| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ५ ॥
॥ नाट्य-शास्त्रम् अध्याय ॥
.. nāṭya-śāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ पञ्चमोऽध्यायः ।
अथ पञ्चमः अध्यायः ।
atha pañcamaḥ adhyāyaḥ .
भरतमुनिप्रणीतं नाट्यशास्त्रम्
भरत-मुनि-प्रणीतम् नाट्य-शास्त्रम्
bharata-muni-praṇītam nāṭya-śāstram
भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ १॥
भरतस्य वचः श्रुत्वा नाट्य-सन्तान-कारणम् । पुनर् एव अब्रुवन् वाक्यम् ऋषयः हृष्ट-मानसाः ॥ १॥
bharatasya vacaḥ śrutvā nāṭya-santāna-kāraṇam . punar eva abruvan vākyam ṛṣayaḥ hṛṣṭa-mānasāḥ .. 1..
यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥ २॥
यथा नाट्यस्य जन्म इदम् जर्जरस्य च सम्भवः । विघ्नानाम् शमनम् च एव दैवतानाम् च पूजनम् ॥ २॥
yathā nāṭyasya janma idam jarjarasya ca sambhavaḥ . vighnānām śamanam ca eva daivatānām ca pūjanam .. 2..
तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ३॥
तत् अस्माभिः श्रुतम् सर्वम् गृहीत्वा च अवधारितम् । निखिलेन यथातत्त्वम् इच्छामः वेदितुम् पुनर् ॥ ३॥
tat asmābhiḥ śrutam sarvam gṛhītvā ca avadhāritam . nikhilena yathātattvam icchāmaḥ veditum punar .. 3..
पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ४॥
पूर्वरङ्गम् महा-तेजः सर्व-लक्षण-संयुतम् । यथा बुद्ध्यामहे ब्रह्मन् तथा व्याख्यातुम् अर्हसि ॥ ४॥
pūrvaraṅgam mahā-tejaḥ sarva-lakṣaṇa-saṃyutam . yathā buddhyāmahe brahman tathā vyākhyātum arhasi .. 4..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ ५॥
तेषाम् तु वचनम् श्रुत्वा मुनीनाम् भरतः मुनिः । प्रत्युवाच पुनर् वाक्यम् पूर्वरङ्ग-विधिम् प्रति ॥ ५॥
teṣām tu vacanam śrutvā munīnām bharataḥ muniḥ . pratyuvāca punar vākyam pūrvaraṅga-vidhim prati .. 5..
पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ ६॥
पूर्वरङ्गम् महाभागाः गदतः मे निबोधत । पादभागाः कलाः च एव परिवर्ताः तथा एव च ॥ ६॥
pūrvaraṅgam mahābhāgāḥ gadataḥ me nibodhata . pādabhāgāḥ kalāḥ ca eva parivartāḥ tathā eva ca .. 6..
यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ ७॥
यस्मात् रङ्गे प्रयोगः अयम् पूर्वम् एव प्रयुज्यते । तस्मात् अयम् पूर्वरङ्गः विज्ञेयः द्विजसत्तमाः ॥ ७॥
yasmāt raṅge prayogaḥ ayam pūrvam eva prayujyate . tasmāt ayam pūrvaraṅgaḥ vijñeyaḥ dvijasattamāḥ .. 7..
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥ ८॥
अस्य अङ्गानि तु कार्याणि यथावत् अनुपूर्वशस् । पाठ्य-योग-कृतैः तथा ॥ ८॥
asya aṅgāni tu kāryāṇi yathāvat anupūrvaśas . pāṭhya-yoga-kṛtaiḥ tathā .. 8..
प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ ९॥
प्रत्याहारः अवतरणम् तथा हि आरम्भः एव च । आश्रावणा वक्त्रपाणिः तथा च परिघट्टना ॥ ९॥
pratyāhāraḥ avataraṇam tathā hi ārambhaḥ eva ca . āśrāvaṇā vaktrapāṇiḥ tathā ca parighaṭṭanā .. 9..
सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥ १०॥
सङ्घोटना ततस् कार्या मार्ग-आसारितम् एव च । ज्येष्ठ-मध्य-कनिष्ठानि च ॥ १०॥
saṅghoṭanā tatas kāryā mārga-āsāritam eva ca . jyeṣṭha-madhya-kaniṣṭhāni ca .. 10..
एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥११॥
एतानि तु बहिस् गीतानि अन्तर् यवनिका-गतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्री-भाण्ड-कृतानि च ॥११॥
etāni tu bahis gītāni antar yavanikā-gataiḥ . prayoktṛbhiḥ prayojyāni tantrī-bhāṇḍa-kṛtāni ca ..11..
ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥ १२॥
ततस् सर्वैः तु कुतपैः संयुक्तानि इह कारयेत् । विघट्य वै यवनिकाम् नृत्त-पाठ्य-कृतानि तु ॥ १२॥
tatas sarvaiḥ tu kutapaiḥ saṃyuktāni iha kārayet . vighaṭya vai yavanikām nṛtta-pāṭhya-kṛtāni tu .. 12..
गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ १३॥
गीतानाम् मद्रक-आदीनाम् योज्यम् एकम् तु गीतकम् । वर्धमानम् अथ अपि इह ताण्डवम् यत्र युज्यते ॥ १३॥
gītānām madraka-ādīnām yojyam ekam tu gītakam . vardhamānam atha api iha tāṇḍavam yatra yujyate .. 13..
ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ १४॥
ततस् च उत्थापनम् कार्यम् परिवर्तनम् एव च । नान्दी शुष्क-अवकृष्टा च रङ्ग-द्वारम् तथा एव च ॥ १४॥
tatas ca utthāpanam kāryam parivartanam eva ca . nāndī śuṣka-avakṛṣṭā ca raṅga-dvāram tathā eva ca .. 14..
चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥ १५॥
चारि च एव ततस् कार्या महाचारी तथा एव च । त्रिकम् प्ररोचनाम् च अपि पूर्वरङ्गे भवन्ति हि ॥ १५॥
cāri ca eva tatas kāryā mahācārī tathā eva ca . trikam prarocanām ca api pūrvaraṅge bhavanti hi .. 15..
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ १६॥
एतानि अङ्गानि कार्याणि पूर्वरङ्ग-विधौ द्विजाः । एतेषाम् लक्षणम् अहम् व्याख्यास्यामि अनुपूर्वशस् ॥ १६॥
etāni aṅgāni kāryāṇi pūrvaraṅga-vidhau dvijāḥ . eteṣām lakṣaṇam aham vyākhyāsyāmi anupūrvaśas .. 16..
कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥ १७॥
कुतपस्य तु विन्यासः प्रत्याहारः इति स्मृतः । तथा अवतरणम् प्रोक्तम् गायिकानाम् निवेशनम् ॥ १७॥
kutapasya tu vinyāsaḥ pratyāhāraḥ iti smṛtaḥ . tathā avataraṇam proktam gāyikānām niveśanam .. 17..
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥ १८॥
परिगीत-क्रिया-आरम्भः आरम्भः इति कीर्तितः । आतोद्य-रञ्जन-अर्थम् तु भवेत् आश्रावणा-विधिः ॥ १८॥
parigīta-kriyā-ārambhaḥ ārambhaḥ iti kīrtitaḥ . ātodya-rañjana-artham tu bhavet āśrāvaṇā-vidhiḥ .. 18..
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥ १९॥
वाद्य-वृत्ति-विभाग-अर्थम् वक्त्रपाणिः विधीयते । तन्त्री-ओजः-करण-अर्थम् तु भवेत् च परिघट्टना ॥ १९॥
vādya-vṛtti-vibhāga-artham vaktrapāṇiḥ vidhīyate . tantrī-ojaḥ-karaṇa-artham tu bhavet ca parighaṭṭanā .. 19..
तथा पाणिविभागार्थं भवेत्सङ्घोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥ २०॥
तथा पाणि-विभाग-अर्थम् भवेत् सङ्घोटना-विधिः । तन्त्री-भाण्ड-समायोगात् मार्ग-आसारितम् इष्यते ॥ २०॥
tathā pāṇi-vibhāga-artham bhavet saṅghoṭanā-vidhiḥ . tantrī-bhāṇḍa-samāyogāt mārga-āsāritam iṣyate .. 20..
कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥ २१॥
कला-पात-विभाग-अर्थम् भवेत् आसारित-क्रिया । कीर्तनात् देवतानाम् च ज्ञेयः गीत-विधिः तथा ॥ २१॥
kalā-pāta-vibhāga-artham bhavet āsārita-kriyā . kīrtanāt devatānām ca jñeyaḥ gīta-vidhiḥ tathā .. 21..
[अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् ।] यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः ।
[अतस् परम् प्रवक्ष्यमि हि उत्थापन-विधि-क्रियाम् ।] यस्मात् उत्थापयन्ति अत्र प्रयोगम् नान्दि-पाठकाः ।
[atas param pravakṣyami hi utthāpana-vidhi-kriyām .] yasmāt utthāpayanti atra prayogam nāndi-pāṭhakāḥ .
यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ २२॥
यस्मात् उत्थापयन्ति अत्र प्रयोगम् नान्दि-पाठकाः । पूर्वम् एव तु रङ्गे अस्मिन् तस्मात् उत्थापनम् स्मृतम् ॥ २२॥
yasmāt utthāpayanti atra prayogam nāndi-pāṭhakāḥ . pūrvam eva tu raṅge asmin tasmāt utthāpanam smṛtam .. 22..
यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥ २३॥
यस्मात् च लोकपालानाम् परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्मात् च परिवर्तनम् ॥ २३॥
yasmāt ca lokapālānām parivṛtya caturdiśam . vandanāni prakurvanti tasmāt ca parivartanam .. 23..
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति सन्ज्ञिता ॥ २४॥
आशीर्वचन-संयुक्ता नित्यम् यस्मात् प्रयुज्यते । देव-द्विज-नृप-आदीनाम् तस्मात् नान्दी इति सन्ज्ञिता ॥ २४॥
āśīrvacana-saṃyuktā nityam yasmāt prayujyate . deva-dvija-nṛpa-ādīnām tasmāt nāndī iti sanjñitā .. 24..
अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥ २५॥
अत्र शुष्क-अक्षरैः एव हि अवकृष्टा ध्रुवा यतस् । तस्मात् शुष्क-अवकृष्टा इयम् जर्जर-श्लोक-दर्शि-ता ॥ २५॥
atra śuṣka-akṣaraiḥ eva hi avakṛṣṭā dhruvā yatas . tasmāt śuṣka-avakṛṣṭā iyam jarjara-śloka-darśi-tā .. 25..
यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ २६॥
यस्मात् अभिनयः तु अत्र प्रथमम् हि अवतार्यते । रङ्ग-द्वारम् अतस् ज्ञेयम् वाच्-अङ्ग-अभिनय-आत्मकम् ॥ २६॥
yasmāt abhinayaḥ tu atra prathamam hi avatāryate . raṅga-dvāram atas jñeyam vāc-aṅga-abhinaya-ātmakam .. 26..
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ २७॥
शृङ्गारस्य प्रचरणात् चारी सम्परिकीर्तिता । रौद्र-प्रचरणात् च अपि महाचारी इति कीर्तिता ॥ २७॥
śṛṅgārasya pracaraṇāt cārī samparikīrtitā . raudra-pracaraṇāt ca api mahācārī iti kīrtitā .. 27..
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥ २८॥
विदूषकः सूत्रधारः तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पम् तत् च अपि त्रिगतम् मतम् ॥ २८॥
vidūṣakaḥ sūtradhāraḥ tathā vai pāripārśvakaḥ . yatra kurvanti sañjalpam tat ca api trigatam matam .. 28..
उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥ २९॥
उपक्षेपेण काव्यस्य हेतु-युक्ति-समाश्रया । सिद्धेन आमन्त्रणा या तु विज्ञेया स प्ररोचना ॥ २९॥
upakṣepeṇa kāvyasya hetu-yukti-samāśrayā . siddhena āmantraṇā yā tu vijñeyā sa prarocanā .. 29..
अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥ ३०॥
अतस् परम् प्रवक्ष्यामि हि आश्रावण-विधि-क्रियाम् । बहिस् गीत-विधौ सम्यक् उत्पत्तिम् कारणम् तथा ॥ ३०॥
atas param pravakṣyāmi hi āśrāvaṇa-vidhi-kriyām . bahis gīta-vidhau samyak utpattim kāraṇam tathā .. 30..
चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ ३१॥
चित्र-दक्षिण-वृतौ तु सप्त-रूपे प्रवर्तिते । स उपोहने स निर्गीते देव-स्तुति-अभिनन्दिते ॥ ३१॥
citra-dakṣiṇa-vṛtau tu sapta-rūpe pravartite . sa upohane sa nirgīte deva-stuti-abhinandite .. 31..
नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ ३२॥
नारद-आद्यैः तु गन्धर्वैः सभायाम् देव-दानवाः । निर्गीतम् श्राविताः सम्यक् लय-ताल-समन्वितम् ॥ ३२॥
nārada-ādyaiḥ tu gandharvaiḥ sabhāyām deva-dānavāḥ . nirgītam śrāvitāḥ samyak laya-tāla-samanvitam .. 32..
तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ ३३॥
तत् श्रुत्वा तु सुखम् गानम् देव-स्तुति-अभिनन्दितम् अभवन् क्षुभिताः सर्वे मात्सर्यात् दैत्य-राक्षसाः ॥ ३३॥
tat śrutvā tu sukham gānam deva-stuti-abhinanditam abhavan kṣubhitāḥ sarve mātsaryāt daitya-rākṣasāḥ .. 33..
सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥३४॥
सम्प्रधार्य च ते अन्योन्यम् इति अवोचन् अवस्थिताः । निर्गीतम् तु स वादित्रम् इदम् गृह्णीमहे वयम् ॥३४॥
sampradhārya ca te anyonyam iti avocan avasthitāḥ . nirgītam tu sa vāditram idam gṛhṇīmahe vayam ..34..
सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा ॥ ३५॥
सप्त-रूपेण सन्तुष्टाः देवाः कर्म-अनुकीर्तनात् । वयम् गृह्णीम निर्गीतम् तुष्यामः अत्र एव सर्वदा ॥ ३५॥
sapta-rūpeṇa santuṣṭāḥ devāḥ karma-anukīrtanāt . vayam gṛhṇīma nirgītam tuṣyāmaḥ atra eva sarvadā .. 35..
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ ३६॥
ते तत्र तुष्टाः दैत्याः तु साधयन्ति पुनर् पुनर् । रुष्टाः च अपि ततस् देवाः प्रत्यभाषन्त नारदम् ॥ ३६॥
te tatra tuṣṭāḥ daityāḥ tu sādhayanti punar punar . ruṣṭāḥ ca api tatas devāḥ pratyabhāṣanta nāradam .. 36..
एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥ ३७॥
एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगः अयम् कथम् वा मन्यते भवान् ॥ ३७॥
ete tuṣyanti nirgīte dānavā saha rākṣasaiḥ . praṇaśyatu prayogaḥ ayam katham vā manyate bhavān .. 37..
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ ३८॥
देवानाम् वचनम् श्रुत्वा नारदः वाक्यम् अब्रवीत् । धातुवादि-आश्रय-कृतम् निर्गीतम् मा प्रणश्यतु ॥ ३८॥
devānām vacanam śrutvā nāradaḥ vākyam abravīt . dhātuvādi-āśraya-kṛtam nirgītam mā praṇaśyatu .. 38..
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥ ३९॥
किन्तु उपोहन-संयुक्तम् धातुवाद्य-विभूषितम् । भविष्यति इदम् निर्गीतम् सप्त-रूप-विधानतः ॥ ३९॥
kintu upohana-saṃyuktam dhātuvādya-vibhūṣitam . bhaviṣyati idam nirgītam sapta-rūpa-vidhānataḥ .. 39..
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥ ४०॥
निर्गीतेन अवबद्धाः च दैत्य-दानव-राक्षसाः । न क्षोभम् न विघातम् च करिष्यन्ति इह तोषिताः ॥ ४०॥
nirgītena avabaddhāḥ ca daitya-dānava-rākṣasāḥ . na kṣobham na vighātam ca kariṣyanti iha toṣitāḥ .. 40..
एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ ४१॥
एवम् निर्गीतम् एतत् तु दैत्यानाम् स्पर्धया द्विजाः । देवानाम् बहु-मानेन बहिस् गीतम् इति स्मृतम् ॥ ४१॥
evam nirgītam etat tu daityānām spardhayā dvijāḥ . devānām bahu-mānena bahis gītam iti smṛtam .. 41..
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ॥ ४२॥
धातुभिः चित्रवीणायाम् गुरु-लघु-अक्षर-अन्वितम् । वर्ण-अलङ्कार-संयुक्तम् प्रयोक्तव्यम् बुधैः अथ॥ ४२॥
dhātubhiḥ citravīṇāyām guru-laghu-akṣara-anvitam . varṇa-alaṅkāra-saṃyuktam prayoktavyam budhaiḥ atha.. 42..
निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥४३॥
निर्गीतम् गेयते यस्मात् अपदम् वर्ण-योजनात् । असूयया च देवानाम् बहिस् गीतम् इदम् स्मृतम् ॥४३॥
nirgītam geyate yasmāt apadam varṇa-yojanāt . asūyayā ca devānām bahis gītam idam smṛtam ..43..
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥ ४४॥
निर्गीतम् यत् मया प्रोक्तम् सप्त-रूप-समन्वितम् । उत्थापन-आदिकम् यत् च तस्य कारणम् उच्यते ॥ ४४॥
nirgītam yat mayā proktam sapta-rūpa-samanvitam . utthāpana-ādikam yat ca tasya kāraṇam ucyate .. 44..
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ ४५॥
आश्रावणायाम् युक्तायाम् दैत्याः तुष्यन्ति नित्यशस् । वक्त्र-पाणौ कृते च एव नित्यम् तुष्यन्ति दानवाः ॥ ४५॥
āśrāvaṇāyām yuktāyām daityāḥ tuṣyanti nityaśas . vaktra-pāṇau kṛte ca eva nityam tuṣyanti dānavāḥ .. 45..
परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥ ४६॥
परिघट्टनया तुष्टाः युक्तायाम् राक्षसाम् गणाः । सङ्घोटन-क्रियायाम् च तुष्यन्ति अपि च गुह्यकाः ॥ ४६॥
parighaṭṭanayā tuṣṭāḥ yuktāyām rākṣasām gaṇāḥ . saṅghoṭana-kriyāyām ca tuṣyanti api ca guhyakāḥ .. 46..
मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥४७॥
मार्गासारितम् आसाद्य तुष्टाः यक्षाः भवन्ति हि । गीतकेषु प्रयुक्तेषु देवाः तुष्यन्ति नित्यशस् ॥४७॥
mārgāsāritam āsādya tuṣṭāḥ yakṣāḥ bhavanti hi . gītakeṣu prayukteṣu devāḥ tuṣyanti nityaśas ..47..
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ ४८॥
वर्धमाने प्रयुक्ते तु रुद्रः तुष्यति स अनुगः । तथा च उत्थापने युक्ते ब्रह्मा तुष्टः भवेत् इह ॥ ४८॥
vardhamāne prayukte tu rudraḥ tuṣyati sa anugaḥ . tathā ca utthāpane yukte brahmā tuṣṭaḥ bhavet iha .. 48..
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः ॥ ४९॥
तुष्यन्ति लोकपालाः च प्रयुक्ते परिवर्तने । नान्दी-प्रयोगे अथ कृते प्रीतः भवति चन्द्रमाः ॥ ४९॥
tuṣyanti lokapālāḥ ca prayukte parivartane . nāndī-prayoge atha kṛte prītaḥ bhavati candramāḥ .. 49..
युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥५०॥
युक्तायाम् अवकृष्टायाम् प्रीताः नागाः भवन्ति हि । तथा शुष्क-अवकृष्टायाम् प्रीतः पितृ-गणः भवेत् ॥५०॥
yuktāyām avakṛṣṭāyām prītāḥ nāgāḥ bhavanti hi . tathā śuṣka-avakṛṣṭāyām prītaḥ pitṛ-gaṇaḥ bhavet ..50..
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ ५१॥
रङ्ग-द्वारे प्रयुक्ते तु विष्णुः प्रीतः भवेत् इह । जर्जरस्य प्रयोगे तु तुष्टाः विघ्न-विनायकाः ॥ ५१॥
raṅga-dvāre prayukte tu viṣṇuḥ prītaḥ bhavet iha . jarjarasya prayoge tu tuṣṭāḥ vighna-vināyakāḥ .. 51..
तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ ५२॥
तथा च आर्या प्रयुक्तायाम् उमा तुष्टा भवेत् इह । महा-आचार्या प्रयुक्तायाम् तुष्टः भूत-गणः भवेत् ॥ ५२॥
tathā ca āryā prayuktāyām umā tuṣṭā bhavet iha . mahā-ācāryā prayuktāyām tuṣṭaḥ bhūta-gaṇaḥ bhavet .. 52..
आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ ५३॥
आश्रावण-आदि-चारि-अन्तम् एतत् दैवत-पूजनम् । पूर्वरङ्गे मया ख्यातम् तथा च अङ्ग-विकल्पनम् ॥ ५३॥
āśrāvaṇa-ādi-cāri-antam etat daivata-pūjanam . pūrvaraṅge mayā khyātam tathā ca aṅga-vikalpanam .. 53..
देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥ ५४॥
देवः तुष्यन्ति यः येन यस्य यत् मनसः प्रियम् । तत् तथा पूर्वरङ्गे तु मया प्रोकम् द्विजोत्तमाः ॥ ५४॥
devaḥ tuṣyanti yaḥ yena yasya yat manasaḥ priyam . tat tathā pūrvaraṅge tu mayā prokam dvijottamāḥ .. 54..
सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥५५॥
सर्व-दैवत-पूजा-अर्हम् सर्व-दैवत-पूजनम् । धन्यम् यशस्यम् आयुष्यम् पूर्वरङ्ग-प्रवर्तनम् ॥५५॥
sarva-daivata-pūjā-arham sarva-daivata-pūjanam . dhanyam yaśasyam āyuṣyam pūrvaraṅga-pravartanam ..55..
दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ ५६॥
दैत्य-दानव-तुष्टि-अर्थम् सर्वेषाम् च दिवौकसाम् । निर्गीतानि स गीतानि पूर्वरङ्ग-कृतानि तु ॥ ५६॥
daitya-dānava-tuṣṭi-artham sarveṣām ca divaukasām . nirgītāni sa gītāni pūrvaraṅga-kṛtāni tu .. 56..
[या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ॥ ]
[या विद्या यानि शिल्पानि या गतिः यः च चेष्टितम् । लोकालोकस्य जगतः तत् अस्मिन् नाटक-आश्रये ॥ ]
[yā vidyā yāni śilpāni yā gatiḥ yaḥ ca ceṣṭitam . lokālokasya jagataḥ tat asmin nāṭaka-āśraye .. ]
निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ ५७॥
निर्गीतानाम् स गीतानाम् वर्धमानस्य च एव हि । ध्रुवा-विधाने वक्ष्यामि लक्षणम् कर्म च एव हि ॥ ५७॥
nirgītānām sa gītānām vardhamānasya ca eva hi . dhruvā-vidhāne vakṣyāmi lakṣaṇam karma ca eva hi .. 57..
प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ ५८॥
प्रयुज्य गीतक-विधिम् वर्धमानम् अथ अपि च । गीतकान्ते ततस् च अपि कार्या हि उत्थापनी ध्रुवा ॥ ५८॥
prayujya gītaka-vidhim vardhamānam atha api ca . gītakānte tatas ca api kāryā hi utthāpanī dhruvā .. 58..
अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥ ५९॥
अदौ द्वे च चतुर्थम् च अपि अष्टम-एकादशे तथा । गुरु-अक्षराणि जानीयत् पादे हि एकादशे तथा ॥ ५९॥
adau dve ca caturtham ca api aṣṭama-ekādaśe tathā . guru-akṣarāṇi jānīyat pāde hi ekādaśe tathā .. 59..
चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥ ६०॥
चतुष्पदा भवेत् सा तु चतुरश्रा तथा एव च । चतुर्भिः सन्निपातैः च त्रिलया त्रियतिः तथा ॥ ६०॥
catuṣpadā bhavet sā tu caturaśrā tathā eva ca . caturbhiḥ sannipātaiḥ ca trilayā triyatiḥ tathā .. 60..
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥ ६१॥
परिवर्ताः च चत्वारः पाणयः त्रयः एव च । जात्या च एव हि विश्लोका ताम् च तालेन योजयेत् ॥ ६१॥
parivartāḥ ca catvāraḥ pāṇayaḥ trayaḥ eva ca . jātyā ca eva hi viślokā tām ca tālena yojayet .. 61..
शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥ ६२॥
शम्या तु द्वि-कला कार्या तलः द्वि-कलः एव च । पुनर् च एक-कला शम्या सन्निपातः कला-त्रयम् ॥ ६२॥
śamyā tu dvi-kalā kāryā talaḥ dvi-kalaḥ eva ca . punar ca eka-kalā śamyā sannipātaḥ kalā-trayam .. 62..
एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥ ६३॥
एवम् अष्ट-कलः कार्यः सन्निपातः । चत्वारः सन्निपाताः च परिवर्तः सः उच्यते ॥ ६३॥
evam aṣṭa-kalaḥ kāryaḥ sannipātaḥ . catvāraḥ sannipātāḥ ca parivartaḥ saḥ ucyate .. 63..
पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ६४॥
पूर्वम् स्थित-लयः कार्यः परिवर्तः विचक्षणैः । तृतीये सन्निपाते तु तस्याः भाण्डग्रहः भवेत् ॥ ६४॥
pūrvam sthita-layaḥ kāryaḥ parivartaḥ vicakṣaṇaiḥ . tṛtīye sannipāte tu tasyāḥ bhāṇḍagrahaḥ bhavet .. 64..
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ ६५॥
एकस्मिन् परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यम् मध्यलये तद्-ज्ञैः सूत्रधार-प्रवेशनम् ॥ ६५॥
ekasmin parivarte tu gate prāpte dvitīyake . kāryam madhyalaye tad-jñaiḥ sūtradhāra-praveśanam .. 65..
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ ६६॥
पुष्प-अञ्जलिम् समादाय रक्षा-मङ्गल-संस्कृताः । शुद्ध-वस्त्राः सुमनसः तथा च अद्भुत-दृष्टयः ॥ ६६॥
puṣpa-añjalim samādāya rakṣā-maṅgala-saṃskṛtāḥ . śuddha-vastrāḥ sumanasaḥ tathā ca adbhuta-dṛṣṭayaḥ .. 66..
स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ ६७॥
स्थानम् तु वैष्णवम् कृत्वा सौष्ठव-अङ्ग-पुरस्कृतम् । दीक्षिताः शुचयः च एव प्रविशेयुः समम् त्रयः ॥ ६७॥
sthānam tu vaiṣṇavam kṛtvā sauṣṭhava-aṅga-puraskṛtam . dīkṣitāḥ śucayaḥ ca eva praviśeyuḥ samam trayaḥ .. 67..
भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥ ६८॥
भृङ्गार-जर्जर-धरौ भवेताम् पारिपार्श्विकौ । मध्ये तु सूत्र-भृत् ताभ्याम् वृत्तः पञ्चपदीम् व्रजेत् ॥ ६८॥
bhṛṅgāra-jarjara-dharau bhavetām pāripārśvikau . madhye tu sūtra-bhṛt tābhyām vṛttaḥ pañcapadīm vrajet .. 68..
पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ ६९॥
पदानि पञ्च गच्छेयुः ब्रह्मणः यजन-इच्छया । पदानाम् च अपि विक्षेपम् व्याख्यास्यामि अनुपूर्वशस् ॥ ६९॥
padāni pañca gaccheyuḥ brahmaṇaḥ yajana-icchayā . padānām ca api vikṣepam vyākhyāsyāmi anupūrvaśas .. 69..
त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ ७०॥
त्रि-ताल-अन्तर-विष्कम्भम् उत्क्षिपेत् चरणम् शनैस् पार्श्व-उत्थान-उत्थितम् च एव तद्-मध्ये पातयेत् पुनर् ॥ ७०॥
tri-tāla-antara-viṣkambham utkṣipet caraṇam śanais pārśva-utthāna-utthitam ca eva tad-madhye pātayet punar .. 70..
एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥ ७१॥
एवम् पञ्चपदीम् गत्वा सूत्रधारः सह इतरः । सूचीम् वाम-पदे दद्यात् विक्षेपम् दक्षिणेन च ॥ ७१॥
evam pañcapadīm gatvā sūtradhāraḥ saha itaraḥ . sūcīm vāma-pade dadyāt vikṣepam dakṣiṇena ca .. 71..
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ ७२॥
पुष्प-अञ्जलि-अपवर्गः च कार्यः ब्राह्मे अथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयम् ब्रह्मा प्रतिष्ठितः ॥ ७२॥
puṣpa-añjali-apavargaḥ ca kāryaḥ brāhme atha maṇḍale . raṅgapīṭhasya madhye tu svayam brahmā pratiṣṭhitaḥ .. 72..
ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ ७३॥
ततस् स ललितैः हस्तैः अभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भू-तले ॥ ७३॥
tatas sa lalitaiḥ hastaiḥ abhivandya pitāmaham . abhivādāni kāryāṇi trīṇi hastena bhū-tale .. 73..
कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥ ७४॥
काल-प्रकर्ष-हेतोः च पादानाम् प्रविभागतः । ॥ ७४॥
kāla-prakarṣa-hetoḥ ca pādānām pravibhāgataḥ . .. 74..
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥७५॥
द्वितीयः परिवर्तः तु कार्यः मध्य-लय-आश्रितः । ततस् परम् तृतीये तु मण्डलस्य प्रदक्षिणम् ॥७५॥
dvitīyaḥ parivartaḥ tu kāryaḥ madhya-laya-āśritaḥ . tatas param tṛtīye tu maṇḍalasya pradakṣiṇam ..75..
भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥७६॥
भवेत् आचमनम् च एव जर्जर-ग्रहणम् तथा । उत्थाय मण्डलात् तूर्णम् दक्षिणम् पादम् उद्धरेत् ॥७६॥
bhavet ācamanam ca eva jarjara-grahaṇam tathā . utthāya maṇḍalāt tūrṇam dakṣiṇam pādam uddharet ..76..
वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ ७७॥
वेधम् तेन एव कुर्वीत विक्षेपम् वामकेन च । पुनर् च दक्षिणम् पादम् पार्श्व-संस्थम् समुद्धरेत् ॥ ७७॥
vedham tena eva kurvīta vikṣepam vāmakena ca . punar ca dakṣiṇam pādam pārśva-saṃstham samuddharet .. 77..
ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥ ७८॥
ततस् च वाम-वेधः तु विक्षेपः दक्षिणस्य च । इति अनेन विधानेन सम्यक् कृत्वा प्रदिक्षणम् ॥ ७८॥
tatas ca vāma-vedhaḥ tu vikṣepaḥ dakṣiṇasya ca . iti anena vidhānena samyak kṛtvā pradikṣaṇam .. 78..
भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ ७९॥
भृङ्गार-भृतम् आहूय शौचम् च अपि समाचरेत् । यथान्यायम् तु कर्तव्या तेन हि आचमन-क्रिया ॥ ७९॥
bhṛṅgāra-bhṛtam āhūya śaucam ca api samācaret . yathānyāyam tu kartavyā tena hi ācamana-kriyā .. 79..
आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ ८०॥
आत्म-प्रोक्षणम् एव अद्भिः कर्तव्यम् तु यथाक्रमम् । प्रयत्न-कृत-शौचेन सूत्रधारेण यत्नतः ॥ ८०॥
ātma-prokṣaṇam eva adbhiḥ kartavyam tu yathākramam . prayatna-kṛta-śaucena sūtradhāreṇa yatnataḥ .. 80..
सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥८१॥
सन्निपात-समम् ग्राह्यः जर्जरः विघ्न-जर्जरः । ॥८१॥
sannipāta-samam grāhyaḥ jarjaraḥ vighna-jarjaraḥ . ..81..
तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥ ८२॥
तृतीयः परिवर्तः तु विज्ञेयः वै द्रुते लये । गृहीत्वा जर्जरम् तु अष्टौ कलाः जप्यम् प्रयोजयेत् ॥ ८२॥
tṛtīyaḥ parivartaḥ tu vijñeyaḥ vai drute laye . gṛhītvā jarjaram tu aṣṭau kalāḥ japyam prayojayet .. 82..
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ ८३॥
वाम-वेधम् ततस् कुर्यात् विक्षेपम् दक्षिणस्य च । ततस् पञ्चपदीम् च एव गच्छेत् तु कुतप-उन्मुखः ॥ ८३॥
vāma-vedham tatas kuryāt vikṣepam dakṣiṇasya ca . tatas pañcapadīm ca eva gacchet tu kutapa-unmukhaḥ .. 83..
वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः ॥ ८४॥
वाम-वेधः तु तत्र अपि विक्षेपः दक्षिणस्य तु । जर्जर-ग्रहण-आद्यः अयम् कुतप-अभिमुख-अन्तकः ॥ ८४॥
vāma-vedhaḥ tu tatra api vikṣepaḥ dakṣiṇasya tu . jarjara-grahaṇa-ādyaḥ ayam kutapa-abhimukha-antakaḥ .. 84..
चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥ ८५॥
चतुर्थः परिवर्तः तु कार्यः द्रुत-लये पुनर् । कर-पाद-निपाताः तु भव्न्ति अत्र तु षोडश ॥ ८५॥
caturthaḥ parivartaḥ tu kāryaḥ druta-laye punar . kara-pāda-nipātāḥ tu bhavnti atra tu ṣoḍaśa .. 85..
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ ८६॥
त्रि-अश्रे द्वादश पाताः तु भवन्ति कर-पादयोः । वन्दनानि अथ कार्याणि त्रीणि हस्तेन भू-तले ॥ ८६॥
tri-aśre dvādaśa pātāḥ tu bhavanti kara-pādayoḥ . vandanāni atha kāryāṇi trīṇi hastena bhū-tale .. 86..
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ ८७॥
आत्म-प्रोक्षणम् अद्भिः च त्रि-अश्रे न एव विधीयते । एवम् उत्थापनम् कार्यम् ततस् तु परिवर्तनम् ॥ ८७॥
ātma-prokṣaṇam adbhiḥ ca tri-aśre na eva vidhīyate . evam utthāpanam kāryam tatas tu parivartanam .. 87..
चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः । यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥ ८८॥
चतुरश्रम् लये मध्ये सन्निपातैः अथ अष्टभिः । यस्याः लघूनि सर्वाणि केवलम् नैधनम् गुरु ॥ ८८॥
caturaśram laye madhye sannipātaiḥ atha aṣṭabhiḥ . yasyāḥ laghūni sarvāṇi kevalam naidhanam guru .. 88..
भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ ८९॥
भवेत् अतिजगत्याम् तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येन अनुगतेन च ॥ ८९॥
bhavet atijagatyām tu sā dhruvā parivartanī . vārtikena tu mārgeṇa vādyena anugatena ca .. 89..
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् । ९०॥
ललितैः पाद-विन्यासैः वन्द्याः देवाः यथादिशम् । द्वि-कलम् पाद-पतनम् पादचार्याः गतम् भवेत् । ९०॥
lalitaiḥ pāda-vinyāsaiḥ vandyāḥ devāḥ yathādiśam . dvi-kalam pāda-patanam pādacāryāḥ gatam bhavet . 90..
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ ९१॥
वाम-पादेन वेधः तु कर्तव्यः नृत्त-योक्तृभिः । द्वि-ताल-अन्तर-विष्कम्भः विक्षेपः दक्षिणस्य च ॥ ९१॥
vāma-pādena vedhaḥ tu kartavyaḥ nṛtta-yoktṛbhiḥ . dvi-tāla-antara-viṣkambhaḥ vikṣepaḥ dakṣiṇasya ca .. 91..
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥९२॥
ततस् पञ्चपदीम् गच्छेत् अतिक्रान्तैः पदरथ । ततस् अभिवादनम् कुर्यात् देवतानाम् यथादिशम् ॥९२॥
tatas pañcapadīm gacchet atikrāntaiḥ padaratha . tatas abhivādanam kuryāt devatānām yathādiśam ..92..
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥ ९३॥
वन्देत प्रथमम् पूर्वाम् दिशम् शक्र-अधिदैवताम् । द्वितीयाम् दक्षिणाम् आशाम् वन्देत यम-देवताम् ॥ ९३॥
vandeta prathamam pūrvām diśam śakra-adhidaivatām . dvitīyām dakṣiṇām āśām vandeta yama-devatām .. 93..
वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ ९४॥
वन्देत पश्चिमाम् आशाम् ततस् वरुण-दैवताम् । चतुर्थीम् उत्तराम् आशाम् वन्देत धनद-आश्रयाम् ॥ ९४॥
vandeta paścimām āśām tatas varuṇa-daivatām . caturthīm uttarām āśām vandeta dhanada-āśrayām .. 94..
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥९५॥
दिशाम् तु वन्दनम् कृत्वा वाम-वेधम् प्रयोजयेत् । दक्षिणेन च कर्तव्यम् विक्षेप-परिवर्तनम् ॥९५॥
diśām tu vandanam kṛtvā vāma-vedham prayojayet . dakṣiṇena ca kartavyam vikṣepa-parivartanam ..95..
प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥ ९६॥
प्राच्-मुखः तु ततस् कुर्यात् पुरुष-स्त्री-नपुंसकैः । त्रिपद्या सूत्रभृत्-रुद्र-ब्रह्म-उपेन्द्र-अभिवादनम् ॥ ९६॥
prāc-mukhaḥ tu tatas kuryāt puruṣa-strī-napuṃsakaiḥ . tripadyā sūtrabhṛt-rudra-brahma-upendra-abhivādanam .. 96..
दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ ९७॥
दक्षिणम् तु पदम् पुंसः वामम् स्त्रीणाम् प्रकीर्तितम् । पुनर् दक्षिणम् एव स्यात् न अति उत्क्षिप्तम् नपुंसकम् ॥ ९७॥
dakṣiṇam tu padam puṃsaḥ vāmam strīṇām prakīrtitam . punar dakṣiṇam eva syāt na ati utkṣiptam napuṃsakam .. 97..
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥ ९८॥
वन्देत पौरुषेण ईशम् स्त्री-पदेन जनार्दनम् । नपुंसक्पदेन अपि तथा एव अम्बुज-सम्भवम् ॥ ९८॥
vandeta pauruṣeṇa īśam strī-padena janārdanam . napuṃsakpadena api tathā eva ambuja-sambhavam .. 98..
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ ९९॥
परिवर्तनम् एवम् स्यात् तस्य अन्ते प्रविशेत् ततस् । चतुर्थकारः पुष्पाणि प्रगृह्य विधि-पूर्वकम् ॥ ९९॥
parivartanam evam syāt tasya ante praviśet tatas . caturthakāraḥ puṣpāṇi pragṛhya vidhi-pūrvakam .. 99..
यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ १००॥
यथावत् तेन कर्तव्यम् पूजनम् जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य च एव हि ॥ १००॥
yathāvat tena kartavyam pūjanam jarjarasya tu . kutapasya ca sarvasya sūtradhārasya ca eva hi .. 100..
तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥ १०१॥
तस्य भाण्ड-समः कार्यः तद्-ज्ञैः गति-परिक्रमः । न तत्र गानम् कर्तव्यम् तत्र स्तोभ-क्रिया भवेत् ॥ १०१॥
tasya bhāṇḍa-samaḥ kāryaḥ tad-jñaiḥ gati-parikramaḥ . na tatra gānam kartavyam tatra stobha-kriyā bhavet .. 101..
चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ १०२॥
चतुर्थकारः पूजाम् तु स कृत्वा अन्तर्हितः भवेत् । ततस् गेया अवकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ १०२॥
caturthakāraḥ pūjām tu sa kṛtvā antarhitaḥ bhavet . tatas geyā avakṛṣṭā tu caturaśrā sthitā dhruvā .. 102..
गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥ १०३॥
गुरु-प्राया तु सा कार्या तथा च एव अवपाणिका । स्थायि-वर्ण-आश्रय-उपेता कला-अष्टक-विनिर्मिता ॥ १०३॥
guru-prāyā tu sā kāryā tathā ca eva avapāṇikā . sthāyi-varṇa-āśraya-upetā kalā-aṣṭaka-vinirmitā .. 103..
[चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ॥ ]
[चतुर्थम् पञ्चमम् च एव सप्तमम् च अष्टमम् तथा । लघूनि पादे पङ्क्त्यान् तु सा अवकृष्टा ध्रुवा स्मृता ॥ ]
[caturtham pañcamam ca eva saptamam ca aṣṭamam tathā . laghūni pāde paṅktyān tu sā avakṛṣṭā dhruvā smṛtā .. ]
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥ १०४॥
सूत्रधारः पठेत् तत्र मध्यमम् स्वरम् आश्रितः । नान्दीम् पदैः द्वादशभिः अष्टभिः वा अपि अलङ्कृताम् ॥ १०४॥
sūtradhāraḥ paṭhet tatra madhyamam svaram āśritaḥ . nāndīm padaiḥ dvādaśabhiḥ aṣṭabhiḥ vā api alaṅkṛtām .. 104..
नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ १०५॥
नमः अस्तु सर्व-देवेभ्यः द्विजातिभ्यः शुभम् तथा । जितम् सोमेन वै राज्ञा शिवम् गो-ब्राह्मणाय च ॥ १०५॥
namaḥ astu sarva-devebhyaḥ dvijātibhyaḥ śubham tathā . jitam somena vai rājñā śivam go-brāhmaṇāya ca .. 105..
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ १०६॥
ब्रह्म-उत्तरम् तथा एव अस्तु हताः ब्रह्म-द्विषः तथा । प्रशास्तु इमाम् महा-राजः पृथिवीम् च स सागराम् ॥ १०६॥
brahma-uttaram tathā eva astu hatāḥ brahma-dviṣaḥ tathā . praśāstu imām mahā-rājaḥ pṛthivīm ca sa sāgarām .. 106..
राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥ १०७॥
राष्ट्रम् प्रवर्धताम् च एव रङ्गस्य आशा समृद्ध्यतु । प्रेक्षा-कर्तुः महान् धर्मः भवतु ब्रह्म-भाषितः ॥ १०७॥
rāṣṭram pravardhatām ca eva raṅgasya āśā samṛddhyatu . prekṣā-kartuḥ mahān dharmaḥ bhavatu brahma-bhāṣitaḥ .. 107..
काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ १०८॥
काव्य-कर्तुः यशः च अस्तु धर्मः च अपि प्रवर्धताम् । इज्यया च अनया नित्यम् प्रीयन्ताम् देवताः इति ॥ १०८॥
kāvya-kartuḥ yaśaḥ ca astu dharmaḥ ca api pravardhatām . ijyayā ca anayā nityam prīyantām devatāḥ iti .. 108..
नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ १०९॥
नान्दी-पद-अन्तरेषु एषु हि एवम् आर्य इति नित्यशस् । वदेताम् सम्यक् उक्ताभिः वाग्भिः तौ पारिपार्श्विकौ ॥ १०९॥
nāndī-pada-antareṣu eṣu hi evam ārya iti nityaśas . vadetām samyak uktābhiḥ vāgbhiḥ tau pāripārśvikau .. 109..
एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥ ११०॥
एवम् नान्दी विधातव्या यथावत् लक्षण-अन्विता । ततस् शुष्क-अवकृष्टा स्यात् जर्जर-श्लोक-दर्शिका ॥ ११०॥
evam nāndī vidhātavyā yathāvat lakṣaṇa-anvitā . tatas śuṣka-avakṛṣṭā syāt jarjara-śloka-darśikā .. 110..
नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ १११॥
नवम् गुरु-आक्षराणि आदौ षष्-लघूनि गुरु-त्रयम् । शुष्क-अवकृष्टा तु भवेत् कला हि अष्टौ प्रमाणतः ॥ १११॥
navam guru-ākṣarāṇi ādau ṣaṣ-laghūni guru-trayam . śuṣka-avakṛṣṭā tu bhavet kalā hi aṣṭau pramāṇataḥ .. 111..
दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ ११२॥
दिग्ले दिग्ले दिग्ले जम्बुक-पलितक-ते तेचाम् । कृत्वा शुष्क-अवकृष्टाम् तु यथावत् द्विजसत्तमाः ॥ ११२॥
digle digle digle jambuka-palitaka-te tecām . kṛtvā śuṣka-avakṛṣṭām tu yathāvat dvijasattamāḥ .. 112..
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ ११३॥
ततस् श्लोकम् पठेत् एकम् गम्भीर-स्वर-संयुतम् । देव-स्तोत्रम् पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ ११३॥
tatas ślokam paṭhet ekam gambhīra-svara-saṃyutam . deva-stotram puraskṛtya yasya pūjā pravartate .. 113..
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ ११४॥
राज्ञः वा यत्र भक्तिः स्यात् अथ वा ब्रह्मणः स्तवम् । गदित्वा जर्जर-श्लोकम् रङ्ग-द्वारे च यत् स्मृतम् ॥ ११४॥
rājñaḥ vā yatra bhaktiḥ syāt atha vā brahmaṇaḥ stavam . gaditvā jarjara-ślokam raṅga-dvāre ca yat smṛtam .. 114..
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥ ११५॥
पठेत् अन्यम् पुनर् श्लोकम् जर्जरस्य विनाशनम् । जर्जरम् नमयित्वा तु ततस् चारीम् प्रयोजयेत् ॥ ११५॥
paṭhet anyam punar ślokam jarjarasya vināśanam . jarjaram namayitvā tu tatas cārīm prayojayet .. 115..
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥ ११६॥
पारिपार्श्विकयोः च स्यात् पश्चिमेन अपसर्पणम् । अङ्किता च अत्र कर्तव्या ध्रुवा मध्य-लय-अन्विता ॥ ११६॥
pāripārśvikayoḥ ca syāt paścimena apasarpaṇam . aṅkitā ca atra kartavyā dhruvā madhya-laya-anvitā .. 116..
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥ ११७॥
चतुर्भिः सन्निपातैः च चतुरश्रा प्रमाणतः । आद्यम् अन्त्यम् चतुर्थम् च पञ्चमम् च तथा गुरु ॥ ११७॥
caturbhiḥ sannipātaiḥ ca caturaśrā pramāṇataḥ . ādyam antyam caturtham ca pañcamam ca tathā guru .. 117..
यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ ११८॥
यस्याम् ह्रस्वानि शेषाणि सा ज्ञेया तु अङ्किता बुधैः । अस्याः प्रयोगम् वक्ष्यामि यथा पूर्वम् महेश्वरः ॥ ११८॥
yasyām hrasvāni śeṣāṇi sā jñeyā tu aṅkitā budhaiḥ . asyāḥ prayogam vakṣyāmi yathā pūrvam maheśvaraḥ .. 118..
सहोमया क्रीडितवान्नानाभावविचेष्टतैः । कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ ११९॥
सह उमया । कृत्वा अवहित्थम् स्थानम् तु वामम् च अधोमुखम् भुजम् ॥ ११९॥
saha umayā . kṛtvā avahittham sthānam tu vāmam ca adhomukham bhujam .. 119..
चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ १२०॥
चतुरश्रम् उरः कार्यम् अञ्चितः च अपि मस्तकः । नाभि-प्रदेशे विन्यस्य जर्जरम् च तुला-धृतम् ॥ १२०॥
caturaśram uraḥ kāryam añcitaḥ ca api mastakaḥ . nābhi-pradeśe vinyasya jarjaram ca tulā-dhṛtam .. 120..
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥ १२१॥
वाम-पल्लव-हस्तेन पादैः ताल-अन्तर-उत्थितैः । गच्छेत् पञ्चपदीम् च एव स विलास-अङ्ग-चेष्टितैः ॥ १२१॥
vāma-pallava-hastena pādaiḥ tāla-antara-utthitaiḥ . gacchet pañcapadīm ca eva sa vilāsa-aṅga-ceṣṭitaiḥ .. 121..
वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ १२२॥
वाम-वेधः तु कर्तव्यः विक्षेपः दक्षिणस्य च । शृङ्गार-रस-संयुक्ताम् पठेत् आर्याम् विचक्षणः ॥ १२२॥
vāma-vedhaḥ tu kartavyaḥ vikṣepaḥ dakṣiṇasya ca . śṛṅgāra-rasa-saṃyuktām paṭhet āryām vicakṣaṇaḥ .. 122..
चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥ १२३॥
चारी-श्लोकम् गदित्वा तु कृत्वा च परिवर्तनम् । तैः एव च पदः कार्यम् पश्चिमेन अपसर्पणम् ॥ १२३॥
cārī-ślokam gaditvā tu kṛtvā ca parivartanam . taiḥ eva ca padaḥ kāryam paścimena apasarpaṇam .. 123..
पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ १२४॥
पारिपार्श्विक-हस्ते तु न्यस्य जर्जरम् उत्तमम् । महाचारीम् ततस् च एव प्रयुञ्जीत यथाविधि ॥ १२४॥
pāripārśvika-haste tu nyasya jarjaram uttamam . mahācārīm tatas ca eva prayuñjīta yathāvidhi .. 124..
चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥ १२५॥
चतुरश्रा ध्रुवा तत्र तथा द्रुत-लय-अन्विता । चतुर्भिः सन्निपातैः च कलाः हि अष्टौ प्रमाणतः ॥ १२५॥
caturaśrā dhruvā tatra tathā druta-laya-anvitā . caturbhiḥ sannipātaiḥ ca kalāḥ hi aṣṭau pramāṇataḥ .. 125..
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥ १२६॥
आद्यम् चतुर्थम् अन्त्यम् च सप्तमम् दशमम् गुरु । लघु शेषम् ध्रुवा-पादे चतुर्विंशतिके भवेत् ॥ १२६॥
ādyam caturtham antyam ca saptamam daśamam guru . laghu śeṣam dhruvā-pāde caturviṃśatike bhavet .. 126..
पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य ॥ १२७॥
पाद-तल-आहति-पातित-शैलम् क्षोभित-भूत-समग्र-समुद्रम् । ताण्डवनृत्यम् इदम् प्रलय-अन्ते पातु जगत्-सुख-दायि हरस्य ॥ १२७॥
pāda-tala-āhati-pātita-śailam kṣobhita-bhūta-samagra-samudram . tāṇḍavanṛtyam idam pralaya-ante pātu jagat-sukha-dāyi harasya .. 127..
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ १२८॥
भाण्ड-उन्मुखेन कर्तव्यम् पाद-विक्षेपणम् ततस् । सूचीम् कृत्वा पुनर् कुर्यात् विक्षेप-परिवर्तनम् ॥ १२८॥
bhāṇḍa-unmukhena kartavyam pāda-vikṣepaṇam tatas . sūcīm kṛtvā punar kuryāt vikṣepa-parivartanam .. 128..
अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥ १२९॥
अतिक्रान्तैः स ललितैः पादैः द्रुत-लय-अन्वितैः । त्रि-ताल-अन्तरम् उत्क्षेपैः गच्छेत् पञ्चपदीम् ततस् ॥ १२९॥
atikrāntaiḥ sa lalitaiḥ pādaiḥ druta-laya-anvitaiḥ . tri-tāla-antaram utkṣepaiḥ gacchet pañcapadīm tatas .. 129..
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ १३०॥
तत्र अपि वाम-वेधः तु विक्षेपः दक्षिणस्य च । तैः एव च पदैः कार्यम् प्राच्-मुखेन अपसर्पणम् ॥ १३०॥
tatra api vāma-vedhaḥ tu vikṣepaḥ dakṣiṇasya ca . taiḥ eva ca padaiḥ kāryam prāc-mukhena apasarpaṇam .. 130..
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ १३१॥
पुनर् पदानि त्रीणि एव गच्छेत् प्राच्-मुखः एव तु । ततस् च वाम-वेधः स्यात् विक्षेपः दक्षिणस्य च ॥ १३१॥
punar padāni trīṇi eva gacchet prāc-mukhaḥ eva tu . tatas ca vāma-vedhaḥ syāt vikṣepaḥ dakṣiṇasya ca .. 131..
ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ १३२॥
ततस् रौद्र-रसम् श्लोकम् पाद-संहरणम् पठेत् । तस्य अन्ते तु त्रिपद्या अथ व्याहरेत् पारिपार्श्विकौ ॥ १३२॥
tatas raudra-rasam ślokam pāda-saṃharaṇam paṭhet . tasya ante tu tripadyā atha vyāharet pāripārśvikau .. 132..
तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥ १३३॥
तयोः आगमने कार्यम् गानम् नर्कुटकम् बुधैः । तथा च भारती-भेदे त्रिगतम् सम्प्रयोजयेत् ॥ १३३॥
tayoḥ āgamane kāryam gānam narkuṭakam budhaiḥ . tathā ca bhāratī-bhede trigatam samprayojayet .. 133..
विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥ १३४॥
विदूषकः तु एकपदाम् सुत्रधार-स्मितावहाम् । असम्बद्ध-कथा-प्रायाम् कुर्यात् कथनिका ततस् ॥ १३४॥
vidūṣakaḥ tu ekapadām sutradhāra-smitāvahām . asambaddha-kathā-prāyām kuryāt kathanikā tatas .. 134..
(वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥
(वितण्डाम् गण्ड-संयुक्ताम् तालिकाम् च प्रयोजयेत् । कः तिष्ठति जितम् केन इति आदि-काव्य-प्ररूपिणीम् ॥
(vitaṇḍām gaṇḍa-saṃyuktām tālikām ca prayojayet . kaḥ tiṣṭhati jitam kena iti ādi-kāvya-prarūpiṇīm ..
पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ॥)
पारिपार्श्वक-सञ्जल्पः विदूषक-विरूपितः । स्थापितः सूत्रधारेण त्रिगतम् सम्प्रयुज्यते ॥)
pāripārśvaka-sañjalpaḥ vidūṣaka-virūpitaḥ . sthāpitaḥ sūtradhāreṇa trigatam samprayujyate ..)
प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ १३५॥
प्ररोचना च कर्तव्या सिद्धेन उपनिमत्रणम् । रङ्ग-सिद्धौ पुनर् कार्यम् काव्य-वस्तु-निरूपणम् ॥ १३५॥
prarocanā ca kartavyā siddhena upanimatraṇam . raṅga-siddhau punar kāryam kāvya-vastu-nirūpaṇam .. 135..
सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ १३६॥
सर्वम् एव विधिम् कृत्वा सूचीवेध-कृतैः अथ । पादैः अनाविद्ध-गतैः निष्क्रामेयुः समम् त्रयः ॥ १३६॥
sarvam eva vidhim kṛtvā sūcīvedha-kṛtaiḥ atha . pādaiḥ anāviddha-gataiḥ niṣkrāmeyuḥ samam trayaḥ .. 136..
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥ १३७॥
एवम् एष प्रयोक्तव्यः पूर्वरङ्गः यथाविधि । चतुर्-अश्रः द्विजश्रेष्ठाः त्रि-अश्रम् च अपि निबोधत ॥ १३७॥
evam eṣa prayoktavyaḥ pūrvaraṅgaḥ yathāvidhi . catur-aśraḥ dvijaśreṣṭhāḥ tri-aśram ca api nibodhata .. 137..
अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ १३८॥
अयम् एव प्रयोगः स्यात् अङ्गानि एतानि च एव हि । ताल-प्रमाणम् संक्षिप्तम् केवलम् तु विशेष-कृत् ॥ १३८॥
ayam eva prayogaḥ syāt aṅgāni etāni ca eva hi . tāla-pramāṇam saṃkṣiptam kevalam tu viśeṣa-kṛt .. 138..
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ १३९॥
शम्या तु द्वि-कला कार्या तालः हि एक-कलः तथा । पुनर् च एक-कला शम्या सन्निपातः कला-द्वयम् ॥ १३९॥
śamyā tu dvi-kalā kāryā tālaḥ hi eka-kalaḥ tathā . punar ca eka-kalā śamyā sannipātaḥ kalā-dvayam .. 139..
अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः ॥ १४०॥
अनेन हि प्रमाणेन कला-ताल-लय-अन्वितः । कर्तव्यः पूर्वरङ्गः तु त्रि-अश्रः अपि उत्थापन-आदिकः ॥ १४०॥
anena hi pramāṇena kalā-tāla-laya-anvitaḥ . kartavyaḥ pūrvaraṅgaḥ tu tri-aśraḥ api utthāpana-ādikaḥ .. 140..
आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ १४१॥
आद्यम् चतुर्थम् दशमम् अष्टमम् नैधनम् गुरु । यस्याः तु जागते पादे सा त्रि-अश्र-उत्थापिनी ध्रुवा ॥ १४१॥
ādyam caturtham daśamam aṣṭamam naidhanam guru . yasyāḥ tu jāgate pāde sā tri-aśra-utthāpinī dhruvā .. 141..
वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥ १४२॥
वाद्यम् गति-प्रचारः च ध्रुवा तालः तथा एव च । संक्षिप्तानि एव कार्याणि त्रि-अश्रे नृत्त-प्रवेदिभिः ॥ १४२॥
vādyam gati-pracāraḥ ca dhruvā tālaḥ tathā eva ca . saṃkṣiptāni eva kāryāṇi tri-aśre nṛtta-pravedibhiḥ .. 142..
वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥ १४३॥
वाद्य-गीत-प्रमाणेन कुर्यात् अङ्ग-विचेष्टितम् । विस्तीर्णम् अथ संक्षिप्तम् द्वि-प्रमाण-विनिर्मितम् ॥ १४३॥
vādya-gīta-pramāṇena kuryāt aṅga-viceṣṭitam . vistīrṇam atha saṃkṣiptam dvi-pramāṇa-vinirmitam .. 143..
हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥ १४४॥
हस्त-पाद-प्रचारः तु द्वि-कलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडश एव तु ॥ १४४॥
hasta-pāda-pracāraḥ tu dvi-kalaḥ parikīrtitaḥ . caturaśre parikrānte pātāḥ syuḥ ṣoḍaśa eva tu .. 144..
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ १४५॥
त्रि-अश्रे द्वादश पाताः तु भवन्ति कर-पादयोः । एतत् प्रमाणम् विज्ञेयम् उभयोः पूर्वरङ्गयोः ॥ १४५॥
tri-aśre dvādaśa pātāḥ tu bhavanti kara-pādayoḥ . etat pramāṇam vijñeyam ubhayoḥ pūrvaraṅgayoḥ .. 145..
केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ १४६॥
केवलम् परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ १४६॥
kevalam parivarte tu gamane tripadī bhavet . digvandane pañcapadī caturaśre vidhīyate .. 146..
आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ १४७॥
आचार्य-बुद्ध्या कर्तव्यः त्रि-अश्रः ताल-प्रमाणतः । तस्मात् न लक्षणम् प्रोक्तम् पुनर् उक्तम् भवेत् यतस् ॥ १४७॥
ācārya-buddhyā kartavyaḥ tri-aśraḥ tāla-pramāṇataḥ . tasmāt na lakṣaṇam proktam punar uktam bhavet yatas .. 147..
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ १४८॥
एवम् एष प्रयोक्तव्यः पूर्वरङ्गः द्विजोत्तमाः । त्रि-अश्रः च चतुर्-अश्रः च शुद्धः भारती-उपाश्रयः ॥ १४८॥
evam eṣa prayoktavyaḥ pūrvaraṅgaḥ dvijottamāḥ . tri-aśraḥ ca catur-aśraḥ ca śuddhaḥ bhāratī-upāśrayaḥ .. 148..
एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ १४९॥
एवम् तावत् अयम् शुद्धः पूर्वरङ्गः मया उदितः । चित्र-त्वम् अस्य वक्ष्यामि यथाकार्यम् प्रयोक्तृभिः ॥ १४९॥
evam tāvat ayam śuddhaḥ pūrvaraṅgaḥ mayā uditaḥ . citra-tvam asya vakṣyāmi yathākāryam prayoktṛbhiḥ .. 149..
वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥ १५०॥
वृत्ते हि उत्थापने विप्राः कृते च परिवर्तने । चतुर्थ-कार-दत्ताभिः सुमनोभिः अलङ्कृते ॥ १५०॥
vṛtte hi utthāpane viprāḥ kṛte ca parivartane . caturtha-kāra-dattābhiḥ sumanobhiḥ alaṅkṛte .. 150..
उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥ १५१॥
उदात्तैः गानैः गन्धर्वैः परिगीते प्रमाणतः । देव-दुन्दुभयः च एव निनदैयुः भृशम् यतस् ॥ १५१॥
udāttaiḥ gānaiḥ gandharvaiḥ parigīte pramāṇataḥ . deva-dundubhayaḥ ca eva ninadaiyuḥ bhṛśam yatas .. 151..
सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ १५२॥
सिद्धाः कुसुम-मालाभिः विकिरेयुः समन्ततः । अङ्गहारैः च देव्यः ताः उपनृत्येयुः अग्रतस् ॥ १५२॥
siddhāḥ kusuma-mālābhiḥ vikireyuḥ samantataḥ . aṅgahāraiḥ ca devyaḥ tāḥ upanṛtyeyuḥ agratas .. 152..
यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥ १५३॥
यः ताण्डव-विधिः प्रोक्तः पिण्डी-समन्वितः । रेचकैः अङ्गहारैः च न्यास-उपन्यास-संयुतः ॥ १५३॥
yaḥ tāṇḍava-vidhiḥ proktaḥ piṇḍī-samanvitaḥ . recakaiḥ aṅgahāraiḥ ca nyāsa-upanyāsa-saṃyutaḥ .. 153..
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ १५४॥
नान्दी-पदानाम् मध्ये तु एकैकस्मिन् पृथक् पृथक् । प्रयोक्तव्यः बुधैः सम्यक् चित्र-भावम् अभीप्सुभिः ॥ १५४॥
nāndī-padānām madhye tu ekaikasmin pṛthak pṛthak . prayoktavyaḥ budhaiḥ samyak citra-bhāvam abhīpsubhiḥ .. 154..
एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ १५५॥
एवम् कृत्वा यथान्यायम् शुद्धम् चित्रम् प्रयत्नतः । ततस् परम् प्रयुञ्जीत नाटकम् लक्षण-अन्वितम् ॥ १५५॥
evam kṛtvā yathānyāyam śuddham citram prayatnataḥ . tatas param prayuñjīta nāṭakam lakṣaṇa-anvitam .. 155..
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ १५६॥
ततस् तु अन्तर्हिताः सर्वाः भवेयुः दिव्य-योषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततस् परम् ॥ १५६॥
tatas tu antarhitāḥ sarvāḥ bhaveyuḥ divya-yoṣitaḥ . niṣkrāntāsu ca sarvāsu nartakīṣu tatas param .. 156..
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ १५७॥
पूर्वरङ्गे प्रयोक्तव्यम् अङ्ग-जातम् अतस् परम् । एवम् शुद्धः भवेत् चित्रः पूर्वरङ्गः विधानतः ॥ १५७॥
pūrvaraṅge prayoktavyam aṅga-jātam atas param . evam śuddhaḥ bhavet citraḥ pūrvaraṅgaḥ vidhānataḥ .. 157..
कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥ १५८॥
कार्यः ना अति प्रसङ्गः अत्र नृता-गीत-विधिम् प्रति । गीते वाद्ये च नृत्ते च प्रवृत्ते अतिप्रसङ्गतः ॥ १५८॥
kāryaḥ nā ati prasaṅgaḥ atra nṛtā-gīta-vidhim prati . gīte vādye ca nṛtte ca pravṛtte atiprasaṅgataḥ .. 158..
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ १५९॥
खेदः भवेत् प्रयोक्तॄणाम् प्रेक्षकाणाम् तथा एव च । खिन्नानाम् रस-भावेषु स्पष्ट-ता न उपजायते ॥ १५९॥
khedaḥ bhavet prayoktṝṇām prekṣakāṇām tathā eva ca . khinnānām rasa-bhāveṣu spaṣṭa-tā na upajāyate .. 159..
ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ॥ लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥
ततस् शेष-प्रयोगः तु न राग-जनकः भवेत् । (लक्षनेन विना बाह्य-लक्षणात् विस्तृतम् भवेत् ॥ लोक-शास्त्र-अनुसारेण तस्मात् नाट्यम् प्रवर्तते ॥ ) त्रि-अश्रम् वा चतुर्-अश्रम् वा शुद्धम् चित्रम् अथ अपि वा ॥ १६०॥
tatas śeṣa-prayogaḥ tu na rāga-janakaḥ bhavet . (lakṣanena vinā bāhya-lakṣaṇāt vistṛtam bhavet .. loka-śāstra-anusāreṇa tasmāt nāṭyam pravartate .. ) tri-aśram vā catur-aśram vā śuddham citram atha api vā .. 160..
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥
लोक-शास्त्र-अनुसारेण तस्मात् नाट्यम् प्रवर्तते ॥ ) त्रि-अश्रम् वा चतुर्-अश्रम् वा शुद्धम् चित्रम् अथ अपि वा ॥ १६०॥
loka-śāstra-anusāreṇa tasmāt nāṭyam pravartate .. ) tri-aśram vā catur-aśram vā śuddham citram atha api vā .. 160..
प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः । (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥
प्रयुज्य रङ्गात् निष्क्रामेत् सूत्रधार्ः सहानुगः । (देव-पार्थिव-रङ्गानाम् आशीर्वचन-संयुताम् ॥
prayujya raṅgāt niṣkrāmet sūtradhārḥ sahānugaḥ . (deva-pārthiva-raṅgānām āśīrvacana-saṃyutām ..
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥
कवेः नाम-गुण-उपेताम् वस्तु-उपक्षेप-रूपिकाम् । लघु-वर्ण-पद-उपेताम् वृत्तैः चित्रैः अलङ्कृताम् ॥
kaveḥ nāma-guṇa-upetām vastu-upakṣepa-rūpikām . laghu-varṇa-pada-upetām vṛttaiḥ citraiḥ alaṅkṛtām ..
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ॥
अन्तर् यवनिका-संस्थः कुर्यात् आश्रावणाम् ततस् । आश्रावन-अवसाने च नान्दीम् कृत्वा स सूत्रधृत् ॥
antar yavanikā-saṃsthaḥ kuryāt āśrāvaṇām tatas . āśrāvana-avasāne ca nāndīm kṛtvā sa sūtradhṛt ..
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः ।) प्रयुज्य विधिनैवं तु पूर्वरऽगं प्रयोगतः ॥ १६१॥
पुनर् प्रविश्य रङ्गम् तु कुर्यात् प्रस्तावनाम् ततस् ।) प्रयुज्य विधिना एवम् तु प्रयोगतः ॥ १६१॥
punar praviśya raṅgam tu kuryāt prastāvanām tatas .) prayujya vidhinā evam tu prayogataḥ .. 161..
स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम् ॥ १६२॥
स्थापकः प्रविशेत् तत्र सूत्रधार-गुण-आकृतिः । स्थानम् तु वैष्णवम् कृत्वा सौष्ठव-अञ्ग-पुरस्कृतम् ॥ १६२॥
sthāpakaḥ praviśet tatra sūtradhāra-guṇa-ākṛtiḥ . sthānam tu vaiṣṇavam kṛtvā sauṣṭhava-añga-puraskṛtam .. 162..
प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्स्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा ॥ १६३॥
प्रविश्य रङ्गम् तैः एव सूत्रधार-पदैः व्रजेत् । श्थापक्स्य प्रवेशे तु कर्तव्य-अर्थ-अनुगा ध्रुवा ॥ १६३॥
praviśya raṅgam taiḥ eva sūtradhāra-padaiḥ vrajet . śthāpaksya praveśe tu kartavya-artha-anugā dhruvā .. 163..
त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥ १६४॥
त्रि-अश्रा वा चतुर्-अश्रा वा तद्-ज्ञैः मध्य-लय-अन्विता । कुर्यात् अनन्तरम् चारीम् देवरह्मणशंसिनीम् ॥ १६४॥
tri-aśrā vā catur-aśrā vā tad-jñaiḥ madhya-laya-anvitā . kuryāt anantaram cārīm devarahmaṇaśaṃsinīm .. 164..
सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥ १६५॥
सु वाक्य-मधुरैः । प्रसाद्य रङ्गम् विधिवत् कवेः नाम च कीर्तयेत् ॥ १६५॥
su vākya-madhuraiḥ . prasādya raṅgam vidhivat kaveḥ nāma ca kīrtayet .. 165..
प्रस्तवा। ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥१६६॥
प्रस्तवा। ततस् कुर्यात् काव्य-प्रख्यापन-आश्रयाम् । उद्धात्यक-आदि कर्तव्यम् काव्य-उपक्षेपण-आश्र्यम् ॥१६६॥
prastavā. tatas kuryāt kāvya-prakhyāpana-āśrayām . uddhātyaka-ādi kartavyam kāvya-upakṣepaṇa-āśryam ..166..
दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा ॥ १६७॥
दिव्ये दिव्य-आश्रयः भूत्वा मानुषे मानुष-आश्रयः । दिव्य-मानुष-संयोगे दिव्यः वा मानुषः अपि वा ॥ १६७॥
divye divya-āśrayaḥ bhūtvā mānuṣe mānuṣa-āśrayaḥ . divya-mānuṣa-saṃyoge divyaḥ vā mānuṣaḥ api vā .. 167..
मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥१६८॥
मुख-बीज-अनु-सदॄशम् नाना मार्ग-समाश्रयम् । आविधैः उपक्षेपैः काव्य-उपक्षेपणम् भवेत् ॥१६८॥
mukha-bīja-anu-sadṝśam nānā mārga-samāśrayam . āvidhaiḥ upakṣepaiḥ kāvya-upakṣepaṇam bhavet ..168..
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ १६९॥
प्रस्ताव्य एवम् तु निष्क्रामेत् काव्य-प्रस्तावकः ततस् । एवम् एष प्रयोक्तव्यः पूर्वरङ्गः यथाविधि ॥ १६९॥
prastāvya evam tu niṣkrāmet kāvya-prastāvakaḥ tatas . evam eṣa prayoktavyaḥ pūrvaraṅgaḥ yathāvidhi .. 169..
य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ १७०॥
यः इमम् पूर्वरङ्गम् तु विधिना एव प्रयोजयेत् । न अशुभम् प्राप्नुयात् किञ्चिद् स्वर्ग-लोकम् च गच्छति ॥ १७०॥
yaḥ imam pūrvaraṅgam tu vidhinā eva prayojayet . na aśubham prāpnuyāt kiñcid svarga-lokam ca gacchati .. 170..
यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥ १७१॥
यः च अपि विधिम् उत्सृज्य यथा इष्टम् सम्प्रयोजयेत् । प्राप्नोति अपचयम् घोरम् तिर्यग्ग्योनिम् च गच्छति ॥ १७१॥
yaḥ ca api vidhim utsṛjya yathā iṣṭam samprayojayet . prāpnoti apacayam ghoram tiryaggyonim ca gacchati .. 171..
न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ १७२॥
न तथा अग्निः प्रदहति प्रभञ्जन-समीरतः । यथा हि अप्रयोगः तु प्रयुक्तः दहति क्षणात् ॥ १७२॥
na tathā agniḥ pradahati prabhañjana-samīrataḥ . yathā hi aprayogaḥ tu prayuktaḥ dahati kṣaṇāt .. 172..
इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः । कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ १७३॥
इति एव अवन्ति-पाञ्चाल-दाक्षिणात्य-औढ्र-मागधैः । पूर्वरङ्गः तु द्वि-प्रमाण-विनिर्मितः ॥ १७३॥
iti eva avanti-pāñcāla-dākṣiṇātya-auḍhra-māgadhaiḥ . pūrvaraṅgaḥ tu dvi-pramāṇa-vinirmitaḥ .. 173..
एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ १७४॥
एष वः कथितः विप्राः पूर्वरङ्ग-आश्रितः विधिः । भूयस् किम् कथ्यताम् सम्यक् नाट्य-वेद-विधिम् प्रति ॥ १७४॥
eṣa vaḥ kathitaḥ viprāḥ pūrvaraṅga-āśritaḥ vidhiḥ . bhūyas kim kathyatām samyak nāṭya-veda-vidhim prati .. 174..
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः ।
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगः नाम पञ्चमः अध्यायः ।
iti bhāratīye nāṭyaśāstre pūrvaraṅgaprayogaḥ nāma pañcamaḥ adhyāyaḥ .
अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः ।
अथ पूर्वरङ्गविधानः नाम पञ्चमः अध्यायः ।
atha pūrvaraṅgavidhānaḥ nāma pañcamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In