| |
|

This overlay will guide you through the buttons:

नाट्यशास्त्रम् अध्याय १
नाट्यशास्त्रम् अध्याय-
nāṭyaśāstram adhyāya-
श्रीरस्तु
श्रीः अस्तु
śrīḥ astu
अथ प्रथमोऽध्यायः ।
अथ प्रथमः अध्यायः ।
atha prathamaḥ adhyāyaḥ .
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ १॥
प्रणम्य शिरसा देवौ पितामह-महेश्वरौ । नाट्य-शास्त्रम् प्रवक्ष्यामि ब्रह्मणा यत् उदाहृतम् ॥ १॥
praṇamya śirasā devau pitāmaha-maheśvarau . nāṭya-śāstram pravakṣyāmi brahmaṇā yat udāhṛtam .. 1..
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् । अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥ २॥
समाप्त-जप्यम् व्रतिनम् स्व-सुतैः परिवारितम् । अनध्याये कदाचिद् तु भरतम् नाट्य-कोविदम् ॥ २॥
samāpta-japyam vratinam sva-sutaiḥ parivāritam . anadhyāye kadācid tu bharatam nāṭya-kovidam .. 2..
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ ३॥
मुनयः पर्युपास्य एनम् आत्रेय-प्रमुखाः पुरा । पप्रच्छुः ते महात्मानः नियत-इन्द्रिय-बुद्धयः ॥ ३॥
munayaḥ paryupāsya enam ātreya-pramukhāḥ purā . papracchuḥ te mahātmānaḥ niyata-indriya-buddhayaḥ .. 3..
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदः ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ ४॥
यः अयम् भगवता सम्यक् ग्रथितः वेद-सम्मितः । नाट्यवेदः ब्रह्मन् उत्पन्नः कस्य वा कृते ॥ ४॥
yaḥ ayam bhagavatā samyak grathitaḥ veda-sammitaḥ . nāṭyavedaḥ brahman utpannaḥ kasya vā kṛte .. 4..
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५॥
कति अङ्गः किंप्रमाणः च प्रयोगः च अस्य कीदृशः । सर्वम् एतत् यथातत्त्वम् भगवन् वक्तुम् अर्हसि ॥ ५॥
kati aṅgaḥ kiṃpramāṇaḥ ca prayogaḥ ca asya kīdṛśaḥ . sarvam etat yathātattvam bhagavan vaktum arhasi .. 5..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६॥
तेषाम् तु वचनम् श्रुत्वा मुनीनाम् भरतः मुनिः । प्रत्युवाच ततस् वाक्यम् नाट्य-वेद-कथाम् प्रति ॥ ६॥
teṣām tu vacanam śrutvā munīnām bharataḥ muniḥ . pratyuvāca tatas vākyam nāṭya-veda-kathām prati .. 6..
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ ७॥
भवद्भिः शुचिभिः भूत्वा तथा अवहित-मानसैः । श्रूयताम् नाट्यवेदस्य सम्भवः ब्रह्म-निर्मितः ॥ ७॥
bhavadbhiḥ śucibhiḥ bhūtvā tathā avahita-mānasaiḥ . śrūyatām nāṭyavedasya sambhavaḥ brahma-nirmitaḥ .. 7..
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे । त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ ८॥
पूर्वम् कृत-युगे विप्राः वृत्ते स्वायंभुवे अन्तरे । त्रेता-युगे अथ सम्प्राप्ते मनोः वैवस्वतस्य तु ॥ ८॥
pūrvam kṛta-yuge viprāḥ vṛtte svāyaṃbhuve antare . tretā-yuge atha samprāpte manoḥ vaivasvatasya tu .. 8..
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते । ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥ ९॥
ग्राम्य-धर्म-प्रवृत्ते तु काम-लोभ-वशम् गते । ईर्ष्या-क्रोध-आदि-संमूढे लोके सुखित-दुःखिते ॥ ९॥
grāmya-dharma-pravṛtte tu kāma-lobha-vaśam gate . īrṣyā-krodha-ādi-saṃmūḍhe loke sukhita-duḥkhite .. 9..
देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १०॥
देव-दानव-गन्धर्व-यक्ष-रक्षः-महा-उरगैः । जम्बुद्वीपे समाक्रान्ते लोकपाल-प्रतिष्ठिते ॥ १०॥
deva-dānava-gandharva-yakṣa-rakṣaḥ-mahā-uragaiḥ . jambudvīpe samākrānte lokapāla-pratiṣṭhite .. 10..
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥ ११॥
महेन्द्र-प्रमुखैः देवैः उक्तः किल पितामहः । क्रीडनीयकम् इच्छामः दृष्यम् श्रव्यम् च यत् भवेत् ॥ ११॥
mahendra-pramukhaiḥ devaiḥ uktaḥ kila pitāmahaḥ . krīḍanīyakam icchāmaḥ dṛṣyam śravyam ca yat bhavet .. 11..
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ १२॥
न वेद-व्यवहारः अयम् संश्राव्यः शूद्र-जातिषु । तस्मात् सृज अपरम् वेदम् पञ्चमम् सार्ववर्णिकम् ॥ १२॥
na veda-vyavahāraḥ ayam saṃśrāvyaḥ śūdra-jātiṣu . tasmāt sṛja aparam vedam pañcamam sārvavarṇikam .. 12..
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ १३॥
एवम् अस्तु इति तान् उक्त्वा देवराजम् विसृज्य च । सस्मार चतुरः वेदान् योगम् आस्थाय तत्त्व-विद् ॥ १३॥
evam astu iti tān uktvā devarājam visṛjya ca . sasmāra caturaḥ vedān yogam āsthāya tattva-vid .. 13..
( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥)
( न इमे वेदाः यतस् श्राव्याः स्त्री-शूद्र-आद्यासु जातिषु । वेदम् अन्यत् ततस् स्रक्ष्ये सर्व-श्राव्यम् तु पञ्चमम् ॥)
( na ime vedāḥ yatas śrāvyāḥ strī-śūdra-ādyāsu jātiṣu . vedam anyat tatas srakṣye sarva-śrāvyam tu pañcamam ..)
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ १४॥
धर्म्यम् अर्थ्यम् यशस्यम् च स उपदेश्यम् स सङ्ग्रहम् । भविष्यतः च लोकस्य सर्व-कर्म-अनुदर्शकम् ॥ १४॥
dharmyam arthyam yaśasyam ca sa upadeśyam sa saṅgraham . bhaviṣyataḥ ca lokasya sarva-karma-anudarśakam .. 14..
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५॥
सर्व-शात्रा-अर्थ-सम्पन्नम् सर्व-शिल्प-प्रवर्तकम् । नाट्य-आख्यम् पञ्चमम् वेदम् स इतिहासम् करोमि अहम् ॥ १५॥
sarva-śātrā-artha-sampannam sarva-śilpa-pravartakam . nāṭya-ākhyam pañcamam vedam sa itihāsam karomi aham .. 15..
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥ १६॥
एवम् सङ्कल्प्य भगवान् सर्व-वेदान् अनुस्मरन् । नाट्य-वेदम् ततस् चक्रे चतुर्-वेदाङ्ग-सम्भवम् ॥ १६॥
evam saṅkalpya bhagavān sarva-vedān anusmaran . nāṭya-vedam tatas cakre catur-vedāṅga-sambhavam .. 16..
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १७॥
जग्राह पाठ्यम् ऋग्वेदात् सामभ्यः गीतम् एव च । यजुर्वेदात् अभिनयान् रसान् आथर्वणात् अपि ॥ १७॥
jagrāha pāṭhyam ṛgvedāt sāmabhyaḥ gītam eva ca . yajurvedāt abhinayān rasān ātharvaṇāt api .. 17..
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ १८॥
वेद-उपवेदैः सम्बद्धः नाट्य-वेदः महात्मना । एवम् भगवता सृष्टः ब्रह्मणा सर्व-वेदिना ॥ १८॥
veda-upavedaiḥ sambaddhaḥ nāṭya-vedaḥ mahātmanā . evam bhagavatā sṛṣṭaḥ brahmaṇā sarva-vedinā .. 18..
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् । इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥ १९॥
उत्पाद्य नाट्य-वेदम् तु ब्रह्मा उवाच सुरेश्वरम् । इतिहासः मया सृष्टः स सुरेषु नियुज्यताम् ॥ १९॥
utpādya nāṭya-vedam tu brahmā uvāca sureśvaram . itihāsaḥ mayā sṛṣṭaḥ sa sureṣu niyujyatām .. 19..
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ २०॥
कुशलाः ये विदग्धाः च प्रगल्भाः च जित-श्रमाः । तेषु अयम् नाट्य-संज्ञः हि वेदः संक्राम्यताम् त्वया ॥ २०॥
kuśalāḥ ye vidagdhāḥ ca pragalbhāḥ ca jita-śramāḥ . teṣu ayam nāṭya-saṃjñaḥ hi vedaḥ saṃkrāmyatām tvayā .. 20..
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ २१॥
तत् शृत्वा वचनम् शक्रः ब्रह्मणा यत् उदाहृतम् । प्राञ्जलिः प्रणतः भूत्वा प्रत्युवाच पितामहम् ॥ २१॥
tat śṛtvā vacanam śakraḥ brahmaṇā yat udāhṛtam . prāñjaliḥ praṇataḥ bhūtvā pratyuvāca pitāmaham .. 21..
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम । अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥ २२॥
ग्रहणे धारणे ज्ञाने प्रयोगे च अस्य सत्तम । अशक्ताः भगवन् देवाः अयोग्याः नाट्य-कर्मणि ॥ २२॥
grahaṇe dhāraṇe jñāne prayoge ca asya sattama . aśaktāḥ bhagavan devāḥ ayogyāḥ nāṭya-karmaṇi .. 22..
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः । एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ २३॥
ये इमे वेद-गुह्य-ज्ञाः ऋषयः संशित-व्रताः । एते अस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ २३॥
ye ime veda-guhya-jñāḥ ṛṣayaḥ saṃśita-vratāḥ . ete asya grahaṇe śaktāḥ prayoge dhāraṇe tathā .. 23..
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ २४॥
श्रुत्वा तु शक्र-वचनम् माम् आह अम्बुजसम्भवः । त्वम् पुत्र-शत-संयुक्तः प्रयोक्ता अस्य भव अनघ ॥ २४॥
śrutvā tu śakra-vacanam mām āha ambujasambhavaḥ . tvam putra-śata-saṃyuktaḥ prayoktā asya bhava anagha .. 24..
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ २५॥
आज्ञापितः विदित्वा अहम् नाट्य-वेदम् पितामहात् । पुत्रान् अध्यापयामास प्रयोगम् च अपि तत्त्वतः ॥ २५॥
ājñāpitaḥ viditvā aham nāṭya-vedam pitāmahāt . putrān adhyāpayāmāsa prayogam ca api tattvataḥ .. 25..
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ २६॥
शाण्डिल्यम् च एव वात्स्यम् च कोहलम् दत्तिलम् तथा । जटि-लम्बष्टकौ च एव तण्डुम् अग्निशिखम् तथा ॥ २६॥
śāṇḍilyam ca eva vātsyam ca kohalam dattilam tathā . jaṭi-lambaṣṭakau ca eva taṇḍum agniśikham tathā .. 26..
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ २७॥
सैन्धवम् स पुलोमानम् शाड्वलिम् विपुलम् तथा । कपिञ्जलिम् वादिरम् च यम-धूम्रायणौ तथा ॥ २७॥
saindhavam sa pulomānam śāḍvalim vipulam tathā . kapiñjalim vādiram ca yama-dhūmrāyaṇau tathā .. 27..
जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ २८॥
जम्बुध्वजम् काकजङ्घम् स्वर्णकम् तापसम् तथा । कैदारिम् शालिकर्णम् च दीर्घगात्रम् च शालिकम् ॥ २८॥
jambudhvajam kākajaṅgham svarṇakam tāpasam tathā . kaidārim śālikarṇam ca dīrghagātram ca śālikam .. 28..
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ २९॥
कौत्सम् ताण्डायनिम् च एव पिङ्गलम् चित्रकम् तथा । बन्धुलम् भल्लकम् च एव मुष्ठिकम् सैन्धवायनम् ॥ २९॥
kautsam tāṇḍāyanim ca eva piṅgalam citrakam tathā . bandhulam bhallakam ca eva muṣṭhikam saindhavāyanam .. 29..
तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ ३०॥
तैतिलम् भार्गवम् च एव शुचिम् बहुलम् एव च । अबुधम् बुधसेनम् च पाण्डुकर्णम् सुकेरलम् ॥ ३०॥
taitilam bhārgavam ca eva śucim bahulam eva ca . abudham budhasenam ca pāṇḍukarṇam sukeralam .. 30..
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ ३१॥
ऋजुकम् मण्डकम् च एव शम्बरम् वञ्जुलम् तथा । मागधम् सरलम् च एव कर्तारम् च उग्रम् एव च ॥ ३१॥
ṛjukam maṇḍakam ca eva śambaram vañjulam tathā . māgadham saralam ca eva kartāram ca ugram eva ca .. 31..
तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥ ३२॥
तुषारम् पार्षदम् च एव गौतमम् बादरायणम् । विशालम् शबलम् च एव सुनामम् मेषम् एव च ॥ ३२॥
tuṣāram pārṣadam ca eva gautamam bādarāyaṇam . viśālam śabalam ca eva sunāmam meṣam eva ca .. 32..
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ ३३॥
कालियम् भ्रमरम् च एव तथा पीठमुखम् मुनिम् । नखकुट्ट-अश्मकुट्टौ च षट्पदम् सोत्तमम् तथा ॥ ३३॥
kāliyam bhramaram ca eva tathā pīṭhamukham munim . nakhakuṭṭa-aśmakuṭṭau ca ṣaṭpadam sottamam tathā .. 33..
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ ३४॥
पादुका-उपानहौ च एव श्रुतिम् चाष-स्वरम् तथा । अग्निकुण्ड-आज्य-कुण्डौ च वितण्ड्य ताण्ड्यम् एव च ॥ ३४॥
pādukā-upānahau ca eva śrutim cāṣa-svaram tathā . agnikuṇḍa-ājya-kuṇḍau ca vitaṇḍya tāṇḍyam eva ca .. 34..
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ ३५॥
कर्तराक्षम् हिरण्याक्षम् कुशलम् दुस्सहम् तथा । लाजम् भयानकम् च एव बीभत्सम् स विचक्षणम् ॥ ३५॥
kartarākṣam hiraṇyākṣam kuśalam dussaham tathā . lājam bhayānakam ca eva bībhatsam sa vicakṣaṇam .. 35..
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ ३६॥
पुण्ड्राक्षम् पुण्ड्रनासम् च अपि असितम् सितम् एव च । विद्युज्जिह्वम् महाजिह्वम् शालङ्कायनम् एव च ॥ ३६॥
puṇḍrākṣam puṇḍranāsam ca api asitam sitam eva ca . vidyujjihvam mahājihvam śālaṅkāyanam eva ca .. 36..
श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ ३७॥
श्यामायनम् माठरम् च लोहिताङ्गम् तथा एव च । संवर्तकम् पञ्चशिखम् त्रिशिखम् शिखम् एव च ॥ ३७॥
śyāmāyanam māṭharam ca lohitāṅgam tathā eva ca . saṃvartakam pañcaśikham triśikham śikham eva ca .. 37..
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ ३८॥
शङ्खवर्णमुखम् शण्डम् शङ्कुकर्णम् अथ अपि च । शक्रनेमिम् गभस्तिम् च अपि अंशुमालिम् शठम् तथा ॥ ३८॥
śaṅkhavarṇamukham śaṇḍam śaṅkukarṇam atha api ca . śakranemim gabhastim ca api aṃśumālim śaṭham tathā .. 38..
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ ३९॥
विद्युतम् शातजङ्घम् च रौद्रम् वीरम् अथ अपि च । पितामह-आज्ञया अस्माभिः लोकस्य च गुण-ईप्सया ॥ ३९॥
vidyutam śātajaṅgham ca raudram vīram atha api ca . pitāmaha-ājñayā asmābhiḥ lokasya ca guṇa-īpsayā .. 39..
प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ ४०॥
प्रयोजितम् पुत्र-शतम् यथा भूमि-विभागशः । यः यस्मिन् कर्मणि यथा योग्यः तस्मिन् स योजितः ॥ ४०॥
prayojitam putra-śatam yathā bhūmi-vibhāgaśaḥ . yaḥ yasmin karmaṇi yathā yogyaḥ tasmin sa yojitaḥ .. 40..
भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ ४१॥
भारतीम् सात्वतीम् च एव वृईत्तिम् आरभटीम् तथा । समाश्रितः प्रयोगः तु प्रयुक्तः वै मया द्विजाः ॥ ४१॥
bhāratīm sātvatīm ca eva vṛīttim ārabhaṭīm tathā . samāśritaḥ prayogaḥ tu prayuktaḥ vai mayā dvijāḥ .. 41..
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ ४२॥
परिगृह्य प्रणम्य अथ ब्रह्मा विज्ञापितः मया । अथा आह माम् सुरगुरुः कैशिकिम् अपि योजय ॥ ४२॥
parigṛhya praṇamya atha brahmā vijñāpitaḥ mayā . athā āha mām suraguruḥ kaiśikim api yojaya .. 42..
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम । एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ ४३॥
यत् च तस्याः क्षमम् द्रव्यम् तत् ब्रूहि द्विजसत्तम । एवम् तेन अस्मि अभिहितः प्रत्युक्तः च मया प्रभुः ॥ ४३॥
yat ca tasyāḥ kṣamam dravyam tat brūhi dvijasattama . evam tena asmi abhihitaḥ pratyuktaḥ ca mayā prabhuḥ .. 43..
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ ४४॥
दीयताम् भगवन् द्रव्यम् कैशिक्याः सम्प्रयोजकम् । नृत्त-अङ्गहार-सम्पन्ना रस-भाव-क्रिया-आत्मिका ॥ ४४॥
dīyatām bhagavan dravyam kaiśikyāḥ samprayojakam . nṛtta-aṅgahāra-sampannā rasa-bhāva-kriyā-ātmikā .. 44..
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥ ४५॥
दृष्टाः मया भगवतः नीलकण्ठस्य नृत्यतः । ॥ ४५॥
dṛṣṭāḥ mayā bhagavataḥ nīlakaṇṭhasya nṛtyataḥ . .. 45..
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ ४६॥
अशक्या पुरुषैः सा तु प्रयोक्तुम् स्त्री-जनात् ऋते । ततस् असृजत् महा-तेजाः मनसा अप्सरसः विभुः ॥ ४६॥
aśakyā puruṣaiḥ sā tu prayoktum strī-janāt ṛte . tatas asṛjat mahā-tejāḥ manasā apsarasaḥ vibhuḥ .. 46..
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥ ४७॥
नाट्य-अलङ्कार-चतुराः प्रादात् मह्यम् प्रयोगतः । मञ्जु-केशीम् सुकेशीम् च मिश्रकेशीम् सु लोचनाम् ॥ ४७॥
nāṭya-alaṅkāra-caturāḥ prādāt mahyam prayogataḥ . mañju-keśīm sukeśīm ca miśrakeśīm su locanām .. 47..
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ ४८॥
सौदामिनीम् देव-दत्ताम् देव-सेनाम् मनोरमाम् । सुदतीम् सुन्दरीम् च एव विदग्धाम् विपुलाम् तथा ॥ ४८॥
saudāminīm deva-dattām deva-senām manoramām . sudatīm sundarīm ca eva vidagdhām vipulām tathā .. 48..
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥ ४९॥
सुमालाम् सन्ततिम् च एव सुनन्दाम् सुमुखीम् तथा । मागधीम् अर्जुनीम् च एव सरलाम् केरलाम् धृतिम् ॥ ४९॥
sumālām santatim ca eva sunandām sumukhīm tathā . māgadhīm arjunīm ca eva saralām keralām dhṛtim .. 49..
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ ५०॥
नन्दाम् स पुष्कलाम् च एव कलमाम् च एव मे ददौ । स्वातिः भाण्ड-नियुक्तः तु सह शिष्यैः स्वयम्भुवा ॥ ५०॥
nandām sa puṣkalām ca eva kalamām ca eva me dadau . svātiḥ bhāṇḍa-niyuktaḥ tu saha śiṣyaiḥ svayambhuvā .. 50..
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥ ५१॥
नारद-आद्याः च गन्धर्वाः गान-योगे नियोजिताः । एवम् नाट्यम् इदम् सम्यक् बुद्ध्वा सर्वैः सुतैः सह ॥ ५१॥
nārada-ādyāḥ ca gandharvāḥ gāna-yoge niyojitāḥ . evam nāṭyam idam samyak buddhvā sarvaiḥ sutaiḥ saha .. 51..
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥ ५२॥
। उपस्थितः अहम् ब्रह्माणम् प्रयोग-अर्थम् कृताञ्जलिः ॥ ५२॥
. upasthitaḥ aham brahmāṇam prayoga-artham kṛtāñjaliḥ .. 52..
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ ५३।
नाट्यस्य ग्रहणम् प्राप्तम् ब्रूहि किम् करवाणि अहम् । एतत् तु वचनम् श्रुत्वा प्रत्युवाच पितामहः ॥ ५३।
nāṭyasya grahaṇam prāptam brūhi kim karavāṇi aham . etat tu vacanam śrutvā pratyuvāca pitāmahaḥ .. 53.
|
|
महानयं प्रयोगस्य समयः प्रत्युपस्थितः । अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते ॥ ५४॥
महान् अयम् प्रयोगस्य समयः प्रत्युपस्थितः । अयम् ध्वज-महः श्रीमान् महा-इन्द्रस्य प्रवर्तते ॥ ५४॥
mahān ayam prayogasya samayaḥ pratyupasthitaḥ . ayam dhvaja-mahaḥ śrīmān mahā-indrasya pravartate .. 54..
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ ५५॥
अत्रा इदानीम् अयम् वेदः नाट्य-संज्ञः प्रयुज्यताम् । ततस् तस्मिन् ध्वज-महे निहत-असुर-दानवे ॥ ५५॥
atrā idānīm ayam vedaḥ nāṭya-saṃjñaḥ prayujyatām . tatas tasmin dhvaja-mahe nihata-asura-dānave .. 55..
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥ ५६॥
प्रहृष्ट-अमर-संकीर्णे महा-इन्द्र-विजय-उत्सवे । पूर्वम् कृता मया नान्दी हि आशीर्वच-संयुता ॥ ५६॥
prahṛṣṭa-amara-saṃkīrṇe mahā-indra-vijaya-utsave . pūrvam kṛtā mayā nāndī hi āśīrvaca-saṃyutā .. 56..
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ ५७॥
अष्टाङ्ग-पद-संयुक्ता विचित्रा वेद-निर्मिता । तद्-अन्ते अनुकृतिः बद्धा यथा दैत्याः सुरैः जिताः ॥ ५७॥
aṣṭāṅga-pada-saṃyuktā vicitrā veda-nirmitā . tad-ante anukṛtiḥ baddhā yathā daityāḥ suraiḥ jitāḥ .. 57..
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ ५८॥
सम्फेट-विद्रव-कृता छेद्य-भेद्य-आहवाल्मिका । ततस् ब्रह्म-आदयः देवाः प्रयोग-परितोषिताः ॥ ५८॥
sampheṭa-vidrava-kṛtā chedya-bhedya-āhavālmikā . tatas brahma-ādayaḥ devāḥ prayoga-paritoṣitāḥ .. 58..
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥ ५९॥
प्रददुः मद्-सुतेभ्यः तु सर्व-उपकरणानि वै । प्रीतः तु प्रथमम् शक्रः दत्तवान् स्वम् ध्वजम् शुभम् ॥ ५९॥
pradaduḥ mad-sutebhyaḥ tu sarva-upakaraṇāni vai . prītaḥ tu prathamam śakraḥ dattavān svam dhvajam śubham .. 59..
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ ६०॥
ब्रह्मा कुटिलकम् च एव भृङ्गारम् वरुणः शुभम् । सूर्यः छत्रम् शिवः सिद्धिम् वायुः व्यजनम् एव च ॥ ६०॥
brahmā kuṭilakam ca eva bhṛṅgāram varuṇaḥ śubham . sūryaḥ chatram śivaḥ siddhim vāyuḥ vyajanam eva ca .. 60..
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ ६१॥
विष्णुः सिंहासनम् च एव कुबेरः मुकुटम् तथा । श्राव्य-त्वम् प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ ६१॥
viṣṇuḥ siṃhāsanam ca eva kuberaḥ mukuṭam tathā . śrāvya-tvam prekṣaṇīyasya dadau devī sarasvatī .. 61..
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥ ६२॥
शेषाः ये देव-गन्धर्वाः यक्ष-राक्षस-पन्नगाः । तस्मिन् सदसि अभिप्रेतान् नाना जाति-गुण-आश्रयान् ॥ ६२॥
śeṣāḥ ye deva-gandharvāḥ yakṣa-rākṣasa-pannagāḥ . tasmin sadasi abhipretān nānā jāti-guṇa-āśrayān .. 62..
अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ ६३॥
अंश-अंशैः भाषितम् भावान् रसान् रूपम् बलम् तथा । दत्तवन्तः प्रहृष्टाः ते मद्-सुतेभ्यः दिवौकसः ॥ ६३॥
aṃśa-aṃśaiḥ bhāṣitam bhāvān rasān rūpam balam tathā . dattavantaḥ prahṛṣṭāḥ te mad-sutebhyaḥ divaukasaḥ .. 63..
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥ ६४॥
एवम् प्रयोगे प्रारब्धे दैत्य-दानव-नाशने । अभवन् क्षुभिताः सर्वे दैत्याः ये तत्र सङ्गताः ॥ ६४॥
evam prayoge prārabdhe daitya-dānava-nāśane . abhavan kṣubhitāḥ sarve daityāḥ ye tatra saṅgatāḥ .. 64..
विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥ ६५॥
विरूपाक्ष पुरोगान् च विघ्नान् प्रोत्साह्य ते अब्रुवन् । न क्षमिष्यामहे नाट्यम् एतत् आगम्यताम् इति ॥ ६५॥
virūpākṣa purogān ca vighnān protsāhya te abruvan . na kṣamiṣyāmahe nāṭyam etat āgamyatām iti .. 65..
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥ ६६॥
ततस् तैः असुरैः सार्धम् विघ्नाः मायाम् उपाश्रिताः । वाचः चेष्टाम् स्मृतिम् च एव स्तम्भयन्ति स्म नृत्यताम् ॥ ६६॥
tatas taiḥ asuraiḥ sārdham vighnāḥ māyām upāśritāḥ . vācaḥ ceṣṭām smṛtim ca eva stambhayanti sma nṛtyatām .. 66..
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् । कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ ६७॥
तथा विध्वंसनम् दृष्ट्वा सूत्रधारस्य देवराज् । कस्मात् प्रयोग-वैषम्यम् इति उक्त्वा ध्यानम् आविशत् ॥ ६७॥
tathā vidhvaṃsanam dṛṣṭvā sūtradhārasya devarāj . kasmāt prayoga-vaiṣamyam iti uktvā dhyānam āviśat .. 67..
सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ ६८॥
सह इतरैः सूत्रधारम् नष्ट-संज्ञम् जडीकृतम् ॥ ६८॥
saha itaraiḥ sūtradhāram naṣṭa-saṃjñam jaḍīkṛtam .. 68..
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् ॥ सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥६९॥
उत्थाय त्वरितम् शक्रम् गृहीत्वा ध्वजम् उत्तमम् ॥ सर्व-रत्न-उज्ज्वल-तनुः लोचनः ॥६९॥
utthāya tvaritam śakram gṛhītvā dhvajam uttamam .. sarva-ratna-ujjvala-tanuḥ locanaḥ ..69..
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥७०॥
रङ्ग-पीठ-गतान् विघ्नान् असुरान् च एव । जर्जरीकृत-देहान् तान् अकरोत् जर्जरेण सः ॥७०॥
raṅga-pīṭha-gatān vighnān asurān ca eva . jarjarīkṛta-dehān tān akarot jarjareṇa saḥ ..70..
निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥७१॥
निहतेषु च सर्वेषु अ विघ्नेषु सह दानवैः । संप्रहृष्य ततस् वाक्यम् आहुः सर्वे दिवौकसः ॥७१॥
nihateṣu ca sarveṣu a vighneṣu saha dānavaiḥ . saṃprahṛṣya tatas vākyam āhuḥ sarve divaukasaḥ ..71..
अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥७२॥
अहो प्रहरणम् दिव्यम् इदम् आसादितम् त्वया । जर्जरीकृत-सर्व-अङ्गाः येन एते दानवाः कृताः ॥७२॥
aho praharaṇam divyam idam āsāditam tvayā . jarjarīkṛta-sarva-aṅgāḥ yena ete dānavāḥ kṛtāḥ ..72..
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥७३॥
यस्मात् अनेन ते विघ्नाः स असुराः जर्जरीकृताः । तस्मात् जर्जरः एव इति नामतः अयम् भविष्यति ॥७३॥
yasmāt anena te vighnāḥ sa asurāḥ jarjarīkṛtāḥ . tasmāt jarjaraḥ eva iti nāmataḥ ayam bhaviṣyati ..73..
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥७४॥
शेषाः ये च एव हिंसा-अर्थम् उपयास्यन्ति हिंसकाः । दृष्ट्वा एव जर्जरम् ते अपि गमिष्यन्ति एवम् एव तु ॥७४॥
śeṣāḥ ye ca eva hiṃsā-artham upayāsyanti hiṃsakāḥ . dṛṣṭvā eva jarjaram te api gamiṣyanti evam eva tu ..74..
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥७५॥
एवम् एव अस्तु इति ततस् शक्रः प्रोवाच तान् सुरान् । रक्षा-भूतः च सर्वेषाम् भविष्यति एष जर्जरः ॥७५॥
evam eva astu iti tatas śakraḥ provāca tān surān . rakṣā-bhūtaḥ ca sarveṣām bhaviṣyati eṣa jarjaraḥ ..75..
प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥७६॥
प्रयोगे प्रस्तुते हि एवम् स्फीते शक्र-महे पुनर् । त्रासम् सञ्जनयन्ति स्म विघ्नाः शेषाः तु नृत्यताम् ॥७६॥
prayoge prastute hi evam sphīte śakra-mahe punar . trāsam sañjanayanti sma vighnāḥ śeṣāḥ tu nṛtyatām ..76..
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् । उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥७७॥
दृष्ट्वा तेषाम् व्यवसितम् दैत्यानाम् विप्रकार-जम् । उपस्थितः अहम् ब्रह्माणम् सुतैः सर्वैः समन्वितः ॥७७॥
dṛṣṭvā teṣām vyavasitam daityānām viprakāra-jam . upasthitaḥ aham brahmāṇam sutaiḥ sarvaiḥ samanvitaḥ ..77..
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥७८॥
निश्चिताः भगवन् विघ्नाः नाट्यस्य अस्य विनाशने । अस्य रक्षा-विधिम् सम्यक् आज्ञापय सुरेश्वर ॥७८॥
niścitāḥ bhagavan vighnāḥ nāṭyasya asya vināśane . asya rakṣā-vidhim samyak ājñāpaya sureśvara ..78..
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥७९॥
ततस् च विश्वकर्माणम् ब्रह्मा उवाच प्रयत्नतः । कुरु लक्षण-संपन्नम् नाट्य-वेश्म महामते ॥७९॥
tatas ca viśvakarmāṇam brahmā uvāca prayatnataḥ . kuru lakṣaṇa-saṃpannam nāṭya-veśma mahāmate ..79..
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥८०॥
ततस् अचिरेण कालेन विश्वकर्मा महत् शुभम् । सर्व-लक्षण-सम्पन्नम् कृत्वा नाट्य-गृहम् तु सः ॥८०॥
tatas acireṇa kālena viśvakarmā mahat śubham . sarva-lakṣaṇa-sampannam kṛtvā nāṭya-gṛham tu saḥ ..80..
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः । सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥८१॥
प्रोक्तवान् द्रुहिणम् गत्वा सभायाः तु कृताञ्जलीः । सज्जम् नाट्य-गृहम् देव तत् एवा ईक्षितुम् अर्हसि ॥८१॥
proktavān druhiṇam gatvā sabhāyāḥ tu kṛtāñjalīḥ . sajjam nāṭya-gṛham deva tat evā īkṣitum arhasi ..81..
ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः । आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥ ८२॥
ततस् सह महा-इन्द्रेण सुरैः सर्वैः च स इतरैः । आअगतः त्वरितः दृष्टुम् द्रुहिणः नाट्य-मण्डपम् ॥ ८२॥
tatas saha mahā-indreṇa suraiḥ sarvaiḥ ca sa itaraiḥ . āagataḥ tvaritaḥ dṛṣṭum druhiṇaḥ nāṭya-maṇḍapam .. 82..
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥ ८३॥
दृष्ट्वा नाट्य-गृहम् ब्रह्मा प्राह सर्वान् सुरान् ततस् । अंश-भागैः भवद्भिः तु रक्ष्यः अयम् नाट्य-मण्डपः ॥ ८३॥
dṛṣṭvā nāṭya-gṛham brahmā prāha sarvān surān tatas . aṃśa-bhāgaiḥ bhavadbhiḥ tu rakṣyaḥ ayam nāṭya-maṇḍapaḥ .. 83..
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥ ८४॥
रक्षणे मण्डपस्य अथ विनियुक्तः तु चन्द्रमाः । लोकपालाः तथा दिक्षु विदिक्षु अपि च मारुताः ॥ ८४॥
rakṣaṇe maṇḍapasya atha viniyuktaḥ tu candramāḥ . lokapālāḥ tathā dikṣu vidikṣu api ca mārutāḥ .. 84..
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ ८५॥
नेपथ्य-भूमौ मित्रः तु निक्षिप्तः वरुणः अम्बरे । वेदिका-रक्षणे वह्निः भाण्डे सर्व-दिवौकसः ॥ ८५॥
nepathya-bhūmau mitraḥ tu nikṣiptaḥ varuṇaḥ ambare . vedikā-rakṣaṇe vahniḥ bhāṇḍe sarva-divaukasaḥ .. 85..
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥ ८६॥
वर्णाः चत्वारः एव अथ स्तम्भेषु विनियोजिताः । आदित्याः च एव रुद्राः च स्थिताः ॥ ८६॥
varṇāḥ catvāraḥ eva atha stambheṣu viniyojitāḥ . ādityāḥ ca eva rudrāḥ ca sthitāḥ .. 86..
धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ ८७॥
भूतानि शालासु अप्सरः तथा । सर्व-वेश्मसु यक्षिण्यः मही-पृष्ठे महा-उदधिः ॥ ८७॥
bhūtāni śālāsu apsaraḥ tathā . sarva-veśmasu yakṣiṇyaḥ mahī-pṛṣṭhe mahā-udadhiḥ .. 87..
द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥ ८८॥
द्वार-शाला-नियुक्तौ तु क्रुत-अन्तः कालः एव च । स्थापितौ द्वार-पत्रेषु नाग-मुख्यौ महा-बलौ ॥ ८८॥
dvāra-śālā-niyuktau tu kruta-antaḥ kālaḥ eva ca . sthāpitau dvāra-patreṣu nāga-mukhyau mahā-balau .. 88..
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥ ८९॥
देहल्याम् यम-दण्डः तु शूलम् तस्य उपरि स्थितम् । द्वारपालौ स्थितौ च उभौ नियतिः मृत्युः एव च ॥ ८९॥
dehalyām yama-daṇḍaḥ tu śūlam tasya upari sthitam . dvārapālau sthitau ca ubhau niyatiḥ mṛtyuḥ eva ca .. 89..
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ ९०॥
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान् स्वयम् । स्थापिता मत्तवारण्याम् विद्युत् दैत्य-निषूदनी ॥ ९०॥
pārśve ca raṅgapīṭhasya mahendraḥ sthitavān svayam . sthāpitā mattavāraṇyām vidyut daitya-niṣūdanī .. 90..
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥ ९१॥
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूत-यक्ष-पिशाः च गुह्यकाः च महा-बलाः ॥ ९१॥
stambheṣu mattavāraṇyāḥ sthāpitā paripālane . bhūta-yakṣa-piśāḥ ca guhyakāḥ ca mahā-balāḥ .. 91..
जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ ९२॥
जर्जरे तु विनिक्षिप्तम् वज्रम् दैत्य-निबर्हणम् । तद्-पर्वसु विनिक्षिप्ताः सुर-इन्द्राः हि अमित-ओजसः ॥ ९२॥
jarjare tu vinikṣiptam vajram daitya-nibarhaṇam . tad-parvasu vinikṣiptāḥ sura-indrāḥ hi amita-ojasaḥ .. 92..
शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ ९३॥
शिरः-पर्व-स्थितः ब्रह्मा द्वितीये शङ्करः तथा । तृतीये च स्थितः विष्णुः चतुर्थे स्कन्दः एव च ॥ ९३॥
śiraḥ-parva-sthitaḥ brahmā dvitīye śaṅkaraḥ tathā . tṛtīye ca sthitaḥ viṣṇuḥ caturthe skandaḥ eva ca .. 93..
पञ्चमे च महानागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥ ९४॥
पञ्चमे च महा-नागाः शेष-वासुकि-तक्षकाः । एवम् विघ्न-विनाशाय स्थापिताः जर्जरे सुराः ॥ ९४॥
pañcame ca mahā-nāgāḥ śeṣa-vāsuki-takṣakāḥ . evam vighna-vināśāya sthāpitāḥ jarjare surāḥ .. 94..
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ ९५॥
रङ्गपीठस्य मध्ये तु स्वयम् ब्रह्मा प्रतिष्ठितः । इष्टि-अर्थम् रङ्ग-मध्ये तु क्रियते पुष्प-मोक्षणम् ॥ ९५॥
raṅgapīṭhasya madhye tu svayam brahmā pratiṣṭhitaḥ . iṣṭi-artham raṅga-madhye tu kriyate puṣpa-mokṣaṇam .. 95..
पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ।९६॥
पाताल-वासिनः ये च यक्ष-गुह्यक-पन्नगाः । अधस्तात् रङ्गपीठस्य रक्षणे ते नियोजिताः ।९६॥
pātāla-vāsinaḥ ye ca yakṣa-guhyaka-pannagāḥ . adhastāt raṅgapīṭhasya rakṣaṇe te niyojitāḥ .96..
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः ॥ ९७॥
नायकम् रक्षति इन्द्रः तु नायिकाम् च सरस्वती । विदूषकम् अथ ओङ्कारः शेशाः तु प्रकृतिः हरः ॥ ९७॥
nāyakam rakṣati indraḥ tu nāyikām ca sarasvatī . vidūṣakam atha oṅkāraḥ śeśāḥ tu prakṛtiḥ haraḥ .. 97..
यान्येतानि नियुक्तानि दैवतानीह रक्षणे । एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ ९८॥
यानि एतानि नियुक्तानि दैवतानि इह रक्षणे । एतानि एव अधिदैवानि भविष्यन्ति इति उवाच सः ॥ ९८॥
yāni etāni niyuktāni daivatāni iha rakṣaṇe . etāni eva adhidaivāni bhaviṣyanti iti uvāca saḥ .. 98..
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ ९९॥
एतस्मिन् अन्तरे देवैः सर्वैः उक्तः पितामहः । साम्ना तावत् इमे विघ्नाः स्थाप्यन्ताम् वचसा त्वया ॥ ९९॥
etasmin antare devaiḥ sarvaiḥ uktaḥ pitāmahaḥ . sāmnā tāvat ime vighnāḥ sthāpyantām vacasā tvayā .. 99..
पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥ १००॥
पूर्वम् सामम् प्रयोक्तव्यम् द्वितीयम् दानम् एव च । तयोः उपरि भेदः तु ततस् दण्डः प्रयुज्यते ॥ १००॥
pūrvam sāmam prayoktavyam dvitīyam dānam eva ca . tayoḥ upari bhedaḥ tu tatas daṇḍaḥ prayujyate .. 100..
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥ १०१॥
देवानाम् वचनम् श्रुत्वा ब्रह्मा विघ्नान् उवाच ह । कस्मात् भवन्तः नाट्यस्य विनाशाय समुत्थिताः ॥ १०१॥
devānām vacanam śrutvā brahmā vighnān uvāca ha . kasmāt bhavantaḥ nāṭyasya vināśāya samutthitāḥ .. 101..
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥ १०२॥
ब्रह्मणः वचनम् श्रुत्वा विरूपाक्षः अब्रवीत् वचः । दैत्यैः विघ्न-गणैः सार्धम् साम-पूर्वम् इदम् ततस् ॥ १०२॥
brahmaṇaḥ vacanam śrutvā virūpākṣaḥ abravīt vacaḥ . daityaiḥ vighna-gaṇaiḥ sārdham sāma-pūrvam idam tatas .. 102..
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥ १०३॥
यः अयम् भगवता सृष्टः नाट्य-वेदः सुर-इच्छया । प्रत्यादेशः अयम् अस्माकम् सुर-अर्थम् भवता कृतः ॥ १०३॥
yaḥ ayam bhagavatā sṛṣṭaḥ nāṭya-vedaḥ sura-icchayā . pratyādeśaḥ ayam asmākam sura-artham bhavatā kṛtaḥ .. 103..
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ १०४॥
तत् न एतत् एवम् कर्तव्यम् त्वया लोकपितामह । यथा देवः तथा दैत्याः त्वत्तः सर्वे विनिर्गताः ॥ १०४॥
tat na etat evam kartavyam tvayā lokapitāmaha . yathā devaḥ tathā daityāḥ tvattaḥ sarve vinirgatāḥ .. 104..
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥ १०५॥
विघ्नानाम् वचनम् श्रुत्वा ब्रह्मा वचनम् अब्रवीत् । अलम् वः मन्युना दैत्याः विषादम् त्यजत अनघाः ॥ १०५॥
vighnānām vacanam śrutvā brahmā vacanam abravīt . alam vaḥ manyunā daityāḥ viṣādam tyajata anaghāḥ .. 105..
भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ १०६॥
भवताम् देवतानाम् च शुभ-अशुभ-विकल्पकः । कर्म-भाव-अन्वय-अपेक्षी नाट्य-वेदः मया कृतः ॥ १०६॥
bhavatām devatānām ca śubha-aśubha-vikalpakaḥ . karma-bhāva-anvaya-apekṣī nāṭya-vedaḥ mayā kṛtaḥ .. 106..
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ १०७॥
न एकान्ततः अत्र भवताम् देवानाम् च अनुभावनम् । त्रैलोक्य-आस्य-अस्य सर्वस्य नाट्यम् भाव-अनुकीर्तनम् ॥ १०७॥
na ekāntataḥ atra bhavatām devānām ca anubhāvanam . trailokya-āsya-asya sarvasya nāṭyam bhāva-anukīrtanam .. 107..
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः । \क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥ १०८॥
क्वचिद् धर्मः क्वचिद् क्रीडा क्वचिद् अर्थः क्वचिद् शमः । \क्वचिद् हास्यम् क्वचिद् युद्धम् क्वचिद् कामः क्वचिद् वधः ॥ १०८॥
kvacid dharmaḥ kvacid krīḍā kvacid arthaḥ kvacid śamaḥ . \kvacid hāsyam kvacid yuddham kvacid kāmaḥ kvacid vadhaḥ .. 108..
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥ १०९॥
धर्मः धर्म-प्रवृत्तानाम् कामः काम-उपसेविनाम् । निग्रहः दुर्विनीतानाम् विनीतानाम् दम-क्रिया ॥ १०९॥
dharmaḥ dharma-pravṛttānām kāmaḥ kāma-upasevinām . nigrahaḥ durvinītānām vinītānām dama-kriyā .. 109..
क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ ११०॥।
क्लीबानाम् धार्ष्ट्य-जननम् उत्साहः शूर-मानिनाम् । अबुधानाम् विबोधः च वैदुष्यम् विदुषाम् अपि ॥ ११०॥।
klībānām dhārṣṭya-jananam utsāhaḥ śūra-māninām . abudhānām vibodhaḥ ca vaiduṣyam viduṣām api .. 110...
ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च । अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥ १११॥
ईश्वराणाम् विलासः च स्थैर्यम् दुःख-अर्दितस्य च । अर्थ-उपजीविनाम् अर्थः धृतिः उद्वेग-चेतसाम् ॥ १११॥
īśvarāṇām vilāsaḥ ca sthairyam duḥkha-arditasya ca . artha-upajīvinām arthaḥ dhṛtiḥ udvega-cetasām .. 111..
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ ११२॥
नाना भाव-उपसम्पन्नम् नाना अवस्था-अन्तर-आत्मकम् । लोक-वृत्त-अनुकरणम् नाट्यम् एतत् मया कृतम् ॥ ११२॥
nānā bhāva-upasampannam nānā avasthā-antara-ātmakam . loka-vṛtta-anukaraṇam nāṭyam etat mayā kṛtam .. 112..
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ ११३॥
उत्तम-अधम-मध्यानाम् नराणाम् कर्म-संश्रयम् । ॥ ११३॥
uttama-adhama-madhyānām narāṇām karma-saṃśrayam . .. 113..
( एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ )
( एतत् रसेषु भावेषु सर्व-कर्म-क्रियासु अथ । सर्व-उपदेश-जननम् नाट्यम् लोके भविष्यति ॥ )
( etat raseṣu bhāveṣu sarva-karma-kriyāsu atha . sarva-upadeśa-jananam nāṭyam loke bhaviṣyati .. )
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥ ११४॥
दुःख-आर्तानाम् श्रम-आर्तानाम् शोक-आर्तानाम् तपस्विनाम् । विश्रान्ति-जननम् काले नाट्यम् एतत् भविष्यति ॥ ११४॥
duḥkha-ārtānām śrama-ārtānām śoka-ārtānām tapasvinām . viśrānti-jananam kāle nāṭyam etat bhaviṣyati .. 114..
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥ ११५॥
धर्म्यम् यशस्यम् आयुष्यम् हितम् बुद्धि-विवर्धनम् । लोक-उपदेश-जननम् नाट्यम् एतत् भविष्यति ॥ ११५॥
dharmyam yaśasyam āyuṣyam hitam buddhi-vivardhanam . loka-upadeśa-jananam nāṭyam etat bhaviṣyati .. 115..
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ ११६॥
न तत् ज्ञानम् न तत् शिल्पम् न सा विद्या न सा कला । न असौ योगः न तत् कर्म नाट्ये अस्मिन् यत् न दृश्यते ॥ ११६॥
na tat jñānam na tat śilpam na sā vidyā na sā kalā . na asau yogaḥ na tat karma nāṭye asmin yat na dṛśyate .. 116..
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥ ११७॥
तत् ना अत्र मन्युः कर्तव्यः भवद्भिः अमरान् प्रति । सप्तद्वीपा-अनुकरणम् नाट्यम् एतत् भविष्यति ॥ ११७॥
tat nā atra manyuḥ kartavyaḥ bhavadbhiḥ amarān prati . saptadvīpā-anukaraṇam nāṭyam etat bhaviṣyati .. 117..
( येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ॥)
( येन अनुकरणम् नाट्यम् एतत् तत् यत् मया कृतम् ॥)
( yena anukaraṇam nāṭyam etat tat yat mayā kṛtam ..)
देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् । ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ ११८॥
देवानाम् असुराणाम् च राज्ञाम् अथ कुटुम्बिनाम् । ब्रह्मर्षीणाम् च विज्ञेयम् नाट्यम् वृत्तान्त-दर्शकम् ॥ ११८॥
devānām asurāṇām ca rājñām atha kuṭumbinām . brahmarṣīṇām ca vijñeyam nāṭyam vṛttānta-darśakam .. 118..
योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ ११९॥
यः अयम् स्वभावः लोकस्य सुख-दुःख-समन्वितः । सः अङ्ग-आदि-अभिनय-उपेतः नाट्यम् इति अभिधीयते ॥ ११९॥
yaḥ ayam svabhāvaḥ lokasya sukha-duḥkha-samanvitaḥ . saḥ aṅga-ādi-abhinaya-upetaḥ nāṭyam iti abhidhīyate .. 119..
( वेदविद्येतिहासानामाख्यानपरिकल्पनम् । विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । विनोदजननं लोके नाट्यमेतद्भविष्यति ॥)
( वेद-विद्या-इतिहासानाम् आख्यान-परिकल्पनम् । विनोद-करणम् लोके नाट्यम् एतत् भविष्यति ॥ श्रुति-स्मृति-सत्-आचार-परिशेष-अर्थ-कल्पनम् । विनोद-जननम् लोके नाट्यम् एतत् भविष्यति ॥)
( veda-vidyā-itihāsānām ākhyāna-parikalpanam . vinoda-karaṇam loke nāṭyam etat bhaviṣyati .. śruti-smṛti-sat-ācāra-pariśeṣa-artha-kalpanam . vinoda-jananam loke nāṭyam etat bhaviṣyati ..)
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥ १२०॥
एतस्मिन् अन्तरे देवान् सर्वान् आह पितामहः । क्रियताम् अद्य विधिवत् यजनम् नाट्य-मण्डपे ॥ १२०॥
etasmin antare devān sarvān āha pitāmahaḥ . kriyatām adya vidhivat yajanam nāṭya-maṇḍape .. 120..
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥ १२१॥
बलि-प्रदानैः होमैः च मन्त्र-ओषधि-समन्वितैः । भोज्यैः भक्षैः च पानैः च बलिः समुपकल्पताम् ॥ १२१॥
bali-pradānaiḥ homaiḥ ca mantra-oṣadhi-samanvitaiḥ . bhojyaiḥ bhakṣaiḥ ca pānaiḥ ca baliḥ samupakalpatām .. 121..
मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् ॥ १२२॥
मर्त्य-लोक-गताः सर्वे शुभाम् पूजाम् अवाप्स्यथ । अ पूजयित्वा रङ्गम् तु ना एव प्रेक्षाम् प्रवर्तयेत् ॥ १२२॥
martya-loka-gatāḥ sarve śubhām pūjām avāpsyatha . a pūjayitvā raṅgam tu nā eva prekṣām pravartayet .. 122..
अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति ॥ १२३॥
अ पूजयित्वा रङ्गम् तु यः प्रेक्षाम् कल्पयिष्यति । निष्फलम् तस्य तत् ज्ञानम् तिर्यग्योनिम् च यास्यति ॥ १२३॥
a pūjayitvā raṅgam tu yaḥ prekṣām kalpayiṣyati . niṣphalam tasya tat jñānam tiryagyonim ca yāsyati .. 123..
यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् । तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः ॥ १२४॥
यज्ञेन संमितम् हि एदद्-द्रङ्ग-दैवत-पूजनम् । तस्मात् सर्व-प्रयत्नेन कर्तव्यम् नाट्य-योक्तृभिः ॥ १२४॥
yajñena saṃmitam hi edad-draṅga-daivata-pūjanam . tasmāt sarva-prayatnena kartavyam nāṭya-yoktṛbhiḥ .. 124..
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति । न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥ १२५॥
नर्तकः अर्थपतिः वा अपि यः पूजाम् न करिष्यति । न कारयिष्यन्ति अन्यैः वा प्राप्नोति अपचयम् तु सः ॥ १२५॥
nartakaḥ arthapatiḥ vā api yaḥ pūjām na kariṣyati . na kārayiṣyanti anyaiḥ vā prāpnoti apacayam tu saḥ .. 125..
यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति । स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति ॥ १२६॥
यथाविधिम् यथादृष्टम् यः तु पूजाम् करिष्यति । स लप्स्यते शुभान् अर्थान् स्वर्ग-लोकम् च यास्यति ॥ १२६॥
yathāvidhim yathādṛṣṭam yaḥ tu pūjām kariṣyati . sa lapsyate śubhān arthān svarga-lokam ca yāsyati .. 126..
एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः । रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥ १२७॥
एवम् उक्त्वा तु भगवान् द्रुहिणः सह देवतैः । रङ्ग-पूजाम् कुरुश्वा इति माम् एवम् समचोदयत् ॥ १२७॥
evam uktvā tu bhagavān druhiṇaḥ saha devataiḥ . raṅga-pūjām kuruśvā iti mām evam samacodayat .. 127..
इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः ।
इति भारतीये नाट्य-शास्त्रे नाट्योत्पत्तिः नाम प्रथमः अध्यायः ।
iti bhāratīye nāṭya-śāstre nāṭyotpattiḥ nāma prathamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In