| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ५ ॥
.. nāṭyaśāstram adhyāya 5 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ पञ्चमोऽध्यायः ।
atha pañcamo'dhyāyaḥ .
भरतमुनिप्रणीतं नाट्यशास्त्रम्
bharatamunipraṇītaṃ nāṭyaśāstram
भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ १॥
bharatasya vacaḥ śrutvā nāṭyasantānakāraṇam . punarevābruvanvākyamṛṣayo hṛṣṭamānasāḥ .. 1..
यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥ २॥
yathā nāṭyasya janmedaṃ jarjarasya ca sambhavaḥ . vighnānāṃ śamanaṃ caiva daivatānāṃ ca pūjanam .. 2..
तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ ३॥
tadasmābhiḥ śrutaṃ sarvaṃ gṛhītvā cāvadhāritam . nikhilena yathātattvamicchāmo vedituṃ punaḥ .. 3..
पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ ४॥
pūrvaraṅgaṃ mahātejaḥ sarvalakṣaṇasaṃyutam . yathā buddhyāmahe brahmaṃstathā vyākhyātumarhasi .. 4..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ ५॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ . pratyuvāca punarvākyaṃ pūrvaraṅgavidhiṃ prati .. 5..
पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ ६॥
pūrvaraṅgaṃ mahābhāgā gadato me nibodhata . pādabhāgāḥ kalāścaiva parivartāstathaiva ca .. 6..
यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ ७॥
yasmādraṅge prayogo'yaṃ pūrvameva prayujyate . tasmādayaṃ pūrvaraṅgo vijñeyo dvijasattamāḥ .. 7..
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥ ८॥
asyāṅgāni tu kāryāṇi yathāvadanupūrvaśaḥ . tantrībhāṇḍasamāyoagaiḥ pāṭhyayogakṛtaistathā .. 8..
प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ ९॥
pratyāhāro'vataraṇaṃ tathā hyārambha eva ca . āśrāvaṇā vaktrapāṇistathā ca parighaṭṭanā .. 9..
सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥ १०॥
saṅghoṭanā tataḥ kāryā mārgāsāritameva ca . jyeṣṭhamadhyakaniṣṭhāni tathaivāsāratāni ca .. 10..
एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥११॥
etāni tu bahirgītānyantaryavanikāgataiḥ . prayoktṛbhiḥ prayojyāni tantrībhāṇḍakṛtāni ca ..11..
ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥ १२॥
tataḥ sarvaistu kutapaiḥ saṃyuktānīha kārayet . vighaṭya vai yavanikāṃ nṛttapāṭhyakṛtāni tu .. 12..
गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ १३॥
gītānāṃ madrakādīnāṃ yojyamekaṃ tu gītakam . vardhamānamathāpīha tāṇḍavaṃ yatra yujyate .. 13..
ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ १४॥
tataścotthāpanaṃ kāryaṃ parivartanameva ca . nāndī śuṣkāvakṛṣṭā ca raṅgadvāraṃ tathaiva ca .. 14..
चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥ १५॥
cāri caiva tataḥ kāryā mahācārī tathaiva ca . trikaṃ prarocanāṃ cāpi pūrvaraṅge bhavanti hi .. 15..
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ १६॥
etānyaṅgāni kāryāṇi pūrvaraṅgavidhau dvijāḥ . eteṣāṃ lakṣaṇamahaṃ vyākhyāsyāmyanupūrvaśaḥ .. 16..
कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥ १७॥
kutapasya tu vinyāsaḥ pratyāhāra iti smṛtaḥ . tathāvataraṇaṃ proktaṃ gāyikānāṃ niveśanam .. 17..
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥ १८॥
parigītakriyārambha ārambha iti kīrtitaḥ . ātodyarañjanārthaṃ tu bhavedāśrāvaṇāvidhiḥ .. 18..
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥ १९॥
vādyavṛttivibhāgārthaṃ vaktrapāṇirvidhīyate . tantryojaḥkaraṇārthaṃ tu bhavecca parighaṭṭanā .. 19..
तथा पाणिविभागार्थं भवेत्सङ्घोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥ २०॥
tathā pāṇivibhāgārthaṃ bhavetsaṅghoṭanāvidhiḥ . tantrībhāṇḍasamāyogānmārgāsāritamiṣyate .. 20..
कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥ २१॥
kalāpātavibhāgārthaṃ bhavedāsāritakriyā . kīrtanāddevatānāṃ ca jñeyo gītavidhistathā .. 21..
[अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् ।] यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः ।
[ataḥ paraṃ pravakṣyami hyutthāpanavidhikriyām .] yasmādutthāpayantyatra prayogaṃ nāndipāṭhakāḥ .
यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ २२॥
yasmādutthāpayantyatra prayogaṃ nāndipāṭhakāḥ . pūrvameva tu raṅge'smiṃstasmādutthāpanaṃ smṛtam .. 22..
यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥ २३॥
yasmācca lokapālānāṃ parivṛtya caturdiśam . vandanāni prakurvanti tasmācca parivartanam .. 23..
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति सन्ज्ञिता ॥ २४॥
āśīrvacanasaṃyuktā nityaṃ yasmātprayujyate . devadvijanṛpādīnāṃ tasmānnāndīti sanjñitā .. 24..
अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥ २५॥
atra śuṣkākṣaraireva hyavakṛṣṭā dhruvā yataḥ . tasmācchuṣkāvakṛṣṭeyaṃ jarjaraślokadarśitā .. 25..
यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ २६॥
yasmādabhinayastvatra prathamaṃ hyavatāryate . raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam .. 26..
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ २७॥
śṛṅgārasya pracaraṇāccārī samparikīrtitā . raudrapracaraṇāccāpi mahācārīti kīrtitā .. 27..
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥ २८॥
vidūṣakaḥ sūtradhārastathā vai pāripārśvakaḥ . yatra kurvanti sañjalpaṃ taccāpi trigataṃ matam .. 28..
उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥ २९॥
upakṣepeṇa kāvyasya hetuyuktisamāśrayā . siddhenāmantraṇā yā tu vijñeyā sa prarocanā .. 29..
अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥ ३०॥
ataḥ paraṃ pravakṣyāmi hyāśrāvaṇavidhikriyām . bahirgītavidhau samyagutpattiṃ kāraṇaṃ tathā .. 30..
चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ ३१॥
citradakṣiṇavṛtau tu saptarūpe pravartite . sopohane sanirgīte devastutyabhinandite .. 31..
नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ ३२॥
nāradādyaistu gandharvaiḥ sabhāyāṃ devadānavāḥ . nirgītaṃ śrāvitāḥ samyaglayatālasamanvitam .. 32..
तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ ३३॥
tacchrutvā tu sukhaṃ gānaṃ devastutyabhinanditam abhavankṣubhitāḥ sarve mātsaryāddaityarākṣasāḥ .. 33..
सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥३४॥
sampradhārya ca te'nyonyamityavocannavasthitāḥ . nirgītaṃ tu savāditramidaṃ gṛhṇīmahe vayam ..34..
सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा ॥ ३५॥
saptarūpeṇa santuṣṭā devāḥ karmānukīrtanāt . vayaṃ gṛhṇīma nirgītaṃ tuṣyāmo'traiva sarvadā .. 35..
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥ ३६॥
te tatra tuṣṭā daityāstu sādhayanti punaḥ punaḥ . ruṣṭāścāpi tato devāḥ pratyabhāṣanta nāradam .. 36..
एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥ ३७॥
ete tuṣyanti nirgīte dānavā saha rākṣasaiḥ . praṇaśyatu prayogo'yaṃ kathaṃ vā manyate bhavān .. 37..
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ ३८॥
devānāṃ vacanaṃ śrutvā nārado vākyamabravīt . dhātuvādyāśrayakṛtaṃ nirgītaṃ mā praṇaśyatu .. 38..
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥ ३९॥
kintūpohanasaṃyuktaṃ dhātuvādyavibhūṣitam . bhaviṣyatīdaṃ nirgītaṃ saptarūpavidhānataḥ .. 39..
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥ ४०॥
nirgītenāvabaddhāśca daityadānavarākṣasāḥ . na kṣobhaṃ na vighātaṃ ca kariṣyantīha toṣitāḥ .. 40..
एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ ४१॥
evaṃ nirgītametattu daityānāṃ spardhayā dvijāḥ . devānāṃ bahumānena bahirgītamiti smṛtam .. 41..
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ॥ ४२॥
dhātubhiścitravīṇāyāṃ gurulaghvakṣarānvitam . varṇālaṅkārasaṃyuktaṃ prayoktavyaṃ budhairatha.. 42..
निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥४३॥
nirgītaṃ geyate yasmādapadaṃ varṇayojanāt . asūyayā ca devānāṃ bahirgītamidaṃ smṛtam ..43..
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥ ४४॥
nirgītaṃ yanmayā proktaṃ saptarūpasamanvitam . utthāpanādikaṃ yacca tasya kāraṇamucyate .. 44..
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ ४५॥
āśrāvaṇāyāṃ yuktāyāṃ daityāstuṣyanti nityaśaḥ . vaktrapāṇau kṛte caiva nityaṃ tuṣyanti dānavāḥ .. 45..
परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥ ४६॥
parighaṭṭanayā tuṣṭā yuktāyāṃ rākṣasāṃ gaṇāḥ . saṅghoṭanakriyāyāṃ ca tuṣyantyapi ca guhyakāḥ .. 46..
मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥४७॥
mārgāsāritamāsādya tuṣṭā yakṣā bhavanti hi . gītakeṣu prayukteṣu devāstuṣyanti nityaśaḥ ..47..
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ ४८॥
vardhamāne prayukte tu rudrastuṣyati sānugaḥ . tathā cotthāpane yukte brahmā tuṣṭo bhavediha .. 48..
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः ॥ ४९॥
tuṣyanti lokapālāśca prayukte parivartane . nāndīprayoge'tha kṛte prīto bhavati candramāḥ .. 49..
युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥५०॥
yuktāyāmavakṛṣṭāyāṃ prītā nāgā bhavanti hi . tathā śuṣkāvakṛṣṭāyāṃ prītaḥ pitṛgaṇo bhavet ..50..
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ ५१॥
raṅgadvāre prayukte tu viṣṇuḥ prīto bhavediha . jarjarasya prayoge tu tuṣṭā vighnavināyakāḥ .. 51..
तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ ५२॥
tathā cāryā prayuktāyāmumā tuṣṭā bhavediha . mahācāryā prayuktāyāṃ tuṣṭo bhūtagaṇo bhavet .. 52..
आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ ५३॥
āśrāvaṇādicāryantametaddaivatapūjanam . pūrvaraṅge mayā khyātaṃ tathā cāṅgavikalpanam .. 53..
देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥ ५४॥
devastuṣyanti yo yena yasya yanmanasaḥ priyam . tattathā pūrvaraṅge tu mayā prokaṃ dvijottamāḥ .. 54..
सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥५५॥
sarvadaivatapūjārhaṃ sarvadaivatapūjanam . dhanyaṃ yaśasyamāyuṣyaṃ pūrvaraṅgapravartanam ..55..
दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ ५६॥
daityadānavatuṣṭyarthaṃ sarveṣāṃ ca divaukasām . nirgītāni sagītāni pūrvaraṅgakṛtāni tu .. 56..
[या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ॥ ]
[yā vidyā yāni śilpāni yā gatiryaśca ceṣṭitam . lokālokasya jagatastadasminnāṭakāśraye .. ]
निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ ५७॥
nirgītānāṃ sagītānāṃ vardhamānasya caiva hi . dhruvāvidhāne vakṣyāmi lakṣaṇaṃ karma caiva hi .. 57..
प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ ५८॥
prayujya gītakavidhiṃ vardhamānamathāpi ca . gītakānte tataścāpi kāryā hyutthāpanī dhruvā .. 58..
अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥ ५९॥
adau dve ca caturthaṃ cāpyaṣṭamaikādaśe tathā . gurvakṣarāṇi jānīyatpāde hyekādaśe tathā .. 59..
चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥ ६०॥
catuṣpadā bhavetsā tu caturaśrā tathaiva ca . caturbhissannipātaiśca trilayā triyatistathā .. 60..
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥ ६१॥
parivartāśca catvāraḥ pāṇayastraya eva ca . jātyā caiva hi viślokā tāṃ ca tālena yojayet .. 61..
शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥ ६२॥
śamyā tu dvikalā kāryā talo dvikala eva ca . punaścaikakalā śamyā sannipātaḥ kalātrayam .. 62..
एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥ ६३॥
evamaṣṭakalaḥ kāryaḥ sannipāto viacakṣaṇaiḥ . catvāraḥ sannipātāśca parivartaḥ sa ucyate .. 63..
पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ ६४॥
pūrvaṃ sthitalayaḥ kāryaḥ parivarto vicakṣaṇaiḥ . tṛtīye sannipāte tu tasyā bhāṇḍagraho bhavet .. 64..
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ ६५॥
ekasminparivarte tu gate prāpte dvitīyake . kāryaṃ madhyalaye tajjñaiḥ sūtradhārapraveśanam .. 65..
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ ६६॥
puṣpāñjaliṃ samādāya rakṣāmaṅgalasaṃskṛtāḥ . śuddhavastrāḥ sumanasastathā cādbhutadṛṣṭayaḥ .. 66..
स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ ६७॥
sthānantu vaiṣṇavaṃ kṛtvā sauṣṭhavāṅgapuraskṛtam . dīkṣitāḥ śucayaścaiva praviśeyuḥ samaṃ trayaḥ .. 67..
भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥ ६८॥
bhṛṅgārajarjaradharau bhavetāṃ pāripārśvikau . madhye tu sūtrabhṛttābhyāṃ vṛttaḥ pañcapadīṃ vrajet .. 68..
पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ ६९॥
padāni pañca gaccheyurbrahmaṇo yajanecchayā . padānāñcāpi vikṣepaṃ vyākhyāsyāmyanupūrvaśaḥ .. 69..
त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ ७०॥
tritālāntaraviṣkambhamutkṣipeccaraṇaṃ śanaiḥ pārśvotthānotthitaṃ caiva tanmadhye pātayetpunaḥ .. 70..
एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥ ७१॥
evaṃ pañcapadīṃ gatvā sūtradhāraḥ sahetaraḥ . sūcīṃ vāmapade dadyādvikṣepaṃ dakṣiṇena ca .. 71..
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ ७२॥
puṣpāñjalyapavargaśca kāryo brāhme'tha maṇḍale . raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ .. 72..
ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ ७३॥
tataḥ salalitairhastairabhivandya pitāmaham . abhivādāni kāryāṇi trīṇi hastena bhūtale .. 73..
कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥ ७४॥
kālaprakarṣahetośca pādānāṃ pravibhāgataḥ . sūtradhārapraveśādyo vandanābhinayāntakaḥ .. 74..
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥७५॥
dvitīyaḥ parivartastu kāryo madhyalayāśritaḥ . tataḥ paraṃ tṛtīye tu maṇḍalasya pradakṣiṇam ..75..
भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥७६॥
bhavedācamanaṃ caiva jarjaragrahaṇaṃ tathā . utthāya maṇḍalāttūrṇaṃ dakṣiṇaṃ pādamuddharet ..76..
वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ ७७॥
vedhaṃ tenaiva kurvīta vikṣepaṃ vāmakena ca . punaśca dakṣiṇaṃ pādaṃ pārśvasaṃsthaṃ samuddharet .. 77..
ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥ ७८॥
tataśca vāmavedhastu vikṣepo dakṣiṇasya ca . ityanena vidhānena samyakkṛtvā pradikṣaṇam .. 78..
भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ ७९॥
bhṛṅgārabhṛtamāhūya śaucaṃ cāpi samācaret . yathānyāyaṃ tu kartavyā tena hyācamanakriyā .. 79..
आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ ८०॥
ātmaprokṣaṇamevādbhiḥ kartavyaṃ tu yathākramam . prayatnakṛtaśaucena sūtradhāreṇa yatnataḥ .. 80..
सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥८१॥
sannipātasamaṃ grāhyo jarjaro vighnajarjaraḥ . pradakṣiṇādyo vijñeyo jarjaragrahaṇāntakaḥ ..81..
तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥ ८२॥
tṛtīyaḥ parivartastu vijñeyo vai drute laye . gṛhītvā jarjaraṃ tvaṣṭau kalā japyaṃ prayojayet .. 82..
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ ८३॥
vāmavedhaṃ tataḥ kuryādvikṣepaṃ dakṣiṇasya ca . tataḥ pañcapadīṃ caiva gacchettu kutaponmukhaḥ .. 83..
वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः ॥ ८४॥
vāmavedhastu tatrāpi vikṣepo dakṣiṇasya tu . jarjaragrahaṇādyo'yaṃ kutapābhimukhāntakaḥ .. 84..
चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥ ८५॥
caturthaḥ parivartastu kāryo drutalaye punaḥ . karapādanipātāstu bhavntyatra tu ṣoḍaśa .. 85..
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ ८६॥
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ . vandanānyatha kāryāṇi trīṇi hastena bhūtale .. 86..
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ ८७॥
ātmaprokṣaṇamadbhiśca tryaśre naiva vidhīyate . evamutthāpanaṃ kāryaṃ tatastu parivartanam .. 87..
चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः । यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥ ८८॥
caturaśraṃ laye madhye sannipātairathāṣṭabhiḥ . yasyā laghūni sarvāṇi kevalaṃ naidhanaṃ guru .. 88..
भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ ८९॥
bhavedatijagatyāntu sā dhruvā parivartanī . vārtikena tu mārgeṇa vādyenānugatena ca .. 89..
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् । ९०॥
lalitaiḥ pādavinyāsairvandyā devā yathādiśam . dvikalaṃ pādapatanaṃ pādacāryā gataṃ bhavet . 90..
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ ९१॥
vāmapādena vedhastu kartavyo nṛttayoktṛbhiḥ . dvitālāntaraviṣkambho vikṣepo dakṣiṇasya ca .. 91..
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥९२॥
tataḥ pañcapadīṃ gacchedatikrāntaiḥ padaratha . tato'bhivādanaṃ kuryāddevatānāṃ yathādiśam ..92..
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥ ९३॥
vandeta prathamaṃ pūrvāṃ diśaṃ śakrādhidaivatām . dvitīyāṃ dakṣiṇāmāśāṃ vandeta yamadevatām .. 93..
वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ ९४॥
vandeta paścimāmāśāṃ tato varuṇadaivatām . caturthīmuttarāmāśāṃ vandeta dhanadāśrayām .. 94..
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥९५॥
diśāṃ tu vandanaṃ kṛtvā vāmavedhaṃ prayojayet . dakṣiṇena ca kartavyaṃ vikṣepaparivartanam ..95..
प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥ ९६॥
prāṅgmukhastu tataḥ kuryātpuruṣastrīnapuṃsakaiḥ . tripadyā sūtrabhṛdrudrabrahmopendrābhivādanam .. 96..
दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ ९७॥
dakṣiṇaṃ tu padaṃ puṃso vāmaṃ strīṇāṃ prakīrtitam . punardakṣiṇameva syānnātyutkṣiptaṃ napuṃsakam .. 97..
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥ ९८॥
vandeta pauruṣeṇeśaṃ strīpadena janārdanam . napuṃsakpadenāpi tathaivāmbujasambhavam .. 98..
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ ९९॥
parivartanamevaṃ syāttasyānte praviśettataḥ . caturthakāraḥ puṣpāṇi pragṛhya vidhipūrvakam .. 99..
यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ १००॥
yathāvattena kartavyaṃ pūjanaṃ jarjarasya tu . kutapasya ca sarvasya sūtradhārasya caiva hi .. 100..
तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥ १०१॥
tasya bhāṇḍasamaḥ kāryastajjñairgatiparikramaḥ . na tatra gānaṃ kartavyaṃ tatra stobhakriyā bhavet .. 101..
चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ १०२॥
caturthakāraḥ pūjāṃ tu sa kṛtvāntarhito bhavet . tato geyāvakṛṣṭā tu caturaśrā sthitā dhruvā .. 102..
गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥ १०३॥
guruprāyā tu sā kāryā tathā caivāvapāṇikā . sthāyivarṇāśrayopetā kalāṣṭakavinirmitā .. 103..
[चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ॥ ]
[caturthaṃ pañcamaṃ caiva saptamaṃ cāṣṭamaṃ tathā . laghūni pāde paṅktyāntu sāvakṛṣṭā dhruvā smṛtā .. ]
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥ १०४॥
sūtradhāraḥ paṭhettatra madhyamaṃ svaramāśritaḥ . nāndīṃ padairdvādaśabhiraṣṭabhirvā'pyalaṅkṛtām .. 104..
नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ १०५॥
namo'stu sarvadevebhyo dvijātibhyaḥ śubhaṃ tathā . jitaṃ somena vai rājñā śivaṃ gobrāhmaṇāya ca .. 105..
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ १०६॥
brahmottaraṃ tathaivāstu hatā brahmadviṣastathā . praśāstvimāṃ mahārājaḥ pṛthivīṃ ca sasāgarām .. 106..
राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥ १०७॥
rāṣṭraṃ pravardhatāṃ caiva raṅgasyāśā samṛddhyatu . prekṣākarturmahāndharmo bhavatu brahmabhāṣitaḥ .. 107..
काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ १०८॥
kāvyakarturyaśaścāstu dharmaścāpi pravardhatām . ijyayā cānayā nityaṃ prīyantāṃ devatā iti .. 108..
नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ १०९॥
nāndīpadāntareṣveṣu hyevamāryeti nityaśaḥ . vadetāṃ samyaguktābhirvāgbhistau pāripārśvikau .. 109..
एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥ ११०॥
evaṃ nāndī vidhātavyā yathāvallakṣaṇānvitā . tataśśuṣkāvakṛṣṭā syājjarjaraślokadarśikā .. 110..
नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ १११॥
navaṃ gurvākṣarāṇyādau ṣaḍlaghūni gurutrayam . śuṣkāvakṛṣṭā tu bhavetkalā hyaṣṭau pramāṇataḥ .. 111..
दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ ११२॥
digle digle digle digle jambukapalitakate tecām . kṛtvā śuṣkāvakṛṣṭāṃ tu yathāvaddvijasattamāḥ .. 112..
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ ११३॥
tataḥ ślokaṃ paṭhedekaṃ gambhīrasvarasaṃyutam . devastotraṃ puraskṛtya yasya pūjā pravartate .. 113..
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ ११४॥
rājño vā yatra bhaktiḥ syādatha vā brahmaṇasstavam . gaditvā jarjaraślokaṃ raṅgadvāre ca yatsmṛtam .. 114..
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥ ११५॥
paṭhedanyaṃ punaḥ ślokaṃ jarjarasya vināśanam . jarjaraṃ namayitvā tu tataścārīṃ prayojayet .. 115..
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥ ११६॥
pāripārśvikayośca syātpaścimenāpasarpaṇam . aṅkitā cātra kartavyā dhruvā madhyalayānvitā .. 116..
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥ ११७॥
caturbhiḥ sannipātaiśca caturaśrā pramāṇataḥ . ādyamantyaṃ caturthaṃ ca pañcamaṃ ca tathā guru .. 117..
यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ ११८॥
yasyāṃ hrasvāni śeṣāṇi sā jñeyā tvaṅkitā budhaiḥ . asyāḥ prayogaṃ vakṣyāmi yathā pūrvaṃ maheśvaraḥ .. 118..
सहोमया क्रीडितवान्नानाभावविचेष्टतैः । कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ ११९॥
sahomayā krīḍitavānnānābhāvaviceṣṭataiḥ . kṛtvā'vahitthaṃ sthānaṃ tu vāmaṃ cādhomukhaṃ bhujam .. 119..
चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ १२०॥
caturaśramuraḥ kāryamañcitaścāpi mastakaḥ . nābhipradeśe vinyasya jarjaraṃ ca tulādhṛtam .. 120..
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥ १२१॥
vāmapallavahastena pādaistālāntarotthitaiḥ . gacchetpañcapadīṃ caiva savilāsāṅgaceṣṭitaiḥ .. 121..
वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ १२२॥
vāmavedhastu kartavyo vikṣepo dakṣiṇasya ca . śṛṅgārarasasaṃyuktāṃ paṭhedāryāṃ vicakṣaṇaḥ .. 122..
चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥ १२३॥
cārīślokaṃ gaditvā tu kṛtvā ca parivartanam . taireva ca padaḥ kāryaṃ paścimenāpasarpaṇam .. 123..
पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ १२४॥
pāripārśvikahaste tu nyasya jarjaramuttamam . mahācārīṃ tataścaiva prayuñjīta yathāvidhi .. 124..
चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥ १२५॥
caturaśrā dhruvā tatra tathā drutalayānvitā . caturbhissannipātaiśca kalā hyaṣṭau pramāṇataḥ .. 125..
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥ १२६॥
ādyaṃ caturthamantyaṃ ca saptamaṃ daśamaṃ guru . laghu śeṣaṃ dhruvāpāde caturviṃśatike bhavet .. 126..
पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य ॥ १२७॥
pādatalāhatipātitaśailaṃ kṣobhitabhūtasamagrasamudram . tāṇḍavanṛtyamidaṃ pralayānte pātu jagatsukhadāyi harasya .. 127..
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ १२८॥
bhāṇḍonmukhena kartavyaṃ pādavikṣepaṇaṃ tataḥ . sūcīṃ kṛtvā punaḥ kuryādvikṣepaparivartanam .. 128..
अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥ १२९॥
atikrāntaiḥ salalitaiḥ pādairdrutalayānvitaiḥ . tritālāntaramutkṣepairgacchetpañcapadīṃ tataḥ .. 129..
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ १३०॥
tatrāpi vāmavedhastu vikṣepo dakṣiṇasya ca . taireva ca padaiḥ kāryaṃ prāṅmukhenāpasarpaṇam .. 130..
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ १३१॥
punaḥ padāni trīṇyeva gacchetprāṅmukha eva tu . tataśca vāmavedhaḥ syādvikṣepo dakṣiṇasya ca .. 131..
ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ १३२॥
tato raudrarasaṃ ślokaṃ pādasaṃharaṇaṃ paṭhet . tasyānte tu tripadyātha vyāharetpāripārśvikau .. 132..
तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥ १३३॥
tayorāgamane kāryaṃ gānaṃ narkuṭakaṃ budhaiḥ . tathā ca bhāratībhede trigataṃ samprayojayet .. 133..
विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥ १३४॥
vidūṣakastvekapadāṃ sutradhārasmitāvahām . asambaddhakathāprāyāṃ kuryātkathanikā tataḥ .. 134..
(वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥
(vitaṇḍāṃ gaṇḍasaṃyuktāṃ tālikāñca prayojayet . kastiṣṭhati jitaṃ kenetyādikāvyaprarūpiṇīm ..
पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ॥)
pāripārśvakasañjalpo vidūṣakavirūpitaḥ . sthāpitaḥ sūtradhāreṇa trigataṃ samprayujyate ..)
प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ १३५॥
prarocanā ca kartavyā siddhenopanimatraṇam . raṅgasiddhau punaḥ kāryaṃ kāvyavastunirūpaṇam .. 135..
सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ १३६॥
sarvameva vidhiṃ kṛtvā sūcīvedhakṛtairatha . pādairanāviddhagatairniṣkrāmeyuḥ samaṃ trayaḥ .. 136..
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥ १३७॥
evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi . caturaśro dvijaśreṣṭhāstryaśraṃ cāpi nibodhata .. 137..
अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ १३८॥
ayameva prayogaḥ syādaṅgānyetāni caiva hi . tālapramāṇaṃ saṃkṣiptaṃ kevalaṃ tu viśeṣakṛt .. 138..
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ १३९॥
śamyā tu dvikalā kāryā tālo hyekakalastathā . punaścaikakalā śamyā sannipātaḥ kalādvayam .. 139..
अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः ॥ १४०॥
anena hi pramāṇena kalātālalayānvitaḥ . kartavyaḥ pūrvaraṅgastu tryaśro'pyutthāpanādikaḥ .. 140..
आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ १४१॥
ādyaṃ caturthaṃ daśamamaṣṭamaṃ naidhanaṃ guru . yasyāstu jāgate pāde sā tryaśrotthāpinī dhruvā .. 141..
वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥ १४२॥
vādyaṃ gatipracāraśca dhruvā tālastathaiva ca . saṃkṣiptānyeva kāryāṇi tryaśre nṛttapravedibhiḥ .. 142..
वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥ १४३॥
vādyagītapramāṇena kuryādaṅgaviceṣṭitam . vistīrṇamatha saṃkṣiptaṃ dvipramāṇavinirmitam .. 143..
हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥ १४४॥
hastapādapracārastu dvikalaḥ parikīrtitaḥ . caturaśre parikrānte pātāḥ syuḥ ṣoḍaśaiva tu .. 144..
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ १४५॥
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ . etatpramāṇaṃ vijñeyamubhayoḥ pūrvaraṅgayoḥ .. 145..
केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ १४६॥
kevalaṃ parivarte tu gamane tripadī bhavet . digvandane pañcapadī caturaśre vidhīyate .. 146..
आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ १४७॥
ācāryabuddhyā kartavyastryaśrastālapramāṇataḥ . tasmānna lakṣaṇaṃ proktaṃ punaruktaṃ bhavedyataḥ .. 147..
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ १४८॥
evameṣa prayoktavyaḥ pūrvaraṅgo dvijottamāḥ . tryaśraśca caturaśraśca śuddho bhāratyupāśrayaḥ .. 148..
एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ १४९॥
evaṃ tāvadayaṃ śuddhaḥ pūrvaraṅgo mayoditaḥ . citratvamasya vakṣyāmi yathākāryaṃ prayoktṛbhiḥ .. 149..
वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥ १५०॥
vṛtte hyutthāpane viprāḥ kṛte ca parivartane . caturthakāradattābhiḥ sumanobhiralaṅkṛte .. 150..
उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥ १५१॥
udāttairgānairgandharvaiḥ parigīte pramāṇataḥ . devadundubhayaścaiva ninadaiyurbhṛśaṃ yataḥ .. 151..
सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ १५२॥
siddhāḥ kusumamālābhirvikireyuḥ samantataḥ . aṅgahāraiśca devyastā upanṛtyeyuragrataḥ .. 152..
यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥ १५३॥
yastāṇḍavavidhiḥ prokto nṛte piṇḍīsamanvitaḥ . recakairaṅgahāraiśca nyāsopanyāsasaṃyutaḥ .. 153..
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ १५४॥
nāndīpadānāṃ madhye tu ekaikasminpṛthakpṛthak . prayoktavyo budhaiḥ samyakcitrabhāvamabhīpsubhiḥ .. 154..
एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ १५५॥
evaṃ kṛtvā yathānyāyaṃ śuddhaṃ citraṃ prayatnataḥ . tataḥparaṃ prayuñjīta nāṭakaṃ lakṣaṇānvitam .. 155..
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ १५६॥
tatastvantarhitāḥ sarvā bhaveyurdivyayoṣitaḥ . niṣkrāntāsu ca sarvāsu nartakīṣu tataḥ param .. 156..
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ १५७॥
pūrvaraṅge prayoktavyamaṅgajātamataḥparam . evaṃ śuddho bhaveccitraḥ pūrvaraṅgo vidhānataḥ .. 157..
कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥ १५८॥
kāryo nātiprasaṅgo'tra nṛtāgītavidhiṃ prati . gīte vādye ca nṛtte ca pravṛtte'tiprasaṅgataḥ .. 158..
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ १५९॥
khedo bhavetprayoktṝṇāṃ prekṣakāṇāṃ tathaiva ca . khinnānāṃ rasabhāveṣu spaṣṭatā nopajāyate .. 159..
ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ॥ लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥
tataḥ śeṣaprayogastu na rāgajanako bhavet . (lakṣanena vinā bāhyalakṣaṇādvistṛtaṃ bhavet .. lokaśāstrānusāreṇa tasmānnāṭyaṃ pravartate .. ) tryaśraṃ vā caturaśraṃ vā śuddhaṃ citramathāpi vā .. 160..
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते ॥ ) त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ १६०॥
lokaśāstrānusāreṇa tasmānnāṭyaṃ pravartate .. ) tryaśraṃ vā caturaśraṃ vā śuddhaṃ citramathāpi vā .. 160..
प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः । (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥
prayujya raṅgānniṣkrāmetsūtradhārḥ sahānugaḥ . (devapārthivaraṅgānāmāśīrvacanasaṃyutām ..
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥
kavernāmaguṇopetāṃ vastūpakṣeparūpikām . laghuvarṇapadopetāṃ vṛttaiścitrairalaṅkṛtām ..
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ॥
antaryavanikāsaṃsthaḥ kuryādāśrāvaṇāṃ tataḥ . āśrāvanāvasāne ca nāndīṃ kṛtvā sa sūtradhṛt ..
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः ।) प्रयुज्य विधिनैवं तु पूर्वरऽगं प्रयोगतः ॥ १६१॥
punaḥ praviśya raṅgaṃ tu kuryātprastāvanāṃ tataḥ .) prayujya vidhinaivaṃ tu pūrvara'gaṃ prayogataḥ .. 161..
स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम् ॥ १६२॥
sthāpakaḥ praviśettatra sūtradhāraguṇākṛtiḥ . sthānaṃ tu vaiṣṇavaṃ kṛtvā sauṣṭhavāñgapuraskṛtam .. 162..
प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्स्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा ॥ १६३॥
praviśya raṅgaṃ taireva sūtradhārapadairvrajet . śthāpaksya praveśe tu kartavya'rthānugā dhruvā .. 163..
त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥ १६४॥
tryaśrā vā caturaśrā vā tajjñairmadhyalayānvitā . kuryādanantaraṃ cārīṃ devarahmaṇaśaṃsinīm .. 164..
सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥ १६५॥
suvākyamadhuraiḥ ślokernānābhasavarasānvitaiḥ . prasādya raṅgaṃ vidhivatkavernāma ca kīrtayet .. 165..
प्रस्तवा। ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥१६६॥
prastavā. tataḥ kuryātkāvyaprakhyāpanāśrayām . uddhātyakādi kartavyaṃ kāvyopakṣepaṇāśryam ..166..
दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा ॥ १६७॥
divye divyāśrayo bhūtvā mānuṣe mānuṣāśrayaḥ . divyamānuṣasaṃyoge divyo vā mānuṣo'pi vā .. 167..
मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥१६८॥
mukhabījānusadṝśaṃ nānāmārgasamāśrayam . āvidhairupakṣepaiḥ kāvyopakṣepaṇaṃ bhavet ..168..
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ १६९॥
prastāvyaivaṃ tu niṣkrāmetkāvyaprastāvakastataḥ . evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi .. 169..
य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ १७०॥
ya imaṃ pūrvaraṅgaṃ tu vidhinaiva prayojayet . nāśubhaṃ prāpnuyātkiñcitsvargalokaṃ ca gacchati .. 170..
यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥ १७१॥
yaścāpi vidhimutsṛjya yatheṣṭaṃ samprayojayet . prāpnotyapacayaṃ ghoraṃ tiryaggyoniṃ ca gacchati .. 171..
न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ १७२॥
na tathā'gniḥ pradahati prabhañjanasamīrataḥ . yathā hyaprayogastu prayukto dahati kṣaṇāt .. 172..
इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः । कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ १७३॥
ityevāvantipāñcāladākṣiṇātyauḍhramāgadhaiḥ . kartavya pūrvaraṅgastu dvipramāṇavinirmitaḥ .. 173..
एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ १७४॥
eṣa vaḥ kathito viprāḥ pūrvaraṅgāśrito vidhiḥ . bhūyaḥ kiṃ kathyatāṃ samyaṅnāṭyavedavidhiṃ prati .. 174..
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः ।
iti bhāratīye nāṭyaśāstre pūrvaraṅgaprayogo nāma pañcamo'dhyāyaḥ .
अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः ।
atha pūrvaraṅgavidhāno nāma pañcamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In