| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १५ ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ पञ्चदशोऽध्यायः
अथ पञ्चदशः अध्यायः
atha pañcadaśaḥ adhyāyaḥ
छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १॥
छन्दांसि एवम् हि यानि इह मया उक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्ये अस्मिन् प्रयोज्यानि निबोधत ॥ १॥
chandāṃsi evam hi yāni iha mayā uktāni dvijottamāḥ . vṛttāni teṣu nāṭye asmin prayojyāni nibodhata .. 1..
आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् । सा स्यात्तनुमध्या गायत्रसमुत्था ॥ २॥
आद्ये पुनर् अन्त्ये द्वे द्वे गुरुणी चेद् । सा स्यात् तनु-मध्या गायत्र-समुत्था ॥ २॥
ādye punar antye dve dve guruṇī ced . sā syāt tanu-madhyā gāyatra-samutthā .. 2..
यथा - सन्त्यक्तविभूषा भ्रष्टाञ्जननेत्रा । हस्तार्पितगण्डा किं ? त्वं तनुमध्या ॥ ३॥
यथा -सन्त्यक्त-विभूषा भ्रष्ट-अञ्जन-नेत्रा । हस्त-अर्पित-गण्डा किम् ? त्वम् तनु-मध्या ॥ ३॥
yathā -santyakta-vibhūṣā bhraṣṭa-añjana-netrā . hasta-arpita-gaṇḍā kim ? tvam tanu-madhyā .. 3..
लघुगण आदौ भवति चतुष्कः । गुरुयुगमन्त्ये मकरकशीर्षा ॥ ४॥
लघुगण-आदौ भवति चतुष्कः । गुरु-युगम् अन्त्ये मकरक-शीर्षा ॥ ४॥
laghugaṇa-ādau bhavati catuṣkaḥ . guru-yugam antye makaraka-śīrṣā .. 4..
यथा - स्वयमुपयान्तं भजसि न कान्तम् । भयकरि किं ? त्वं मकरकशीर्षा ॥ ५॥
यथा स्वयम् उपयान्तम् भजसि न कान्तम् । भय-करि किम् ? त्वम् मकरक-शीर्षा ॥ ५॥
yathā svayam upayāntam bhajasi na kāntam . bhaya-kari kim ? tvam makaraka-śīrṣā .. 5..
एकमात्रं षट्के स्याद् द्वितीयं पादे । ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ ६॥
एक-मात्रम् षट्के स्यात् द्वितीयम् पादे । ख्यात-रूपा वृत्ते सा मालिनी नाम्ना ॥ ६॥
eka-mātram ṣaṭke syāt dvitīyam pāde . khyāta-rūpā vṛtte sā mālinī nāmnā .. 6..
षडक्षरकृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ७॥
षष्-अक्षर-कृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युः मालिनी सा मता यथा ॥ ७॥
ṣaṣ-akṣara-kṛte pāde laghu yatra dvitīyakam . śeṣāṇi tu gurūṇi syuḥ mālinī sā matā yathā .. 7..
स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः । व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ ८॥
स्नान-गन्ध-आधिक्यैः वस्त्र-भूषा-योगैः । व्यक्तम् एव असौ त्वम् मालिनी प्रख्याता ॥ ८॥
snāna-gandha-ādhikyaiḥ vastra-bhūṣā-yogaiḥ . vyaktam eva asau tvam mālinī prakhyātā .. 8..
द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ ९॥
द्वितीयम् पञ्चमम् च एव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युः मालती नाम सा यथा ॥ ९॥
dvitīyam pañcamam ca eva laghu yatra pratiṣṭhitam . śeṣāṇi ca gurūṇi syuḥ mālatī nāma sā yathā .. 9..
शोभते बद्धया षट्पदाविद्धया । मालतीमालया मानिनी लीलया ॥ १०॥
शोभते बद्धया षट्पद-आविद्धया । मालती-मालया मानिनी लीलया ॥ १०॥
śobhate baddhayā ṣaṭpada-āviddhayā . mālatī-mālayā māninī līlayā .. 10..
द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ ११॥
द्वितीयम् च चतुर्थम् च पञ्चमम् च यदा लघु । यस्याः सप्त-अक्षरे पादे ज्ञेया सा तु उद्धता यथा ॥ ११॥
dvitīyam ca caturtham ca pañcamam ca yadā laghu . yasyāḥ sapta-akṣare pāde jñeyā sā tu uddhatā yathā .. 11..
सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः । उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ १२॥
सौ त्रिकौ यदि पादे हि अन्तिमः च गकारः । उष्णिह्-उत्थित-पादा उद्धता खलु नाम्ना ॥ १२॥
sau trikau yadi pāde hi antimaḥ ca gakāraḥ . uṣṇih-utthita-pādā uddhatā khalu nāmnā .. 12..
दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् । शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ १३॥
दन्तकृन्त-कृत-अस्त्रम् व्याकुल-अलक-शोभम् । शंसति इव तव आस्यम् निर्दयम् रत-युद्धम् ॥ १३॥
dantakṛnta-kṛta-astram vyākula-alaka-śobham . śaṃsati iva tava āsyam nirdayam rata-yuddham .. 13..
आदौ द्वे निधने चैव गुरुणी यत्र वै सदा । पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४॥
आदौ द्वे निधने च एव गुरुणी यत्र वै सदा । पादे सप्त-अक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४॥
ādau dve nidhane ca eva guruṇī yatra vai sadā . pāde sapta-akṣare jñeyā nāmnā bhramaramālikā .. 14..
पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ १५॥
पादे पादे निविष्टौ सम्यक् विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमर-माला ॥ १५॥
pāde pāde niviṣṭau samyak viracitau tsau . antye yadi gakāraḥ sā tu bhramara-mālā .. 15..
यथा - नानाकुसुमचित्रे प्राप्ते सुरभिमासे । एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ १६॥
यथा -कुसुम-चित्रे प्राप्ते सुरभि-मासे । एषा भ्रमति मत्ता कान्ते भ्रमर-माला ॥ १६॥
yathā -kusuma-citre prāpte surabhi-māse . eṣā bhramati mattā kānte bhramara-mālā .. 16..
आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ १७॥
आद्यम् तृतीयम् अन्त्यम् च पञ्चमम् सप्तमम् तथा । गुरूणि अष्ट-अक्षरे पादे सिंहलेखा इति सा यथा ॥ १७॥
ādyam tṛtīyam antyam ca pañcamam saptamam tathā . gurūṇi aṣṭa-akṣare pāde siṃhalekhā iti sā yathā .. 17..
जातु यस्य गौ न , पादे संस्थितः समस्वरूपे । तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ १८॥
जातु यस्य गौ न , पादे संस्थितः सम-स्वरूपे । ताम् अनुष्टुभ्-आश्रय-स्थाम् वा आवदन्ति सिंहलेखाम् ॥ १८॥
jātu yasya gau na , pāde saṃsthitaḥ sama-svarūpe . tām anuṣṭubh-āśraya-sthām vā āvadanti siṃhalekhām .. 18..
यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि । तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ १९॥
यत् त्वया हि अनेक-भावैः चेष्टितम् रहः सु गात्रि । तत् मनः मम प्रविष्टम् वृत्तम् अद्य सिंहलेखम् ॥ १९॥
yat tvayā hi aneka-bhāvaiḥ ceṣṭitam rahaḥ su gātri . tat manaḥ mama praviṣṭam vṛttam adya siṃhalekham .. 19..
चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ २०॥
चतुर्थम् च द्वितीयम् च षष्ठम् अष्टमम् एव च । गुरूणि अष्ट-अक्षरे पादे यत्र तत् मत्त-चेष्टितम् ॥ २०॥
caturtham ca dvitīyam ca ṣaṣṭham aṣṭamam eva ca . gurūṇi aṣṭa-akṣare pāde yatra tat matta-ceṣṭitam .. 20..
यदा तु जात्परौ रलौ गकार एव च स्थितः । अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ २१॥
यदा तु जात् परौ र-लौ गकारः एव च स्थितः । अनुष्टुभ्-उद्भवम् तदा वदन्ति मत्त-चेष्टितम् ॥ २१॥
yadā tu jāt parau ra-lau gakāraḥ eva ca sthitaḥ . anuṣṭubh-udbhavam tadā vadanti matta-ceṣṭitam .. 21..
यथा - चरावघूर्णितेक्षणं विलम्बिताकुलालकम् । असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ २२॥
यथा चर-अवघूर्णित-ईक्षणम् विलम्बित-आकुल-अलकम् । असंस्थितैः पदैः प्रिया करोति मत्त-चेष्टितम् ॥ २२॥
yathā cara-avaghūrṇita-īkṣaṇam vilambita-ākula-alakam . asaṃsthitaiḥ padaiḥ priyā karoti matta-ceṣṭitam .. 22..
अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ २३॥
अष्ट-अक्षर-कृते पादे सर्वाणि एव भवन्ति हि । गुरूणि यस्मिन् सा नाम्ना विद्युन्माला इति कीर्तिता ॥ २३॥
aṣṭa-akṣara-kṛte pāde sarvāṇi eva bhavanti hi . gurūṇi yasmin sā nāmnā vidyunmālā iti kīrtitā .. 23..
मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ २४॥
मौ गौ च अन्त्यौ यस्याः पादे पादस्य अन्ते विच्छेदः च । सा च अनुष्टुभ्-छन्दसि उक्ता नित्यम् सद्भिः विद्युन्माला ॥ २४॥
mau gau ca antyau yasyāḥ pāde pādasya ante vicchedaḥ ca . sā ca anuṣṭubh-chandasi uktā nityam sadbhiḥ vidyunmālā .. 24..
साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि । आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ २५॥
स अम्भः-भारैः आनानद्भिः श्याम-अम्भोदैः व्याप्ते व्योम्नि । आदित्य-अंशु-स्पर्धिनी एषा दिक्षु भ्रान्ता विद्युत्-माला ॥ २५॥
sa ambhaḥ-bhāraiḥ ānānadbhiḥ śyāma-ambhodaiḥ vyāpte vyomni . āditya-aṃśu-spardhinī eṣā dikṣu bhrāntā vidyut-mālā .. 25..
पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ २६॥
पञ्चमम् सप्तमम् च अन्त्यम् गुरु पादे अष्टके तथा । छन्दः-ज्ञैः ज्ञेयम् एतत् तु वृत्तम् चित्त-विलासितम् ॥ २६॥
pañcamam saptamam ca antyam guru pāde aṣṭake tathā . chandaḥ-jñaiḥ jñeyam etat tu vṛttam citta-vilāsitam .. 26..
स्मितवशविप्रकाशैर्दशनपदैरमीभिः । वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ २७॥
स्मित-वश-विप्रकाशैः दशन-पदैः अमीभिः । वर-तनु पूर्ण-चन्द्रम् तव मुखम् आवृणोति ॥ २७॥
smita-vaśa-viprakāśaiḥ daśana-padaiḥ amībhiḥ . vara-tanu pūrṇa-candram tava mukham āvṛṇoti .. 27..
नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८॥
नव-अक्षर-कृते पादे त्रीणि स्युः नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८॥
nava-akṣara-kṛte pāde trīṇi syuḥ naidhanāni ca . gurūṇi yasyāḥ sā nāmnā jñeyā madhukarī yathā .. 28..
षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ २९॥
षड् इह यदि लघूनि स्युः निधन-गतम् अकारः चेद् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ २९॥
ṣaḍ iha yadi laghūni syuḥ nidhana-gatam akāraḥ ced . budhajanabṛhatīsaṃsthā bhavati madhukarī nāmnā .. 29..
कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् । वनमतिशयगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ ३०॥
कुसुमितम् अभिपश्यन्ती विविध-तरु-गणैः छन्नम् । वनम् अतिशय-गन्ध-आढ्यम् भ्रमति मधुकरी हृष्टा ॥ ३०॥
kusumitam abhipaśyantī vividha-taru-gaṇaiḥ channam . vanam atiśaya-gandha-āḍhyam bhramati madhukarī hṛṣṭā .. 30..
दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ ३१॥
दश-अक्षर-कृते पादे त्रीणि आदौ त्रीणि न ऐधने । यस्याः गुरूणि सा ज्ञेया पङ्क्तिः उत्पल-मालिका ॥ ३१॥
daśa-akṣara-kṛte pāde trīṇi ādau trīṇi na aidhane . yasyāḥ gurūṇi sā jñeyā paṅktiḥ utpala-mālikā .. 31..
त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ ३२॥
त्रीणि आदौ यदि हि गुरूणि स्युः चत्वारः यदि लघवः मध्ये । पङ्क्तौ अन्त-गतम् अकारः स्यात् विज्ञेया कुवलयमाला-आख्या ॥ ३२॥
trīṇi ādau yadi hi gurūṇi syuḥ catvāraḥ yadi laghavaḥ madhye . paṅktau anta-gatam akāraḥ syāt vijñeyā kuvalayamālā-ākhyā .. 32..
यथा - अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये । शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३३॥
यथा -ते शिरसि तदा कान्ते वैडूर्य-स्फटिक-सुवर्ण-आढ्ये । शोभाम् स्वाम् न वहति ताम् बद्धा सु श्लिष्टा कुवलय-माला इयम् ॥ ३३॥
yathā -te śirasi tadā kānte vaiḍūrya-sphaṭika-suvarṇa-āḍhye . śobhām svām na vahati tām baddhā su śliṣṭā kuvalaya-mālā iyam .. 33..
द्वितीयं च चतुर्थं च षष्टमष्टममेव च । ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४॥
द्वितीयम् च चतुर्थम् च षष्टम् अष्टमम् एव च । ह्रस्वम् दश-अक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४॥
dvitīyam ca caturtham ca ṣaṣṭam aṣṭamam eva ca . hrasvam daśa-akṣare pāde yatra sā śikhisāriṇī .. 34..
जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ ३५॥
जौ त्रिकौ हि पाद-गौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्ति-योग-सु प्रतिष्ठित-अङ्गी सा मयूरसारिणी इति नाम्ना ॥ ३५॥
jau trikau hi pāda-gau tu yasya gau ca saṃśritau tathā samau stau . paṅkti-yoga-su pratiṣṭhita-aṅgī sā mayūrasāriṇī iti nāmnā .. 35..
यथा - नैव तेऽस्ति सङ्गमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥ ३६॥
यथा न एव ते अस्ति सङ्गमः मनुष्यैः ना अपि काम-भोग-चिह्नम् अन्यत् । गर्भिणी इव दृश्यसे हि अनार्ये किम् मयूर-सारिणी त्वम् एवम् ॥ ३६॥
yathā na eva te asti saṅgamaḥ manuṣyaiḥ nā api kāma-bhoga-cihnam anyat . garbhiṇī iva dṛśyase hi anārye kim mayūra-sāriṇī tvam evam .. 36..
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ ३७॥
आद्यम् चतुर्थम् अन्त्यम् च सप्तमम् दशमम् तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युः दोधकम् तु तत् ॥ ३७॥
ādyam caturtham antyam ca saptamam daśamam tathā . gurūṇi traiṣṭubhe pāde yatra syuḥ dodhakam tu tat .. 37..
भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् । त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ ३८॥
भौ तु भ-गौ इति यस्य गणाः स्युः स्यात् च यतिः त्रि-चतुर्भिः अथ अस्मिन् । त्रैष्टुभम् एव हि तत् खलु नाम्ना दोधक-वृत्तम् इति प्रवदन्ति ॥ ३८॥
bhau tu bha-gau iti yasya gaṇāḥ syuḥ syāt ca yatiḥ tri-caturbhiḥ atha asmin . traiṣṭubham eva hi tat khalu nāmnā dodhaka-vṛttam iti pravadanti .. 38..
यथा - प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् । पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ ३९॥
यथा --अ प्रपद-प्रविचायम् मत्त-विघूर्णित-गात्र-विलासम् । पश्य विलासिनि कुञ्जरम् एतम् दोधक-वृत्त-मयम् प्रकरोति ॥ ३९॥
yathā --a prapada-pravicāyam matta-vighūrṇita-gātra-vilāsam . paśya vilāsini kuñjaram etam dodhaka-vṛtta-mayam prakaroti .. 39..
आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा । गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ ४०॥
आदौ द्वौ पञ्चमम् च एव अपि अष्टमम् नैधनम् तथा । गुरुणि एकादशे पादे यत्र तत् मोटकम् यथा ॥ ४०॥
ādau dvau pañcamam ca eva api aṣṭamam naidhanam tathā . guruṇi ekādaśe pāde yatra tat moṭakam yathā .. 40..
एषोऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ ४१॥
एषः अम्बुद-तुल्य-निस्वन-रवः क्षीवः स्खलमान-विलम्ब-गतिः । श्रुत्वा घन-गर्जितम् अद्रि-तटे वृक्षान् प्रतिमोटयति द्विरदः ॥ ४१॥
eṣaḥ ambuda-tulya-nisvana-ravaḥ kṣīvaḥ skhalamāna-vilamba-gatiḥ . śrutvā ghana-garjitam adri-taṭe vṛkṣān pratimoṭayati dviradaḥ .. 41..
नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु । सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ ४३॥
नवमम् सप्तमम् षष्ठम् तृतीयम् च भवेत् लघु । सर्वासु अवस्थासु च कामतन्त्रे योग्या असि किम् वा बहुना इन्द्र-वज्रा ॥ ४३॥
navamam saptamam ṣaṣṭham tṛtīyam ca bhavet laghu . sarvāsu avasthāsu ca kāmatantre yogyā asi kim vā bahunā indra-vajrā .. 43..
एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ ४४॥
एभिः एव तु संयुक्ता लघुभिः त्रैष्टुभी यदा । उपेन्द्र-वज्राः विज्ञेयाः लघु-आदौ इह केवलम् ॥ ४४॥
ebhiḥ eva tu saṃyuktā laghubhiḥ traiṣṭubhī yadā . upendra-vajrāḥ vijñeyāḥ laghu-ādau iha kevalam .. 44..
प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः । अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ ४५॥
प्रिये श्रिया वर्ण-विशेषणेन स्मितेन कान्त्या सुकुमार-भावैः । अमी गुणाः रूप-गुण-अनुरूपाः भवन्ति ते किम् त्वम् उपेन्द्र-वज्रा ॥ ४५॥
priye śriyā varṇa-viśeṣaṇena smitena kāntyā sukumāra-bhāvaiḥ . amī guṇāḥ rūpa-guṇa-anurūpāḥ bhavanti te kim tvam upendra-vajrā .. 45..
आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ४६॥
आद्यम् तृतीयम् अन्त्यम् च सप्तमम् नवमम् तथा । गुरूणि एकादशे पादे यत्र सा तु रथ-उद्धता ॥ ४६॥
ādyam tṛtīyam antyam ca saptamam navamam tathā . gurūṇi ekādaśe pāde yatra sā tu ratha-uddhatā .. 46..
किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् । यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ ४७॥
किम् त्वया सु भट दूर-वर्जितम् न आत्मनः न सुहृदाम् प्रियम् कृतम् । यत् पलायन-परायणस्य ते याति धूलिः अधुना रथ-उद्धता ॥ ४७॥
kim tvayā su bhaṭa dūra-varjitam na ātmanaḥ na suhṛdām priyam kṛtam . yat palāyana-parāyaṇasya te yāti dhūliḥ adhunā ratha-uddhatā .. 47..
यथा - किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । यद् गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ ४८॥
यथा किम् त्वया कुमति-सङ्गया सदा न आज्ञया इव सुहृदाम् प्रियम् कृतम् । यत् गृहात् वचन-रोष-कम्पिता याति तूर्णम् अबला रथ-उद्धता ॥ ४८॥
yathā kim tvayā kumati-saṅgayā sadā na ājñayā iva suhṛdām priyam kṛtam . yat gṛhāt vacana-roṣa-kampitā yāti tūrṇam abalā ratha-uddhatā .. 48..
आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु । यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९॥
आद्यम् तृतीयम् अन्त्यम् च सप्तमम् दशमम् गुरु । यस्य अस्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९॥
ādyam tṛtīyam antyam ca saptamam daśamam guru . yasya astu traiṣṭubhe pāde vijñeyā svāgatā hi sā .. 49..
यथा - अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ ५०॥
यथा अद्य मे सफलम् आयत-नेत्रे जीवितम् मदन-संश्रय-भावम् । आगता असि भवनम् मम यस्मात् स्वागतम् तव वर-ऊरु निषीद ॥ ५०॥
yathā adya me saphalam āyata-netre jīvitam madana-saṃśraya-bhāvam . āgatā asi bhavanam mama yasmāt svāgatam tava vara-ūru niṣīda .. 50..
षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि । गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१॥
षष्ठम् च नवमम् च एव लघुनी त्रैष्टुभे यदि । गुरूणि अन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१॥
ṣaṣṭham ca navamam ca eva laghunī traiṣṭubhe yadi . gurūṇi anyāni pāde tu sā jñeyā śālinī yathā .. 51..
दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ ५२॥
दुःशीलम् वा निर्गुणम् वा अपरम् वा लोके धैर्यात् अप्रियम् न ब्रवीषि । तस्मात् शीलम् साधु-हेतोः सु वृत्तम् माधुर्यात् स्यात् सर्वथा शालिनी त्वम् ॥ ५२॥
duḥśīlam vā nirguṇam vā aparam vā loke dhairyāt apriyam na bravīṣi . tasmāt śīlam sādhu-hetoḥ su vṛttam mādhuryāt syāt sarvathā śālinī tvam .. 52..
तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ ५३॥
तृतीयम् च एव षष्ठम् च नवमम् द्वादशम् तथा । गुरूणि जागते पादे यत्र तत् तोटकम् भवेत् ॥ ५३॥
tṛtīyam ca eva ṣaṣṭham ca navamam dvādaśam tathā . gurūṇi jāgate pāde yatra tat toṭakam bhavet .. 53..
यदि सोऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ ५४॥
यदि सः अत्र भवेत् तु समुद्र-समः त्रिषु च अपि तथा नियमेन यतिः । सततम् जगती-विहितम् हि ततम् गदितम् खलु तोटक-वृत्तम् इदम् ॥ ५४॥
yadi saḥ atra bhavet tu samudra-samaḥ triṣu ca api tathā niyamena yatiḥ . satatam jagatī-vihitam hi tatam gaditam khalu toṭaka-vṛttam idam .. 54..
यथा - किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् । स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ ५५॥
यथा किम् इदम् कपट-आश्रय-दुर्विषहम् बहु-शाठ्य-मथ उल्बण-रूक्ष-कथम् । स्व-जन-प्रिय-सत्-जन-भेद-करम् ननु तोटक-वृत्तम् इदम् कुरुषे ॥ ५५॥
yathā kim idam kapaṭa-āśraya-durviṣaham bahu-śāṭhya-matha ulbaṇa-rūkṣa-katham . sva-jana-priya-sat-jana-bheda-karam nanu toṭaka-vṛttam idam kuruṣe .. 55..
आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ ५६॥
आद्यम् तृतीयम् अन्त्यम् च पञ्चमम् षष्ठम् एव च । तथा उपान्त्यम् जगत्याम् च गुरु चेद् कुमुदप्रभा ॥ ५६॥
ādyam tṛtīyam antyam ca pañcamam ṣaṣṭham eva ca . tathā upāntyam jagatyām ca guru ced kumudaprabhā .. 56..
यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ ५७॥
यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिः एव वर्णैः यदि च यतिः स्यात् । नित्य-संनिविष्टा जगति-विधाने नामतः प्रसिद्धा कुमुद-निभा सा ॥ ५७॥
yau trikau tathā nyau yadi khalu pāde ṣaḍbhiḥ eva varṇaiḥ yadi ca yatiḥ syāt . nitya-saṃniviṣṭā jagati-vidhāne nāmataḥ prasiddhā kumuda-nibhā sā .. 57..
यथा - मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ ५८॥
यथा -विद्धा स प्रविकसित । निन्द्यम् अद्य किम् त्वम् विगलित-शोभा चन्द्र-पाद-युक्ता कुमुदवती च ॥ ५८॥
yathā -viddhā sa pravikasita . nindyam adya kim tvam vigalita-śobhā candra-pāda-yuktā kumudavatī ca .. 58..
मतान्तरे - यदि खलु पादे न्यौ त्रिकौ यथा यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९॥
मत-अन्तरे -खलु पादे न्यौ त्रिकौ यथा यौ यतिः अपि वर्णैः षड्भिः एव चेद् स्यात् । जगति-विधाने नित्य-संनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९॥
mata-antare -khalu pāde nyau trikau yathā yau yatiḥ api varṇaiḥ ṣaḍbhiḥ eva ced syāt . jagati-vidhāne nitya-saṃniviṣṭā kumudanibhā sā nāmataḥ prasiddhā .. 59..
यथा - कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ ६०॥
यथा कुमुद-निभा त्वम् काम-बाण-विद्धा किम् असि नत-भ्रूः शीत-वात-दग्धा । मृदु-नलिनी-वा आपाण्डु-वक्त्र-शोभा कथम् अपि जाता हि अग्रतस् सखीनाम् ॥ ६०॥
yathā kumuda-nibhā tvam kāma-bāṇa-viddhā kim asi nata-bhrūḥ śīta-vāta-dagdhā . mṛdu-nalinī-vā āpāṇḍu-vaktra-śobhā katham api jātā hi agratas sakhīnām .. 60..
द्वादशाक्षरके पादे सप्तमं दशमं लघु । आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ ६१॥
द्वादश-अक्षरके पादे सप्तमम् दशमम् लघु । आदौ पञ्च-अक्षर-छेदः चन्द्रलेखा तु सा यथा ॥ ६१॥
dvādaśa-akṣarake pāde saptamam daśamam laghu . ādau pañca-akṣara-chedaḥ candralekhā tu sā yathā .. 61..
वक्त्रं सौम्यं ते पद्मपत्रायताक्षम् कामस्यावासं सुनासोच्चप्रहासम् । कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ ६२॥
वक्त्रम् सौम्यम् ते पद्म-पत्र-आयत-अक्षम् कामस्य आवासम् सु नासा-उच्च-प्रहासम् । कामस्य अपि इदम् कामम् आहर्तु-कामम् कान्ते कान्त्या त्वम् चन्द्र-लेखा इव भासि ॥ ६२॥
vaktram saumyam te padma-patra-āyata-akṣam kāmasya āvāsam su nāsā-ucca-prahāsam . kāmasya api idam kāmam āhartu-kāmam kānte kāntyā tvam candra-lekhā iva bhāsi .. 62..
तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ ६३॥
तृतीयम् अन्त्यम् नवमम् पञ्चमम् च यदा गुरु । द्वादश-अक्षरके पादे यत्र सा प्रमिता अक्षरा ॥ ६३॥
tṛtīyam antyam navamam pañcamam ca yadā guru . dvādaśa-akṣarake pāde yatra sā pramitā akṣarā .. 63..
यथा - स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् । अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमाञ्जयति ॥ ६४॥
यथा -हि सततम् । अपि कस्यचिद् युवतिः अस्ति सुखा प्रमित-अक्षरा स हि पुमान् जयति ॥ ६४॥
yathā -hi satatam . api kasyacid yuvatiḥ asti sukhā pramita-akṣarā sa hi pumān jayati .. 64..
द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे । गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ ६५॥
द्वितीयम् अन्त्यम् दशमम् चतुर्थम् पञ्चम-अष्टमे । गुरूणि द्वादशे पादे वंश-स्था जगती तु सा ॥ ६५॥
dvitīyam antyam daśamam caturtham pañcama-aṣṭame . gurūṇi dvādaśe pāde vaṃśa-sthā jagatī tu sā .. 65..
यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ । तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ ६६॥
यदि त्रिकौ भवतः तु पादतः तथा एव च ज्रौ अवसान-संस्थितौ । तदा हि वृत्तम् जगती-प्रतिष्ठितम् वदन्ति वंश-स्थम् इति इह नामतः ॥ ६६॥
yadi trikau bhavataḥ tu pādataḥ tathā eva ca jrau avasāna-saṃsthitau . tadā hi vṛttam jagatī-pratiṣṭhitam vadanti vaṃśa-stham iti iha nāmataḥ .. 66..
न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते परुषाभिभाषिणी । तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ ६७॥
न मे प्रिया त्वम् बहु-मान-वर्जिताम् प्रियम् प्रिया ते परुष-अभिभाषिणी । तथा च पश्यामि अहम् अद्य विग्रहम् ध्रुवम् हि वंश-स्थ-गतिम् करिष्यति ॥ ६७॥
na me priyā tvam bahu-māna-varjitām priyam priyā te paruṣa-abhibhāṣiṇī . tathā ca paśyāmi aham adya vigraham dhruvam hi vaṃśa-stha-gatim kariṣyati .. 67..
चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ ६८॥
चतुर्थम् अन्त्यम् दशमम् सप्तमम् च यदा गुरु । भवेत् हि जागते पादे तदा स्यात् हरिण-प्लुता ॥ ६८॥
caturtham antyam daśamam saptamam ca yadā guru . bhavet hi jāgate pāde tadā syāt hariṇa-plutā .. 68..
परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा । वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ ६९॥
परुष-वाक्य-कशा अभिहिता त्वया भय-विलोकन-पार्श्व-निरीक्षणा । वर-तनुः प्रतत-प्लुत-सर्पणैः अनुकरोति गतैः हरिण-प्लुतम् ॥ ६९॥
paruṣa-vākya-kaśā abhihitā tvayā bhaya-vilokana-pārśva-nirīkṣaṇā . vara-tanuḥ pratata-pluta-sarpaṇaiḥ anukaroti gataiḥ hariṇa-plutam .. 69..
सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु । द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ ७०॥
सप्तमम् नवमम् च अन्त्यम् उपान्त्यम् च यदा गुरु । द्वादश-अक्षरके पादे कामदत्ता इति सा यथा ॥ ७०॥
saptamam navamam ca antyam upāntyam ca yadā guru . dvādaśa-akṣarake pāde kāmadattā iti sā yathā .. 70..
करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ ७१॥
करज-पद-विभूषिता यथा त्वम् सुदति दशन-विक्षत-अधरा च । गतिः अपि चरण-अवलग्न-मन्दा त्वम् असि मृग-निभ-अक्षि काम-दत्ता ॥ ७१॥
karaja-pada-vibhūṣitā yathā tvam sudati daśana-vikṣata-adharā ca . gatiḥ api caraṇa-avalagna-mandā tvam asi mṛga-nibha-akṣi kāma-dattā .. 71..
आद्यं चतुर्थं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ ७२॥
आद्यम् चतुर्थम् दशमम् सप्तमम् च यदा लघु । पादे तु जागते यस्याः अप्रमेया तु सा यथा ॥ ७२॥
ādyam caturtham daśamam saptamam ca yadā laghu . pāde tu jāgate yasyāḥ aprameyā tu sā yathā .. 72..
न ते काचिदन्या समा दृश्यते स्त्री नृलोके विशिष्टा गुणैरद्वितीयैः । त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा विधात्रा ॥ ७३॥
न ते काचिद् अन्या समा दृश्यते स्त्री नृ-लोके विशिष्टा गुणैः अद्वितीयैः । त्रिलोक्याम् गुण-ज्ज्ञान् समाहृत्य सर्वान् जगती अप्रमेया असि सृष्टा विधात्रा ॥ ७३॥
na te kācid anyā samā dṛśyate strī nṛ-loke viśiṣṭā guṇaiḥ advitīyaiḥ . trilokyām guṇa-jjñān samāhṛtya sarvān jagatī aprameyā asi sṛṣṭā vidhātrā .. 73..
द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ ७४॥
द्वितीयम् पञ्चमम् च एव हि अष्टम् एकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ ७४॥
dvitīyam pañcamam ca eva hi aṣṭam ekādaśe yathā . pāde yatra laghūni syuḥ padminī nāma sā yathā .. 74..
रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः । सन्निविष्टा जगत्यास्ततस्सा बुधैर् नामतश्चापि सङ्कीर्त्यते पद्मिनी ॥ ७५॥
राः त्रिकाः सागर-आख्याः निविष्टाः यदा स्यात् त्रिके च त्रिके युक्त-रूपा यतिः । सन्निविष्टा जगत्याः ततस् सा बुधैः नामतः च अपि सङ्कीर्त्यते पद्मिनी ॥ ७५॥
rāḥ trikāḥ sāgara-ākhyāḥ niviṣṭāḥ yadā syāt trike ca trike yukta-rūpā yatiḥ . sanniviṣṭā jagatyāḥ tatas sā budhaiḥ nāmataḥ ca api saṅkīrtyate padminī .. 75..
देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता । केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ ७६॥
देह-तोय-आशया वक्त्र-पद्म-उज्ज्वला नेत्र-भृङ्ग-आकुला दन्त-हंस-स्मिता । केश-पाश-छदा चक्रवाक-स्तनी पद्मिनी इव प्रिये भासि मे सर्वदा ॥ ७६॥
deha-toya-āśayā vaktra-padma-ujjvalā netra-bhṛṅga-ākulā danta-haṃsa-smitā . keśa-pāśa-chadā cakravāka-stanī padminī iva priye bhāsi me sarvadā .. 76..
फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ ७७॥
फुल्ल-पद्म-आनना त्वम् द्विरेफ-ईक्षणा केश-पत्र-छदा चक्रवाक-स्तनी । पीत-तोय-आवली बद्ध-काञ्ची-गुणा पद्मिनी इव प्रिये भासि नीरे स्थिता ॥ ७७॥
phulla-padma-ānanā tvam dvirepha-īkṣaṇā keśa-patra-chadā cakravāka-stanī . pīta-toya-āvalī baddha-kāñcī-guṇā padminī iva priye bhāsi nīre sthitā .. 77..
आदौ षट् दशमं चैव पादे यत्र लघून्यथ । शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ ७८॥
आदौ षष् दशमम् च एव पादे यत्र लघूनि अथ । शेषाणि तु गुरूणि स्युः जागते पुट-संज्ञिता ॥ ७८॥
ādau ṣaṣ daśamam ca eva pāde yatra laghūni atha . śeṣāṇi tu gurūṇi syuḥ jāgate puṭa-saṃjñitā .. 78..
यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः । भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ ७९॥
यदि चरण-निविष्टौ नौ तथा म्यौ यति-विधिः अपि युक्त्या अष्टाभिः इष्टः । भवति च जगती-स्थः सर्वदा असौ यः इह हि पुटवृत्तम् नामतः तु ॥ ७९॥
yadi caraṇa-niviṣṭau nau tathā myau yati-vidhiḥ api yuktyā aṣṭābhiḥ iṣṭaḥ . bhavati ca jagatī-sthaḥ sarvadā asau yaḥ iha hi puṭavṛttam nāmataḥ tu .. 79..
उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः । मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ ८०॥
उपवन-सलिलानाम् बाल-पद्मैः भ्रमर-परभृतानाम् कण्ठ-नादैः । मदन-मद-विलासैः कामिनीनाम् कथयति पुटवृत्तम् पुष्पमासः ॥ ८०॥
upavana-salilānām bāla-padmaiḥ bhramara-parabhṛtānām kaṇṭha-nādaiḥ . madana-mada-vilāsaiḥ kāminīnām kathayati puṭavṛttam puṣpamāsaḥ .. 80..
द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु । विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ ८१॥
द्वितीय-अन्त्ये चतुर्थम् च नवम-एकादशे गुरु । विच्छेदः अतिजगत्याम् तु चतुर्भिः सा प्रभावती ॥ ८१॥
dvitīya-antye caturtham ca navama-ekādaśe guru . vicchedaḥ atijagatyām tu caturbhiḥ sā prabhāvatī .. 81..
कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे । अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ ८२॥
कथम् नु इदम् कमल-विशाल-लोचने गृहम् धनैः पिहित-करे दिवाकरे । अ चिन्तयन्ती अभिनव-वर्ष-विद्युतः त्वम् आगता सु तनु यथा प्रभावती ॥ ८२॥
katham nu idam kamala-viśāla-locane gṛham dhanaiḥ pihita-kare divākare . a cintayantī abhinava-varṣa-vidyutaḥ tvam āgatā su tanu yathā prabhāvatī .. 82..
त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ ८३॥
त्रीणि आदौ अष्टमम् च एव दशमम् नैधन-द्वयम् । गुरूणि अति जगत्याम् तु त्रिभिः छेदैः प्रहर्षिणी ॥ ८३॥
trīṇi ādau aṣṭamam ca eva daśamam naidhana-dvayam . gurūṇi ati jagatyām tu tribhiḥ chedaiḥ praharṣiṇī .. 83..
भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च । शोभाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ ८४॥
भाव-स्थैः मधुर-कथैः सु भाषितैः त्वम् स आटोप-स्खलित-विलम्बितैः गतैः च । शोभा-आढ्यैः हरसि मनांसि कामुकानाम् सु व्यक्तम् हि अति जगती प्रहर्षिणी च ॥ ८४॥
bhāva-sthaiḥ madhura-kathaiḥ su bhāṣitaiḥ tvam sa āṭopa-skhalita-vilambitaiḥ gataiḥ ca . śobhā-āḍhyaiḥ harasi manāṃsi kāmukānām su vyaktam hi ati jagatī praharṣiṇī ca .. 84..
षष्ठं च सप्तमं चैव दशमैकादशे लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ ८५॥
षष्ठम् च सप्तमम् च एव दशम-एकादशे लघु । त्रयोदश-अक्षरे पादे ज्ञेयम् मत्त-मयूरकम् ॥ ८५॥
ṣaṣṭham ca saptamam ca eva daśama-ekādaśe laghu . trayodaśa-akṣare pāde jñeyam matta-mayūrakam .. 85..
विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा वातोद्धूताः श्वेतवलाकाकृतशोभाः । एते मेघा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ ८६॥
विद्युत्-नद्धाः स इन्द्रधनुः-अञ्जित-देहाः वात-उद्धूताः श्वेत-वलाका-कृत-शोभाः । एते मेघाः गर्जित-नाद-उज्ज्वल-चिह्नाः प्रावृष्-कालम् मत्त-मयूराः कथयन्ति ॥ ८६॥
vidyut-naddhāḥ sa indradhanuḥ-añjita-dehāḥ vāta-uddhūtāḥ śveta-valākā-kṛta-śobhāḥ . ete meghāḥ garjita-nāda-ujjvala-cihnāḥ prāvṛṣ-kālam matta-mayūrāḥ kathayanti .. 86..
आदौ द्वे चतुर्थं चैव चाष्टमैकादशे गुरु । अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ ८७॥
आदौ द्वे चतुर्थम् च एव च अष्टम-एकादशे गुरु । अन्त्य-उपान्त्ये च शक्वर्याः वसन्ततिलकाः यथा ॥ ८७॥
ādau dve caturtham ca eva ca aṣṭama-ekādaśe guru . antya-upāntye ca śakvaryāḥ vasantatilakāḥ yathā .. 87..
चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता । स्रग्दाममाल्यरचना सुविभूषिताङ्गी । नानावसन्तकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ ८८॥
चित्रैः वसन्त-कुसुमैः कृत-केश-हस्ता । स्रज्-दाम-माल्य-रचना सु विभूषित-अङ्गी । नाना वसन्तक-विभूषित-कर्णपाशा साक्षात् वसन्त-तिलका इव विभाति नारी ॥ ८८॥
citraiḥ vasanta-kusumaiḥ kṛta-keśa-hastā . sraj-dāma-mālya-racanā su vibhūṣita-aṅgī . nānā vasantaka-vibhūṣita-karṇapāśā sākṣāt vasanta-tilakā iva vibhāti nārī .. 88..
पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । पञ्चाक्षरादौ च यतिरसम्बाधा तु सा यथा ॥ ८९॥
पञ्च आदौ शक्वरी पादे गुरूणि त्रीणि न ऐधने । पञ्चाक्षर-आदौ च यतिः असंबाधा तु सा यथा ॥ ८९॥
pañca ādau śakvarī pāde gurūṇi trīṇi na aidhane . pañcākṣara-ādau ca yatiḥ asaṃbādhā tu sā yathā .. 89..
यथा - मानालोकज्ञः सुतबलकुलशीलाढ्यो यस्मिन्सम्मानं न सदृशमनु पश्येद्धि । गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशम् कीर्णा नानार्थैरवनिरियमसम्बाधा ॥ ९०॥
यथा -न अनु पश्येत् । गच्छेत् तम् त्यक्त्वा द्रुत-गतिः अपरम् देशम् कीर्णा नाना अर्थैः अवनिः इयम् असम्बाधा ॥ ९०॥
yathā -na anu paśyet . gacchet tam tyaktvā druta-gatiḥ aparam deśam kīrṇā nānā arthaiḥ avaniḥ iyam asambādhā .. 90..
चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ ९१॥
चत्वारि आदौ गुरूणि स्युः दशम-एकादशे तथा । अन्त्य-उपान्त्ये च शक्वर्याः पादे तु शरभाः यथा ॥ ९१॥
catvāri ādau gurūṇi syuḥ daśama-ekādaśe tathā . antya-upāntye ca śakvaryāḥ pāde tu śarabhāḥ yathā .. 91..
एषा कान्ता व्रजति ललिता वेपमाना गुल्मैश्च्छन्नं वनमभिनवैः सम्प्रविद्धम् । हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ ९२॥
एषा कान्ता व्रजति ललिता वेपमाना गुल्मैः छन्नम् वनम् अभिनवैः सम्प्रविद्धम् । हा हा कष्टम् किम् इदम् इति नो वेद्मि मूढः व्यक्तम् कान्ते शरभ-ललित-अन्त्वम् करोषि ॥ ९२॥
eṣā kāntā vrajati lalitā vepamānā gulmaiḥ channam vanam abhinavaiḥ sampraviddham . hā hā kaṣṭam kim idam iti no vedmi mūḍhaḥ vyaktam kānte śarabha-lalita-antvam karoṣi .. 92..
अदौ षट् दशमं चैव लघु चैव त्रयोदशम् । यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ ९३॥
अदौ षष् दशमम् च एव लघु च एव त्रयोदशम् । यत्र अति शक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ ९३॥
adau ṣaṣ daśamam ca eva laghu ca eva trayodaśam . yatra ati śakvare pāde jñeyā nāndīmukhī tu sā .. 93..
यथा - न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् । किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ ९४॥
यथा -न खलु तव कदाचिद् क्रोध-ताम्र-आयत-अक्षम् भ्रुकुटि-वलित-भङ्गम् दृष्ट-पूर्वम् मया आस्यम् । किम् इह बहुभिः उक्तैः या मम इच्छा हृदिस्था त्वम् असि मधुर-वाक्या देवि नान्दीमुखी इव ॥ ९४॥
yathā -na khalu tava kadācid krodha-tāmra-āyata-akṣam bhrukuṭi-valita-bhaṅgam dṛṣṭa-pūrvam mayā āsyam . kim iha bahubhiḥ uktaiḥ yā mama icchā hṛdisthā tvam asi madhura-vākyā devi nāndīmukhī iva .. 94..
आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु । षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ ९५॥
आद्यम् चतुर्थम् षष्ठम् च नैधनम् च यदा गुरु । षोडश-अक्षरके पादे यत्र इभ-ललितम् तु तत् ॥ ९५॥
ādyam caturtham ṣaṣṭham ca naidhanam ca yadā guru . ṣoḍaśa-akṣarake pāde yatra ibha-lalitam tu tat .. 95..
भ्रौ यदि नाश्च नित्यमिह विरचितचरणः गश्च तथा वै भवति निधनमुपगतः । स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ ९६॥
भ्रौ यदि नाः च नित्यम् इह विरचित-चरणः गः च तथा वै भवति निधनम् उपगतः । स्यात् अपि च अष्टिम् एव यदि सततम् अनुगतम् तत् खलु वृत्तम् अग्र-वृषभ-गज-विलसितम् ॥ ९६॥
bhrau yadi nāḥ ca nityam iha viracita-caraṇaḥ gaḥ ca tathā vai bhavati nidhanam upagataḥ . syāt api ca aṣṭim eva yadi satatam anugatam tat khalu vṛttam agra-vṛṣabha-gaja-vilasitam .. 96..
कालतोयधरैः सुधीरधनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः । कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ ९७॥
काल-तोयधरैः सु धीर-धन-पटु-पटह-रवैः सर्ज-कदम्ब-नीप-कुटज-कुसुम-सुरभिः । कन्द-लस-इन्द्रगोपक-रचितम् अवनि-तलम् वीक्ष्य करोति असौ वृषभ-गज-विलसितम् ॥ ९७॥
kāla-toyadharaiḥ su dhīra-dhana-paṭu-paṭaha-ravaiḥ sarja-kadamba-nīpa-kuṭaja-kusuma-surabhiḥ . kanda-lasa-indragopaka-racitam avani-talam vīkṣya karoti asau vṛṣabha-gaja-vilasitam .. 97..
आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ ९८॥
आद्यात् पराणि वै पञ्च द्वादशम् स त्रयोदशः । अन्त्य-उपान्त्ये च दीर्घाणि ललित-प्रवरम् हि तत् ॥ ९८॥
ādyāt parāṇi vai pañca dvādaśam sa trayodaśaḥ . antya-upāntye ca dīrghāṇi lalita-pravaram hi tat .. 98..
यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ ९९॥
यदा य्मौ पाद-स्थौ भवतः इह चेद् स्तौ तथा गौ तथा षड्भिः च अन्यैः यतिः अपि च वर्णैः यथा स्यात् । तत् अपि अष्टौ नित्यम् समनुगतम् एव उक्तम् अन्यैः प्रयोग-ज्ञैः वृत्तम् प्रवरललितम् नामतः तु ॥ ९९॥
yadā ymau pāda-sthau bhavataḥ iha ced stau tathā gau tathā ṣaḍbhiḥ ca anyaiḥ yatiḥ api ca varṇaiḥ yathā syāt . tat api aṣṭau nityam samanugatam eva uktam anyaiḥ prayoga-jñaiḥ vṛttam pravaralalitam nāmataḥ tu .. 99..
यथा - नखालीढं गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् । गतिः खिन्ना चेयं वदनमपि सम्भ्रान्तनेत्रम् अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ १००॥
यथा -च प्रविलुलित-केश-अलक-अन्तम् । गतिः खिन्ना च इयम् वदनम् अपि सम्भ्रान्त-नेत्रम् अहो श्लाघ्यम् वृत्तम् प्रवर-ललितम् काम-चेष्टम् ॥ १००॥
yathā -ca pravilulita-keśa-alaka-antam . gatiḥ khinnā ca iyam vadanam api sambhrānta-netram aho ślāghyam vṛttam pravara-lalitam kāma-ceṣṭam .. 100..
आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ १०१॥
आद्यात् पराणि पञ्च अथ द्वादशम् स त्रयोदशम् । अन्त्यम् सप्तदशे पादे शिखरिण्याम् गुरूणि च ॥ १०१॥
ādyāt parāṇi pañca atha dvādaśam sa trayodaśam . antyam saptadaśe pāde śikhariṇyām gurūṇi ca .. 101..
चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैः यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते । यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितः तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ १०२॥
चतुर्भिः तस्य एव प्रवर-ललितस्य त्रिक-गणैः यदा लौ गः च अन्ते भवति चरणे अत्यष्टि-गदिते । यदा षड्भिः छेदः भवति यदि मार्गेण विहितः तदा वृत्तेषु एषा खलु शिखरिणी नाम गदिता ॥ १०२॥
caturbhiḥ tasya eva pravara-lalitasya trika-gaṇaiḥ yadā lau gaḥ ca ante bhavati caraṇe atyaṣṭi-gadite . yadā ṣaḍbhiḥ chedaḥ bhavati yadi mārgeṇa vihitaḥ tadā vṛtteṣu eṣā khalu śikhariṇī nāma gaditā .. 102..
यथा - महानद्या भोगं पुलिनमिव भाति ते जघनं तथास्यं नेत्राढ्यं भ्रमरसहितं पङ्कजमिव । गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ १०३॥
यथा महा-नद्याः भोगम् पुलिनम् इव भाति ते जघनम् तथा आस्यम् नेत्र-आढ्यम् भ्रमर-सहितम् पङ्कजम् इव । गतिः मन्दा च इयम् सु तनु तव चेष्टा सु ललिता स्तनाभ्याम् ताभ्याम् त्वम् शिखरिणि सु पीना असि वनिते ॥ १०३॥
yathā mahā-nadyāḥ bhogam pulinam iva bhāti te jaghanam tathā āsyam netra-āḍhyam bhramara-sahitam paṅkajam iva . gatiḥ mandā ca iyam su tanu tava ceṣṭā su lalitā stanābhyām tābhyām tvam śikhariṇi su pīnā asi vanite .. 103..
यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ १०४॥
यत्र पञ्च लघूनि आदौ त्रयोदश-चतुर्दशे । षोडश-एकादशे च एव तत् स्यात् वृषभ-चेष्टितम् ॥ १०४॥
yatra pañca laghūni ādau trayodaśa-caturdaśe . ṣoḍaśa-ekādaśe ca eva tat syāt vṛṣabha-ceṣṭitam .. 104..
यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः । यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ १०५॥
यदि हि चरणे न्सौ स्लौ गः क्रमात् विनिवेशिताः यदि खलु यतिः षड्भिः वर्णैः स्तथा दशभिः पुनर् । यदि विहितम् स्यात् अत्यष्टिः प्रयोग-सुख-आश्रयम् वृषभललितम् वृत्तम् ज्ञेयम् तथा हरिणी इति वा ॥ १०५॥
yadi hi caraṇe nsau slau gaḥ kramāt viniveśitāḥ yadi khalu yatiḥ ṣaḍbhiḥ varṇaiḥ stathā daśabhiḥ punar . yadi vihitam syāt atyaṣṭiḥ prayoga-sukha-āśrayam vṛṣabhalalitam vṛttam jñeyam tathā hariṇī iti vā .. 105..
यथा - जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखितमहीशृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च । स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ १०६॥
यथा -श्रुत्वा श्रुत्वा प्रतिनर्द्य च । स्व-युवति-वृतः गोष्ठात् गोष्ठम् प्रयाति च निर्भयः वृषभ-ललितम् चित्रम् वृत्तम् करोति च शाद्वले ॥ १०६॥
yathā -śrutvā śrutvā pratinardya ca . sva-yuvati-vṛtaḥ goṣṭhāt goṣṭham prayāti ca nirbhayaḥ vṛṣabha-lalitam citram vṛttam karoti ca śādvale .. 106..
चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ १०७॥
चत्वारि आदौ च दशमम् गुरु यत्र त्रयोदशम् चतुर्दशम् तथा अन्त्ये द्वे च एकादशम् अथ अपि च ॥ १०७॥
catvāri ādau ca daśamam guru yatra trayodaśam caturdaśam tathā antye dve ca ekādaśam atha api ca .. 107..
यदा सप्तदशे पादे शेषाणि च लघून्यथ। भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ १०८॥
यदा सप्तदशे पादे शेषाणि च लघूनि अथ। भवन्ति यस्मिन् सा ज्ञेया श्रीधरी नामतः यथा ॥ १०८॥
yadā saptadaśe pāde śeṣāṇi ca laghūni atha. bhavanti yasmin sā jñeyā śrīdharī nāmataḥ yathā .. 108..
मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टा श्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ १०९॥
mo bhnau ca syuścaraṇaracitāstau gurū ca praviṣṭā śchedaḥ śiṣṭo yadi ca daśabhiḥ syāttathānyaiścaturbhiḥ | atyaṣṭau ca pratiniyamitā varṇataḥ spaṣṭarūpā sā vijñeyā dvijamunigaṇaiḥ śrīdharī nāmatastu || 109||
mo bhnau ca syuścaraṇaracitāstau gurū ca praviṣṭā śchedaḥ śiṣṭo yadi ca daśabhiḥ syāttathānyaiścaturbhiḥ | atyaṣṭau ca pratiniyamitā varṇataḥ spaṣṭarūpā sā vijñeyā dvijamunigaṇaiḥ śrīdharī nāmatastu || 109||
स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । नानारत्नैः कनकखचितैरङ्गसम्भोगसंस्थै र्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ ११०॥
स्नानैः चूर्णैः सुख-सुरभिभिः गन्ध-वासैः च धूपैः पुष्पैः च अन्यैः शिरसि रचितैः वस्त्र-योगैः च तैः तैः । नाना रत्नैः कनक-खचितैः अङ्ग-सम्भोग-संस्थैः र्व्यक्तम् कान्ते कमल-निलया श्रीधरी इव अतिभासि ॥ ११०॥
snānaiḥ cūrṇaiḥ sukha-surabhibhiḥ gandha-vāsaiḥ ca dhūpaiḥ puṣpaiḥ ca anyaiḥ śirasi racitaiḥ vastra-yogaiḥ ca taiḥ taiḥ . nānā ratnaiḥ kanaka-khacitaiḥ aṅga-sambhoga-saṃsthaiḥ rvyaktam kānte kamala-nilayā śrīdharī iva atibhāsi .. 110..
आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ १११॥
आद्यम् चतुर्थम् षष्ठम् च दशमम् नैधनम् गुरु । तत् वंश-पत्र-पतितम् दशभिः सप्तभिः यतिः ॥ १११॥
ādyam caturtham ṣaṣṭham ca daśamam naidhanam guru . tat vaṃśa-patra-patitam daśabhiḥ saptabhiḥ yatiḥ .. 111..
यथा एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभिरनते । मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ११२॥
यथा एष गजः अद्रि-मस्तक-तटे कलभ-परिवृतः क्रीडति वृक्ष-गुल्म-गहने कुसुमभिः अनते । मेघ-रवम् निशम्य मुदितः पवन-जव-समः सुन्दरि वंश-पत्र-पतितम् पुनर् अपि कुरुते ॥ ११२॥
yathā eṣa gajaḥ adri-mastaka-taṭe kalabha-parivṛtaḥ krīḍati vṛkṣa-gulma-gahane kusumabhiḥ anate . megha-ravam niśamya muditaḥ pavana-java-samaḥ sundari vaṃśa-patra-patitam punar api kurute .. 112..
द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ ११३॥
द्वितीयम् अन्त्यम् षष्ठम् च अपि अष्टमम् द्वादशम् तथा । चतुर्दशम् पञ्चदशम् पादे सप्तदश-अक्षरे ॥ ११३॥
dvitīyam antyam ṣaṣṭham ca api aṣṭamam dvādaśam tathā . caturdaśam pañcadaśam pāde saptadaśa-akṣare .. 113..
भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ ११४॥
भवन्ति यत्र दीर्घाणि शेषाणि च लघूनि अथ । विलम्बित-गतिः सा तु विज्ञेया नामतः यथा ॥ ११४॥
bhavanti yatra dīrghāṇi śeṣāṇi ca laghūni atha . vilambita-gatiḥ sā tu vijñeyā nāmataḥ yathā .. 114..
यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ । तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ ११५॥
यदा द्विस् उदितौ हि पादम् अभिसंश्रितौ ज्सौ त्रिकौ तथा एव च पुनर् तयोः निधनम् आश्रितौ यौ लगौ । तद्-अष्टि-रति-पूर्विका यतिः अपि स्वभावात् यथा विलम्बित-गतिः तदा निगदिता द्विजैः नामतः ॥ ११५॥
yadā dvis uditau hi pādam abhisaṃśritau jsau trikau tathā eva ca punar tayoḥ nidhanam āśritau yau lagau . tad-aṣṭi-rati-pūrvikā yatiḥ api svabhāvāt yathā vilambita-gatiḥ tadā nigaditā dvijaiḥ nāmataḥ .. 115..
यथा - विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा । न मे प्रियमिदं जनस्य बहुमानरागेण य न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ ११६॥
यथा --विलोचना पृथु-विकीर्ण-हारा पुनर् प्रलम्ब-रशना चलत्-स्खलित-पाद-मन्द-क्लमा । न मे प्रियम् इदम् जनस्य बहु-मान-रागेण यत् मदेन विवशा विलम्बित-गतिः कृता त्वम् प्रिये ॥ ११६॥
yathā --vilocanā pṛthu-vikīrṇa-hārā punar pralamba-raśanā calat-skhalita-pāda-manda-klamā . na me priyam idam janasya bahu-māna-rāgeṇa yat madena vivaśā vilambita-gatiḥ kṛtā tvam priye .. 116..
पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ ११७॥
पञ्च-आदौ पञ्चदशकम् द्वादश-एकादशे गुरु । चतुर्दशम् तथा अन्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ ११७॥
pañca-ādau pañcadaśakam dvādaśa-ekādaśe guru . caturdaśam tathā antye dve citralekhā dhṛtau smṛtā .. 117..
यथा नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै र्नाना गन्धाढ्यैर्मदनजनकैरङ्गरागैर्विचित्रैः । केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते सङ्क्षेपात् किमिह बहुना चित्रलेखेव भासि ॥ ११८॥
यथा नाना रत्न-आढ्यैः बहुभिः अधिकम् भूषणैः अङ्ग-संस्थैः नाना गन्ध-आढ्यैः मदन-जनकैः अङ्गरागैः विचित्रैः । केशैः स्नान-आढ्यैः कुसुम-भरितैः वस्त्र-रागैः च तैः तैः कान्ते सङ्क्षेपात् किम् इह बहुना चित्र-लेखा इव भासि ॥ ११८॥
yathā nānā ratna-āḍhyaiḥ bahubhiḥ adhikam bhūṣaṇaiḥ aṅga-saṃsthaiḥ nānā gandha-āḍhyaiḥ madana-janakaiḥ aṅgarāgaiḥ vicitraiḥ . keśaiḥ snāna-āḍhyaiḥ kusuma-bharitaiḥ vastra-rāgaiḥ ca taiḥ taiḥ kānte saṅkṣepāt kim iha bahunā citra-lekhā iva bhāsi .. 118..
अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ ११९॥
अन्त्यम् सप्तदशम् च एव षोडशम् स चतुर्दशम् । त्रयोदशम् द्वादशम् च षष्ठम् अष्टमम् एव च ॥ ११९॥
antyam saptadaśam ca eva ṣoḍaśam sa caturdaśam . trayodaśam dvādaśam ca ṣaṣṭham aṣṭamam eva ca .. 119..
त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके । पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ १२०॥
त्रीणि आदौ च गुरूणि स्युः यस्मिन् तु एकोनविंशके । पादे लघूनि शेषाणि शार्दूल-क्रीडितम् तु तत् ॥ १२०॥
trīṇi ādau ca gurūṇi syuḥ yasmin tu ekonaviṃśake . pāde laghūni śeṣāṇi śārdūla-krīḍitam tu tat .. 120..
म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः । नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ॥ १२१॥
म्सौ ज्सौ तौ गुरु च प्रयोग-नियताः यस्मिन् निविष्टाः त्रिका आद्या च अन्त्य-यतिः चतुर्-त्रिक-युता ज्ञेया परा सप्तभिः । नित्यम् यत् पदम् आश्रिता हि अति धृतिः नित्यम् कवीनाम् प्रियम् तत् ज्ञेयम् खलु वृत्त-जाति-निपुणैः शार्दूल-विक्रीडितम् ॥ १२१॥
msau jsau tau guru ca prayoga-niyatāḥ yasmin niviṣṭāḥ trikā ādyā ca antya-yatiḥ catur-trika-yutā jñeyā parā saptabhiḥ . nityam yat padam āśritā hi ati dhṛtiḥ nityam kavīnām priyam tat jñeyam khalu vṛtta-jāti-nipuṇaiḥ śārdūla-vikrīḍitam .. 121..
यथा - नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैः वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् ॥ १२२॥
यथा -शस्त्र-शतघ्नि-तोमर-हताः प्रभ्रष्ट-सर्व-आयुधाः निर्भिन्न-उदर-पाद-बाहु-वदनाः निर्णाशिताः शत्रवः । धैर्य-उत्साह-पराक्रम-प्रभृतिभिः तैः तैः विचित्रैः गुणैः वृत्तम् ते रिपु-घाति भाति समरे शार्दूल-विक्रीडितम् ॥ १२२॥
yathā -śastra-śataghni-tomara-hatāḥ prabhraṣṭa-sarva-āyudhāḥ nirbhinna-udara-pāda-bāhu-vadanāḥ nirṇāśitāḥ śatravaḥ . dhairya-utsāha-parākrama-prabhṛtibhiḥ taiḥ taiḥ vicitraiḥ guṇaiḥ vṛttam te ripu-ghāti bhāti samare śārdūla-vikrīḍitam .. 122..
तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् । यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ॥ १२३॥
तावत् त्वम् विजित-इन्द्रियः शुभ-मते सर्व-आत्मना प्रत्यहम् दाने शील-विधौ च योजय मनः स्वर्ग-अपवर्ग-अपहम् । यावत् व्याधि-जरा-प्रचण्ड-नखरः व्यायत्-सटाभिः भृशम् मृत्युः ते न करोति जीवित-मृगैः शार्दूल-विक्रीडितम् ॥ १२३॥
tāvat tvam vijita-indriyaḥ śubha-mate sarva-ātmanā pratyaham dāne śīla-vidhau ca yojaya manaḥ svarga-apavarga-apaham . yāvat vyādhi-jarā-pracaṇḍa-nakharaḥ vyāyat-saṭābhiḥ bhṛśam mṛtyuḥ te na karoti jīvita-mṛgaiḥ śārdūla-vikrīḍitam .. 123..
चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ १२४॥
चत्वारि आदौ च षष्ठम् च सप्तमम् स चतुर्दशम् । तथा पञ्चदशम् च एव षिडशम् नैधनम् तथा ॥ १२४॥
catvāri ādau ca ṣaṣṭham ca saptamam sa caturdaśam . tathā pañcadaśam ca eva ṣiḍaśam naidhanam tathā .. 124..
एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १२५॥
एतानि च गुरूणि स्युः शेषाणि तु लघूनि अथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १२५॥
etāni ca gurūṇi syuḥ śeṣāṇi tu laghūni atha . pāde yatra kṛtau jñeyā nāmnā suvadanā tu sā .. 125..
म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ १२६॥
च सम्यक् यदि च विरचिताः पादे क्रम-वशात् विच्छेदः सप्तभिः स्यात् पुनर् अपि च यतिः सप्त-अक्षर-कृता । यदि एषा संश्रिता स्यात् कृतिम् अपि च पुनर् श्लिष्ट-अक्षर-पदा विद्वद्भिः वृत्त-जातौ ततस् इह गदिता नाम्ना सुवदना ॥ १२६॥
ca samyak yadi ca viracitāḥ pāde krama-vaśāt vicchedaḥ saptabhiḥ syāt punar api ca yatiḥ sapta-akṣara-kṛtā . yadi eṣā saṃśritā syāt kṛtim api ca punar śliṣṭa-akṣara-padā vidvadbhiḥ vṛtta-jātau tatas iha gaditā nāmnā suvadanā .. 126..
यथा - नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ १२७॥
यथा -लीला-अलस-अन्ते कमल-दल-निभे भ्रू-चाप-विनते रक्त-उष्ठम् पीन-मध्यम् सम-सहित-घनाः स्निग्धाः च दशनाः । कर्णौ अंस-प्रलम्बौ चिबुकम् अपि नतम् घोणा सु रुचिरा व्यक्तम् त्वम् मर्त्य-लोके वर-तनु विहिता असि एका सु वदना ॥ १२७॥
yathā -līlā-alasa-ante kamala-dala-nibhe bhrū-cāpa-vinate rakta-uṣṭham pīna-madhyam sama-sahita-ghanāḥ snigdhāḥ ca daśanāḥ . karṇau aṃsa-pralambau cibukam api natam ghoṇā su rucirā vyaktam tvam martya-loke vara-tanu vihitā asi ekā su vadanā .. 127..
चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ १२८॥
चत्वारि आदौ तथा षष्ठम् सप्तमम् च चतुर्दशम् । अष्टादशम् सप्तदशम् तथा पञ्चदशम् पुनर् ॥ १२८॥
catvāri ādau tathā ṣaṣṭham saptamam ca caturdaśam . aṣṭādaśam saptadaśam tathā pañcadaśam punar .. 128..
अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १२९॥
अन्त्य-उपान्त्ये गुरूणि अत्र लघूनि अन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १२९॥
antya-upāntye gurūṇi atra laghūni anyāni sarvadā . ekaviṃśatike pāde sragdharā nāma sā yathā .. 129..
म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ १३०॥
सम्यक् यदि हि विरचिताः स्युः त्रिकाः पाद-योगे वर्णैः पूर्व-उपदिष्टैः यतिः अपि च पुनर् सप्तभिः सप्तभिः स्यात् । वृत्तम् सम्यक् यदि स्यात् प्रकृतिम् अनुगतम् तत्व-विद्भिः प्रदिष्टम् विज्ञेयम् वृत्त-जातौ कवि-जन-दयिता स्रग्धरा नामतः तु ॥ १३०॥
samyak yadi hi viracitāḥ syuḥ trikāḥ pāda-yoge varṇaiḥ pūrva-upadiṣṭaiḥ yatiḥ api ca punar saptabhiḥ saptabhiḥ syāt . vṛttam samyak yadi syāt prakṛtim anugatam tatva-vidbhiḥ pradiṣṭam vijñeyam vṛtta-jātau kavi-jana-dayitā sragdharā nāmataḥ tu .. 130..
यथा - चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः । एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैः वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ १३१॥
यथा चूत-अशोक-अरविन्दैः कुरवक-तिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैः बकुल-कुवलयैः किंशुकैः स अतिमुक्तैः । एतैः नाना प्रकारैः बहुल-सुरभिभिः विप्रकीर्णैः च तैः तैः वासन्तैः पुष्प-वृन्दैः नर-वर वसुधा स्रग्धरा इव अद्य भाति ॥ १३१॥
yathā cūta-aśoka-aravindaiḥ kuravaka-tilakaiḥ karṇikāraiḥ śirīṣaiḥ punnāgaiḥ pārijātaiḥ bakula-kuvalayaiḥ kiṃśukaiḥ sa atimuktaiḥ . etaiḥ nānā prakāraiḥ bahula-surabhibhiḥ viprakīrṇaiḥ ca taiḥ taiḥ vāsantaiḥ puṣpa-vṛndaiḥ nara-vara vasudhā sragdharā iva adya bhāti .. 131..
चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ॥ १३२॥
चतुर्थम् आद्यम् षष्ठम् च दशमम् द्वादशम् तथा । षोडश-अष्टादशे च एव नैधनम् च गुरूणि अथ ॥ १३२॥
caturtham ādyam ṣaṣṭham ca daśamam dvādaśam tathā . ṣoḍaśa-aṣṭādaśe ca eva naidhanam ca gurūṇi atha .. 132..
द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ १३३॥
द्वाविंशति-अक्षरे पादे शेषाणि च लघूनि अथ । भवन्ति यत्र तत् ज्ञेयम् भद्रकम् नामतः यथा ॥ १३३॥
dvāviṃśati-akṣare pāde śeṣāṇi ca laghūni atha . bhavanti yatra tat jñeyam bhadrakam nāmataḥ yathā .. 133..
भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ १३४॥
भ्रौ चरणे यदा विनियतौ त्रिकौ क्रम-वशात् अथ अतिकृति-विधौ च ततस् परम् च रुचिरौ अनन्तर-कृतौ नगौ अपि पुनर् । तत् च दश-अष्ट-वर्ण-रचिता चतुर्षु अपि तथा यतिः च सततम् भद्रक-वृत्तम् एव खलु नाट्य-योग-कुशलैः बुधैः निगदितम् ॥ १३४॥
bhrau caraṇe yadā viniyatau trikau krama-vaśāt atha atikṛti-vidhau ca tatas param ca rucirau anantara-kṛtau nagau api punar . tat ca daśa-aṣṭa-varṇa-racitā caturṣu api tathā yatiḥ ca satatam bhadraka-vṛttam eva khalu nāṭya-yoga-kuśalaiḥ budhaiḥ nigaditam .. 134..
उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् । भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैः नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ १३५॥
उत्प्लुतम् एक-हस्त-चरणम् द्वितीय-कर-रेचितम् वंश-मृदङ्ग-वाद्य-मधुरम् विचित्र-करण-अनुगम् बहुविधम् । भद्रकम् एतत् अद्य सुभगे विदग्ध-गति-चेष्टितैः सु ललितैः नृत्यसि विभ्रम-आकुल-पदम् विविक्त-रस-भावितम् शशि-मुखि ॥ १३५॥
utplutam eka-hasta-caraṇam dvitīya-kara-recitam vaṃśa-mṛdaṅga-vādya-madhuram vicitra-karaṇa-anugam bahuvidham . bhadrakam etat adya subhage vidagdha-gati-ceṣṭitaiḥ su lalitaiḥ nṛtyasi vibhrama-ākula-padam vivikta-rasa-bhāvitam śaśi-mukhi .. 135..
अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् । एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ १३६॥
अन्त्यम् एकोनविंशम् च सप्तमम् स त्रयोदशम् । एकादशम् सप्तदशम् पञ्चमम् च गुरूणि अथ ॥ १३६॥
antyam ekonaviṃśam ca saptamam sa trayodaśam . ekādaśam saptadaśam pañcamam ca gurūṇi atha .. 136..
शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः । वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ १३७॥
शेषाणि च लघूनि स्युः विकृत्याः चरणे बुधैः । वृत्तम् तत् अश्वललितम् विज्ञेयम् नामतः यथा ॥ १३७॥
śeṣāṇi ca laghūni syuḥ vikṛtyāḥ caraṇe budhaiḥ . vṛttam tat aśvalalitam vijñeyam nāmataḥ yathā .. 137..
यदि च नकार आदिरचितः पदे विरचितोऽन्त एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा । यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैः तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ १३८॥
यदि च नकारः आदि-रचितः पदे विरचितः अन्तः एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यौ अपि तथा । यदि च समाश्रितम् हि विकृतिम् यतिः च दशभिः तथा एक-सहितैः ततस् इह कीर्तितम् मुनि-गणैः विशुद्ध-चरितैः तत् अश्वललितम् ॥ १३८॥
yadi ca nakāraḥ ādi-racitaḥ pade viracitaḥ antaḥ eva lagau yadi ca nabhau tridhā ca nihitau krameṇa khalu madhyau api tathā . yadi ca samāśritam hi vikṛtim yatiḥ ca daśabhiḥ tathā eka-sahitaiḥ tatas iha kīrtitam muni-gaṇaiḥ viśuddha-caritaiḥ tat aśvalalitam .. 138..
विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् । रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ १३९॥
विविध-तुरङ्ग-नाग-रथ-योध-सङ्कुल-मलम् बलम् समुदितम् शर-शत-शक्ति-कुन्त-परिध-असि-यष्टि-विततम् बहु-प्रहरणम् । रिपु-शत-मुक्त-शस्त्र-रव-भीत-शङ्कित-भटम् भय-आकुल-दिशम् कृतम् अभिवीक्ष्य संयुग-मुखे समर्पित-गुणम् त्वया अश्व-ललितम् ॥ १३९॥
vividha-turaṅga-nāga-ratha-yodha-saṅkula-malam balam samuditam śara-śata-śakti-kunta-paridha-asi-yaṣṭi-vitatam bahu-praharaṇam . ripu-śata-mukta-śastra-rava-bhīta-śaṅkita-bhaṭam bhaya-ākula-diśam kṛtam abhivīkṣya saṃyuga-mukhe samarpita-guṇam tvayā aśva-lalitam .. 139..
षडादावष्टमं चैव ह्येकादशचतुर्दशे । विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ १४०॥
षष्-आदौ अष्टमम् च एव हि एकादश-चतुर्दशे । विंशम् सप्तदशम् च एव त्रयोविंशम् तथा एव च ॥ १४०॥
ṣaṣ-ādau aṣṭamam ca eva hi ekādaśa-caturdaśe . viṃśam saptadaśam ca eva trayoviṃśam tathā eva ca .. 140..
एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ १४१॥
एतानि च लघूनि स्युः शेषाणि अथ गुरूणि च । चतुर्विंशतिके पादे मेघ-माला इति सा यथा ॥ १४१॥
etāni ca laghūni syuḥ śeṣāṇi atha gurūṇi ca . caturviṃśatike pāde megha-mālā iti sā yathā .. 141..
यदि खलु चरणस्थितौ नौ त्रिकौ कृतिकारव्यास्तथा राः स्युः क्रमात् । भवति यदि यतिस्तथा सप्तभिः सप्तभि स्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ॥ १४२॥
यदि खलु चरण-स्थितौ नौ त्रिकौ कृति-कारव्याः तथा राः स्युः क्रमात् । भवति यदि यतिः तथा सप्तभिः सप्तभिः त्रिषु अतस् अन्या यतिः पञ्च विद्यात् तथा ॥ १४२॥
yadi khalu caraṇa-sthitau nau trikau kṛti-kāravyāḥ tathā rāḥ syuḥ kramāt . bhavati yadi yatiḥ tathā saptabhiḥ saptabhiḥ triṣu atas anyā yatiḥ pañca vidyāt tathā .. 142..
पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा । सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ १४३॥
पवन-बल-समाहृता तीव्र-गम्भीर-नादा बलाका-आवली-मेखला क्षितिधर-सदृश-उच्च-रूपा महा-नील-धूमाञ्जन-आभ-अम्बु-गर्भ-उद्भवा । सुरपति-धनुः-उज्ज्वल-आबद्ध-कक्ष्या तडित्-द्योत-सन्नाह-पट्टी-ज्वला गगन-तल-विसारिणी प्रावृषण्या दृढम् मेघ-माला-अधिकम् शोभते ॥ १४३॥
pavana-bala-samāhṛtā tīvra-gambhīra-nādā balākā-āvalī-mekhalā kṣitidhara-sadṛśa-ucca-rūpā mahā-nīla-dhūmāñjana-ābha-ambu-garbha-udbhavā . surapati-dhanuḥ-ujjvala-ābaddha-kakṣyā taḍit-dyota-sannāha-paṭṭī-jvalā gagana-tala-visāriṇī prāvṛṣaṇyā dṛḍham megha-mālā-adhikam śobhate .. 143..
आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ १४४॥
आद्यम् च एव चतुर्थम् च पञ्चमम् षष्ठम् एव च । नवमम् दशमम् च एव नैधनम् च भवेत् गुरु ॥ १४४॥
ādyam ca eva caturtham ca pañcamam ṣaṣṭham eva ca . navamam daśamam ca eva naidhanam ca bhavet guru .. 144..
लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ १४५॥
लघूनि अन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्त-ज्ञैः सा तु विज्ञेया क्रौञ्चपादी इति नामतः ॥ १४५॥
laghūni anyāni śeṣāṇi pāde syuḥ pañcaviṃśake . vṛtta-jñaiḥ sā tu vijñeyā krauñcapādī iti nāmataḥ .. 145..
भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ १४६॥
भ्मौ यदि पादे च इष्टौ अभिकृतिः अपि च हि यदि खलु विहिता नाः च समुद्राः स्युः विनिविष्टाः यदि च खलु गुरु भवति निधन-गतम् । पञ्चभिः आदौ छेदम् उपेता पुनर् अपि यतिः इह यदि खलु दशभिः क्रौञ्च-पदा इयम् वृत्त-विधाने सुर-गण-पितृ-गण-मुनि-गण-विहिता ॥ १४६॥
bhmau yadi pāde ca iṣṭau abhikṛtiḥ api ca hi yadi khalu vihitā nāḥ ca samudrāḥ syuḥ viniviṣṭāḥ yadi ca khalu guru bhavati nidhana-gatam . pañcabhiḥ ādau chedam upetā punar api yatiḥ iha yadi khalu daśabhiḥ krauñca-padā iyam vṛtta-vidhāne sura-gaṇa-pitṛ-gaṇa-muni-gaṇa-vihitā .. 146..
यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् ।
यः किल दाक्षम् विद्रुत-सोमम् क्रतु-वरम् अ चमसम् अपगत-कलशम् पातित-यूपम् क्षिप्त-चषालम् विचयनम् अ समिधम् अ पशुक-चरुकम् ।
yaḥ kila dākṣam vidruta-somam kratu-varam a camasam apagata-kalaśam pātita-yūpam kṣipta-caṣālam vicayanam a samidham a paśuka-carukam .
या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ १४८॥
या कपिल-अक्षी पिङ्गल-केशी कलि-रुचिः अनुदिनम् अनुनय-कठिना दीर्घतराभिः स्थूल-सिराभिः परिवृत-वपुः अतिशय-कुटिल-गतिः । आयत-जङ्घा निम्न-कपोला लघुतर-कुच-युग-परिगत-हृदया सा परिहार्या क्रौञ्च-पदा स्त्री ध्रुवम् इह निरवधि-सुखम् अभिलषता ॥ १४८॥
yā kapila-akṣī piṅgala-keśī kali-ruciḥ anudinam anunaya-kaṭhinā dīrghatarābhiḥ sthūla-sirābhiḥ parivṛta-vapuḥ atiśaya-kuṭila-gatiḥ . āyata-jaṅghā nimna-kapolā laghutara-kuca-yuga-parigata-hṛdayā sā parihāryā krauñca-padā strī dhruvam iha niravadhi-sukham abhilaṣatā .. 148..
अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् । एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ १४९॥
अष्टाव् आदौ गुरूणि स्युः तथा च एकोनविंशकम् । एकविंशम् च विज्ञेयम् चतुर्विंशम् स नैधनम् ॥ १४९॥
aṣṭāv ādau gurūṇi syuḥ tathā ca ekonaviṃśakam . ekaviṃśam ca vijñeyam caturviṃśam sa naidhanam .. 149..
एतानि गुरु सङ्ख्यानि शेषाणि च लघून्यथ । षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ १५०॥
एतानि गुरु-सङ्ख्यानि शेषाणि च लघूनि अथ । षड्विंशति-अक्षरे पादे तत् भुजङ्ग-विजृम्भितम् ॥ १५०॥
etāni guru-saṅkhyāni śeṣāṇi ca laghūni atha . ṣaḍviṃśati-akṣare pāde tat bhujaṅga-vijṛmbhitam .. 150..
यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ गदितकास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टाभिः । पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति मनुजदयितां समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन विकसनपरं भुजङ्गविजृम्भितम् ॥ १५१॥
यस्याम् मौ तः नाः स्त्रौ नित्यम् प्रतिचरणम् अथ गदितकाः त्रिकाः हि अनुपूर्वशस् षड्विंशत्याम् एक-ऊनायाम् च यदि हि खलु यतिः अभिधा चतुर्भिः अथ अष्टाभिः । पश्चात् अन्त्यौ ल्-गौ संयोज्यौ यदि भवति मनुज-दयिताम् समाश्रितम् उत्कृतिम् नाम्ना वृत्तम् लोके ख्यातम् कवि-वदन विकसन-परम् भुजङ्ग-विजृम्भितम् ॥ १५१॥
yasyām mau taḥ nāḥ strau nityam praticaraṇam atha gaditakāḥ trikāḥ hi anupūrvaśas ṣaḍviṃśatyām eka-ūnāyām ca yadi hi khalu yatiḥ abhidhā caturbhiḥ atha aṣṭābhiḥ . paścāt antyau l-gau saṃyojyau yadi bhavati manuja-dayitām samāśritam utkṛtim nāmnā vṛttam loke khyātam kavi-vadana vikasana-param bhujaṅga-vijṛmbhitam .. 151..
यथा - रूपोपेतां देवैः सृष्टां समदगज विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन मचलनयनं शिरः कृतवान् हरिः । दीर्घं निश्वस्यान्तर्गूढं स्तनवदन जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि कनकवलयं भुजङ्गविजृम्भितम् ॥ १५२॥
यथा --उपेताम् देवैः सृष्टाम् स मदगज विलसित-गतिम् निरीक्ष्य तिलोत्तमाम् प्रादक्षिण्यात् प्राप्ताम् द्रष्टुम् बहु-वदन शिरः कृतवान् हरिः । दीर्घम् निश्वस्य अन्तर् गूढम् स्तन-वदन जघन-रुचिराम् निरीक्ष्य तथा पुनर् पृष्ठे न्यस्तम् देव-इन्द्रेण प्रवर-मणि कनक-वलयम् भुजङ्ग-विजृम्भितम् ॥ १५२॥
yathā --upetām devaiḥ sṛṣṭām sa madagaja vilasita-gatim nirīkṣya tilottamām prādakṣiṇyāt prāptām draṣṭum bahu-vadana śiraḥ kṛtavān hariḥ . dīrgham niśvasya antar gūḍham stana-vadana jaghana-rucirām nirīkṣya tathā punar pṛṣṭhe nyastam deva-indreṇa pravara-maṇi kanaka-valayam bhujaṅga-vijṛmbhitam .. 152..
दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् । मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ १५३॥
दण्डकम् नाम विज्ञेयम् उत्कृतेः अधिकतरम् । मेघमाला-आदिकम् तत् स्यात् नौ च आदौ कागुहा त्रिकाः ॥ १५३॥
daṇḍakam nāma vijñeyam utkṛteḥ adhikataram . meghamālā-ādikam tat syāt nau ca ādau kāguhā trikāḥ .. 153..
यथा - मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः सम्प्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ १५४॥
यथा --जनपद-आकुला स्फीत-सस्य-आकरा भूत-धात्री भवन्तम् समभ्यर्चति द्विरद-कर-विलुप्त-हिन्ताल-ताली-वनाः त्वाम् नमस्यन्ति विन्ध्य-आदयः पर्वताः । स्फुटित-कलशा-शुक्ति-निगीर्ण-मुक्ता फलैः ऊर्मि-हस्तैः नमस्यन्ति वः सागराः मुदित-जलचर-आकुलाः सम्प्रकीर्ण-मलाः कीर्तयन्ति इव कीर्तिम् महा-निम्नगाः ॥ १५४॥
yathā --janapada-ākulā sphīta-sasya-ākarā bhūta-dhātrī bhavantam samabhyarcati dvirada-kara-vilupta-hintāla-tālī-vanāḥ tvām namasyanti vindhya-ādayaḥ parvatāḥ . sphuṭita-kalaśā-śukti-nigīrṇa-muktā phalaiḥ ūrmi-hastaiḥ namasyanti vaḥ sāgarāḥ mudita-jalacara-ākulāḥ samprakīrṇa-malāḥ kīrtayanti iva kīrtim mahā-nimnagāḥ .. 154..
एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ १५५॥
एतानि सम-वृत्तानि मया उक्तानि द्विजोत्तमाः । विषम-अर्ध-समानाम् तु पुनर् वक्ष्यामि लक्षणम् ॥ १५५॥
etāni sama-vṛttāni mayā uktāni dvijottamāḥ . viṣama-ardha-samānām tu punar vakṣyāmi lakṣaṇam .. 155..
यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । ग्रथिताः पादयोगेन तद् वृत्तं विषमं स्मृतम् ॥ १५६॥
यत्र पादाः तु विषमाः नाना वृत्त-समुद्भवाः । ग्रथिताः पाद-योगेन तत् वृत्तम् विषमम् स्मृतम् ॥ १५६॥
yatra pādāḥ tu viṣamāḥ nānā vṛtta-samudbhavāḥ . grathitāḥ pāda-yogena tat vṛttam viṣamam smṛtam .. 156..
द्वौ समं द्वौ च विषमौ वृत्तेऽर्धविषमे तथा । सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ १५७॥
द्वौ समम् द्वौ च विषमौ वृत्ते अर्ध-विषमे तथा । सर्व-पादैः च विषमैः वृत्तम् विषमम् उच्यते ॥ १५७॥
dvau samam dvau ca viṣamau vṛtte ardha-viṣame tathā . sarva-pādaiḥ ca viṣamaiḥ vṛttam viṣamam ucyate .. 157..
ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ १५८॥
ह्रस्व-आद्यम् अथ दीर्घ-आद्यम् दीर्घम् ह्रस्वम् अथ अपि वा । युग्म-ऊज-विषमैः पादैः वृत्तम् अर्ध-समम् भवेत् ॥ १५८॥
hrasva-ādyam atha dīrgha-ādyam dīrgham hrasvam atha api vā . yugma-ūja-viṣamaiḥ pādaiḥ vṛttam ardha-samam bhavet .. 158..
पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ १५९॥
पादे सिद्धे समम् सिद्धम् विषमम् सार्वपादिकम् । द्वयोः अर्ध-समम् विद्यात् एष छेदः तु पादतः ॥ १५९॥
pāde siddhe samam siddham viṣamam sārvapādikam . dvayoḥ ardha-samam vidyāt eṣa chedaḥ tu pādataḥ .. 159..
छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः । त्रिकैर्विषमवृत्तानां सम्प्रवक्ष्यामि लक्षणम् ॥ १६०॥
छेदाः तु ये मया प्रोक्ता सम-वृत्त-विकल्पितः । त्रिकैः विषम-वृत्तानाम् सम्प्रवक्ष्यामि लक्षणम् ॥ १६०॥
chedāḥ tu ye mayā proktā sama-vṛtta-vikalpitaḥ . trikaiḥ viṣama-vṛttānām sampravakṣyāmi lakṣaṇam .. 160..
नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते । द्वितीये चरणे च स्यादित्यनुष्टुप् समासतः ॥ १६१॥
न एधने अन्यतरस्याम् वै प्रथमः पादः इष्यते । द्वितीये चरणे च स्यात् इति अनुष्टुभ् समासतस् ॥ १६१॥
na edhane anyatarasyām vai prathamaḥ pādaḥ iṣyate . dvitīye caraṇe ca syāt iti anuṣṭubh samāsatas .. 161..
सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके । युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १६२॥
सौ गौ तु प्रथमे पादे स्रौ ल्गौ च अपि द्वितीयके । युग्मे अर्ध-विषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १६२॥
sau gau tu prathame pāde srau lgau ca api dvitīyake . yugme ardha-viṣame pāde jñeyā pathyā tu sā trikaiḥ .. 162..
प्रियदैवतमित्रासि प्रियसम्बन्धिबान्धवा । प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ १६३॥
प्रिय-दैवत-मित्रा असि प्रिय-सम्बन्धि-बान्धवा । प्रिय-दान-रता पथ्या दयिते त्वम् प्रिया असि मे ॥ १६३॥
priya-daivata-mitrā asi priya-sambandhi-bāndhavā . priya-dāna-ratā pathyā dayite tvam priyā asi me .. 163..
म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ १६४॥
म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु त-सौ ल-गौ ॥ १६४॥
mrau gau tu prathame pāde ysau lgau ca dvitīyake . pāde bhau lgau tṛtīye ca caturthe tu ta-sau la-gau .. 164..
नैवाचारो न ते मित्रं न सम्बन्धिगुणप्रिया । सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ १६५॥
न एव आचारः न ते मित्रम् न सम्बन्धि-गुण-प्रिया । सर्वथा सर्व-विषमा पथ्या न भवसि प्रिये ॥ १६५॥
na eva ācāraḥ na te mitram na sambandhi-guṇa-priyā . sarvathā sarva-viṣamā pathyā na bhavasi priye .. 165..
अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ १६६॥
अयुजोः लक्षणम् हि एतत् विपरीतम् तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतः यथा ॥ १६६॥
ayujoḥ lakṣaṇam hi etat viparītam tu yatra ca . pathyā hi viparītā sā vijñeyā nāmataḥ yathā .. 166..
कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् । विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ १६७॥
कृतेन रमणस्य किम् सखि रोषेण ते अपि अर्थम् । विपरीता न पथ्या असि त्वम् जडे केन मोहिता ॥ १६७॥
kṛtena ramaṇasya kim sakhi roṣeṇa te api artham . viparītā na pathyā asi tvam jaḍe kena mohitā .. 167..
चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ १६८॥
चतुर्थात् अक्षरात् यत्र त्रि-लघु स्यात् अयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतः यथा ॥ १६८॥
caturthāt akṣarāt yatra tri-laghu syāt ayuktataḥ . anuṣṭupcapalā sā tu vijñeyā nāmataḥ yathā .. 168..
न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ १६९॥
न खलु अस्याः प्रियतमः श्रोतव्यम् व्याहृतम् सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हि इयम् ॥ १६९॥
na khalu asyāḥ priyatamaḥ śrotavyam vyāhṛtam sakhyā . nāradasya pratikṛtiḥ kathyate capalā hi iyam .. 169..
विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । सर्वत्र सप्तमस्यैव केषाञ्चिद्विपुला यथा ॥ १७०॥
विपुला तु युजि ज्ञेया लघु-त्वात् सप्तमस्य तु । सर्वत्र सप्तमस्य एव केषाञ्चिद् विपुला यथा ॥ १७०॥
vipulā tu yuji jñeyā laghu-tvāt saptamasya tu . sarvatra saptamasya eva keṣāñcid vipulā yathā .. 170..
सङ्क्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी । विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ १७१॥
सङ्क्षिप्ता वज्र-मध्ये हि हेम-कुम्भ-निभ-स्तनी । विपुला असि प्रिये श्रोण्याम् पूर्ण-चन्द्र-निभ-आनने ॥ १७१॥
saṅkṣiptā vajra-madhye hi hema-kumbha-nibha-stanī . vipulā asi priye śroṇyām pūrṇa-candra-nibha-ānane .. 171..
गङ्गेव मेघोपगमे आप्लावितवसुन्धरा । कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ १७२॥
गङ्गा इव मेघ-उपगमे आप्लावित-वसुन्धरा । कूल-वृक्षान् आरुजन्ती स्रवन्ती विपुला बलात् ॥ १७२॥
gaṅgā iva megha-upagame āplāvita-vasundharā . kūla-vṛkṣān ārujantī sravantī vipulā balāt .. 172..
आगता मेघसमये भीरु भीरुकुलोद्गते । एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ १७३॥
आगता मेघ-समये भीरु भीरु-कुल-उद्गते । एक-रात्रौ पर-गृहम् चोरी बन्धनम् अर्हसि ॥ १७३॥
āgatā megha-samaye bhīru bhīru-kula-udgate . eka-rātrau para-gṛham corī bandhanam arhasi .. 173..
एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ १७४॥
एवम् विविध-योगाः तु पथ्या-पादाः भवन्ति हि । युग्म-ऊज-विषमैः पादैः शेषैः अन्यैः त्रिकैः यथा ॥ १७४॥
evam vividha-yogāḥ tu pathyā-pādāḥ bhavanti hi . yugma-ūja-viṣamaiḥ pādaiḥ śeṣaiḥ anyaiḥ trikaiḥ yathā .. 174..
गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते । प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १७५॥
गुरु-अन्तकः सर्व-लघुः त्रिकः नित्यम् हि न इष्यते । प्रथमात् अक्षरात् यत्र चतुर्थात् प्राक् लघुः स्मृतः ॥ १७५॥
guru-antakaḥ sarva-laghuḥ trikaḥ nityam hi na iṣyate . prathamāt akṣarāt yatra caturthāt prāk laghuḥ smṛtaḥ .. 175..
पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ । भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ १७६॥
पथ्या-पादम् समास्थाप्य त्रीणि अन्ते तु गुरूणि अथ । भवन्ति पादे सततम् बुधैः तत् वक्रम् इष्यते ॥ १७६॥
pathyā-pādam samāsthāpya trīṇi ante tu gurūṇi atha . bhavanti pāde satatam budhaiḥ tat vakram iṣyate .. 176..
दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च । रतिसम्भोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ १७७॥
दन्त-क्षत-अधरम् सुभ्रु जागर-ग्लान-नेत्रम् च । रति-सम्भोग-खिन्नम् ते दर्शनीयतरम् वक्त्रम् ॥ १७७॥
danta-kṣata-adharam subhru jāgara-glāna-netram ca . rati-sambhoga-khinnam te darśanīyataram vaktram .. 177..
इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते । तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ १७८॥
इति एषा सर्व-विषमा नामतः अनुष्टुभ् उच्यते । तद्-विदाम् मत-वैषम्यम् त्रिकात् अक्षरतः तथा ॥ १७८॥
iti eṣā sarva-viṣamā nāmataḥ anuṣṭubh ucyate . tad-vidām mata-vaiṣamyam trikāt akṣarataḥ tathā .. 178..
पादे षोडशमात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १७९॥
पादे षोडश-मात्राः तु गाथा-अंशक-विकल्पिताः । चतुर्भिः अंशकैः ज्ञेया वृत्त-ज्ञैः वानवासिका ॥ १७९॥
pāde ṣoḍaśa-mātrāḥ tu gāthā-aṃśaka-vikalpitāḥ . caturbhiḥ aṃśakaiḥ jñeyā vṛtta-jñaiḥ vānavāsikā .. 179..
असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ १८०॥
असंस्थित-पदा सु विह्वल-अङ्गी मद-स्खलित-चेष्टितैः मनोज्ञा । क्व यास्यसि वर-ऊरु सुरत-काले विषमा किम् वानवासिका त्वम् ॥ १८०॥
asaṃsthita-padā su vihvala-aṅgī mada-skhalita-ceṣṭitaiḥ manojñā . kva yāsyasi vara-ūru surata-kāle viṣamā kim vānavāsikā tvam .. 180..
स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ १८१॥
स्-जौ स्-गौ च प्रथमे पादे तथा च एव तृतीयके । केतुमत्याम् गणाः प्रोक्ताः भ्रौ न्-गौ गः च सदा बुधैः ॥ १८१॥
s-jau s-gau ca prathame pāde tathā ca eva tṛtīyake . ketumatyām gaṇāḥ proktāḥ bhrau n-gau gaḥ ca sadā budhaiḥ .. 181..
स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ १८२॥
स्फुरित-अधरम् चकित-नेत्रम् रक्त-कपोलम् अम्बुज-दल-अक्षम् । किम् इदम् रुषा अपहृत-शोभम् केतुमती-समम् वद मुखम् ते ॥ १८२॥
sphurita-adharam cakita-netram rakta-kapolam ambuja-dala-akṣam . kim idam ruṣā apahṛta-śobham ketumatī-samam vada mukham te .. 182..
वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ १८३॥
वक्त्रस्य अपर-पूर्वस्य च आदौ नौ रः लगौ त्रिकाः । न-जौ र-जौ द्वितीये च शेष-अग्रम् पुनर् एव तु ॥ १८३॥
vaktrasya apara-pūrvasya ca ādau nau raḥ lagau trikāḥ . na-jau ra-jau dvitīye ca śeṣa-agram punar eva tu .. 183..
प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ १८४॥
प्रथमे च तृतीये नौ र-लौ गः च प्रकीर्तितः । गणाः च अपर-वक्त्रे तु न-जौ ज्-रौ द्वि-चतुर्थयोः ॥ १८४॥
prathame ca tṛtīye nau ra-lau gaḥ ca prakīrtitaḥ . gaṇāḥ ca apara-vaktre tu na-jau j-rau dvi-caturthayoḥ .. 184..
सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ॥ १८५॥
सु तनु जल-परीत-लोचनम् जलद-निरुद्धम् इव इन्दु-मण्डलम् । किम् इदम् अपर-वक्त्रम् एव ते शशि-वदने अद्य मुखम् पराङ्मुखम् ॥ १८५॥
su tanu jala-parīta-locanam jalada-niruddham iva indu-maṇḍalam . kim idam apara-vaktram eva te śaśi-vadane adya mukham parāṅmukham .. 185..
नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ १८६॥
नौ यौ तु प्रथमे पादे न्-जौ ज्-रौ गः च तथा अपरे । यत्र तत् पुष्पित-अग्रा स्यात् यदि शेषम् तु पूर्ववत् ॥ १८६॥
nau yau tu prathame pāde n-jau j-rau gaḥ ca tathā apare . yatra tat puṣpita-agrā syāt yadi śeṣam tu pūrvavat .. 186..
पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ १८७॥
पवन-बल-विधूत-चारु-शाखम् प्रमुदित-कोकिल-कण्ठ-नाद-रम्यम् । मधुकर-परिगीयमान-शब्दम् वर-तनु पश्य वनम् सु पुष्पित-अग्रम् ॥ १८७॥
pavana-bala-vidhūta-cāru-śākham pramudita-kokila-kaṇṭha-nāda-ramyam . madhukara-parigīyamāna-śabdam vara-tanu paśya vanam su puṣpita-agram .. 187..
स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ १८८॥
स्-जौ स्-लौ च आदौ यथा न्सौ ज्गौ भ्नौ ज्लौ गः च तथा पुनर् । स्-जौ स्-जौ गः च त्रिकाः हि एते उद्गतायाः प्रकीर्तिताः ॥ १८८॥
s-jau s-lau ca ādau yathā nsau jgau bhnau jlau gaḥ ca tathā punar . s-jau s-jau gaḥ ca trikāḥ hi ete udgatāyāḥ prakīrtitāḥ .. 188..
तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी । नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ १८९॥
तव रोमराजिः अतिभाति सु तनु मदनस्य मञ्जरी । नाभि-कमल-विवर-उत्पतिता भ्रमर-आवली इव कुसुमात् समुद्गता ॥ १८९॥
tava romarājiḥ atibhāti su tanu madanasya mañjarī . nābhi-kamala-vivara-utpatitā bhramara-āvalī iva kusumāt samudgatā .. 189..
स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ १९०॥
स्-जौ स्-लौ च ततस् न्-सौ ज्-गौ नौ सौ च इति तृतीयके । स्जौ स्जौ गः च चतुर्थे तु ललितायाः गणाः स्मृताः ॥ १९०॥
s-jau s-lau ca tatas n-sau j-gau nau sau ca iti tṛtīyake . sjau sjau gaḥ ca caturthe tu lalitāyāḥ gaṇāḥ smṛtāḥ .. 190..
ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा । प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ १९१॥
ललिता-आकुल-भ्रमित-चारु वसन-कर-चारु-पल्लवा । प्रविकसित-कमल-कान्ति-मुखी प्रविभासि देवी सुरत-श्रम-आतुरा ॥ १९१॥
lalitā-ākula-bhramita-cāru vasana-kara-cāru-pallavā . pravikasita-kamala-kānti-mukhī pravibhāsi devī surata-śrama-āturā .. 191..
एवमेतानि वृत्तानि समानि विषमाणि च । नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १९२॥
एवम् एतानि वृत्तानि समानि विषमाणि च । नाटक-आद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १९२॥
evam etāni vṛttāni samāni viṣamāṇi ca . nāṭaka-ādyeṣu kāvyeṣu prayoktavyāni sūribhiḥ .. 192..
सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः । न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ १९३॥
सन्ति अन्यानि अपि वृत्तानि यानि उक्तानि इह पिण्डशस् । न च तानि प्रयोज्यानि न शोभाम् जनयन्ति हि ॥ १९३॥
santi anyāni api vṛttāni yāni uktāni iha piṇḍaśas . na ca tāni prayojyāni na śobhām janayanti hi .. 193..
यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ १९४॥
यानि अतस् प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवा-योगे तु वक्ष्यामि तेषाम् च एव विकल्पनम् ॥ १९४॥
yāni atas pratiṣiddhāni gītake tāni yojayet . dhruvā-yoge tu vakṣyāmi teṣām ca eva vikalpanam .. 194..
वृत्तलक्षणमेवं तु समासेन मयोदितम् । अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ १९५॥
वृत्त-लक्षणम् एवम् तु समासेन मया उदितम् । अतस् ऊर्ध्वम् प्रवक्ष्यामि हि आर्याणाम् अपि लक्षणम् ॥ १९५॥
vṛtta-lakṣaṇam evam tu samāsena mayā uditam . atas ūrdhvam pravakṣyāmi hi āryāṇām api lakṣaṇam .. 195..
पथ्या च विपुला चैव चषला मुखतोऽपरा । जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १९६॥
पथ्या च विपुला च एव चषला मुखतः अपरा । जघने चपला च एव आर्याः पञ्च प्रकीर्तिताः ॥ १९६॥
pathyā ca vipulā ca eva caṣalā mukhataḥ aparā . jaghane capalā ca eva āryāḥ pañca prakīrtitāḥ .. 196..
आसां तु सम्प्रवक्ष्यामि यतिमात्राविकल्पनम् । लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ १९७॥
आसाम् तु सम्प्रवक्ष्यामि यति-मात्रा-विकल्पनम् । लक्षणम् नियमम् च एव विकल्प-गुण-संश्रयम् ॥ १९७॥
āsām tu sampravakṣyāmi yati-mātrā-vikalpanam . lakṣaṇam niyamam ca eva vikalpa-guṇa-saṃśrayam .. 197..
यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ १९८॥
यतिः छेदः तु विज्ञेयः चतुर्-मात्रः गणः स्मृतः । द्वितीय-अन्त्यौ युजौ पादौ अयुजौ तु अपरौ स्मृतौ ॥ १९८॥
yatiḥ chedaḥ tu vijñeyaḥ catur-mātraḥ gaṇaḥ smṛtaḥ . dvitīya-antyau yujau pādau ayujau tu aparau smṛtau .. 198..
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ १९९॥
गुरु-मध्य-विहीनः तु चतुर्-गण-समन्वितः । अयुज्-गणः विधातव्यः युज्-गणः तु यथा ईप्सितः ॥ १९९॥
guru-madhya-vihīnaḥ tu catur-gaṇa-samanvitaḥ . ayuj-gaṇaḥ vidhātavyaḥ yuj-gaṇaḥ tu yathā īpsitaḥ .. 199..
षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः । पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ २००॥
षष्ठः वै द्वि-विकल्पः तु नैधनः हि एक-संस्थितः । पश्चात् अर्धे तु षष्ठः स्यात् एक-मात्रः तु केवलः ॥ २००॥
ṣaṣṭhaḥ vai dvi-vikalpaḥ tu naidhanaḥ hi eka-saṃsthitaḥ . paścāt ardhe tu ṣaṣṭhaḥ syāt eka-mātraḥ tu kevalaḥ .. 200..
द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः । तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ २०१॥
द्वि-विकल्पः तु षष्ठः यः गुरु-मध्यः भवेत् तु सः । तथा सर्व-लघुः च एव यति-संज्ञा-समाश्रिता ॥ २०१॥
dvi-vikalpaḥ tu ṣaṣṭhaḥ yaḥ guru-madhyaḥ bhavet tu saḥ . tathā sarva-laghuḥ ca eva yati-saṃjñā-samāśritā .. 201..
द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ २०२॥
द्वितीय-आदि-लघुः ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथम-आदि-रथ-अन्त्ये च पञ्चमे वा विधीयते ॥ २०२॥
dvitīya-ādi-laghuḥ jñeyaḥ saptame pañcame yatiḥ . prathama-ādi-ratha-antye ca pañcame vā vidhīyate .. 202..
गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ २०३॥
गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतस् च विपुला अन्या तु विज्ञेया यति-लक्षणा ॥ २०३॥
gaṇeṣu triṣu pādasya yasyāḥ pathyā tu sā bhavet . atas ca vipulā anyā tu vijñeyā yati-lakṣaṇā .. 203..
अयुजः सर्वगुरवो गुरुमध्या गणा युजः । यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ २०४॥
अयुजः सर्व-गुरवः गुरु-मध्याः गणाः युजः । यस्याः स्युः पाद-योगे तु विज्ञेया चपला हि सा ॥ २०४॥
ayujaḥ sarva-guravaḥ guru-madhyāḥ gaṇāḥ yujaḥ . yasyāḥ syuḥ pāda-yoge tu vijñeyā capalā hi sā .. 204..
त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे । उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ २०५॥
त्रिंशत्-आद्ये तु विज्ञेयाः सप्तविंशतिः च अपरे । उभयोः अर्धयोः ज्ञेयः मात्रा-पिण्डः विभागशः ॥ २०५॥
triṃśat-ādye tu vijñeyāḥ saptaviṃśatiḥ ca apare . ubhayoḥ ardhayoḥ jñeyaḥ mātrā-piṇḍaḥ vibhāgaśaḥ .. 205..
त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । त्रीण्यक्षराणि चान्यानि न्यस्य सङ्ख्याविभागशः ॥ २०६॥
त्रिंशत् तस्याः च यदि स्युः एतानि द्विगुणानि तु । त्रीणि अक्षराणि च अन्यानि न्यस्य सङ्ख्या-विभागशः ॥ २०६॥
triṃśat tasyāḥ ca yadi syuḥ etāni dviguṇāni tu . trīṇi akṣarāṇi ca anyāni nyasya saṅkhyā-vibhāgaśaḥ .. 206..
एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ २०७॥
एतानि लघु-संज्ञानि निर्दिष्टानि समासतस् । सर्वेषाम् च एवम् आर्याणाम् अक्षराणाम् यथाक्रमम् ॥ २०७॥
etāni laghu-saṃjñāni nirdiṣṭāni samāsatas . sarveṣām ca evam āryāṇām akṣarāṇām yathākramam .. 207..
अर्धाष्टमगणार्धा च सववार्या प्रकीर्तिता । षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ २०८॥
अर्ध-अष्टम-गण-अर्धा च सववार्या प्रकीर्तिता । षष्ठः च द्वि-विकल्पः तु नैधने हि एक-संस्थितः ॥ २०८॥
ardha-aṣṭama-gaṇa-ardhā ca savavāryā prakīrtitā . ṣaṣṭhaḥ ca dvi-vikalpaḥ tu naidhane hi eka-saṃsthitaḥ .. 208..
पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ २०९॥
पश्चात् वा यः गणः षष्ठः एक-मात्रः सः उच्यते । द्वि-विकल्पः तु यः षष्ठः गुरु-मध्यः भवेत् तु सः ॥ २०९॥
paścāt vā yaḥ gaṇaḥ ṣaṣṭhaḥ eka-mātraḥ saḥ ucyate . dvi-vikalpaḥ tu yaḥ ṣaṣṭhaḥ guru-madhyaḥ bhavet tu saḥ .. 209..
यथा सर्वलघुश्चैव यतिः सङ्ख्यासमाश्रिता । सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ २१०॥
यथा सर्व-लघुः च एव यतिः सङ्ख्या-समाश्रिता । सा द्वितीया द्वि-लघुका सप्तमे प्रथमे यतिः ॥ २१०॥
yathā sarva-laghuḥ ca eva yatiḥ saṅkhyā-samāśritā . sā dvitīyā dvi-laghukā saptame prathame yatiḥ .. 210..
गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ २११॥
गुरु-मध्य-विहीनः तु चतुर्-गण-समन्वितः । अयुज्-गणः विधातव्यः युज्-गणः तु सः एव च ॥ २११॥
guru-madhya-vihīnaḥ tu catur-gaṇa-samanvitaḥ . ayuj-gaṇaḥ vidhātavyaḥ yuj-gaṇaḥ tu saḥ eva ca .. 211..
प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ २१२॥
प्रथम-तृतीयौ पादौ द्वादश-मात्रौ भवेत् तु सा पथ्या । विपुला अन्या खलु गदिता पूर्व-उदित-लक्षण-उपेता ॥ २१२॥
prathama-tṛtīyau pādau dvādaśa-mātrau bhavet tu sā pathyā . vipulā anyā khalu gaditā pūrva-udita-lakṣaṇa-upetā .. 212..
रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ २१३॥
रक्त-मृदु-पद्म-नेत्रा सित-दीर्घ-बहुल-मृदु-केशी । कस्य तु पृथु-मृदु-जघना सोदरी पथ्या ॥ २१३॥
rakta-mṛdu-padma-netrā sita-dīrgha-bahula-mṛdu-keśī . kasya tu pṛthu-mṛdu-jaghanā sodarī pathyā .. 213..
विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ २१४॥
विपुल-जघन-वदन-स्तन-नयनैः ताम्र-अधर-उष्ठ-कर-चरणैः । आयत-नासा-गण्डैः ललाट-कर्णैः शुभा कन्या ॥ २१४॥
vipula-jaghana-vadana-stana-nayanaiḥ tāmra-adhara-uṣṭha-kara-caraṇaiḥ . āyata-nāsā-gaṇḍaiḥ lalāṭa-karṇaiḥ śubhā kanyā .. 214..
द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ २१५॥
द्वितीयः च चतुर्थः च गुरु-मध्य-गतः भवेत् । उभयोः अर्धयोः यत्र विज्ञेया चपला यथा ॥ २१५॥
dvitīyaḥ ca caturthaḥ ca guru-madhya-gataḥ bhavet . ubhayoḥ ardhayoḥ yatra vijñeyā capalā yathā .. 215..
उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा । जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ २१६॥
उद्भट-गामिनी परुष-भाषिणी काम-चिह्न-कृत-वेषा । जानाति मांस-युक्ता सुरा-प्रिया सर्वतस् चपला ॥ २१६॥
udbhaṭa-gāminī paruṣa-bhāṣiṇī kāma-cihna-kṛta-veṣā . jānāti māṃsa-yuktā surā-priyā sarvatas capalā .. 216..
पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु । पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ २१७॥
पूर्व-अर्धे लक्षणम् हि एतत् अस्याः स च मुखेन तु । पश्चिम-अर्धे तु चपला यस्याः सा जघनेन तु ॥ २१७॥
pūrva-ardhe lakṣaṇam hi etat asyāḥ sa ca mukhena tu . paścima-ardhe tu capalā yasyāḥ sā jaghanena tu .. 217..
आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् । दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ २१८॥
आर्या-मुखे तु चपला तथा अपि च आर्या न मे यतस् सा किम् । दक्षा गृह-कृत्येषु तथा दुःखे भवति दुःख-आर्ता ॥ २१८॥
āryā-mukhe tu capalā tathā api ca āryā na me yatas sā kim . dakṣā gṛha-kṛtyeṣu tathā duḥkhe bhavati duḥkha-ārtā .. 218..
वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ २१९॥
वर-मृग-नयने चपला असि वर-ऊरु शशाङ्क-दर्पण-निभ-आस्ये । कामस्य सार-भूते न पूर्व-मद-चारु-जघनेन ॥ २१९॥
vara-mṛga-nayane capalā asi vara-ūru śaśāṅka-darpaṇa-nibha-āsye . kāmasya sāra-bhūte na pūrva-mada-cāru-jaghanena .. 219..
उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि । वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ २२०॥
उभयोः अर्धयोः एतत् लक्षणम् दृश्यते यदि । वृत्त-ज्ञैः सा तु विज्ञेया सर्वतस् चपला सखि ॥ २२०॥
ubhayoḥ ardhayoḥ etat lakṣaṇam dṛśyate yadi . vṛtta-jñaiḥ sā tu vijñeyā sarvatas capalā sakhi .. 220..
कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ २२१॥
कार्यौ द्वादश-मात्रौ च पादौ आद्यौ तृतीयकौ । अष्टादश द्वितीयम् च तथा पञ्चदश उत्तमा ॥ २२१॥
kāryau dvādaśa-mātrau ca pādau ādyau tṛtīyakau . aṣṭādaśa dvitīyam ca tathā pañcadaśa uttamā .. 221..
चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं सम्प्रदर्शयेत् ॥ २२२॥
चतुर्-पञ्च-प्रकाराणाम् चतुष्काणाम् विशेषतः । प्रस्तार-योगम् आसाद्य बाहुल्यम् सम्प्रदर्शयेत् ॥ २२२॥
catur-pañca-prakārāṇām catuṣkāṇām viśeṣataḥ . prastāra-yogam āsādya bāhulyam sampradarśayet .. 222..
पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च । आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ २२३॥
पञ्चपञ्चाशत्-आद्या तु त्रिंशत्-आद्या तथा एव च । आर्या तु अक्षर-पिण्डेन विज्ञेया अत्र प्रयोक्तृभिः ॥ २२३॥
pañcapañcāśat-ādyā tu triṃśat-ādyā tathā eva ca . āryā tu akṣara-piṇḍena vijñeyā atra prayoktṛbhiḥ .. 223..
त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । शेषाणि गुरुसङ्ख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ २२४॥
त्रिंशतः तु अथ वर्णेभ्यः लघु-वर्ण-त्रयम् भवेत् । शेषाणि गुरु-सङ्ख्यानि हि एवम् सर्वत्र निर्दिशेत् ॥ २२४॥
triṃśataḥ tu atha varṇebhyaḥ laghu-varṇa-trayam bhavet . śeṣāṇi guru-saṅkhyāni hi evam sarvatra nirdiśet .. 224..
सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । सर्वेषां जातिवृत्तानां पूर्वमुत्तरसङ्ख्यया ॥ २२५॥
सर्वेषाम् एव च आर्याणाम् अक्षराणाम् यथाक्रमम् । सर्वेषाम् जाति-वृत्तानाम् पूर्वम् उत्तर-सङ्ख्यया ॥ २२५॥
sarveṣām eva ca āryāṇām akṣarāṇām yathākramam . sarveṣām jāti-vṛttānām pūrvam uttara-saṅkhyayā .. 225..
विकल्पगणनां कृत्वा सङ्ख्यापिण्डेन निर्दिशेत् । आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ २२६॥
विकल्प-गणनाम् कृत्वा सङ्ख्या-पिण्डेन निर्दिशेत् । आर्या-गीतिः अथ आर्या एव केवलम् तु अष्टभिः गणैः ॥ २२६॥
vikalpa-gaṇanām kṛtvā saṅkhyā-piṇḍena nirdiśet . āryā-gītiḥ atha āryā eva kevalam tu aṣṭabhiḥ gaṇaiḥ .. 226..
इतरार्थे जः षष्ठस्तु नलघुगण इष्यते । वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ २२७॥
इतर-अर्थे जः षष्ठः तु न-लघु-गणः इष्यते । वृत्तैः एवम् तु विविधैः नाना छन्दः-समुद्भवैः । काव्य-बन्धाः तु कर्तव्याः षट्त्रिंशत्-लक्षण-अन्विताः ॥ २२७॥
itara-arthe jaḥ ṣaṣṭhaḥ tu na-laghu-gaṇaḥ iṣyate . vṛttaiḥ evam tu vividhaiḥ nānā chandaḥ-samudbhavaiḥ . kāvya-bandhāḥ tu kartavyāḥ ṣaṭtriṃśat-lakṣaṇa-anvitāḥ .. 227..
इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशोऽध्यायः ।
इति भरतीये नाट्यशास्त्रे छन्दोविचितिः नाम पञ्चदशः अध्यायः ।
iti bharatīye nāṭyaśāstre chandovicitiḥ nāma pañcadaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In