| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३५ ॥
॥ नाट्य-शास्त्रम् अध्याय- ॥
.. nāṭya-śāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ पञ्चत्रिंशोऽध्यायः ।
अथ पञ्चत्रिंशः अध्यायः ।
atha pañcatriṃśaḥ adhyāyaḥ .
विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके । यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ १ ॥
विन्यासम् भूमिकानाम् च सम्प्रवक्ष्यामि नाटके । यादृशः यस्य कर्तव्यः विन्यासः भूमिकासु अथ ॥ १ ॥
vinyāsam bhūmikānām ca sampravakṣyāmi nāṭake . yādṛśaḥ yasya kartavyaḥ vinyāsaḥ bhūmikāsu atha .. 1 ..
गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः । परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने ॥ २ ॥
गति-वाच्-अङ्ग-चेष्टाभिः सत्त्व-शील-स्वभावतः । परीक्ष्य पात्रम् तद्-ज्ञः तु युञ्ज्यात् भूमि-निवेशने ॥ २ ॥
gati-vāc-aṅga-ceṣṭābhiḥ sattva-śīla-svabhāvataḥ . parīkṣya pātram tad-jñaḥ tu yuñjyāt bhūmi-niveśane .. 2 ..
तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ ३ ॥
तस्मिन् अन्विष्य हि गुणवान् कार्या पात्र-समाश्रया । न खेद-जननम् बुद्धेः आचार्यस्य भविष्यति ॥ ३ ॥
tasmin anviṣya hi guṇavān kāryā pātra-samāśrayā . na kheda-jananam buddheḥ ācāryasya bhaviṣyati .. 3 ..
आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् । ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् ॥ ४ ॥
आचार्यः पात्र-जान् च एव गुणान् ज्ञात्वा स्वभाव-जान् । ततस् कुर्यात् यथायोगम् नृणाम् भूमि-निवेशनम् ॥ ४ ॥
ācāryaḥ pātra-jān ca eva guṇān jñātvā svabhāva-jān . tatas kuryāt yathāyogam nṛṇām bhūmi-niveśanam .. 4 ..
अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् । न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ ५ ॥
अङ्ग-प्रत्यङ्ग-संयुक्तम् अहीन-अङ्गम् वयः-न्वितम् । न स्थूलम् न कृशम् च एव न दीर्घम् न च मन्थरम् ॥ ५ ॥
aṅga-pratyaṅga-saṃyuktam ahīna-aṅgam vayaḥ-nvitam . na sthūlam na kṛśam ca eva na dīrgham na ca mantharam .. 5 ..
श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् । एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ ६ ॥
श्लिष्ट-अङ्गम् द्युतिमन्तम् च सु स्वरम् प्रिय-दर्शनम् । एतैः गुणैः च संयुक्तम् देव-भूमिषु योजयेत् ॥ ६ ॥
śliṣṭa-aṅgam dyutimantam ca su svaram priya-darśanam . etaiḥ guṇaiḥ ca saṃyuktam deva-bhūmiṣu yojayet .. 6 ..
स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् । रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ ७ ॥
स्थूलम् प्रांशुम् बृहत्-देहम् मेघ-गम्भीर-निस्वनम् । रौद्र-स्वभाव-नेत्रम् च स्वभाव-भ्रुकुटी-मुखम् ॥ ७ ॥
sthūlam prāṃśum bṛhat-deham megha-gambhīra-nisvanam . raudra-svabhāva-netram ca svabhāva-bhrukuṭī-mukham .. 7 ..
रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् । पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ ८ ॥
रक्षः-दानव-दैत्यानाम् भूमिकासु प्रयोजयेत् । पुरुषाणाम् प्रयोगः तु तथा अङ्ग-क्रियया अन्वितः ॥ ८ ॥
rakṣaḥ-dānava-daityānām bhūmikāsu prayojayet . puruṣāṇām prayogaḥ tu tathā aṅga-kriyayā anvitaḥ .. 8 ..
सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ ९ ॥
सु नेत्र-सु भ्रुवः सु अङ्गाः सु ललाटाः सु नासिकाः । सु ओष्ठाः सु गण्डाः सु मुखाः सु कण्ठाः सु शिरोधराः ॥ ९ ॥
su netra-su bhruvaḥ su aṅgāḥ su lalāṭāḥ su nāsikāḥ . su oṣṭhāḥ su gaṇḍāḥ su mukhāḥ su kaṇṭhāḥ su śirodharāḥ .. 9 ..
स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ १० ॥
सु अङ्ग-प्रत्यङ्ग-संयुक्ताः न दीर्घाः न च मन्थराः । न स्थूलाः न कृशाः च एव स्वभावेन व्यवस्थिताः ॥ १० ॥
su aṅga-pratyaṅga-saṃyuktāḥ na dīrghāḥ na ca mantharāḥ . na sthūlāḥ na kṛśāḥ ca eva svabhāvena vyavasthitāḥ .. 10 ..
सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः । कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ ११ ॥
सु शीलाः ज्ञानवन्तः च तथा च प्रिय-दर्शनाः । कुमार-राज-भूमौ तु संयोज्याः च नर-उत्तमाः ॥ ११ ॥
su śīlāḥ jñānavantaḥ ca tathā ca priya-darśanāḥ . kumāra-rāja-bhūmau tu saṃyojyāḥ ca nara-uttamāḥ .. 11 ..
अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि । न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ १२ ॥
अङ्गैः अविकलैः धीरम् स्फुटम् वसन-कर्मणि । न दीर्घम् ना एव च स्थूलम् ऊह-अपोह-विचक्षणम् ॥ १२ ॥
aṅgaiḥ avikalaiḥ dhīram sphuṭam vasana-karmaṇi . na dīrgham nā eva ca sthūlam ūha-apoha-vicakṣaṇam .. 12 ..
अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् । सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ १३ ॥
अदीनम् च प्रगल्भम् च प्रत्युत्पन्न-विनिश्चयम् । सेनापतेः अमात्यानाम् भूमिकासु प्रयोजयेत् ॥ १३ ॥
adīnam ca pragalbham ca pratyutpanna-viniścayam . senāpateḥ amātyānām bhūmikāsu prayojayet .. 13 ..
पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा । कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ १४ ॥
पिङ्ग-अक्षम् घोण-नासम् च नेत्रम् उच्चम् अथ अपि वा । कञ्चुकि-श्रोत्रिय-आदीनाम् भूमिकासु नियोजयेत् ॥ १४ ॥
piṅga-akṣam ghoṇa-nāsam ca netram uccam atha api vā . kañcuki-śrotriya-ādīnām bhūmikāsu niyojayet .. 14 ..
एवमन्येष्वपि तथा नाट्यधर्मविभागतः । देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ १५ ॥
एवम् अन्येषु अपि तथा नाट्य-धर्म-विभागतः । देश-वेष-अनुरूपेण पात्रम् योज्यम् स्व-भूमिषु ॥ १५ ॥
evam anyeṣu api tathā nāṭya-dharma-vibhāgataḥ . deśa-veṣa-anurūpeṇa pātram yojyam sva-bhūmiṣu .. 15 ..
मन्थरं वामनं कुब्जं विकृतं विकृताननम् । विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ १६ ॥
मन्थरम् वामनम् कुब्जम् विकृतम् विकृत-आननम् । विष्टब्ध-नेत्रम् काण-अक्षम् स्थूलम् चिपिट-नासिकम् ॥ १६ ॥
mantharam vāmanam kubjam vikṛtam vikṛta-ānanam . viṣṭabdha-netram kāṇa-akṣam sthūlam cipiṭa-nāsikam .. 16 ..
दुर्जनं दुस्वभावं च विकृताचारमेव च । दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ १७ ॥
दुर्जनम् दुस्वभावम् च विकृत-आचारम् एव च । दास-भूमौ प्रयुञ्जीत बुधः दास-अङ्ग-सम्भवम् ॥ १७ ॥
durjanam dusvabhāvam ca vikṛta-ācāram eva ca . dāsa-bhūmau prayuñjīta budhaḥ dāsa-aṅga-sambhavam .. 17 ..
प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् । तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ १८ ॥
प्रकृत्या अति कृशम् क्षामम् तपः-श्रान्तेषु योजयेत् । तथा च पुरुषम् स्थूलम् उपरोधेषु योजयेत् ॥ १८ ॥
prakṛtyā ati kṛśam kṣāmam tapaḥ-śrānteṣu yojayet . tathā ca puruṣam sthūlam uparodheṣu yojayet .. 18 ..
यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ १९ ॥
यदि वा न ईदृशाः सन्ति प्रकृत्या पुरुषाः द्विजाः । आचार्य-बुद्ध्या योज्याः तु भाव-चेष्टा-स्वभावतः ॥ १९ ॥
yadi vā na īdṛśāḥ santi prakṛtyā puruṣāḥ dvijāḥ . ācārya-buddhyā yojyāḥ tu bhāva-ceṣṭā-svabhāvataḥ .. 19 ..
या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा । स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ २० ॥
या यस्य सदृशी चेष्टा हि उत्तम-अधम-मध्यमा । स तथा आचार्य-योगेन नियम्या भाव-भाविनी ॥ २० ॥
yā yasya sadṛśī ceṣṭā hi uttama-adhama-madhyamā . sa tathā ācārya-yogena niyamyā bhāva-bhāvinī .. 20 ..
अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् । भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी । नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ २१ ॥
अतस् परम् प्रवक्ष्यामि भरतानाम् विकल्पनम् । भरत-आश्रयाः च भरतः विदूषकः सौरिकः तथा नान्दी । नन्दी स सूत्रधारः नाट्य-रसः नायकः च एव ॥ २१ ॥
atas param pravakṣyāmi bharatānām vikalpanam . bharata-āśrayāḥ ca bharataḥ vidūṣakaḥ saurikaḥ tathā nāndī . nandī sa sūtradhāraḥ nāṭya-rasaḥ nāyakaḥ ca eva .. 21 ..
मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च । कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ २२ ॥
मुकुट-आभरण-विकल्पौ विज्ञेयः माल्य-वस्तु-विविधैः च । कारक-कुशीलव-आद्याः विज्ञेयाः नामतः च एव ॥ २२ ॥
mukuṭa-ābharaṇa-vikalpau vijñeyaḥ mālya-vastu-vividhaiḥ ca . kāraka-kuśīlava-ādyāḥ vijñeyāḥ nāmataḥ ca eva .. 22 ..
धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् ॥ २३ ॥
धुर्य-वत् एकः यस्मात् उद्धारः अनेक-भूमिका-युक्तः । भाण्ड-ग्रह-उपकरणैः नाट्यम् भरतः भवेत् तस्मात् ॥ २३ ॥
dhurya-vat ekaḥ yasmāt uddhāraḥ aneka-bhūmikā-yuktaḥ . bhāṇḍa-graha-upakaraṇaiḥ nāṭyam bharataḥ bhavet tasmāt .. 23 ..
लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता । नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ २४ ॥
लोक-आहृत्-आश्रय-कृता सर्व-प्रकृति-प्रचार-संयुक्ता । नानाश्रयाम् प्रकुरुते तथा च नारी तु सर्वत्र ॥ २४ ॥
loka-āhṛt-āśraya-kṛtā sarva-prakṛti-pracāra-saṃyuktā . nānāśrayām prakurute tathā ca nārī tu sarvatra .. 24 ..
प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः । छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ २५ ॥
। छेद-विदूषित-वचनः विदूषकः नाम विज्ञेयः ॥ २५ ॥
. cheda-vidūṣita-vacanaḥ vidūṣakaḥ nāma vijñeyaḥ .. 25 ..
तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः । तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ २६ ॥
तूर्यतिः तु नरः सर्व-आतोद्य-प्रवादने कुशलः । तूर-परिग्रह-युक्तः विज्ञेयः तौरिकः नाम ॥ २६ ॥
tūryatiḥ tu naraḥ sarva-ātodya-pravādane kuśalaḥ . tūra-parigraha-yuktaḥ vijñeyaḥ taurikaḥ nāma .. 26 ..
नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् । रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति ॥ २७ ॥
नट-नृति धात्वर्थः अयम् भूतम् नाटयति लोक-वृत्तान्तम् । रस-भाव-सत्त्व-युक्तम् यस्मात् तस्मात् नटः भवति ॥ २७ ॥
naṭa-nṛti dhātvarthaḥ ayam bhūtam nāṭayati loka-vṛttāntam . rasa-bhāva-sattva-yuktam yasmāt tasmāt naṭaḥ bhavati .. 27 ..
स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः । सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ॥ २८ ॥
स्तुति-अभिवादन-कृतैः मधुरैः वाक्यैः सु मङ्गल-आचारैः । सर्वः स्तौति हि लोकम् यस्मात् तस्मात् भवेत् वादी ॥ २८ ॥
stuti-abhivādana-kṛtaiḥ madhuraiḥ vākyaiḥ su maṅgala-ācāraiḥ . sarvaḥ stauti hi lokam yasmāt tasmāt bhavet vādī .. 28 ..
भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु । प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ २९ ॥
भावेभ्यः बहुधा अस्मिन् रसाः वदति नाट्य-योगेषु । प्राकृत-संस्कृत-पाठ्यः नन्दी नाम इति स ज्ञेयः ॥ २९ ॥
bhāvebhyaḥ bahudhā asmin rasāḥ vadati nāṭya-yogeṣu . prākṛta-saṃskṛta-pāṭhyaḥ nandī nāma iti sa jñeyaḥ .. 29 ..
गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य । शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ॥ ३० ॥
गीतस्य च वाद्यस्य च पाठ्यस्य च न एक-भाव-विहितस्य । शिष्ट-उपदेश-योगात् सूत्रज्ञः सूत्रधारः तु ॥ ३० ॥
gītasya ca vādyasya ca pāṭhyasya ca na eka-bhāva-vihitasya . śiṣṭa-upadeśa-yogāt sūtrajñaḥ sūtradhāraḥ tu .. 30 ..
यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् । भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ ३१ ॥
यस्मात् यथा उपदिष्टान् रसान् च भावान् च सत्त्व-संयुक्तान् । भूमि-विकल्पैः नयति च नाट्यकरः कीर्तितः तस्मात् ॥ ३१ ॥
yasmāt yathā upadiṣṭān rasān ca bhāvān ca sattva-saṃyuktān . bhūmi-vikalpaiḥ nayati ca nāṭyakaraḥ kīrtitaḥ tasmāt .. 31 ..
चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य । नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ॥ ३२ ॥
चतुर्-आतोद्य-विधानम् सर्वस्य तु । नाट्यस्य अन्तम् गच्छति तस्मात् वै नायकः अभिहितः ॥ ३२ ॥
catur-ātodya-vidhānam sarvasya tu . nāṭyasya antam gacchati tasmāt vai nāyakaḥ abhihitaḥ .. 32 ..
नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे । विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ ३३ ॥
नाना प्रकृति-समुत्थम् करोति यः शीर्षकम् मुकुट-योगे । विविधैः वेष-विशेषैः स च कुटकारः तु विज्ञेयः ॥ ३३ ॥
nānā prakṛti-samuttham karoti yaḥ śīrṣakam mukuṭa-yoge . vividhaiḥ veṣa-viśeṣaiḥ sa ca kuṭakāraḥ tu vijñeyaḥ .. 33 ..
भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३४ ॥
भाण्डक-वाद्य-ज्ञा या लय-ताल-ज्ञा रस-अनुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३४ ॥
bhāṇḍaka-vādya-jñā yā laya-tāla-jñā rasa-anuviddhā ca . sarvāṅgasundarī vai kartavyā nāṭakīyā tu .. 34 ..
यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः । यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः ॥ ३५ ॥
यः तु आभरणम् कुर्यात् बहुविध-विहितम् स च आभरणः । यः च उपकरण-योगात् स तेन नाम्ना अभिधातव्यः ॥ ३५ ॥
yaḥ tu ābharaṇam kuryāt bahuvidha-vihitam sa ca ābharaṇaḥ . yaḥ ca upakaraṇa-yogāt sa tena nāmnā abhidhātavyaḥ .. 35 ..
यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः । यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ ३६ ॥
यः वै माल्यम् कुरुते पङ्चविधम् माल्या-कृत् स विज्ञेयः । यः च अपि वेष-योगम् कुरुते स च वेष-कारी तु ॥ ३६ ॥
yaḥ vai mālyam kurute paṅcavidham mālyā-kṛt sa vijñeyaḥ . yaḥ ca api veṣa-yogam kurute sa ca veṣa-kārī tu .. 36 ..
चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः । जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव ॥ ३७ ॥
चित्रज्ञः चित्रकरः वस्त्रस्य रञ्जानात् तथा रजकः । जतु-अश्म-लोह-काष्ठैः द्रव्य-करैः कारुकः च एव ॥ ३७ ॥
citrajñaḥ citrakaraḥ vastrasya rañjānāt tathā rajakaḥ . jatu-aśma-loha-kāṣṭhaiḥ dravya-karaiḥ kārukaḥ ca eva .. 37 ..
नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः ॥ ३८ ॥
नाना आतोद्य-विधाने प्रयोग-युक्तः प्रवादने कुशलः । अतोद्ये अपि अति कुशलः यस्मात् स कुश-लवः ज्ञेयः ॥ ३८ ॥
nānā ātodya-vidhāne prayoga-yuktaḥ pravādane kuśalaḥ . atodye api ati kuśalaḥ yasmāt sa kuśa-lavaḥ jñeyaḥ .. 38 ..
यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा । तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ ३९ ॥
यत् यत् समाश्रयन्ते शिल्पम् वा कर्म वा प्रयोगम् वा । विज्ञेयाः नामतः पुरुषाः ॥ ३९ ॥
yat yat samāśrayante śilpam vā karma vā prayogam vā . vijñeyāḥ nāmataḥ puruṣāḥ .. 39 ..
एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया । नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ ४० ॥
एवम् तु नाटक-विधौ जातिः नट-संश्रया बुधैः ज्ञेया । नाट्य-उपकरण-युक्ता नाना शिल्प-प्रसक्ता च ॥ ४० ॥
evam tu nāṭaka-vidhau jātiḥ naṭa-saṃśrayā budhaiḥ jñeyā . nāṭya-upakaraṇa-yuktā nānā śilpa-prasaktā ca .. 40 ..
उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः । आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥४१ ॥
उक्तः अत्र भूमिका-न्यासः प्रयोक्तारः च योगतः । आदिष्टम् नाट्य-शास्त्रम् च मुनयः किम् इह उच्यताम् ॥४१ ॥
uktaḥ atra bhūmikā-nyāsaḥ prayoktāraḥ ca yogataḥ . ādiṣṭam nāṭya-śāstram ca munayaḥ kim iha ucyatām ..41 ..
इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः ॥ ३५ ॥
इति भरतीये नाट्य-शास्त्रे भूमिकाविकल्प-अध्यायः पञ्चत्रिंशः ॥ ३५ ॥
iti bharatīye nāṭya-śāstre bhūmikāvikalpa-adhyāyaḥ pañcatriṃśaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In