| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २५ ॥
॥ नाट्य-शास्त्रम् अध्याय- ॥
.. nāṭya-śāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
पञ्चविंशोऽध्यायः ।
पञ्चविंशः अध्यायः ।
pañcaviṃśaḥ adhyāyaḥ .
अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ १॥
अङ्ग-अभिनयस्य एव यः विशेषः क्वचिद् क्वचिद् । अनुक्तः उच्यते चित्रः चित्र-अभिनयः स्मृतः ॥ १॥
aṅga-abhinayasya eva yaḥ viśeṣaḥ kvacid kvacid . anuktaḥ ucyate citraḥ citra-abhinayaḥ smṛtaḥ .. 1..
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ २॥
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्व-संस्थितौ । उद्वाहितेन शिरसा तथा च ऊर्ध्व-निरीक्षणात् ॥ २॥
uttānau tu karau kṛtvā svastikau pārśva-saṃsthitau . udvāhitena śirasā tathā ca ūrdhva-nirīkṣaṇāt .. 2..
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ ३॥
प्रभातम् गगनम् रात्रिः प्रदोषम् दिवसम् तथा । ऋतून् घनान् वन-अन्तान् च विस्तीर्णान् च जलाशयान् ॥ ३॥
prabhātam gaganam rātriḥ pradoṣam divasam tathā . ṛtūn ghanān vana-antān ca vistīrṇān ca jalāśayān .. 3..
दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ ४॥
दिशः ग्रहान् स नक्षत्रान् किञ्चिद् स्वस्थम् च यत् भवेत् । तस्य तु अभिनयः कार्यः नाना दृष्टि-समन्वितः ॥ ४॥
diśaḥ grahān sa nakṣatrān kiñcid svastham ca yat bhavet . tasya tu abhinayaḥ kāryaḥ nānā dṛṣṭi-samanvitaḥ .. 4..
एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् सम्प्रदर्शयेत् ॥ ५॥
एभिः एव करैः भूयस् तेन एव शिरसा पुनर् । अधस् निरीक्षणेन अथ भूमि-स्थान् सम्प्रदर्शयेत् ॥ ५॥
ebhiḥ eva karaiḥ bhūyas tena eva śirasā punar . adhas nirīkṣaṇena atha bhūmi-sthān sampradarśayet .. 5..
स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ ६॥
स्पर्शस्य ग्रहणेन एव तथा उल्लुकसनेन च । सुखम् वायुम् रसम् गन्धम् च निर्दिशेत् ॥ ६॥
sparśasya grahaṇena eva tathā ullukasanena ca . sukham vāyum rasam gandham ca nirdiśet .. 6..
वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ॥ ७॥
वस्त्र-अवकुण्ठनात् सूर्यम् रजः-धूम-अनिलान् तथा । भूमि-तापम् अथ उष्णम् च कुर्यात् छाया-अभिलाषतः ॥ ७॥
vastra-avakuṇṭhanāt sūryam rajaḥ-dhūma-anilān tathā . bhūmi-tāpam atha uṣṇam ca kuryāt chāyā-abhilāṣataḥ .. 7..
ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥८॥
ऊर्ध्वा-केकर-दृष्टिः तु मध्याह्ने सूर्यम् आदिशेत् । उदय-अस्त-गतम् च एव विस्मय-अर्थैः प्रदर्शयेत् ॥८॥
ūrdhvā-kekara-dṛṣṭiḥ tu madhyāhne sūryam ādiśet . udaya-asta-gatam ca eva vismaya-arthaiḥ pradarśayet ..8..
यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ॥ ९॥
यानि सौम्य-अर्थ-युक्तानि सु स्वभाव-कृतानि च । गात्र-स्पर्शैः स रोमाञ्चैः तेषाम् अभिनयः भवेत् ॥ ९॥
yāni saumya-artha-yuktāni su svabhāva-kṛtāni ca . gātra-sparśaiḥ sa romāñcaiḥ teṣām abhinayaḥ bhavet .. 9..
यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ १०॥
यानि स्युः तीक्ष्ण-रूपाणि तानि च अभिनयेत् सुधीः । असंस्पर्शैः तथा उद्वेगैः तथा मुख-विकुण्ठनैः ॥ १०॥
yāni syuḥ tīkṣṇa-rūpāṇi tāni ca abhinayet sudhīḥ . asaṃsparśaiḥ tathā udvegaiḥ tathā mukha-vikuṇṭhanaiḥ .. 10..
गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ ११॥
गम्भीर-उदात-संयुक्तान् अर्थान् अभिनयेत् बुधः । स आटोपैः च स गर्वैः च गात्रैः सौष्ठव-संयुतैः ॥ ११॥
gambhīra-udāta-saṃyuktān arthān abhinayet budhaḥ . sa āṭopaiḥ ca sa garvaiḥ ca gātraiḥ sauṣṭhava-saṃyutaiḥ .. 11..
यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ॥ १२॥
यज्ञोपवीत-देश-स्थम् अरालम् हासम् आदिशेत् । स्वस्तिकौ विच्युतौ हार-स्रग्दाम-अर्थान् निदर्शयेत् ॥ १२॥
yajñopavīta-deśa-stham arālam hāsam ādiśet . svastikau vicyutau hāra-sragdāma-arthān nidarśayet .. 12..
भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ॥ १३॥
भ्रमणेन प्रदर्शिन्याः दृष्टेः परिगमेन च । भवेत् ॥ १३॥
bhramaṇena pradarśinyāḥ dṛṣṭeḥ parigamena ca . bhavet .. 13..
श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ १४॥
श्रव्यम् श्रवण-योगेन दृश्यम् दृष्टि-विलोकनैः । आत्म-स्थम् पर-संस्थम् वा मध्य-स्थम् वा विनिर्दिशेत् ॥ १४॥
śravyam śravaṇa-yogena dṛśyam dṛṣṭi-vilokanaiḥ . ātma-stham para-saṃstham vā madhya-stham vā vinirdiśet .. 14..
विद्युदुल्काघनरवाविष्फुलिङ्गार्चिषस्तथा । त्रस्ताङ्गाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः ॥ १५॥
विद्युत्-उल्का-घन-रव-विष्फुलिङ्ग-अर्चिषः तथा । त्रस्त-अङ्ग-अक्षि-निमेषैः च ते अभिनेयाः प्रयोक्तृभिः ॥ १५॥
vidyut-ulkā-ghana-rava-viṣphuliṅga-arciṣaḥ tathā . trasta-aṅga-akṣi-nimeṣaiḥ ca te abhineyāḥ prayoktṛbhiḥ .. 15..
उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ १६॥
उद्वेष्टित-कर-आवृत्तौ करौ कृत्वा नतम् शिरः । अ संस्पर्शे तथा अनिष्टे जिह्म-दृष्टेन कारयेत् ॥ १६॥
udveṣṭita-kara-āvṛttau karau kṛtvā natam śiraḥ . a saṃsparśe tathā aniṣṭe jihma-dṛṣṭena kārayet .. 16..
वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतङ्गांश्च भ्रमरांश्च निवारयेत् ॥ १७॥
वायुम् उष्णम् तमः तेजः मुख-प्रच्छादनेन च । रेणु-तोय-पतङ्गान् च भ्रमरान् च निवारयेत् ॥ १७॥
vāyum uṣṇam tamaḥ tejaḥ mukha-pracchādanena ca . reṇu-toya-pataṅgān ca bhramarān ca nivārayet .. 17..
कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥१८॥
कृत्वा स्वस्तिक-संस्थानौ पद्म-कोशौ अधोमुखौ । निरूपयेत् ॥१८॥
kṛtvā svastika-saṃsthānau padma-kośau adhomukhau . nirūpayet ..18..
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ १९॥
स्वस्तिकौ त्रि-पताकौ तु गुरूणाम् पाद-वन्दने । खटक-स्वस्थिकौ च अपि प्रतोद-ग्रहणे स्मृतौ ॥ १९॥
svastikau tri-patākau tu gurūṇām pāda-vandane . khaṭaka-svasthikau ca api pratoda-grahaṇe smṛtau .. 19..
एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा । नव वा दश वापि स्युर्गणनाङ्गुलिभिर्भवेत् ॥ २०॥
एकम् द्वि त्रीणि चत्वारि पञ्च षड् सप्त च अष्टधा । नव वा दश वा अपि स्युः गणना-अङ्गुलिभिः भवेत् ॥ २०॥
ekam dvi trīṇi catvāri pañca ṣaḍ sapta ca aṣṭadhā . nava vā daśa vā api syuḥ gaṇanā-aṅgulibhiḥ bhavet .. 20..
दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ २१॥
दश-आख्याः च शत-आख्याः च सहस्र-आख्याः तथा एव च । पताकाभ्याम् तु हस्ताभ्याम् प्रयोज्याः ताः प्रयोक्तृभिः ॥ २१॥
daśa-ākhyāḥ ca śata-ākhyāḥ ca sahasra-ākhyāḥ tathā eva ca . patākābhyām tu hastābhyām prayojyāḥ tāḥ prayoktṛbhiḥ .. 21..
दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २२॥
दश-आख्य-गणनायाः तु परतस् या भवेत् इह । वाक्य-अर्थेन एव साध्या असौ परोक्ष-अभिनयेन च ॥ २२॥
daśa-ākhya-gaṇanāyāḥ tu paratas yā bhavet iha . vākya-arthena eva sādhyā asau parokṣa-abhinayena ca .. 22..
छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ २३॥
छत्र-ध्वज-पताकाः च निर्देश्याः दण्ड-धारणात् । नाना प्रहरणम् च अथ निर्देश्यम् धारणाश्रयम् ॥ २३॥
chatra-dhvaja-patākāḥ ca nirdeśyāḥ daṇḍa-dhāraṇāt . nānā praharaṇam ca atha nirdeśyam dhāraṇāśrayam .. 23..
एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च सन्दंशः स्मृते ध्याने वितर्किते ॥ २४॥
एकचित्तः हि अधस् दृष्टिः किञ्चिद् नत-शिराः तथा । सव्य-हस्तः च सन्दंशः स्मृते ध्याने वितर्किते ॥ २४॥
ekacittaḥ hi adhas dṛṣṭiḥ kiñcid nata-śirāḥ tathā . savya-hastaḥ ca sandaṃśaḥ smṛte dhyāne vitarkite .. 24..
उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ २५॥
उद्वाहितम् शिरः कृत्वा हंस-पक्षौ प्रदक्षिणौ । अपत्य-रूपणे कार्यौ उछ्रयौ च प्रयोक्तृभिः ॥ २५॥
udvāhitam śiraḥ kṛtvā haṃsa-pakṣau pradakṣiṇau . apatya-rūpaṇe kāryau uchrayau ca prayoktṛbhiḥ .. 25..
उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ २६॥
उद्वाहितम् शिरः कृत्वा हंस-वक्त्रम् तथा ऊर्ध्व-गम् । प्रसादयत् च यम् मानम् दीर्घ-सत्वम् च निर्दिशेत् ॥ २६॥
udvāhitam śiraḥ kṛtvā haṃsa-vaktram tathā ūrdhva-gam . prasādayat ca yam mānam dīrgha-satvam ca nirdiśet .. 26..
अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ २७॥
अरालम् च शिर-स्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्त-वाक्ये च योजयेत् ॥ २७॥
arālam ca śira-sthāne samudvāhya tu vāmakam . gate nirvṛtte dhvaste ca śrānta-vākye ca yojayet .. 27..
सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ २८॥
सर्व-इन्द्रिय-स्वस्थ-तया प्रसन्न-वदनः तथा । विचित्र-भू-तल-आलोकैः शरदम् तु विनिर्दिशेत् ॥ २८॥
sarva-indriya-svastha-tayā prasanna-vadanaḥ tathā . vicitra-bhū-tala-ālokaiḥ śaradam tu vinirdiśet .. 28..
गात्रसङ्कोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ २९॥
गात्र-सङ्कोचनात् च अपि सूर्य-अग्नि-पटु-सेवनात् । हेमन्तः तु अभिनेतव्यः पुरुषैः मध्यम-अधमैः ॥ २९॥
gātra-saṅkocanāt ca api sūrya-agni-paṭu-sevanāt . hemantaḥ tu abhinetavyaḥ puruṣaiḥ madhyama-adhamaiḥ .. 29..
शिरोदन्तोष्ठकम्पेन गात्रसङ्कोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ ३०॥
शिरः-दन्त-उष्ठ-कम्पेन गात्र-सङ्कोचनेन च । कूजितैः च स शीत्कारैः अधमः शीतम् आदिशेत् ॥ ३०॥
śiraḥ-danta-uṣṭha-kampena gātra-saṅkocanena ca . kūjitaiḥ ca sa śītkāraiḥ adhamaḥ śītam ādiśet .. 30..
अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसम्भवम् ॥ ३१॥
अवस्था-अन्तरम् आसाद्य कदाचिद् तु उत्तमरैः अपि । शीत-अभिनयनम् कूर्यात् देवात् व्यसन-सम्भवम् ॥ ३१॥
avasthā-antaram āsādya kadācid tu uttamaraiḥ api . śīta-abhinayanam kūryāt devāt vyasana-sambhavam .. 31..
ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ ३२॥
ऋतु-जानाम् तु पुष्पाणाम् गन्ध-घ्राणैः तथा एव च । रूक्षस्य वायोः स्पर्शात् च शिशिरम् रूपयेत् बुधः ॥ ३२॥
ṛtu-jānām tu puṣpāṇām gandha-ghrāṇaiḥ tathā eva ca . rūkṣasya vāyoḥ sparśāt ca śiśiram rūpayet budhaḥ .. 32..
प्रमोदजननारम्भैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ ३३॥
प्रमोद-जनन-आरम्भैः उपभोगैः पृथक् विधिः । वसन्तः तु अभिनेतव्यः नाना पुष्प-प्रदर्शनात् ॥ ३३॥
pramoda-janana-ārambhaiḥ upabhogaiḥ pṛthak vidhiḥ . vasantaḥ tu abhinetavyaḥ nānā puṣpa-pradarśanāt .. 33..
स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ ३४॥
स्वेद-प्रमार्जनैः च एव भूमि-तापैः स वीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मम् तु अभिनयेत् बुधः ॥ ३४॥
sveda-pramārjanaiḥ ca eva bhūmi-tāpaiḥ sa vījanaiḥ . uṣṇasya vāyoḥ sparśena grīṣmam tu abhinayet budhaḥ .. 34..
कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ ३५॥
कदम्ब-नीप-कुटपैः शाद्वलैः स इन्द्रगोपकैः । मेघ-वातैः सुख-स्पर्शैः प्रावृष्-कालम् प्रदर्शयेत् ॥ ३५॥
kadamba-nīpa-kuṭapaiḥ śādvalaiḥ sa indragopakaiḥ . megha-vātaiḥ sukha-sparśaiḥ prāvṛṣ-kālam pradarśayet .. 35..
मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ ३६॥
मेघ-ओघ-नादैः गम्भीरैः धारा-प्रपतनैः तदा । विद्युत्-निर्घात-घोषैः च वर्षारात्रम् समादिशेत् ॥ ३६॥
megha-ogha-nādaiḥ gambhīraiḥ dhārā-prapatanaiḥ tadā . vidyut-nirghāta-ghoṣaiḥ ca varṣārātram samādiśet .. 36..
यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ ३७॥
यत् यस्य चिह्नम् वेषः वा कर्म वा रूपम् एव वा । निर्देश्यः सः ऋतुः तेन इष्ट-अनिष्ट-अर्थ-दर्शनात् ॥ ३७॥
yat yasya cihnam veṣaḥ vā karma vā rūpam eva vā . nirdeśyaḥ saḥ ṛtuḥ tena iṣṭa-aniṣṭa-artha-darśanāt .. 37..
एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ ३८॥
एतान् ऋतून् अर्थ-वशात् दर्शयेत् हि रस-अनुगान् । सुखिनः तु सुख-उपेतान् सुःख-अर्थान् दुःख-संयुतान् ॥ ३८॥
etān ṛtūn artha-vaśāt darśayet hi rasa-anugān . sukhinaḥ tu sukha-upetān suḥkha-arthān duḥkha-saṃyutān .. 38..
यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसङ्कारः सर्वं पश्यति तन्मयम् ॥ ३९॥
यः येन भावेन आविष्टः सुख-देन वा । स तद्-आहित-सङ्कारः सर्वम् पश्यति तद्-मयम् ॥ ३९॥
yaḥ yena bhāvena āviṣṭaḥ sukha-dena vā . sa tad-āhita-saṅkāraḥ sarvam paśyati tad-mayam .. 39..
भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ ४०॥
भाव-अभिनयनम् कुर्यात् विभावानाम् निदर्शनैः । तथा एव च अनुभावानाम् भावसिद्धिः प्रवर्तिता ॥ ४०॥
bhāva-abhinayanam kuryāt vibhāvānām nidarśanaiḥ . tathā eva ca anubhāvānām bhāvasiddhiḥ pravartitā .. 40..
विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ ४१॥
विभावेन आहृतम् कार्यम् अनुभावेन नीयते । आत्म-अनुभवनम् भावः विभावः पर-दर्शनम् ॥ ४१॥
vibhāvena āhṛtam kāryam anubhāvena nīyate . ātma-anubhavanam bhāvaḥ vibhāvaḥ para-darśanam .. 41..
गुरुर्मित्रं सखा स्निग्धः सम्बन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ ४२॥
गुरुः मित्रम् सखा स्निग्धः सम्बन्धी बन्धुः एव वा । आवेद्यते हि यः प्राप्तः स विभावः इति स्मृतः ॥ ४२॥
guruḥ mitram sakhā snigdhaḥ sambandhī bandhuḥ eva vā . āvedyate hi yaḥ prāptaḥ sa vibhāvaḥ iti smṛtaḥ .. 42..
यत्त्वस्य सम्भ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः ॥ ४३॥
यत् तु अस्य सम्भ्रम-उत्थानैः अर्घ्य-पाद्य-आसन-आदिभिः । पूजनम् क्रियते भक्त्या सः अनुभावः प्रकीर्तितः ॥ ४३॥
yat tu asya sambhrama-utthānaiḥ arghya-pādya-āsana-ādibhiḥ . pūjanam kriyate bhaktyā saḥ anubhāvaḥ prakīrtitaḥ .. 43..
एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ॥ ४४॥
एवम् अन्येषु अपि ज्ञेयः नाना कार्य-प्रदर्शनात् । विभावः वा अपि भावः वा विज्ञेयः अर्थ-वशात् बुधैः ॥ ४४॥
evam anyeṣu api jñeyaḥ nānā kārya-pradarśanāt . vibhāvaḥ vā api bhāvaḥ vā vijñeyaḥ artha-vaśāt budhaiḥ .. 44..
यस्त्वपि प्रतिसन्देशो दूतस्येह प्रदीयते । सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ ४५॥
यः तु अपि प्रतिसन्देशः दूतस्य इह प्रदीयते । सः अनुभावः इति ज्ञेयः प्रतिसन्देश-दर्शितः ॥ ४५॥
yaḥ tu api pratisandeśaḥ dūtasya iha pradīyate . saḥ anubhāvaḥ iti jñeyaḥ pratisandeśa-darśitaḥ .. 45..
एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ ४६॥
एवम् भावः विभावः वा अपि अनुभावः च कीर्तितः । पुरुषैः अभिनेयः स्यात् प्रमदाभिः अथ अपि वा ॥ ४६॥
evam bhāvaḥ vibhāvaḥ vā api anubhāvaḥ ca kīrtitaḥ . puruṣaiḥ abhineyaḥ syāt pramadābhiḥ atha api vā .. 46..
स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ ४७॥
स्वभाव-अभिनये स्थानम् पुंसाम् कार्यम् तु वैष्णवम् । आयतम् वा अवहित्थम् वा स्त्रीणाम् कार्यम् स्वभावतः ॥ ४७॥
svabhāva-abhinaye sthānam puṃsām kāryam tu vaiṣṇavam . āyatam vā avahittham vā strīṇām kāryam svabhāvataḥ .. 47..
प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ ४८॥
प्रयोजन-वशात् च एव शेषाणि अपि भवन्ति हि । नाना भव-अभिनयनैः प्रयोगैः च पृथग्विधैः ॥ ४८॥
prayojana-vaśāt ca eva śeṣāṇi api bhavanti hi . nānā bhava-abhinayanaiḥ prayogaiḥ ca pṛthagvidhaiḥ .. 48..
धैर्यलीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ ४९॥
धैर्य-लीला-अङ्ग-सम्पन्नम् पुरुषाणाम् विचेष्टितम् । मृदु-लीला-अङ्गहारैः च स्त्रीणाम् कार्यम् तु चेष्टितम् ॥ ४९॥
dhairya-līlā-aṅga-sampannam puruṣāṇām viceṣṭitam . mṛdu-līlā-aṅgahāraiḥ ca strīṇām kāryam tu ceṣṭitam .. 49..
करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ ५०॥
कर-पाद-अङ्ग-सञ्चाराः स्त्रीणाम् तु ललिताः स्मृताः । सु धीरः च उद्धतः च एव पुरुषाणाम् प्रयोक्तृभिः ॥ ५०॥
kara-pāda-aṅga-sañcārāḥ strīṇām tu lalitāḥ smṛtāḥ . su dhīraḥ ca uddhataḥ ca eva puruṣāṇām prayoktṛbhiḥ .. 50..
यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ ५१॥
यथा रसम् यथा भावम् स्त्रीणाम् भाव-प्रदर्शनम् । नराणाम् प्रमदानाम् च भाव-अभिनयनम् पृथक् ॥ ५१॥
yathā rasam yathā bhāvam strīṇām bhāva-pradarśanam . narāṇām pramadānām ca bhāva-abhinayanam pṛthak .. 51..
भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ ५२॥
भाव-अनुभावनम् युक्तम् व्याख्यास्यामि अनुपूर्वशस् । आलिङ्गनेन गात्राणाम् स स्मितेन च चक्षुषा ॥ ५२॥
bhāva-anubhāvanam yuktam vyākhyāsyāmi anupūrvaśas . āliṅganena gātrāṇām sa smitena ca cakṣuṣā .. 52..
तथोल्लुकसानच्चापि हर्षं सन्दर्शयेन्नरः । क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना ॥ ५३॥
तथा उल्लुक-सानत् च अपि हर्षम् सन्दर्शयेत् नरः । क्षिप्रसः!बाष्पेण आवृत-लोचना ॥ ५३॥
tathā ulluka-sānat ca api harṣam sandarśayet naraḥ . kṣiprasaḥ!bāṣpeṇa āvṛta-locanā .. 53..
कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ ५४॥
कुर्वीत नर्तकी हर्षम् प्रीत्या वाक्यैः च स स्मितैः । उद्वृत्त-रक्त-नेत्रः च सन्दष्ट-अधरः एव च ॥ ५४॥
kurvīta nartakī harṣam prītyā vākyaiḥ ca sa smitaiḥ . udvṛtta-rakta-netraḥ ca sandaṣṭa-adharaḥ eva ca .. 54..
निश्वासकम्पिताङ्गश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकम्पनात् ॥ ५५॥
निश्वास-कम्पित-अङ्गः च क्रोधम् च अभिनयेत् नरः । नेत्राभ्याम् बाष्प-पूर्णाभ्याम् चिबुक-ओष्ठ-प्रकम्पनात् ॥ ५५॥
niśvāsa-kampita-aṅgaḥ ca krodham ca abhinayet naraḥ . netrābhyām bāṣpa-pūrṇābhyām cibuka-oṣṭha-prakampanāt .. 55..
शिरसः कम्पनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ ५६॥
शिरसः कम्पनात् च एव भ्रुकुटी-करणेन च । मौनेन अङ्गुलि-भङ्गेन माल्य-आभरण-वर्जनात् ॥ ५६॥
śirasaḥ kampanāt ca eva bhrukuṭī-karaṇena ca . maunena aṅguli-bhaṅgena mālya-ābharaṇa-varjanāt .. 56..
आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ ५७॥
आयतक-स्थानक-क्षायाः ईर्ष्या क्रोधे भवेत् स्त्रियाः । निश्वास-उच्छ्वास-बहुलैः अधोमुख-विचिन्तनैः ॥ ५७॥
āyataka-sthānaka-kṣāyāḥ īrṣyā krodhe bhavet striyāḥ . niśvāsa-ucchvāsa-bahulaiḥ adhomukha-vicintanaiḥ .. 57..
आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ ५८॥
आकाश-वचनात् च अपि दुःखम् पुंसाम् तु योजयेत् । रुदितैः श्वसितैः च एव शिरः-अभिहननेन च ॥ ५८॥
ākāśa-vacanāt ca api duḥkham puṃsām tu yojayet . ruditaiḥ śvasitaiḥ ca eva śiraḥ-abhihananena ca .. 58..
भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासम्भूतमेव वा ॥ ५९ ॥
भूमिपात-अभिघातैः च दुःखम् स्त्रीषु प्रयोजयेत् । आनन्द-जम् च आर्ति-जम् वा ईर्ष्या-सम्भूतम् एव वा ॥ ५९ ॥
bhūmipāta-abhighātaiḥ ca duḥkham strīṣu prayojayet . ānanda-jam ca ārti-jam vā īrṣyā-sambhūtam eva vā .. 59 ..
यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । सम्भ्रमावेगचेष्टाभिश्शस्त्रसम्पातनेन च ॥ ६० ॥
यत् पूर्वम् उक्तम् रुदितम् तत् स्त्री-नीचेषु योजयेत् । सम्भ्रम-आवेग-चेष्टाभिः शस्त्र-सम्पातनेन च ॥ ६० ॥
yat pūrvam uktam ruditam tat strī-nīceṣu yojayet . sambhrama-āvega-ceṣṭābhiḥ śastra-sampātanena ca .. 60 ..
पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ ६१॥
पुरुषाणाम् भयम् कार्यम् धैर्य-आवेग-बल-आदिभिः । चल-तारक-नेत्र-त्वात् गात्रैः स्फुरित-कम्पितैः ॥ ६१॥
puruṣāṇām bhayam kāryam dhairya-āvega-bala-ādibhiḥ . cala-tāraka-netra-tvāt gātraiḥ sphurita-kampitaiḥ .. 61..
सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ ६२॥
सन्त्रस्त-हृदय-त्वात् च पार्श्वाभ्याम् अवलोकनैः । भर्तृ-रन्वेषणात् च एवम् उच्चैस् आक्रन्दनात् अपि ॥ ६२॥
santrasta-hṛdaya-tvāt ca pārśvābhyām avalokanaiḥ . bhartṛ-ranveṣaṇāt ca evam uccais ākrandanāt api .. 62..
प्रियस्यालिङ्गनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ ६३॥
प्रियस्य आलिङ्गनात् च एव भयम् कार्यम् भवेत् स्त्रियाः । मदाः ये अभिहिताः पूर्वम् ते स्त्री-नीचेषु योजयेत् ॥ ६३॥
priyasya āliṅganāt ca eva bhayam kāryam bhavet striyāḥ . madāḥ ye abhihitāḥ pūrvam te strī-nīceṣu yojayet .. 63..
मृदुभिः स्खलितैर्नित्यमाकाशस्यावलम्बनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ ६४॥
मृदुभिः स्खलितैः नित्यम् आकाशस्य अवलम्बनात् । नेत्र-अवघूर्णनैः च एव स आलस्यैः कथितैः तथा ॥ ६४॥
mṛdubhiḥ skhalitaiḥ nityam ākāśasya avalambanāt . netra-avaghūrṇanaiḥ ca eva sa ālasyaiḥ kathitaiḥ tathā .. 64..
गात्राणां कम्पनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ ६५॥
गात्राणाम् कम्पनैः च एव मदः कार्यः भवेत् स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारण-उत्थिताः ॥ ६५॥
gātrāṇām kampanaiḥ ca eva madaḥ kāryaḥ bhavet striyāḥ . anena vidhinā kāryaḥ prayogāḥ kāraṇa-utthitāḥ .. 65..
पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ ६६॥
पौरुषः स्त्रीकृतः वा अपि भावाः हि अभिनयम् प्रति । सर्वे स ललिताः भावाः स्त्रीभिः कार्याः प्रयत्नतः ॥ ६६॥
pauruṣaḥ strīkṛtaḥ vā api bhāvāḥ hi abhinayam prati . sarve sa lalitāḥ bhāvāḥ strībhiḥ kāryāḥ prayatnataḥ .. 66..
धैर्यमाधुर्यसम्पन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ ६७॥
धैर्य-माधुर्य-सम्पन्नाः भावाः कार्याः तु पौरुषाः । त्रिपताका-अङ्गुलीभ्याम् तु वलिताभ्याम् प्रयोजयेत् ॥ ६७॥
dhairya-mādhurya-sampannāḥ bhāvāḥ kāryāḥ tu pauruṣāḥ . tripatākā-aṅgulībhyām tu valitābhyām prayojayet .. 67..
शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ॥ ६८॥
शुकाः च सारिकाः च एव सूक्ष्माः ये च अपि पक्षिणः । शिखि-सारस-हंस-आद्याः स्थूलाः ये अपि स्वभावतः ॥ ६८॥
śukāḥ ca sārikāḥ ca eva sūkṣmāḥ ye ca api pakṣiṇaḥ . śikhi-sārasa-haṃsa-ādyāḥ sthūlāḥ ye api svabhāvataḥ .. 68..
रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ ६९॥
रेचकैः अङ्गहारैः च तेषाम् अभिनयः भवेत् । खर-उष्ट्र-अश्वतर-सिंह-व्याघ्र-गो-महिष-आदय ॥ ६९॥
recakaiḥ aṅgahāraiḥ ca teṣām abhinayaḥ bhavet . khara-uṣṭra-aśvatara-siṃha-vyāghra-go-mahiṣa-ādaya .. 69..
गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ ७०॥
गति-प्रचरैः अङ्गैः च ते अभिनेयाः प्रयोक्तृभिः । भूताः पिशाचाः यक्षाः च दानवाः सह राक्षसैः ॥ ७०॥
gati-pracaraiḥ aṅgaiḥ ca te abhineyāḥ prayoktṛbhiḥ . bhūtāḥ piśācāḥ yakṣāḥ ca dānavāḥ saha rākṣasaiḥ .. 70..
अङ्गहारैरविनिर्देश्या नामसङ्कीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ ७१॥
अङ्गहारैः अविनिर्देश्याः नाम-सङ्कीर्तनात् अपि । अङ्गहारैः विनिर्देश्याः अप्रत्यक्षाः भवन्ति ये ॥ ७१॥
aṅgahāraiḥ avinirdeśyāḥ nāma-saṅkīrtanāt api . aṅgahāraiḥ vinirdeśyāḥ apratyakṣāḥ bhavanti ye .. 71..
प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ ७२॥
प्रत्यक्षाः तु अभिनेतव्याः भय-उद्वेगैः स विस्मयैः । देवाः च चिह्नैः च प्रणाम-करणैः भावैः च विचेष्टितैः ॥ ७२॥
pratyakṣāḥ tu abhinetavyāḥ bhaya-udvegaiḥ sa vismayaiḥ . devāḥ ca cihnaiḥ ca praṇāma-karaṇaiḥ bhāvaiḥ ca viceṣṭitaiḥ .. 72..
अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ ७३॥
अभिनेयः हि अर्थ-वशात् अप्रत्यक्षाः प्रयोग-ज्ञैः । सव्य-उत्थितेन हस्तेन हि अरालेन शिरः स्पृशेत् ॥ ७३॥
abhineyaḥ hi artha-vaśāt apratyakṣāḥ prayoga-jñaiḥ . savya-utthitena hastena hi arālena śiraḥ spṛśet .. 73..
नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ ७४॥
नरे अहि-अभिवादनम् हि एतत् अप्रत्यक्षे विधीयते । खटका-वर्धमानेन कपोत-आख्येन वा पुनर् ॥ ७४॥
nare ahi-abhivādanam hi etat apratyakṣe vidhīyate . khaṭakā-vardhamānena kapota-ākhyena vā punar .. 74..
दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ ७५॥
दैवतानि गुरून् च एव प्रमदाः च अभिवादयेत् । दिवौकसः च ये पूज्याः प्रत्यक्षाः च भवन्ति ये ॥ ७५॥
daivatāni gurūn ca eva pramadāḥ ca abhivādayet . divaukasaḥ ca ye pūjyāḥ pratyakṣāḥ ca bhavanti ye .. 75..
तान् प्रमाणैः प्रभावैश्च गम्भीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ ७६॥
तान् प्रमाणैः प्रभावैः च गम्भीर-अर्थैः च योजयेत् । महाजनम् सखी-वर्गम् विट-धूर्त-जनम् तथा ॥ ७६॥
tān pramāṇaiḥ prabhāvaiḥ ca gambhīra-arthaiḥ ca yojayet . mahājanam sakhī-vargam viṭa-dhūrta-janam tathā .. 76..
परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ ७७॥
परिमण्डल-संस्थेन । पर्वतान् प्रांशु-योगेन वृक्षान् च एव समुच्छ्रितान् ॥ ७७॥
parimaṇḍala-saṃsthena . parvatān prāṃśu-yogena vṛkṣān ca eva samucchritān .. 77..
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ ७८॥
प्रसारिताभ्याम् बाहुभ्याम् उत्क्षिप्ताभ्याम् प्रयोजयेत् । समूह-सागरम् सेना बहु-विस्तीर्णम् एव च ॥ ७८॥
prasāritābhyām bāhubhyām utkṣiptābhyām prayojayet . samūha-sāgaram senā bahu-vistīrṇam eva ca .. 78..
पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ ७९॥
पताकाभ्याम् तु हस्ताभ्याम् उत्क्षिप्ताभ्याम् प्रदर्शयेत् । शौर्यम् धैर्यम् च गर्वम् च दर्पम् औदार्यम् उच्छ्रयम् ॥ ७९॥
patākābhyām tu hastābhyām utkṣiptābhyām pradarśayet . śauryam dhairyam ca garvam ca darpam audāryam ucchrayam .. 79..
ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ ८०॥
ललाट-देश-स्थानेन त्वरालेन अभिदर्शयेत् । वक्षः-देशात् अपाविद्धौ करौ तु मृग-शीर्षकौ ॥ ८०॥
lalāṭa-deśa-sthānena tvarālena abhidarśayet . vakṣaḥ-deśāt apāviddhau karau tu mṛga-śīrṣakau .. 80..
विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ ८१॥
विस्तीर्ण-प्रद्रुत-उत्क्षेपौ योज्यौ । अधोमुख-उत्तान-तलौ हस्तौ किञ्चिद् प्रसारितौ ॥ ८१॥
vistīrṇa-pradruta-utkṣepau yojyau . adhomukha-uttāna-talau hastau kiñcid prasāritau .. 81..
कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ ८२॥
कृत्वा तु अभिनयेत् वेलाम् बिल-द्वारम् गृहम् गुहान् । कामम् शाप-ग्रह-ग्रस्तान् ज्वर-उपहत-चेतसः ॥ ८२॥
kṛtvā tu abhinayet velām bila-dvāram gṛham guhān . kāmam śāpa-graha-grastān jvara-upahata-cetasaḥ .. 82..
एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ ८३॥
एतेषाम् चेष्टितम् कुर्यात् अङ्ग-आद्यैः सदृशैः बुधैः । दोला-अभिनयनम् कुर्यात् दोलायाः तु विलोकनैः ॥ ८३॥
eteṣām ceṣṭitam kuryāt aṅga-ādyaiḥ sadṛśaiḥ budhaiḥ . dolā-abhinayanam kuryāt dolāyāḥ tu vilokanaiḥ .. 83..
सम्भोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ ८४॥
सम्भोक्षेण च गात्राणाम् च । यदा च अङ्गवती डोला प्रत्यक्षा पुस्त-जा भवेत् ॥ ८४॥
sambhokṣeṇa ca gātrāṇām ca . yadā ca aṅgavatī ḍolā pratyakṣā pusta-jā bhavet .. 84..
आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ ८५॥
आसनेषु प्रविष्टानाम् कर्तव्यम् तत्र । आकाश-वचनानि इह वक्ष्यामि आत्म-गतानि च ॥ ८५॥
āsaneṣu praviṣṭānām kartavyam tatra . ākāśa-vacanāni iha vakṣyāmi ātma-gatāni ca .. 85..
अपवारितकं चैव जनान्तिकमथापि च । दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ॥ ८६॥
अपवारितकम् च एव जनान्तिकम् अथ अपि च । दूर-स्थ-आभाषणम् यत् स्यात् अशरीर-निवेदनम् ॥ ८६॥
apavāritakam ca eva janāntikam atha api ca . dūra-stha-ābhāṣaṇam yat syāt aśarīra-nivedanam .. 86..
परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं सम्प्रयोजयेत् ॥ ८७॥
परोक्ष-अन्तरितम् वाक्यम् आकाश-वचनम् तु तत् । तत्र उत्तर-कृतैः वाक्यैः संलापम् सम्प्रयोजयेत् ॥ ८७॥
parokṣa-antaritam vākyam ākāśa-vacanam tu tat . tatra uttara-kṛtaiḥ vākyaiḥ saṃlāpam samprayojayet .. 87..
नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ ८८॥
नाना कारण-संयुक्तैः काव्य-भाव-समुत्थितैः । हृदयस्य वचः तत् आत्म-गतम् ईष्यते ॥ ८८॥
nānā kāraṇa-saṃyuktaiḥ kāvya-bhāva-samutthitaiḥ . hṛdayasya vacaḥ tat ātma-gatam īṣyate .. 88..
सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ॥ ८९॥
स वितर्कम् च तत् योज्यम् प्रायशस् नाटक-आदिषु । निगूढ-भाव-संयुक्तम् अपवारितकम् स्मृतम् ॥ ८९॥
sa vitarkam ca tat yojyam prāyaśas nāṭaka-ādiṣu . nigūḍha-bhāva-saṃyuktam apavāritakam smṛtam .. 89..
कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ ९०॥
कार्य-वशात् अश्रवणम् पार्श्व-गतैः यत् जन-अन्तिकम् तत् स्यात् । हृदय-स्थम् स विकल्पम् भाव-स्थम् च आत्म-गतम् एव ॥ ९०॥
kārya-vaśāt aśravaṇam pārśva-gataiḥ yat jana-antikam tat syāt . hṛdaya-stham sa vikalpam bhāva-stham ca ātma-gatam eva .. 90..
इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ ९१॥
इति गूढ-अर्थ-युक्तानि वचनानि इह नाटके । जन-अन्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ ९१॥
iti gūḍha-artha-yuktāni vacanāni iha nāṭake . jana-antikāni karṇe tu tāni yojyāni yoktṛbhiḥ .. 91..
पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥८२॥
पूर्व-वृत्तम् तु यत् कार्यम् भूयस् कथ्यम् तु कारणात् । कर्ण-प्रदेशे तत् वाच्यम् मा अगात् तत् पुनरुक्त-ताम् ॥८२॥
pūrva-vṛttam tu yat kāryam bhūyas kathyam tu kāraṇāt . karṇa-pradeśe tat vācyam mā agāt tat punarukta-tām ..82..
अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ ९३॥
अव्यभिचारेण पठेत् आकाश-जन-अन्तिक-आत्म-गत-पाठ्यम् । प्रत्यक्ष-परोक्ष-कृतानाम् आत्म-समुत्थान् पर-कृतान् च ॥ ९३॥
avyabhicāreṇa paṭhet ākāśa-jana-antika-ātma-gata-pāṭhyam . pratyakṣa-parokṣa-kṛtānām ātma-samutthān para-kṛtān ca .. 93..
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ ९४॥
हस्तम् अन्तरितम् कृत्वा त्रि-पताकम् प्रयोक्तृभिः । जन-अन्तिकम् प्रयोक्तव्यम् अपवारितकम् तथा ॥ ९४॥
hastam antaritam kṛtvā tri-patākam prayoktṛbhiḥ . jana-antikam prayoktavyam apavāritakam tathā .. 94..
स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसञ्चारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ॥ ९५॥
स्वप्नायित-वाक्य-अर्थैः तु अभिनेयः न खलु हस्त-सञ्चारैः । सुप्त-अभिहितैः एव तु वाक्य-अर्थैः सः अभिनेयः स्यात् ॥ ९५॥
svapnāyita-vākya-arthaiḥ tu abhineyaḥ na khalu hasta-sañcāraiḥ . supta-abhihitaiḥ eva tu vākya-arthaiḥ saḥ abhineyaḥ syāt .. 95..
मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ॥ ९६॥
मन्द-स्वर-सञ्चारैः व्यक्त-अव्यक्तम् पुनरुक्त-वचन-अर्थम् । पूर्व-अनुस्मरण-कृतम् कार्यम् स्वप्नाञ्चिते पाठ्यम् ॥ ९६॥
manda-svara-sañcāraiḥ vyakta-avyaktam punarukta-vacana-artham . pūrva-anusmaraṇa-kṛtam kāryam svapnāñcite pāṭhyam .. 96..
प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ ९७॥
प्रशिथिल-गुरु-करुण-अक्षर-घण्टा-अनुस्वरित-वाक्य-गद्गद-जैः । हिक्का-श्वसा-उपेताम् काकुम् कुर्यात् मरण-काले ॥ ९७॥
praśithila-guru-karuṇa-akṣara-ghaṇṭā-anusvarita-vākya-gadgada-jaiḥ . hikkā-śvasā-upetām kākum kuryāt maraṇa-kāle .. 97..
हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ ९८॥
हिक्का-श्वास-उपेताम् मूर्च्छा-उपगमे मरण-वत् कथयेत् । अति मत्तेषु अपि कार्यम् तद्वत् स्वप्नायिते यथा पाठ्यम् ॥ ९८॥
hikkā-śvāsa-upetām mūrcchā-upagame maraṇa-vat kathayet . ati matteṣu api kāryam tadvat svapnāyite yathā pāṭhyam .. 98..
वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ ९९॥
वृद्धानाम् योजयेत् पाठ्यम् गद्गद-स्खलित-अक्षरम् । असमाप्त-अक्षरम् च एव बालानाम् तु कल-स्वनम् ॥ ९९॥
vṛddhānām yojayet pāṭhyam gadgada-skhalita-akṣaram . asamāpta-akṣaram ca eva bālānām tu kala-svanam .. 99..
नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ १००॥
नाना भाव-उपगतम् मरण-अभिनये बहु-कीर्तितम् तु । विक्षिप्त-हस्त-पादैः निभृतैः सन्नैः तथा कार्यम् ॥ १००॥
nānā bhāva-upagatam maraṇa-abhinaye bahu-kīrtitam tu . vikṣipta-hasta-pādaiḥ nibhṛtaiḥ sannaiḥ tathā kāryam .. 100..
व्याधिप्लुते च मरणं निषण्णगात्रैस्तु सम्प्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसञ्चारम् ॥ १०१॥
व्याधि-प्लुते च मरणम् निषण्ण-गात्रैः तु सम्प्रयोक्तव्यम् । हिक्का-श्वास-उपेतम् तथा पर-अधीन-गात्र-सञ्चारम् ॥ १०१॥
vyādhi-plute ca maraṇam niṣaṇṇa-gātraiḥ tu samprayoktavyam . hikkā-śvāsa-upetam tathā para-adhīna-gātra-sañcāram .. 101..
विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसम्प्रयुक्तं विस्फुरिताङ्गक्रियोपेतम् ॥ १०२॥
विष-पीते अपि च मरणम् कार्यम् विक्षिप्त-गात्र-कर-चरणम् । विष-वेग-सम्प्रयुक्तम् विस्फुरित-अङ्ग-क्रिया-उपेतम् ॥ १०२॥
viṣa-pīte api ca maraṇam kāryam vikṣipta-gātra-kara-caraṇam . viṣa-vega-samprayuktam visphurita-aṅga-kriyā-upetam .. 102..
प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ १०३॥
प्रथेमे वेगे कार्श्यम् तु अभिनेये वेपथुः द्वितीये तु । दाहः तथा तृतीये विलल्लिका स्यात् चतुर्थे तु ॥ १०३॥
pratheme vege kārśyam tu abhineye vepathuḥ dvitīye tu . dāhaḥ tathā tṛtīye vilallikā syāt caturthe tu .. 103..
फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ १०४॥
फेनः तु पञ्चम-स्थे तु ग्रीवा षष्ठे तु भज्यते । जड-ता सप्तमे तु स्यात् मरणम् तु अष्टमे भवेत् ॥ १०४॥
phenaḥ tu pañcama-sthe tu grīvā ṣaṣṭhe tu bhajyate . jaḍa-tā saptame tu syāt maraṇam tu aṣṭame bhavet .. 104..
तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ॥ १०५॥
तत्र प्रथम-वेगे तु क्षाम-वक्र-कपोल-ता । कृश-त्वे अभिनयः कार्यः वाक्यानाम् अल्प-भाषणम् ॥ १०५॥
tatra prathama-vege tu kṣāma-vakra-kapola-tā . kṛśa-tve abhinayaḥ kāryaḥ vākyānām alpa-bhāṣaṇam .. 105..
सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ १०६॥
सर्व-अङ्ग-वेपथुम् च कण्डूयनम् तथा अङ्गानाम् । विक्षिप्त-हस्त-गात्रम् दाहम् च एव अपि अभिनयेत् तु ॥ १०६॥
sarva-aṅga-vepathum ca kaṇḍūyanam tathā aṅgānām . vikṣipta-hasta-gātram dāham ca eva api abhinayet tu .. 106..
उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ १०७॥
उद्वृत्त-निमेष-त्वात् उद्गार-छर्दनैः तथा आक्षेपैः । अव्यक्त-अक्षर-कथनैः विलल्लिकाम् अभिनयेत् एवम् ॥ १०७॥
udvṛtta-nimeṣa-tvāt udgāra-chardanaiḥ tathā ākṣepaiḥ . avyakta-akṣara-kathanaiḥ vilallikām abhinayet evam .. 107..
उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसन्ज्ञतया निमेषैश्च ॥ १०८॥
उद्गार-वमन-योगैः शिरसः च विलोलनैः अनेकविधैः । फेनः तु अभिनेतव्यः निःसन्ज्ञतया निमेषैः च ॥ १०८॥
udgāra-vamana-yogaiḥ śirasaḥ ca vilolanaiḥ anekavidhaiḥ . phenaḥ tu abhinetavyaḥ niḥsanjñatayā nimeṣaiḥ ca .. 108..
अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ १०९॥
अंस-कपोल-स्पर्शः शिरसः अथ विनामनम् शिरः-अपाङ्गः । सर्व-इन्द्रिय-संमोहात् जड-ताम् एवम् तु अभिनयेत् तु ॥ १०९॥
aṃsa-kapola-sparśaḥ śirasaḥ atha vināmanam śiraḥ-apāṅgaḥ . sarva-indriya-saṃmohāt jaḍa-tām evam tu abhinayet tu .. 109..
संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ ११०॥
संमीलित-नेत्र-त्वात् व्याधि-विवृद्धौ भुजङ्ग-दशनात् वा । एवम् हि नाट्य-धर्मे मरणानि बुधैः प्रयोज्यानि ॥ ११०॥
saṃmīlita-netra-tvāt vyādhi-vivṛddhau bhujaṅga-daśanāt vā . evam hi nāṭya-dharme maraṇāni budhaiḥ prayojyāni .. 110..
सम्भ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ १११॥
सम्भ्रमेषु अथ रोषेषु शोक-आवेश-कृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तम् न तेषु इह ॥ १११॥
sambhrameṣu atha roṣeṣu śoka-āveśa-kṛteṣu ca . yāni vākyāni yujyante punaruktam na teṣu iha .. 111..
साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसङ्ख्यानि कारयेत् ॥ ११२॥
साधु अहो माम् च हेहा इति किम् त्वम् माम् आवद इति च । एवंविधानि कार्याणि द्वि-त्रि-सङ्ख्यानि कारयेत् ॥ ११२॥
sādhu aho mām ca hehā iti kim tvam mām āvada iti ca . evaṃvidhāni kāryāṇi dvi-tri-saṅkhyāni kārayet .. 112..
प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ ११३॥
प्रत्यङ्ग-हीनम् यत् काव्यम् विकृतम् च प्रयुज्यते । न लक्षण-कृतः तत्र कार्यः तु अभिनयः बुधैः ॥ ११३॥
pratyaṅga-hīnam yat kāvyam vikṛtam ca prayujyate . na lakṣaṇa-kṛtaḥ tatra kāryaḥ tu abhinayaḥ budhaiḥ .. 113..
भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ ११४॥
भावः यत्र उत्तमानाम् तु न तम् मध्येषु योजयेत् । यः भावः च एव मध्यानाम् न ते नीचेषु योजयेत् ॥ ११४॥
bhāvaḥ yatra uttamānām tu na tam madhyeṣu yojayet . yaḥ bhāvaḥ ca eva madhyānām na te nīceṣu yojayet .. 114..
पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ ११५॥
पृथक् पृथक् भाव-रसैः आत्म-चेष्टा-समुत्थितैः । ज्येष्ठ-मध्यम-नीचेषु नाट्यम् रागम् हि गच्छति ॥ ११५॥
pṛthak pṛthak bhāva-rasaiḥ ātma-ceṣṭā-samutthitaiḥ . jyeṣṭha-madhyama-nīceṣu nāṭyam rāgam hi gacchati .. 115..
एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ ११६॥
एते अभिनय-विशेषाः कर्तव्याः सत्त्व-भाव-संयुक्ताः । अन्ये तु लौकिकाः ये तु ते सर्वे लोक-वत् कार्याः ॥ ११६॥
ete abhinaya-viśeṣāḥ kartavyāḥ sattva-bhāva-saṃyuktāḥ . anye tu laukikāḥ ye tu te sarve loka-vat kāryāḥ .. 116..
नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अङ्गोपाङ्गै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ ११७॥
नानाविधैः यथा पुष्पैः मालाम् ग्रथ्नाति माल्यकृत् । अङ्ग-उपाङ्गैः रसैः भावैः तथा नाट्यम् प्रयोजयेत् ॥ ११७॥
nānāvidhaiḥ yathā puṣpaiḥ mālām grathnāti mālyakṛt . aṅga-upāṅgaiḥ rasaiḥ bhāvaiḥ tathā nāṭyam prayojayet .. 117..
या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ ११८॥
या यस्य लीला नियता गतिः च रङ्ग-प्रविष्टस्य निधान-युक्तः । ताम् एव कुर्यात् अविमुक्त-सत्त्वः यावत् नरङ्गात् प्रतिनिर्वृतः स्यात् ॥ ११८॥
yā yasya līlā niyatā gatiḥ ca raṅga-praviṣṭasya nidhāna-yuktaḥ . tām eva kuryāt avimukta-sattvaḥ yāvat naraṅgāt pratinirvṛtaḥ syāt .. 118..
एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ ११९॥
एवम् एते मया प्रोक्ताः नाट्ये च अभिनयाः क्रमात् । अन्ये तु लौकिकाः ये ते लोकात् ग्राह्याः सदा बुधैः ॥ ११९॥
evam ete mayā proktāḥ nāṭye ca abhinayāḥ kramāt . anye tu laukikāḥ ye te lokāt grāhyāḥ sadā budhaiḥ .. 119..
लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ १२०॥
लोकः वेदः तथा अध्यात्मम् प्रमाणम् त्रिविधम् स्मृतम् । वेद-अध्यात्म-पदार्थेषु प्रायस् नाट्यम् प्रतिष्ठितम् ॥ १२०॥
lokaḥ vedaḥ tathā adhyātmam pramāṇam trividham smṛtam . veda-adhyātma-padārtheṣu prāyas nāṭyam pratiṣṭhitam .. 120..
वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ १२१॥
वेद-अध्यात्म-उपपन्नम् तु शब्द-छन्दः-समन्वितम् । लोक-सिद्धम् भवेत् सिद्धम् नाट्यम् लोक-आत्मकम् तथा ॥ १२१॥
veda-adhyātma-upapannam tu śabda-chandaḥ-samanvitam . loka-siddham bhavet siddham nāṭyam loka-ātmakam tathā .. 121..
न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ १२२॥
न च शक्यम् हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयम् कर्तुम् भाव-चेष्टा-विधिम् प्रति ॥ १२२॥
na ca śakyam hi lokasya sthāvarasya carasya ca . śāstreṇa nirṇayam kartum bhāva-ceṣṭā-vidhim prati .. 122..
नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ १२३॥
नाना शीलाः प्रकृतयः शीले नाट्यम् । तस्मात् लोक-प्रमाणम् हि विज्ञेयम् नाट्य-योक्तृभिः ॥ १२३॥
nānā śīlāḥ prakṛtayaḥ śīle nāṭyam . tasmāt loka-pramāṇam hi vijñeyam nāṭya-yoktṛbhiḥ .. 123..
एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ १२४॥
एतान् विधीन् च अभिनयस्य सम्यक् विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्य-तत्त्व-अभिनय-प्रयोक्ता संमानम् अग्र्यम् लभते हि लोके ॥ १२४॥
etān vidhīn ca abhinayasya samyak vijñāya raṅge manujaḥ prayuṅkte . sa nāṭya-tattva-abhinaya-prayoktā saṃmānam agryam labhate hi loke .. 124..
एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसम्भवाः प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ १२५॥
एवम् एते हि अभिनयाः वाच्-नेपथ्य-अङ्ग-सम्भवाः प्रयोग-ज्ञेन कर्तव्याः नाटके सिद्धिम् इच्छता ॥ १२५॥
evam ete hi abhinayāḥ vāc-nepathya-aṅga-sambhavāḥ prayoga-jñena kartavyāḥ nāṭake siddhim icchatā .. 125..
इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम पञ्चविंशोऽध्यायः ॥
इति भारतीये नाट्य-शास्त्रे चित्राभिनयः नाम पञ्चविंशः अध्यायः ॥
iti bhāratīye nāṭya-śāstre citrābhinayaḥ nāma pañcaviṃśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In