मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ ६॥
PADACHEDA
मध्यमा पञ्चमी च एव नन्दयन्ती तथा एव च । गान्धारपञ्चमी च एव मध्यमा उदीच्यवा तथा । मध्यम-पञ्चम-बाहुल्यात् कार्याः शृङ्गार-हास्ययोः ॥ ६॥
TRANSLITERATION
madhyamā pañcamī ca eva nandayantī tathā eva ca . gāndhārapañcamī ca eva madhyamā udīcyavā tathā . madhyama-pañcama-bāhulyāt kāryāḥ śṛṅgāra-hāsyayoḥ .. 6..
अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ १४॥
PADACHEDA
अतस् ऊर्ध्वम् प्रवक्ष्यामि वर्ण-अलङ्कार-लक्षणम् । आरोही च अवरोही च स्थायि-सञ्चारिणौ तथा । वर्णाः चत्वारः एव एते हि अलङ्काराः तद्-आश्रयाः ॥ १४॥
TRANSLITERATION
atas ūrdhvam pravakṣyāmi varṇa-alaṅkāra-lakṣaṇam . ārohī ca avarohī ca sthāyi-sañcāriṇau tathā . varṇāḥ catvāraḥ eva ete hi alaṅkārāḥ tad-āśrayāḥ .. 14..
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ २०॥
PADACHEDA
प्रसन्न-आदिः प्रसन्न-अन्तः प्रसन्न-आदि-अन्तः एव च । प्रसन्न-मध्यः च तथा क्रम-रेचितः एव च । प्रस्तारः च प्रसादः च सप्त एते स्थायि-वर्ण-गाः ॥ २०॥
TRANSLITERATION
prasanna-ādiḥ prasanna-antaḥ prasanna-ādi-antaḥ eva ca . prasanna-madhyaḥ ca tathā krama-recitaḥ eva ca . prastāraḥ ca prasādaḥ ca sapta ete sthāyi-varṇa-gāḥ .. 20..
प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ ३१॥
PADACHEDA
प्रसन्न-मध्यमः च एव बिन्दुः कम्पित-रेचितौ । तारः च एव हि मन्द्रः च तथा तारतरः पुनर् । प्रेङ्खोलितः तारमन्द्रः मन्द्र-तारः समः तथा ॥ ३१॥
TRANSLITERATION
prasanna-madhyamaḥ ca eva binduḥ kampita-recitau . tāraḥ ca eva hi mandraḥ ca tathā tārataraḥ punar . preṅkholitaḥ tāramandraḥ mandra-tāraḥ samaḥ tathā .. 31..
atra udāharaṇam . diṅgale jhaṇṭum jagati ya . thalitaka jhaṇṭum titi . jha-l-kuca jha-l-ati-ticā . bāla-āsārita-vat ca eva tālaḥ asya parikīrtitaḥ .. 110..
tat ca ogha-tulya-karaṇam vācyam kāryam vipañcyāḥ tu . sapta-tantrī bhavet citrā vipañcī tu bhavet nava . koṇavādanā vipañcī syāt citrā ca aṅgulivādanā .. 118..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.