| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २५ ॥
.. nāṭyaśāstram adhyāya 25 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
पञ्चविंशोऽध्यायः ।
pañcaviṃśo'dhyāyaḥ .
अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ १॥
aṅgābhinayasyaiva yo viśeṣaḥ kvacit kvacit . anukta ucyate citraḥ citrābhinayassmṛtaḥ .. 1..
उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ २॥
uttānau tu karau kṛtvā svastikau pārśvasaṃsthitau . udvāhitena śirasā tathā cordhvanirīkṣaṇāt .. 2..
प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ ३॥
prabhātaṃ gaganaṃ rātriḥ pradoṣaṃ divasaṃ tathā . ṛtūn ghanān vanāntāṃśca vistīrṇāṃśca jalāśayān .. 3..
दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ ४॥
diśo grahān sanakṣatrān kiñcit svasthaṃ ca yadbhavet . tasya tvabhinayaḥ kāryo nānādṛṣṭisamanvitaḥ .. 4..
एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् सम्प्रदर्शयेत् ॥ ५॥
ebhireva karairbhūyastenaiva śirasā punaḥ . adho nirīkṣaṇenātha bhūmisthān sampradarśayet .. 5..
स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ ६॥
sparśasya grahaṇenaiva tathollukasanena ca . candrajyostnāṃ sukhaṃ vāyuṃ rasaṃ gandhaṃ ca nirdiśet .. 6..
वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः ॥ ७॥
vastrāvakuṇṭhanātsūryaṃ rajodhūmānilāṃstathā . bhūmitāpamathoṣṇaṃ ca kuryācchāyābhilāṣataḥ .. 7..
ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥८॥
ūrdhvākekaradṛṣṭistu madhyāhne sūryamādiśet . udayāstagataṃ caiva vismayārthaiḥ pradarśayet ..8..
यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् ॥ ९॥
yāni saumyārthayuktāni susvabhāvakṛtāni ca . gātrasparśaissaromāñcaisteṣāmabhinayo bhavet .. 9..
यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ १०॥
yāni syustīkṣṇarūpāṇi tāni cābhinayetsudhīḥ . asaṃsparśaistathodvegaistathā mukhavikuṇṭhanaiḥ .. 10..
गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ ११॥
gambhīrodātasaṃyuktānarthānabhinayedbudhaḥ . sāṭopaiśca sagarvaiśca gātraiḥ sauṣṭhavasaṃyutaiḥ .. 11..
यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ॥ १२॥
yajñopavītadeśasthamarālaṃ hāsamādiśet . svastikau vicyutau hārasragdāmārthān nidarśayet .. 12..
भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् ॥ १३॥
bhramaṇena pradarśinyā dṛṣṭeḥ parigamena ca . alapadmakapīḍāyāḥ sarvārthagrahaṇaṃ bhavet .. 13..
श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ १४॥
śravyaṃ śravaṇayogena dṛśyaṃ dṛṣṭivilokanaiḥ . ātmasthaṃ parasaṃsthaṃ vā madhyasthaṃ vā vinirdiśet .. 14..
विद्युदुल्काघनरवाविष्फुलिङ्गार्चिषस्तथा । त्रस्ताङ्गाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः ॥ १५॥
vidyudulkāghanaravāviṣphuliṅgārciṣastathā . trastāṅgākṣinimeṣaiśca te'bhineyāḥ prayoktṛbhiḥ .. 15..
उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ १६॥
udveṣṭitakarāvṛttau karau kṛtvā nataṃ śiraḥ . asaṃsparśe tathāniṣṭe jihmadṛṣṭena kārayet .. 16..
वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतङ्गांश्च भ्रमरांश्च निवारयेत् ॥ १७॥
vāyumuṣṇaṃ tamastejo mukhapracchādanena ca . reṇutoyapataṅgāṃśca bhramarāṃśca nivārayet .. 17..
कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥१८॥
kṛtvā svastikasaṃsthānau padmakośāvadhomukhau . siaṃharkṣavānaravyāghraśvāpadāṃśca nirūpayet ..18..
स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ १९॥
svastikau tripatākau tu gurūṇāṃ pādavandane . khaṭakasvasthikau cāpi pratodagrahaṇe smṛtau .. 19..
एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा । नव वा दश वापि स्युर्गणनाङ्गुलिभिर्भवेत् ॥ २०॥
ekaṃ dvi trīṇi catvāri pañca ṣaṭ sapta cāṣṭadhā . nava vā daśa vāpi syurgaṇanāṅgulibhirbhavet .. 20..
दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ २१॥
daśākhyāśca śatākhyāśca sahasrākhyāstathaiva ca . patākābhyāṃ tu hastābhyāṃ prayojyāstāḥ prayoktṛbhiḥ .. 21..
दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ २२॥
daśākhyagaṇanāyāstu parato yā bhavediha . vākyārthenaiva sādhyāsau parokṣābhinayena ca .. 22..
छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ २३॥
chatradhvajapatākāśca nirdeśyā daṇḍadhāraṇāt . nānāpraharaṇaṃ cātha nirdeśyaṃ dhāraṇāśrayam .. 23..
एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च सन्दंशः स्मृते ध्याने वितर्किते ॥ २४॥
ekacitto hyadhodṛṣṭiḥ kiñcinnataśirāstathā . savyahastaśca sandaṃśaḥ smṛte dhyāne vitarkite .. 24..
उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ २५॥
udvāhitaṃ śiraḥ kṛtvā haṃsapakṣau pradakṣiṇau . apatyarūpaṇe kāryāvuchrayau ca prayoktṛbhiḥ .. 25..
उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ २६॥
udvāhitaṃ śiraḥ kṛtvā haṃsavaktraṃ tathordhvagam . prasādayacca yaṃ mānaṃ dīrghasatvaṃ ca nirdiśet .. 26..
अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ २७॥
arālaṃ ca śirasthāne samudvāhya tu vāmakam . gate nirvṛtte dhvaste ca śrāntavākye ca yojayet .. 27..
सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ २८॥
sarvendriyasvasthatayā prasannavadanastathā . vicitrabhūtalālokaiḥ śaradantu vinirdiśet .. 28..
गात्रसङ्कोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ २९॥
gātrasaṅkocanāccāpi sūryāgnipaṭusevanāt . hemantastvabhinetavyaḥ puruṣairmadhyamādhamaiḥ .. 29..
शिरोदन्तोष्ठकम्पेन गात्रसङ्कोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ ३०॥
śirodantoṣṭhakampena gātrasaṅkocanena ca . kūjitaiśca saśītkārairadhamaśśītamādiśet .. 30..
अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसम्भवम् ॥ ३१॥
avasthāntaramāsādya kadācittūttamarairapi . śītābhinayanaṃ kūryāddevādvyasanasambhavam .. 31..
ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ ३२॥
ṛtujānāṃ tu puṣpāṇāṃ gandhaghrāṇaistathaiva ca . rūkṣasya vāyoḥ sparśācca śiśiraṃ rūpayedbudhaḥ .. 32..
प्रमोदजननारम्भैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ ३३॥
pramodajananārambhairupabhogaiḥ pṛthagvidhiḥ . vasantastvabhinetavyo nānāpuṣpapradarśanāt .. 33..
स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ ३४॥
sveda pramārjanaiścaiva bhūmitāpaiḥ savījanaiḥ . uṣṇasya vāyoḥ sparśena grīṣmaṃ tvabhinayedbudhaḥ .. 34..
कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ ३५॥
kadambanīpakuṭapaiḥ śādvalaiḥ sendragopakaiḥ . meghavātaiḥ sukhasparśaiḥ prāvṛṭkālaṃ pradarśayet .. 35..
मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ ३६॥
meghaughanādairgambhīrairdhārāprapatanaistadā . vidyunnirghātaghoṣaiśca varṣārātraṃ samādiśet .. 36..
यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ ३७॥
yadyasya cihnaṃ veṣo vā karma vā rūpameva vā . nirdeśyaḥ sa ṛtustena iṣṭāniṣṭārthadarśanāt .. 37..
एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ ३८॥
etānṛtūnarthavaśāddarśayeddhi rasānugān . sukhinastu sukhopetān suḥkhārthān duḥkhasaṃyutān .. 38..
यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसङ्कारः सर्वं पश्यति तन्मयम् ॥ ३९॥
yo yena bhāvenāviṣṭaḥ sukhadenetareana vā . sa tadāhitasaṅkāraḥ sarvaṃ paśyati tanmayam .. 39..
भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ ४०॥
bhāvābhinayanaṃ kuryādvibhāvānāṃ nidarśanaiḥ . tathaiva cānubhāvānāṃ bhāvasiddhiḥ pravartitā .. 40..
विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ ४१॥
vibhāvenāhṛtaṃ kāryamanubhāvena nīyate . ātmānubhavanaṃ bhāvo vibhāvaḥ paradarśanam .. 41..
गुरुर्मित्रं सखा स्निग्धः सम्बन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ ४२॥
gururmitraṃ sakhā snigdhaḥ sambandhī bandhureva vā . āvedyate hi yaḥ prāptaḥ sa vibhāva iti smṛtaḥ .. 42..
यत्त्वस्य सम्भ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः ॥ ४३॥
yattvasya sambhramotthānairarghyapādyāsanādibhiḥ . pūjanaṃ kriyate bhaktyā so'nubhāvaḥ prakīrtitaḥ .. 43..
एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः ॥ ४४॥
evamanyeṣvapi jñeyo nānākāryapradarśanāt . vibhāvo vāpi bhāvo vā vijñeyo'rthavaśādbudhaiḥ .. 44..
यस्त्वपि प्रतिसन्देशो दूतस्येह प्रदीयते । सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ ४५॥
yastvapi pratisandeśo dūtasyeha pradīyate . so'nubhāva iti jñeyaḥ pratisandeśadarśitaḥ .. 45..
एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ ४६॥
evaṃ bhāvo vibhāvo vāpyanubhāvaśca kīrtitaḥ . puruṣairabhineyaḥ syātpramadābhirathāpi vā .. 46..
स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ ४७॥
svabhāvābhinaye sthānaṃ puṃsāṃ kāryaṃ tu vaiṣṇavam . āyataṃ vāvahitthaṃ vā strīṇāṃ kāryaṃ svabhāvataḥ .. 47..
प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ ४८॥
prayojanavaśāccaiva śeṣāṇyapi bhavanti hi . nānābhavābhinayanaiḥ prayogaiśca pṛthagvidhaiḥ .. 48..
धैर्यलीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ ४९॥
dhairyalīlāṅgasampannaṃ puruṣāṇāṃ viceṣṭitam . mṛdulīlāṅgahāraiśca strīṇāṃ kāryaṃ tu ceṣṭitam .. 49..
करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ ५०॥
karapādāṅgasañcārāsstrīṇāṃ tu lalitāḥ smṛtāḥ . sudhīraścoddhataścaiva puruṣāṇāṃ prayoktṛbhiḥ .. 50..
यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ ५१॥
yathā rasaṃ yathā bhāvaṃ strīṇāṃ bhāvapradarśanam . narāṇāṃ pramadānāṃ ca bhāvābhinayanaṃ pṛthak .. 51..
भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ ५२॥
bhāvānubhāvanaṃ yuktaṃ vyākhyāsyāmyanupūrvaśaḥ . āliṅganena gātrāṇāṃ sasmitena ca cakṣuṣā .. 52..
तथोल्लुकसानच्चापि हर्षं सन्दर्शयेन्नरः । क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना ॥ ५३॥
tathollukasānaccāpi harṣaṃ sandarśayennaraḥ . kṣiprasa!njātaromāñcāt bāṣpeṇāvṛtalocanā .. 53..
कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ ५४॥
kurvīta nartakī harṣaṃ prītyā vākyaiśca sasmitaiḥ . udvṛttaraktanetraśca sandaṣṭādhara eva ca .. 54..
निश्वासकम्पिताङ्गश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकम्पनात् ॥ ५५॥
niśvāsakampitāṅgaśca krodhaṃ cābhinayennaraḥ . netrābhyāṃ bāṣpapūrṇābhyāṃ cibukauṣṭhaprakampanāt .. 55..
शिरसः कम्पनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ ५६॥
śirasaḥ kampanāccaiva bhrukuṭīkaraṇena ca . maunenāṅgulibhaṅgena mālyābharaṇavarjanāt .. 56..
आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ ५७॥
āyatakasthānakakṣāyā īrṣyā krodhe bhavetstriyāḥ . niśvāsocchvāsabahulairadhomukhavicintanaiḥ .. 57..
आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ ५८॥
ākāśavacanāccāpi duḥkhaṃ puṃsāṃ tu yojayet . ruditaiḥ śvasitaiścaiva śirobhihananena ca .. 58..
भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासम्भूतमेव वा ॥ ५९ ॥
bhūmipātābhighātaiśca duḥkhaṃ strīṣu prayojayet . ānandajaṃ cārtijaṃ vā īrṣyāsambhūtameva vā .. 59 ..
यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । सम्भ्रमावेगचेष्टाभिश्शस्त्रसम्पातनेन च ॥ ६० ॥
yatpūrvamuktaṃ ruditaṃ tatstrīnīceṣu yojayet . sambhramāvegaceṣṭābhiśśastrasampātanena ca .. 60 ..
पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ ६१॥
puruṣāṇāṃ bhayaṃ kāryaṃ dhairyāvegabalādibhiḥ . calatārakanetratvādgātraiḥ sphuritakampitaiḥ .. 61..
सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ ६२॥
santrastahṛdayatvācca pārśvābhyāmavalokanaiḥ . bhartṛranveṣaṇāccaivamuccairākrandanādapi .. 62..
प्रियस्यालिङ्गनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ ६३॥
priyasyāliṅganāccaiva bhayaṃ kāryaṃ bhavetstriyāḥ . madā ye'bhihitāḥ pūrvaṃ te strīnīceṣu yojayet .. 63..
मृदुभिः स्खलितैर्नित्यमाकाशस्यावलम्बनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ ६४॥
mṛdubhiḥ skhalitairnityamākāśasyāvalambanāt . netrāvaghūrṇanaiścaiva sālasyaiḥ kathitaistathā .. 64..
गात्राणां कम्पनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ ६५॥
gātrāṇāṃ kampanaiścaiva madaḥ kāryo bhavetstriyāḥ . anena vidhinā kāryaḥ prayogāḥ kāraṇotthitāḥ .. 65..
पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ ६६॥
pauruṣaḥ strīkṛto vāpi bhāvā hyabhinayaṃ prati . sarve salalitā bhāvāsstrībhiḥ kāryāḥ prayatnataḥ .. 66..
धैर्यमाधुर्यसम्पन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ ६७॥
dhairyamādhuryasampannā bhāvāḥ kāryāstu pauruṣāḥ . tripatākāṅgulībhyāṃ tu valitābhyāṃ prayojayet .. 67..
शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः ॥ ६८॥
śukāśca sārikāścaiva sūkṣmā ye cāpi pakṣiṇaḥ . śikhisārasahaṃsādyāḥ sthūlā ye'pi svabhāvataḥ .. 68..
रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ ६९॥
recakairaṅgahāraiśca teṣāmabhinayo bhavet . kharoṣṭrāśvatarāsiṃhavyāghragomahiṣādaya .. 69..
गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ ७०॥
gatipracarairaṅgaiśca te'bhineyāḥ prayoktṛbhiḥ . bhūtāḥ piśācā yakṣāśca dānavāḥ saharākṣasaiḥ .. 70..
अङ्गहारैरविनिर्देश्या नामसङ्कीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ ७१॥
aṅgahārairavinirdeśyā nāmasaṅkīrtanādapi . aṅgahārairvinirdeśyā apratyakṣā bhavanti ye .. 71..
प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ ७२॥
pratyakṣāstvabhinetavyā bhayodvegaiḥ savismayaiḥ . devāśca cihnaiśca praṇāmakaraṇairbhāvaiśca viceṣṭitaiḥ .. 72..
अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ ७३॥
abhineyo hyarthavaśādapratyakṣāḥ prayogajñaiḥ . savyotthitena hastena hyarālena śiraḥ spṛśet .. 73..
नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ ७४॥
nare'hyabhivādanaṃ hyetadapratyakṣe vidhīyate . khaṭakāvardhamānena kapotākhyena vā punaḥ .. 74..
दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ ७५॥
daivatāni gurūṃścaiva pramadāścābhivādayet . divaukasaśca ye pūjyāḥ pratyakṣāśca bhavanti ye .. 75..
तान् प्रमाणैः प्रभावैश्च गम्भीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ ७६॥
tān pramāṇaiḥ prabhāvaiśca gambhīrārthaiśca yojayet . mahājanaṃ sakhīvargaṃ viṭadhūrtajanaṃ tathā .. 76..
परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ ७७॥
parimaṇḍalasaṃsthena hastenābhinayenannaraḥ . parvatān prāṃśuyogena vṛkṣāṃścaiva samucchritān .. 77..
प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ ७८॥
prasāritābhyāṃ bāhubhyāmutkṣiptābhyāṃ prayojayet . samūhasāgaraṃ senā bahuvistīrṇameva ca .. 78..
पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ ७९॥
patākābhyāṃ tu hastābhyāmutkṣiptābhyāṃ pradarśayet . śauryaṃ dhairyaṃ ca garvaṃ ca darpamaudāryamucchrayam .. 79..
ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ ८०॥
lalāṭadeśasthānena tvarālenābhidarśayet . vakṣodeśādapāviddhau karau tu mṛgaśīrṣakau .. 80..
विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ ८१॥
vistīrṇapradrutotkṣepau yojyau yasyādapāvṛtam . adhomukhottānatalau hastau kiñcitprasāritau .. 81..
कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ ८२॥
kṛtvā tvabhinayedvelāṃ biladvāraṃ gṛhaṃ guhān . kāmaṃ śāpagrahagrastān jvaropahatacetasaḥ .. 82..
एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ ८३॥
eteṣāṃ ceṣṭitaṃ kuryādaṅgādyaiḥ sadṛśairbudhaiḥ . dolābhinayanaṃ kuryāddolāyāstu vilokanaiḥ .. 83..
सम्भोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ ८४॥
sambhokṣeṇa ca gātrāṇāṃ rajvaśvāgrahaṇena ca . yadā cāṅgavatī ḍolā pratyakṣā pustajā bhavet .. 84..
आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ ८५॥
āsaneṣu praviṣṭānāṃ kartavyaṃ tatra ḍolanam . ākāśavacanānīha vakṣyāmyātmagatāni ca .. 85..
अपवारितकं चैव जनान्तिकमथापि च । दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् ॥ ८६॥
apavāritakaṃ caiva janāntikamathāpi ca . dūrasthābhāṣaṇaṃ yatsyādaśarīranivedanam .. 86..
परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं सम्प्रयोजयेत् ॥ ८७॥
parokṣāntaritaṃ vākyamākāśavacanaṃ tu tat . tatrottarakṛtairvākyaiḥ saṃlāpaṃ samprayojayet .. 87..
नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ ८८॥
nānākāraṇasaṃyuktaiḥ kāvyabhāvasamutthitaiḥ . hṛdayasya vaco yattū tadātmagatamīṣyate .. 88..
सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । निगूढभावसंयुक्तमपवारितकं स्मृतम् ॥ ८९॥
savitarkaṃ ca tadyojyaṃ prāyaśo nāṭakādiṣu . nigūḍhabhāvasaṃyuktamapavāritakaṃ smṛtam .. 89..
कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ ९०॥
kāryavaśādaśravaṇaṃ pārśvagatairyajjanāntikaṃ tatsyāt . hṛdayasthaṃ savikalpaṃ bhāvasthaṃ cātmagatameva .. 90..
इति गूढार्थयुक्तानि वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ ९१॥
iti gūḍhārthayuktāni vacanānīha nāṭake . janāntikāni karṇe tu tāni yojyāni yoktṛbhiḥ .. 91..
पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥८२॥
pūrvavṛttaṃ tu yatkāryaṃ bhūyaḥ kathyaṃ tu kāraṇāt . karṇapradeśe tadvācyaṃ māgāttatpunaruktatām ..82..
अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ ९३॥
avyabhicāreṇa paṭhedākāśajanāntikātmagatapāṭhyam . pratyakṣaparokṣakṛtānāmātmasamutthān parakṛtāṃśca .. 93..
हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ ९४॥
hastamantaritaṃ kṛtvā tripatākaṃ prayoktṛbhiḥ . janāntikaṃ prayoktavyamapavāritakaṃ tathā .. 94..
स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसञ्चारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् ॥ ९५॥
svapnāyitavākyārthaistvabhineyo na khalu hastasañcāraiḥ . suptābhihitaireva tu vākyārthaiḥ so'bhineyaḥ syāt .. 95..
मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् ॥ ९६॥
mandasvarasañcārairvyaktāvyaktaṃ punaruktavacanārtham . pūrvānusmaraṇakṛtaṃ kāryaṃ svapnāñcite pāṭhyam .. 96..
प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ ९७॥
praśithilagurukaruṇākṣaraghaṇṭānusvaritavākyagadgadajaiḥ . hikkāśvasopetāṃ kākuṃ kuryānmaraṇakāle .. 97..
हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ ९८॥
hikkāśvāsopetāṃ mūrcchopagame maraṇavatkathayet . atimatteṣvapi kāryaṃ tadvatsvapnāyite yathā pāṭhyam .. 98..
वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ ९९॥
vṛddhānāṃ yojayetpāṭhyaṃ gadgadaskhalitākṣaram . asamāptākṣaraṃ caiva bālānāṃ tu kalasvanam .. 99..
नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ १००॥
nānābhāvopagataṃ maraṇābhinaye bahukīrtitaṃ tu . vikṣiptahastapādairnibhṛtaiḥ sannaistathā kāryam .. 100..
व्याधिप्लुते च मरणं निषण्णगात्रैस्तु सम्प्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसञ्चारम् ॥ १०१॥
vyādhiplute ca maraṇaṃ niṣaṇṇagātraistu samprayoktavyam . hikkāśvāsopetaṃ tathā parādhīnagātrasañcāram .. 101..
विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसम्प्रयुक्तं विस्फुरिताङ्गक्रियोपेतम् ॥ १०२॥
viṣapīte'pi ca maraṇaṃ kāryaṃ vikṣiptagātrakaracaraṇam . viṣavegasamprayuktaṃ visphuritāṅgakriyopetam .. 102..
प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ १०३॥
pratheme vege kārśyaṃ tvabhineye vepathurdvitīye tu . dāhastathā tṛtīye vilallikā syāccaturthe tu .. 103..
फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ १०४॥
phenastu pañcamasthe tu grīvā ṣaṣṭhe tu bhajyate . jaḍatā saptame tu syānmaraṇaṃ tvaṣṭame bhavet .. 104..
तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् ॥ १०५॥
tatra prathamavege tu kṣāmavakrakapolatā . kṛśatve'bhinayaḥ kāryo vākyānāmalpabhāṣaṇam .. 105..
सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ १०६॥
sarvāṅgavepathuṃ ca kaṇḍūyanaṃ tathāṅgānām . vikṣiptahastagātraṃ dāhaṃ caivāpyabhinayettu .. 106..
उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ १०७॥
udvṛttanimeṣatvādudgāracchardanaistathākṣepaiḥ . avyaktākṣarakathanaiḥ vilallikāmabhinayedevam .. 107..
उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसन्ज्ञतया निमेषैश्च ॥ १०८॥
udgāravamanayogaiḥ śirasaśca vilolanairanekavidhaiḥ . phenastvabhinetavyo niḥsanjñatayā nimeṣaiśca .. 108..
अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ १०९॥
aṃsakapolasparśaḥ śiraso'tha vināmanaṃ śiro'pāṅgaḥ . sarvendriayasaṃmohājjaḍatāmevaṃ tvabhinayettu .. 109..
संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ ११०॥
saṃmīlitanetratvāt vyādhivivṛddhau bhujaṅgadaśanādvā . evaṃ hi nāṭyadharme maraṇāni budhaiḥ prayojyāni .. 110..
सम्भ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ १११॥
sambhrameṣvatha roṣeṣu śokāveśakṛteṣu ca . yāni vākyāni yujyante punaruktaṃ na teṣviha .. 111..
साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसङ्ख्यानि कारयेत् ॥ ११२॥
sādhvaho māṃ ca heheti kiṃ tvaṃ māmāvadeti ca . evaṃvidhāni kāryāṇi dvitrisaṅkhyāni kārayet .. 112..
प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ ११३॥
pratyaṅgahīnaṃ yatkāvyaṃ vikṛtaṃ ca prayujyate . na lakṣaṇakṛtastatra kāryastvabhinayo budhaiḥ .. 113..
भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ ११४॥
bhāvo yatrottamānāṃ tu na taṃ madhyeṣu yojayet . yo bhāvaścaiva madhyānāṃ na te nīceṣu yojayet .. 114..
पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ ११५॥
pṛthak pṛthagbhāvarasairātmaceṣṭāsamutthitaiḥ . jyeṣṭhamadhyamanīceṣu nāṭyaṃ rāgaṃ hi gacchati .. 115..
एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ ११६॥
ete'bhinayaviśeṣāḥ kartavyāḥ sattvabhāvasaṃyuktāḥ . anye tu laukikā ye tu te sarve lokavatkāryāḥ .. 116..
नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अङ्गोपाङ्गै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ ११७॥
nānāvidhairyathā puṣpairmālāṃ grathnāti mālyakṛt . aṅgopāṅgai rasairbhāvaistathā nāṭyaṃ prayojayet .. 117..
या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ ११८॥
yā yasya līlā niyatā gatiśca raṅgapraviṣṭasya nidhānayuktaḥ . tāmeva kuryādavimuktasattvo yāvannaraṅgātpratinirvṛtaḥ syāt .. 118..
एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ ११९॥
evamete mayā proktā nāṭye cābhinayāḥ kramāt . anye tu laukikā ye te lokādgrāhyāḥ sadā budhaiḥ .. 119..
लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ १२०॥
loko vedastathādhyātmaṃ pramāṇaṃ trividhaṃ smṛtam . vedādhyātmapadārtheṣu prāyo nāṭyaṃ pratiṣṭhitam .. 120..
वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ १२१॥
vedādhyātmopapannaṃ tu śabdacchandassamanvitam . lokasiddhaṃ bhavetsiddhaṃ nāṭyaṃ lokātmakaṃ tathā .. 121..
न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ १२२॥
na ca śakyaṃ hi lokasya sthāvarasya carasya ca . śāstreṇa nirṇayaṃ kartuṃ bhāvaceṣṭāvidhiṃ prati .. 122..
नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ १२३॥
nānāśīlāḥ prakṛtayaḥ śīle nāṭyaṃ pratiṣṭhiatam . tasmāllokapramāṇaṃ hi vijñeyaṃ nāṭyayoktṛbhiḥ .. 123..
एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ १२४॥
etān vidhīṃścābhinayasya samyagvijñāya raṅge manujaḥ prayuṅkte . sa nāṭyatattvābhinayaprayoktā saṃmānamagryaṃ labhate hi loke .. 124..
एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसम्भवाः प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ १२५॥
evamete hyabhinayā vāṅnepathyāṅgasambhavāḥ prayogajñena kartavyā nāṭake siddhimicchatā .. 125..
इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम पञ्चविंशोऽध्यायः ॥
iti bhāratīye nāṭyaśāstre citrābhinayo nāma pañcaviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In