॥ ४८॥
sambhāvitā ca vijñeyā guru-akṣara-samanvitā . pṛthula-ākhyā ca vijñeyā nityam laghu-akṣara-anvitā .. 48..
एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ ४९॥
एताः तु गीतयः ज्ञेयाः ध्रुवा-योगम् विना एव हि । गान्धर्वे एव योज्याः तु नित्यम् गान-प्रयोक्तृभिः ॥ ४९॥
etāḥ tu gītayaḥ jñeyāḥ dhruvā-yogam vinā eva hi . gāndharve eva yojyāḥ tu nityam gāna-prayoktṛbhiḥ .. 49..
गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ ५०॥
गीतयः गदिताः सम्यक् धातून् च एव निबोधत । विस्तारः करणः च स्यात् आविद्धः व्यञ्जनः तथा । चत्वारः धातवः ज्ञेयाः वादित्र-करण-आश्रयाः ॥ ५०॥
gītayaḥ gaditāḥ samyak dhātūn ca eva nibodhata . vistāraḥ karaṇaḥ ca syāt āviddhaḥ vyañjanaḥ tathā . catvāraḥ dhātavaḥ jñeyāḥ vāditra-karaṇa-āśrayāḥ .. 50..
सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ ५१॥
सङ्घात-जः अथ समवाय-जः च विस्तार-जः अनुबन्ध-कृतः । ज्ञेतः चतुष्प्रकारः धातुः विस्तार-संज्ञः च ॥ ५१॥
saṅghāta-jaḥ atha samavāya-jaḥ ca vistāra-jaḥ anubandha-kṛtaḥ . jñetaḥ catuṣprakāraḥ dhātuḥ vistāra-saṃjñaḥ ca .. 51..
विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ ५२॥
विधयः तु स्मृताः तस्य पूर्वम् विस्तारः एव च । सङ्घात-समवायौ तु विज्ञेयौ तौ द्वि-अत्रिकौ ॥ ५२॥
vidhayaḥ tu smṛtāḥ tasya pūrvam vistāraḥ eva ca . saṅghāta-samavāyau tu vijñeyau tau dvi-atrikau .. 52..
पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ ५३॥
पूर्वः चतुर्विधः तत्र पश्चिमः अष्टविधः स्मृतः । करणानाम् विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ ५३॥
pūrvaḥ caturvidhaḥ tatra paścimaḥ aṣṭavidhaḥ smṛtaḥ . karaṇānām viśeṣeṇa vijñeyau tau pṛthak pṛthak .. 53..
अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ ५४॥
अधस् च ऊर्ध्वम् च विज्ञेयौ अधर-उत्तर-जौ स्वरौ । सङ्घात-जः विधिः तु एष विज्ञेयः वादनम् प्रति ॥ ५४॥
adhas ca ūrdhvam ca vijñeyau adhara-uttara-jau svarau . saṅghāta-jaḥ vidhiḥ tu eṣa vijñeyaḥ vādanam prati .. 54..
द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ ५५॥
द्विस् उत्तरः द्विस् अधरः तु अधर-आदिः च उत्तर-अवसानः च । ज्ञेयः तथा उत्तर-आदिः पुनर् अपि अधर-अवसानः च ॥ ५५॥
dvis uttaraḥ dvis adharaḥ tu adhara-ādiḥ ca uttara-avasānaḥ ca . jñeyaḥ tathā uttara-ādiḥ punar api adhara-avasānaḥ ca .. 55..
समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ ५६॥
समवाय-जः तथा स्यात् त्रिस् उत्तरः त्रिस् अधरः च विज्ञेयः । द्विरधर-उत्तर-अधर-अन्तः द्विरधरः च उत्तर-विरामः च ॥ ५६॥
samavāya-jaḥ tathā syāt tris uttaraḥ tris adharaḥ ca vijñeyaḥ . dviradhara-uttara-adhara-antaḥ dviradharaḥ ca uttara-virāmaḥ ca .. 56..
उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ ५७॥
उत्तर-मुखः द्विस् अधरः द्विस् उत्तर-अवसानः च । मध्य-उत्तरः द्विस् अधरः द्विस् उत्तरः अपि अधर-मध्यः च ॥ ५७॥
uttara-mukhaḥ dvis adharaḥ dvis uttara-avasānaḥ ca . madhya-uttaraḥ dvis adharaḥ dvis uttaraḥ api adhara-madhyaḥ ca .. 57..
अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ ५८॥
अनुबन्धः तु ज्ञेयः व्यास-समासात् च नियतम् एषाम् हि । एवम् चतुर्दशविधः विस्तारः धातुः आख्यातः ॥ ५८॥
anubandhaḥ tu jñeyaḥ vyāsa-samāsāt ca niyatam eṣām hi . evam caturdaśavidhaḥ vistāraḥ dhātuḥ ākhyātaḥ .. 58..
रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ ५९॥
ह्रादः तु तथा अनुबन्धः स्यात् । पञ्चविधः विज्ञेयः वीणा-वाद्ये करण-धातुः ॥ ५९॥
hrādaḥ tu tathā anubandhaḥ syāt . pañcavidhaḥ vijñeyaḥ vīṇā-vādye karaṇa-dhātuḥ .. 59..
त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ ६०॥
त्रिक-पञ्च-सप्त-नवकैः यथाक्रमम् संयुतः भवेत् वा आद्ये । सर्वैः अनुबन्ध-कृतैः गुरु-अन्तः स्यात् करण-धातुः ॥ ६०॥
trika-pañca-sapta-navakaiḥ yathākramam saṃyutaḥ bhavet vā ādye . sarvaiḥ anubandha-kṛtaiḥ guru-antaḥ syāt karaṇa-dhātuḥ .. 60..
क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ ६१॥
क्षेपः प्लुतः अतिपातः अतिकीर्णम् अनुबन्ध-संज्ञितः च एव । आविद्धः विष्टः यः धातुः वै पञ्चविधः एव ॥ ६१॥
kṣepaḥ plutaḥ atipātaḥ atikīrṇam anubandha-saṃjñitaḥ ca eva . āviddhaḥ viṣṭaḥ yaḥ dhātuḥ vai pañcavidhaḥ eva .. 61..
द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ ६२॥
द्वि-त्रि-चतुष्क-नवकैः प्रहारैः क्रमशस् कृतैः । आविद्धधातुः विज्ञेयः स अनुबन्ध-विभूषितः ॥ ६२॥
dvi-tri-catuṣka-navakaiḥ prahāraiḥ kramaśas kṛtaiḥ . āviddhadhātuḥ vijñeyaḥ sa anubandha-vibhūṣitaḥ .. 62..
व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ ६३॥
व्यञ्जन-धातोः पुष्पम् कल-तल-निष्कोटितम् तथा उद्धृष्टम् । रेफः अनुबन्ध-संज्ञः अनुस्वनितम् बिन्दुः अवमृष्टम् ॥ ६३॥
vyañjana-dhātoḥ puṣpam kala-tala-niṣkoṭitam tathā uddhṛṣṭam . rephaḥ anubandha-saṃjñaḥ anusvanitam binduḥ avamṛṣṭam .. 63..
कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ ६४॥
कनिष्ठा-अङ्गुष्ठ-संयुक्तम् पुष्पम् इति अभिसंज्ञितम् । अङ्गुष्ठाभ्याम् समम् तन्त्र्योः स्पर्शनम् यत् कलम् तु तत् ॥ ६४॥
kaniṣṭhā-aṅguṣṭha-saṃyuktam puṣpam iti abhisaṃjñitam . aṅguṣṭhābhyām samam tantryoḥ sparśanam yat kalam tu tat .. 64..
वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ ६५॥
वामेन पीडनम् कृत्वा दक्षिणेन आहतिः तले । सव्य-अङ्गुष्ठ-प्रहारः तु निष्कोटितम् इह उच्यते ॥ ६५॥
vāmena pīḍanam kṛtvā dakṣiṇena āhatiḥ tale . savya-aṅguṣṭha-prahāraḥ tu niṣkoṭitam iha ucyate .. 65..
प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।६६॥
प्रहारः वाम-तर्जन्याः उद्धृष्टम् इति संज्ञितम् । सर्व-अङ्गुलि-समाक्षेपः रेफः इति अभिसंज्ञितः ।६६॥
prahāraḥ vāma-tarjanyāḥ uddhṛṣṭam iti saṃjñitam . sarva-aṅguli-samākṣepaḥ rephaḥ iti abhisaṃjñitaḥ .66..
तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ ६७॥
तल-स्थाने अधस् तन्त्रीणाम् अनुस्वनितम् उच्यते । गुरु-अक्षर-कृता तन्त्री बिन्दुः इति अभिसंज्ञितः ॥ ६७॥
tala-sthāne adhas tantrīṇām anusvanitam ucyate . guru-akṣara-kṛtā tantrī binduḥ iti abhisaṃjñitaḥ .. 67..
कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ ६८॥
कनिष्ठा-अङ्गुष्ठकाभ्याम् तु दक्षिणाभ्याम् अधोमुखम् । तन्त्रीषु त्रि-प्रहारम् च अपि अवमृष्टम् प्रकीर्तितम् ॥ ६८॥
kaniṣṭhā-aṅguṣṭhakābhyām tu dakṣiṇābhyām adhomukham . tantrīṣu tri-prahāram ca api avamṛṣṭam prakīrtitam .. 68..
व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ ६९॥
व्यास-समासात् एषाम् अनुबन्धः सार्वधातुकः ज्ञेयः । इति दशविधः प्रयोज्यः वीणायाम् व्यञ्जनः धातुः ॥ ६९॥
vyāsa-samāsāt eṣām anubandhaḥ sārvadhātukaḥ jñeyaḥ . iti daśavidhaḥ prayojyaḥ vīṇāyām vyañjanaḥ dhātuḥ .. 69..
इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ ७०॥
इति एते धातवः प्रोक्ताः चत्वारः लक्षण-अन्विताः । तिसृणाम् अपि वृत्तीनाम् येषु वाद्यम् प्रतिष्ठितम् ॥ ७०॥
iti ete dhātavaḥ proktāḥ catvāraḥ lakṣaṇa-anvitāḥ . tisṛṇām api vṛttīnām yeṣu vādyam pratiṣṭhitam .. 70..
तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ ७१॥
तिस्रः तु वृत्तयः चित्रा-दक्षिणा-वृत्ति-संज्ञिताः । वाद्य-गीत-उभय-गुणाः निर्दिष्ट-अन्ताः यथाक्रमम् ॥ ७१॥
tisraḥ tu vṛttayaḥ citrā-dakṣiṇā-vṛtti-saṃjñitāḥ . vādya-gīta-ubhaya-guṇāḥ nirdiṣṭa-antāḥ yathākramam .. 71..
तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ ७२॥
तिस्रः गीति-वृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिः दक्षिणा च इति । तासाम् ताल-गीति-लय-यति-मार्ग-प्राधान्यानि यथास्वम् व्यञ्जकानि भवन्ति । तत्र चित्रायाम् सङ्क्षिप्त-वाद्य-ताल-द्रुत-लय-समायति-नागत-ग्रहाणाम् प्राधान्यम् । तथा वृत्तौ गीत-वादित्र-द्वि-कला-ताल-मध्य-लय-स्रोतः-गत-आयति-सम-ग्रह-मार्गाणाम् प्राधान्यम् । दक्षिणायाम् गीति-चतुष्कल-ताल-विलम्बित-लय-गोपुच्छ-आयति-अतीत-ग्रह-मार्गाणाम् प्राधान्यम् । सर्वासाम् एव वृत्तीनाम् ललिता-आद्याः तु जातयः । धातुभिः सह संयुक्ताः भवन्ति गुणवत्तराः ॥ ७२॥
tisraḥ gīti-vṛttayaḥ prādhānyena grāhyāḥ . citrā vṛttiḥ dakṣiṇā ca iti . tāsām tāla-gīti-laya-yati-mārga-prādhānyāni yathāsvam vyañjakāni bhavanti . tatra citrāyām saṅkṣipta-vādya-tāla-druta-laya-samāyati-nāgata-grahāṇām prādhānyam . tathā vṛttau gīta-vāditra-dvi-kalā-tāla-madhya-laya-srotaḥ-gata-āyati-sama-graha-mārgāṇām prādhānyam . dakṣiṇāyām gīti-catuṣkala-tāla-vilambita-laya-gopuccha-āyati-atīta-graha-mārgāṇām prādhānyam . sarvāsām eva vṛttīnām lalitā-ādyāḥ tu jātayaḥ . dhātubhiḥ saha saṃyuktāḥ bhavanti guṇavattarāḥ .. 72..
एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ ७३॥
एतेषाम् धातूनाम् समवायात् जातयः तु जायन्ते । स्यात् उदात्त-ललित-रिभित-घन-संज्ञाः चतस्रः तु ॥ ७३॥
eteṣām dhātūnām samavāyāt jātayaḥ tu jāyante . syāt udātta-lalita-ribhita-ghana-saṃjñāḥ catasraḥ tu .. 73..
तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या ॥ ७४॥
तत्र उदाताः विस्तार-धातु-विषयाः हि उदात्त-त्वात् । ललिता व्यञ्जन-धातोः ललित-त्वात् एव सम्प्रयोक्तव्या ॥ ७४॥
tatra udātāḥ vistāra-dhātu-viṣayāḥ hi udātta-tvāt . lalitā vyañjana-dhātoḥ lalita-tvāt eva samprayoktavyā .. 74..
आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ ७५॥
आविद्ध-धातु-विषया रिभिता लघु-सञ्चयात् विनिर्दिष्टा । करण-विषया च घन-संज्ञा गुरु-लघु-सञ्चयात् तु स्यात् ॥ ७५॥
āviddha-dhātu-viṣayā ribhitā laghu-sañcayāt vinirdiṣṭā . karaṇa-viṣayā ca ghana-saṃjñā guru-laghu-sañcayāt tu syāt .. 75..
त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ ७६॥
त्रिविधम् गीते कार्यम् वाद्यम् वीणा-समुद्भवम् तद्-ज्ञैः । तत्त्वम् हि अनुगत-मोघः स्थान-एक-करण-समायुक्ताः ॥ ७६॥
trividham gīte kāryam vādyam vīṇā-samudbhavam tad-jñaiḥ . tattvam hi anugata-moghaḥ sthāna-eka-karaṇa-samāyuktāḥ .. 76..
लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ ७७॥
लय-ताल-वर्ण-पद-यति-गीति-अक्षर-भावकम् भवेत् तत्त्वम् । गीतम् तु यत् अनुगच्छति अनुगतम् इति तत् भवेत् वाद्यम् ॥ ७७॥
laya-tāla-varṇa-pada-yati-gīti-akṣara-bhāvakam bhavet tattvam . gītam tu yat anugacchati anugatam iti tat bhavet vādyam .. 77..
आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ ७८॥
आविद्ध-करण-बहुलम् हि उपरि उपरि पाणिकम् द्रुत-लयम् च । अन् अपेक्षित-गीत-अर्थम् वाद्यम् तु ओघे विधातव्यम् ॥ ७८॥
āviddha-karaṇa-bahulam hi upari upari pāṇikam druta-layam ca . an apekṣita-gīta-artham vādyam tu oghe vidhātavyam .. 78..
एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ ७९॥
एवम् ज्ञेयाः वैणे वाद्य-विधाने तु धातवः तद्-ज्ञैः । लक्ष्यामि अतस् परम् अहम् निर्गीत-विधान-समवायम् ॥ ७९॥
evam jñeyāḥ vaiṇe vādya-vidhāne tu dhātavaḥ tad-jñaiḥ . lakṣyāmi atas param aham nirgīta-vidhāna-samavāyam .. 79..
आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ ८०॥
आश्रावणा तथा आरम्भः वक्त्रपाणिः तथा एव च । सङ्खोटना तथा कार्यम् पुनर् च परिघट्टना ॥ ८०॥
āśrāvaṇā tathā ārambhaḥ vaktrapāṇiḥ tathā eva ca . saṅkhoṭanā tathā kāryam punar ca parighaṭṭanā .. 80..
मार्गासारितमेतत् स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ ८१॥
मार्ग-आसारितम् एतत् स्यात् लीलाकृतम् अथ अपि च । आसारितानि च तथा त्रि-प्रकार-कृतानि तु ॥ ८१॥
mārga-āsāritam etat syāt līlākṛtam atha api ca . āsāritāni ca tathā tri-prakāra-kṛtāni tu .. 81..
एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ ८२॥
एतानि तु बहिस् गीतानि आहुः वाद्य-विदः जनाः । स तालानि हि अ तालानि चित्त-वृत्तौ कृतानि तु ॥ ८२॥
etāni tu bahis gītāni āhuḥ vādya-vidaḥ janāḥ . sa tālāni hi a tālāni citta-vṛttau kṛtāni tu .. 82..
प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ ८३॥
प्रयोजनम् च विज्ञेयम् पूर्वरङ्ग-विधिम् प्रति । एतेषाम् सम्प्रवक्ष्यामि लक्षणम् स निदर्शनम् ॥ ८३॥
prayojanam ca vijñeyam pūrvaraṅga-vidhim prati . eteṣām sampravakṣyāmi lakṣaṇam sa nidarśanam .. 83..
आस्रावणा नाम । विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ ८४॥
आस्रावणाः नाम । विस्तार-धातु-विहितैः करणैः प्रविभागशः द्विस् अभ्यस्तैः । द्विस् च अपि सन्निवृत्तैः करण-उपचयैः क्रमेण स्यात् ॥ ८४॥
āsrāvaṇāḥ nāma . vistāra-dhātu-vihitaiḥ karaṇaiḥ pravibhāgaśaḥ dvis abhyastaiḥ . dvis ca api sannivṛttaiḥ karaṇa-upacayaiḥ krameṇa syāt .. 84..
गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ ८५॥
गुरुणी तु आदौ एकादशकम् चतुर्दशम् स पञ्चदशम् । स चतुर्विंशकम् एवम् द्विगुणीकृतम् एतत् एव स्यात् ॥ ८५॥
guruṇī tu ādau ekādaśakam caturdaśam sa pañcadaśam . sa caturviṃśakam evam dviguṇīkṛtam etat eva syāt .. 85..
लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः । षट् च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ ८६॥
लघुनी गुरु च एव स्यात् अथ अष्टमम् गुरु भवेत् तथा च पुनर् । षड् च लघूनि ततस् अन्त्ये गुरु-आदि-आश्रावणायाम् तु ॥ ८६॥
laghunī guru ca eva syāt atha aṣṭamam guru bhavet tathā ca punar . ṣaḍ ca laghūni tatas antye guru-ādi-āśrāvaṇāyām tu .. 86..
त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ ८७॥
त्रिःशम्या-उपरिपाणौ तालौ अपि एवम् एव चैकिकवान् । सम-पाणौ द्वे शम्ये तालौ अपि एवम् एव अथ ॥ ८७॥
triḥśamyā-uparipāṇau tālau api evam eva caikikavān . sama-pāṇau dve śamye tālau api evam eva atha .. 87..
भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ ८८॥
भूयः शम्यातालौ अवपाणौ उत्तरस्था च एव । चञ्चत्-पुटः तथा स्यात् एवम् हि आश्रावणातालः ॥ ८८॥
bhūyaḥ śamyātālau avapāṇau uttarasthā ca eva . cañcat-puṭaḥ tathā syāt evam hi āśrāvaṇātālaḥ .. 88..
अत्रोदाहरणम् । ज़्हण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥
अत्र उदाहरणम् । शण्टुम् जगति जम्बुक झण्टुम् च लघु च झण्टुम् । दिङ्गले गणपति-पशुपति-जम्बुक दिङ्गले वरभुज चा । त्-इति च-आदिनि नि-गि-चा पशुपति नीति-चा ॥
atra udāharaṇam . śaṇṭum jagati jambuka jhaṇṭum ca laghu ca jhaṇṭum . diṅgale gaṇapati-paśupati-jambuka diṅgale varabhuja cā . t-iti ca-ādini ni-gi-cā paśupati nīti-cā ..
अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ ८९॥
अथ आरम्भः । दीर्घाणि आदौ अष्टौ द्वादश च लघूनि नैधनम् च एव । चत्वारि गुरूणि तथा ह्रस्वानि अष्टौ च दीर्घम् च ॥ ८९॥
atha ārambhaḥ . dīrghāṇi ādau aṣṭau dvādaśa ca laghūni naidhanam ca eva . catvāri gurūṇi tathā hrasvāni aṣṭau ca dīrgham ca .. 89..
लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ ९०॥
लघु-संज्ञानि चतुर्धा निधनम् द्वि-गुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनम् इति आरम्भे अक्षर-विधानम् ॥ ९०॥
laghu-saṃjñāni caturdhā nidhanam dvi-guṇīkṛtāni dīrghe dve . aṣṭau laghūni naidhanam iti ārambhe akṣara-vidhānam .. 90..
अत्रोदाहरणम् । ज़्हण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥
अत्र उदाहरणम् । झण्टुम् झण्टुम् झण्टुम् जगति दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झ-झ-लकुच-झल-जम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥
atra udāharaṇam . jhaṇṭum jhaṇṭum jhaṇṭum jagati diginigicā . diṅgle diṅgle titi jha-jha-lakuca-jhala-jambuka titicā . gaṇapati surapati paśupati cā ..
अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥
अस्य तु वाद्यम् । कार्यम् त्रि-पर्व-रहितैः उद्वहनैः अपि अथ समवरोहैः । तल-रिभित-ह्राद-युतैः करणैः विस्तार-भूयिष्ठैः ॥
asya tu vādyam . kāryam tri-parva-rahitaiḥ udvahanaiḥ api atha samavarohaiḥ . tala-ribhita-hrāda-yutaiḥ karaṇaiḥ vistāra-bhūyiṣṭhaiḥ ..
अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥
अपचय-युक्तैः द्विस् त्रिस् तथा निवृत्तैः द्विस् अभ्यस्तैः । आरम्भः अपि अवतरणः त्रिपर्व-युक्तैः च कर्तव्यः ॥
apacaya-yuktaiḥ dvis tris tathā nivṛttaiḥ dvis abhyastaiḥ . ārambhaḥ api avataraṇaḥ triparva-yuktaiḥ ca kartavyaḥ ..
तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ ९१॥
तालः त्रि-कलः तु आदौ शम्या एक-कला कला-द्वये तालः । द्वि-कला च पुनर् शम्या तालः द्वि-कलः च कर्तव्यः ॥ ९१॥
tālaḥ tri-kalaḥ tu ādau śamyā eka-kalā kalā-dvaye tālaḥ . dvi-kalā ca punar śamyā tālaḥ dvi-kalaḥ ca kartavyaḥ .. 91..
त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ ९२॥
त्रि-कलः च सन्निपातः पुनर् पितापुत्रकः च षष्-पूर्वः । चञ्चत्पुटः तथा स्यात् आरम्भे ताल-योगः तु ॥ ९२॥
tri-kalaḥ ca sannipātaḥ punar pitāputrakaḥ ca ṣaṣ-pūrvaḥ . cañcatpuṭaḥ tathā syāt ārambhe tāla-yogaḥ tu .. 92..
अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ ९३॥
अस्य तु वाद्यम् । कार्यम् त्रि-पर्व-रहितैः उद्वहनैः अपि अथ समवरोहैः । करणैः विस्ता-भूयिष्ठैः ॥ ९३॥
asya tu vādyam . kāryam tri-parva-rahitaiḥ udvahanaiḥ api atha samavarohaiḥ . karaṇaiḥ vistā-bhūyiṣṭhaiḥ .. 93..
अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ ९४॥
अपचय-युक्तैः द्विस् त्रिस् तथा निवृत्तैः द्विस् अभ्यस्तैः । आरम्भः अपि अवतरणः त्रिपर्व-युक्तैः च कर्तव्यः ॥ ९४॥
apacaya-yuktaiḥ dvis tris tathā nivṛttaiḥ dvis abhyastaiḥ . ārambhaḥ api avataraṇaḥ triparva-yuktaiḥ ca kartavyaḥ .. 94..
अथ वक्त्रपाणिः । गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ ९५॥
अथ वक्त्रपाणिः । गुरूणि पञ्च ह्रस्वानि षष्-गुरुः च चतुर्गुणः । गुरुणी द्वे लघु तु एकम् चत्वारि अथ गुरूणि हि ॥ ९५॥
atha vaktrapāṇiḥ . gurūṇi pañca hrasvāni ṣaṣ-guruḥ ca caturguṇaḥ . guruṇī dve laghu tu ekam catvāri atha gurūṇi hi .. 95..
चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ ९६॥
चत्वारि अथ लघूनि स्युः त्रीणि दीर्घाणि च एव हि । लघूनि अष्टौ च दीर्घम् च वक्त्र-पाणौ भवेत् विधिः ॥ ९६॥
catvāri atha laghūni syuḥ trīṇi dīrghāṇi ca eva hi . laghūni aṣṭau ca dīrgham ca vaktra-pāṇau bhavet vidhiḥ .. 96..
अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥
atrodāharaṇam | diṅgale jhaṇṭuṃ jambuka jagati ya jhaṇṭuṃ diṅgale | ghendṛṃ gheṭo ghāṭo bhaṭṭunakiṭi inaṃ duṅ ||
atrodāharaṇam | diṅgale jhaṇṭuṃ jambuka jagati ya jhaṇṭuṃ diṅgale | ghendṛṃ gheṭo ghāṭo bhaṭṭunakiṭi inaṃ duṅ ||
घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ ९७॥
घदु-गदु-किटम् अटनम् । अस्य वाद्यम् । आविद्ध-करण-युक्तः द्वि-अङ्गः स्यात् एक-प्रवृत्तौ वा । तु ॥ ९७॥
ghadu-gadu-kiṭam aṭanam . asya vādyam . āviddha-karaṇa-yuktaḥ dvi-aṅgaḥ syāt eka-pravṛttau vā . tu .. 97..
द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ ९८॥
द्वि-कले मद्रके यत् तु शम्याताल-आदि-पातम् । तत् सर्वम् वक्त्र-पाणौ तु कार्यम् अष्ट-कला-अन्वितम् ॥ ९८॥
dvi-kale madrake yat tu śamyātāla-ādi-pātam . tat sarvam vaktra-pāṇau tu kāryam aṣṭa-kalā-anvitam .. 98..
तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ ९९॥
तस्य अधस्तात् पुनर् कार्यम् पञ्च-पाणि-चतुष्टयम् । वक्त्रपाणेः अयम् तालः मुख-प्रतिमुख-आश्रयः ॥ ९९॥
tasya adhastāt punar kāryam pañca-pāṇi-catuṣṭayam . vaktrapāṇeḥ ayam tālaḥ mukha-pratimukha-āśrayaḥ .. 99..
अथ सङ्खोटना । गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम् ॥ १००॥
अथ सङ्खोटना । गुरुणी लघूनि अथ अष्टौ दीर्घम् द्विगुणम् तथा च कर्तव्यम् । लघु-दीर्घे लघु च पुनर् चतुर्गुणम् सम्प्रकर्तव्यम् ॥ १००॥
atha saṅkhoṭanā . guruṇī laghūni atha aṣṭau dīrgham dviguṇam tathā ca kartavyam . laghu-dīrghe laghu ca punar caturguṇam samprakartavyam .. 100..
पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ १०१॥
पुनर् अष्टौ ह्रस्वानि स्युः इह तथा नैधनम् च कर्तव्यम् । सङ्खोटन-वस्तु-विधौ ह्रस्व-गुरु-विधिः समुद्दिष्टः ॥ १०१॥
punar aṣṭau hrasvāni syuḥ iha tathā naidhanam ca kartavyam . saṅkhoṭana-vastu-vidhau hrasva-guru-vidhiḥ samuddiṣṭaḥ .. 101..
सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ १०२॥
सङ्खोटनायाः उदाहरणम् प्रकल्प्य कृतम् । दिङ्गले जगति य वलति लघु पशुपतिचा । अस्याः वाद्य-विधिः । अधिदण्डम् हस्ताभ्याम् वीणाम् विनिगृह्य दक्षिण-अङ्गुल्या । अङ्गुष्ठाभ्याम् च तथा कार्यम् सङ्खोटना-वाद्यम् ॥ १०२॥
saṅkhoṭanāyāḥ udāharaṇam prakalpya kṛtam . diṅgale jagati ya valati laghu paśupaticā . asyāḥ vādya-vidhiḥ . adhidaṇḍam hastābhyām vīṇām vinigṛhya dakṣiṇa-aṅgulyā . aṅguṣṭhābhyām ca tathā kāryam saṅkhoṭanā-vādyam .. 102..
सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ १०३॥
सङ्खोटयेत् स्वरम् वादिना तु संवादिना तथा आधि-बलम् । समवायिभिः च शेषैः अनुवादिभिः अल्पकैः च अंशैः ॥ १०३॥
saṅkhoṭayet svaram vādinā tu saṃvādinā tathā ādhi-balam . samavāyibhiḥ ca śeṣaiḥ anuvādibhiḥ alpakaiḥ ca aṃśaiḥ .. 103..
विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ १०४॥
विस्तार-चित्र-करणैः द्विस् त्रिस् विनिवर्तितैः द्विस् अभ्यस्तैः । उपचय-युक्तैः क्रमशस् वदन्ति सङ्खोटना-वाद्यम् । तालः अस्याः गदितः तद्-ज्ञैः शीर्ष-वत् पञ्च-पाणिना ॥ १०४॥
vistāra-citra-karaṇaiḥ dvis tris vinivartitaiḥ dvis abhyastaiḥ . upacaya-yuktaiḥ kramaśas vadanti saṅkhoṭanā-vādyam . tālaḥ asyāḥ gaditaḥ tad-jñaiḥ śīrṣa-vat pañca-pāṇinā .. 104..
अथ परिघट्टना । दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ १०५॥
अथ परिघट्टना । दीर्घाणि आदौ अष्टौ लघूनि कुर्यात् पुनर् द्वि-गुणितानि । ह्रस्वानि अपि चत्वारि द्विगुणानि स्युः स दीर्घाणि ॥ १०५॥
atha parighaṭṭanā . dīrghāṇi ādau aṣṭau laghūni kuryāt punar dvi-guṇitāni . hrasvāni api catvāri dviguṇāni syuḥ sa dīrghāṇi .. 105..
षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ १०६॥
षोडश लघूनि च स्युः सह निधने च एव कार्याणि । एष परिघट्टनायाम् गुरु-लघु-वस्तु-क्रमः प्रोक्तः ॥ १०६॥
ṣoḍaśa laghūni ca syuḥ saha nidhane ca eva kāryāṇi . eṣa parighaṭṭanāyām guru-laghu-vastu-kramaḥ proktaḥ .. 106..
एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ १०७॥
एतस्याम् अपि उदाहरणम् प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । ति-ति-झल-कुच-झल-दिगि-निगि गणपति चा । चलति क गणपति पशुपति-सुरपति चा । वाद्यम् च अस्याः तद्-ज्ञैः स उद्वहनम् हस्त-लाघवात् कार्यम् । व्यञ्जन-धातु-समुत्थम् नाना करण-आश्रय-उपेतम् ॥ १०७॥
etasyām api udāharaṇam prakalpya kṛtam . diṅgale diṅgale diṅgale diṅgale jagati ya valati ka . ti-ti-jhala-kuca-jhala-digi-nigi gaṇapati cā . calati ka gaṇapati paśupati-surapati cā . vādyam ca asyāḥ tad-jñaiḥ sa udvahanam hasta-lāghavāt kāryam . vyañjana-dhātu-samuttham nānā karaṇa-āśraya-upetam .. 107..
सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ १०८॥
सम्पिष्टक-वत् च अस्याः तालः करणैः तु धातु-संयुक्तैः । गुरु-लघु-योगात् एवम् विहितः कार्यः बुधैः नित्यम् ॥ १०८॥
sampiṣṭaka-vat ca asyāḥ tālaḥ karaṇaiḥ tu dhātu-saṃyuktaiḥ . guru-laghu-yogāt evam vihitaḥ kāryaḥ budhaiḥ nityam .. 108..
मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ १०९॥
मार्ग-आसारित-वाद्यम् विस्तार-आविद्ध-करण-संयुक्तम् । सकलैः स तलैः करणैः अथ गुरु-लघु-सञ्चयः च अयम् ॥ १०९॥
mārga-āsārita-vādyam vistāra-āviddha-karaṇa-saṃyuktam . sakalaiḥ sa talaiḥ karaṇaiḥ atha guru-laghu-sañcayaḥ ca ayam .. 109..
चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ ११०॥
चत्वारि गुरूणि स्युः लघूनि चत्वारि च द्वि-गुणितानि । गुरुणी लघूनि अथ अष्टौ गुरुणी च इति एतत् त्रिधा योज्यम् ॥ ११०॥
catvāri gurūṇi syuḥ laghūni catvāri ca dvi-guṇitāni . guruṇī laghūni atha aṣṭau guruṇī ca iti etat tridhā yojyam .. 110..
अथवा । चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥
अथवा । चत्वारि तु गुरूणि स्युः ह्रस्वानि अष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घम् अन्त्यम् अथ अपि च ॥
athavā . catvāri tu gurūṇi syuḥ hrasvāni aṣṭau bhavanti hi . guruṇī nava hrasvāni dīrgham antyam atha api ca ..
अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ ११०॥
अत्र उदाहरणम् । दिङ्गले झण्टुम् जगति य । थलितक झण्टुम् तिति । झ-ल्-कुच झ-ल्-अति-तिचा । बाल-आसारित-वत् च एव तालः अस्य परिकीर्तितः ॥ ११०॥
atra udāharaṇam . diṅgale jhaṇṭum jagati ya . thalitaka jhaṇṭum titi . jha-l-kuca jha-l-ati-ticā . bāla-āsārita-vat ca eva tālaḥ asya parikīrtitaḥ .. 110..
श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ १११॥
श्रवण-मधुराणि लीला-कृतानि अभिसृत-परिसृत-अन्तर-कृतानि । तानि अपि अर्थ-वशात् इह कर्तव्यानि प्रयोग-विधौ ॥ १११॥
śravaṇa-madhurāṇi līlā-kṛtāni abhisṛta-parisṛta-antara-kṛtāni . tāni api artha-vaśāt iha kartavyāni prayoga-vidhau .. 111..
यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ ११२॥
यथा आसारितानि ज्येष्ठ-मध्य-कनिष्ठानि ताल-प्रमाण-निर्दिष्टानि तानि ताल-विधाने वक्ष्यामः । एवम् एतत् स्वर-गतम् ज्ञेयम् वीणा-शरीर-जम् । विपञ्चीवाद्य-युक्तानि करणानि निबोधत ॥ ११२॥
yathā āsāritāni jyeṣṭha-madhya-kaniṣṭhāni tāla-pramāṇa-nirdiṣṭāni tāni tāla-vidhāne vakṣyāmaḥ . evam etat svara-gatam jñeyam vīṇā-śarīra-jam . vipañcīvādya-yuktāni karaṇāni nibodhata .. 112..
रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ ११३॥
रूपम् कृतम् प्रतिकृतम् प्रतिभेदः रूप-शेष-मोघः च । षष्ठी वै प्रतिशुष्का तु एवम् ज्ञेयम् करण-जातम् ॥ ११३॥
rūpam kṛtam pratikṛtam pratibhedaḥ rūpa-śeṣa-moghaḥ ca . ṣaṣṭhī vai pratiśuṣkā tu evam jñeyam karaṇa-jātam .. 113..
वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ ११४॥
वीणा-वाद्य-द्विगुणम् गुरु-लाघव-वादनम् भवेत् रूपम् । रूपम् प्रतिभेद-कृतम् प्रतिकृतम् इति उच्यते वाद्यम् ॥ ११४॥
vīṇā-vādya-dviguṇam guru-lāghava-vādanam bhavet rūpam . rūpam pratibheda-kṛtam pratikṛtam iti ucyate vādyam .. 114..
युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ ११५॥
युगपद् कृते अन्य-करणम् प्रतिभेदः दीर्घ-लाघव-कृतः स्यात् । कृतम् एकस्याम् तन्त्र्याम् प्रतिशुष्का नाम विज्ञेया ॥ ११५॥
yugapad kṛte anya-karaṇam pratibhedaḥ dīrgha-lāghava-kṛtaḥ syāt . kṛtam ekasyām tantryām pratiśuṣkā nāma vijñeyā .. 115..
वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ ११६॥
वीणा-वाद्य-विरामे अपि अविरत-करणम् तु रूपशेषः स्यात् । आविद्ध-करण-युक्तः हि उपरि उपरिपाणिकः तु ओघः ॥ ११६॥
vīṇā-vādya-virāme api avirata-karaṇam tu rūpaśeṣaḥ syāt . āviddha-karaṇa-yuktaḥ hi upari uparipāṇikaḥ tu oghaḥ .. 116..
कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ ११७॥
कार्यम् ध्रुवा-विधाने प्रायेण हि कोण-वादनम् तद्-ज्ञैः । स्थान-प्राप्ति-अर्थम् चेद् यत् तत्र भवेत् अयम् नियमः ॥ ११७॥
kāryam dhruvā-vidhāne prāyeṇa hi koṇa-vādanam tad-jñaiḥ . sthāna-prāpti-artham ced yat tatra bhavet ayam niyamaḥ .. 117..
तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ ११८॥
तत् च ओघ-तुल्य-करणम् वाच्यम् कार्यम् विपञ्च्याः तु । सप्त-तन्त्री भवेत् चित्रा विपञ्ची तु भवेत् नव । कोणवादना विपञ्ची स्यात् चित्रा च अङ्गुलिवादना ॥ ११८॥
tat ca ogha-tulya-karaṇam vācyam kāryam vipañcyāḥ tu . sapta-tantrī bhavet citrā vipañcī tu bhavet nava . koṇavādanā vipañcī syāt citrā ca aṅgulivādanā .. 118..
ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ ११९॥
तत-वाद्य-विधानम् इदम् सर्वम् प्रोक्तम् समास-योगेन । वक्ष्यामि अतस् च भूयस् सुषिर-आतोद्य-प्रयोगम् तु ॥ ११९॥
tata-vādya-vidhānam idam sarvam proktam samāsa-yogena . vakṣyāmi atas ca bhūyas suṣira-ātodya-prayogam tu .. 119..
॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमोऽध्यायः॥
|| iti bharatīye nāṭyaśāstre tatātodyavidhānaṃ nāma ekonatriṃśattamo'dhyāyaḥ||
|| iti bharatīye nāṭyaśāstre tatātodyavidhānaṃ nāma ekonatriṃśattamo'dhyāyaḥ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In