| |
|

This overlay will guide you through the buttons:

नाट्यशास्त्रम् अध्याय १
nāṭyaśāstram adhyāya 1
श्रीरस्तु
śrīrastu
अथ प्रथमोऽध्यायः ।
atha prathamo'dhyāyaḥ .
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ १॥
praṇamya śirasā devau pitāmahamaheśvarau . nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam .. 1..
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् । अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥ २॥
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam . anadhyāye kadācittu bharataṃ nāṭyakovidam .. 2..
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ ३॥
munayaḥ paryupāsyainamātreyapramukhāḥ purā . papracchuste mahātmāno niyatendriyabuddhayaḥ .. 3..
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदः ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ ४॥
yo'yaṃ bhagavatā samyaggrathito vedasammitaḥ . nāṭyavedaḥ brahmannutpannaḥ kasya vā kṛte .. 4..
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५॥
katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ . sarvametadyathātattvaṃ bhagavanvaktumarhasi .. 5..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ . pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati .. 6..
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ ७॥
bhavadbhiḥ śucibhirbhūtvā tathā'vahitamānasaiḥ . śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ .. 7..
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे । त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ ८॥
pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve'ntare . tretāyuge'tha samprāpte manorvaivasvatasya tu .. 8..
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते । ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥ ९॥
grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate . īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite .. 9..
देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १०॥
devadānavagandharvayakṣarakṣomahoragaiḥ . jambudvīpe samākrānte lokapālapratiṣṭhite .. 10..
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥ ११॥
mahendrapramukhairdevairuktaḥ kila pitāmahaḥ . krīḍanīyakamicchāmo dṛṣyaṃ śravyaṃ ca yadbhavet .. 11..
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ १२॥
na vedavyavahāro'yaṃ saṃśrāvyaḥ śūdrajātiṣu . tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam .. 12..
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ १३॥
evamastviti tānuktvā devarājaṃ visṛjya ca . sasmāra caturo vedānyogamāsthāya tattvavit .. 13..
( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥)
( neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu . vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam ..)
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ १४॥
dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham . bhaviṣyataśca lokasya sarvakarmānudarśakam .. 14..
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५॥
sarvaśātrārthasampannaṃ sarvaśilpapravartakam . nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham .. 15..
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥ १६॥
evaṃ saṅkalpya bhagavān sarvavedānanusmaran . nāṭyavedaṃ tataścakre caturvedāṅgasambhavam .. 16..
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १७॥
jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca . yajurvedādabhinayān rasānātharvaṇādapi .. 17..
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ १८॥
vedopavedaiḥ sambaddho nāṭyavedo mahātmanā . evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā .. 18..
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् । इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥ १९॥
utpādya nāṭyavedaṃ tu brahmovāca sureśvaram . itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām .. 19..
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ २०॥
kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ . teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā .. 20..
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ २१॥
tacchṛtvā vacanaṃ śakro brahmaṇā yadudāhṛtam . prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham .. 21..
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम । अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥ २२॥
grahaṇe dhāraṇe jñāne prayoge cāsya sattama . aśaktā bhagavan devā ayogyā nāṭyakarmaṇi .. 22..
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः । एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ २३॥
ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ . ete'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā .. 23..
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ २४॥
śrutvā tu śakravacanaṃ māmāhāmbujasambhavaḥ . tvaṃ putraśatasaṃyuktaḥ prayoktā'sya bhavānagha .. 24..
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ २५॥
ājñāpito viditvā'haṃ nāṭyavedaṃ pitāmahāt . putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ .. 25..
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ २६॥
śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā . jaṭilambaṣṭakau caiva taṇḍumagniśikhaṃ tathā .. 26..
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ २७॥
saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā . kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā .. 27..
जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ २८॥
jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā . kaidāriṃ śālikarṇaṃ ca dīrghagātraṃ ca śālikam .. 28..
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ २९॥
kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā . bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam .. 29..
तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ ३०॥
taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca . abudhaṃ budhasenaṃ ca pāṇḍukarṇaṃ sukeralam .. 30..
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ ३१॥
ṛjukaṃ maṇḍakaṃ caiva śambaraṃ vañjulaṃ tathā . māgadhaṃ saralaṃ caiva kartāraṃ cogrameva ca .. 31..
तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥ ३२॥
tuṣāraṃ pārṣadaṃ caiva gautamaṃ bādarāyaṇam . viśālaṃ śabalaṃ caiva sunāmaṃ meṣameva ca .. 32..
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ ३३॥
kāliyaṃ bhramaraṃ caiva tathā pīṭhamukhaṃ munim . nakhakuṭṭāśmakuṭṭau ca ṣaṭpadaṃ sottamaṃ tathā .. 33..
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ ३४॥
pādukopānahau caiva śrutiṃ cāṣasvaraṃ tathā . agnikuṇḍājyakuṇḍau ca vitaṇḍya tāṇḍyameva ca .. 34..
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ ३५॥
kartarākṣaṃ hiraṇyākṣaṃ kuśalaṃ dussahaṃ tathā . lājaṃ bhayānakaṃ caiva bībhatsaṃ savicakṣaṇam .. 35..
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ ३६॥
puṇḍrākṣaṃ puṇḍranāsaṃ cāpyasitaṃ sitameva ca . vidyujjihvaṃ mahājihvaṃ śālaṅkāyanameva ca .. 36..
श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ ३७॥
śyāmāyanaṃ māṭharaṃ ca lohitāṅgaṃ tathaiva ca . saṃvartakaṃ pañcaśikhaṃ triśikhaṃ śikhameva ca .. 37..
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ ३८॥
śaṅkhavarṇamukhaṃ śaṇḍaṃ śaṅkukarṇamathāpi ca . śakranemiṃ gabhastiṃ cāpyaṃśumāliṃ śaṭhaṃ tathā .. 38..
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ ३९॥
vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca . pitāmahājñayā'smābhirlokasya ca guṇepsayā .. 39..
प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ ४०॥
prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ . yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ .. 40..
भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ ४१॥
bhāratīṃ sātvatīṃ caiva vṛīttimārabhaṭīṃ tathā . samāśritaḥ prayogastu prayukto vai mayā dvijāḥ .. 41..
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ ४२॥
parigṛhya praṇamyātha brahmā vijñāpito mayā . athāha māṃ suraguruḥ kaiśikimapi yojaya .. 42..
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम । एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ ४३॥
yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama . evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ .. 43..
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ ४४॥
dīyatāṃ bhagavandravyaṃ kaiśikyāḥ samprayojakam . nṛttāṅgahārasampannā rasabhāvakriyātmikā .. 44..
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥ ४५॥
dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ . kaiśikī ṣlakṣṇanaipathyā śṛṅgārarasasambhavā .. 45..
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ ४६॥
aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte . tato'sṛjanmahātejā manasā'psaraso vibhuḥ .. 46..
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥ ४७॥
nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ . mañjukeśīṃ sukeśīṃ ca miśrakeśīṃ sulocanām .. 47..
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ ४८॥
saudāminīṃ devadattāṃ devasenāṃ manoramām . sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā .. 48..
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥ ४९॥
sumālāṃ santatiṃ caiva sunandāṃ sumukhīṃ tathā . māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim .. 49..
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ ५०॥
nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau . svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā .. 50..
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥ ५१॥
nāradādyāśca gandharvā gānayoge niyojitāḥ . evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha .. 51..
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥ ५२॥
svātināradasaṃyukto vedavedāṅgakāraṇam . upasthito'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ .. 52..
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ ५३।
nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham . etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ .. 53.
.
महानयं प्रयोगस्य समयः प्रत्युपस्थितः । अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते ॥ ५४॥
mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ . ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate .. 54..
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ ५५॥
atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām . tatastasmindhvajamahe nihatāsuradānave .. 55..
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥ ५६॥
prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave . pūrvaṃ kṛtā mayā nāndī hyāśīrvacasaṃyutā .. 56..
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ ५७॥
aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā . tadante'nukṛtirbaddhā yathā daityāḥ surairjitāḥ .. 57..
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ ५८॥
sampheṭavidravakṛtā cchedyabhedyāhavālmikā . tato brahmādayo devāḥ prayogaparitoṣitāḥ .. 58..
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥ ५९॥
pradadurmatsutebhyastu sarvopakaraṇāni vai . prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham .. 59..
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ ६०॥
brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham . sūryaśchatraṃ śivassiddhiṃ vāyurvyajanameva ca .. 60..
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ ६१॥
viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā . śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī .. 61..
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥ ६२॥
śeṣā ye devagandharvā yakṣarākṣasapannagāḥ . tasminsadasyabhipretānnānājātiguṇāśrayān .. 62..
अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ ६३॥
aṃśāṃśairbhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā . dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ .. 63..
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥ ६४॥
evaṃ prayoge prārabdhe daityadānavanāśane . abhavankṣubhitāḥ sarve daityā ye tatra saṅgatāḥ .. 64..
विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥ ६५॥
virūpākṣa purogāṃśca vighnānprotsāhya te'bruvan . na kṣamiṣyāmahe nāṭyametadāgamyatāmiti .. 65..
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥ ६६॥
tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ . vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām .. 66..
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् । कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ ६७॥
tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ . kasmātprayogavaiṣamyamityuktvā dhyānamāviśat .. 67..
सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ ६८॥
sahetaraiḥ sūtradhāraṃ naṣṭasaṃjñaṃ jaḍīkṛtam .. 68..
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् ॥ सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥६९॥
utthāya tvaritaṃ śakraṃ gṛhītvā dhvajamuttamam .. sarvaratnojjvalatanuḥ kiñcidudvṛta locanaḥ ..69..
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥७०॥
raṅgapīṭhagatānvighnānasurāṃścaiva devarāṭ . jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ ..70..
निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥७१॥
nihateṣu ca sarveṣua vighneṣu saha dānavaiḥ . saṃprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ ..71..
अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥७२॥
aho praharaṇaṃ divyamidamāsāditaṃ tvayā . jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ ..72..
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥७३॥
yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ . tasmājjarjara eveti nāmato'yaṃ bhaviṣyati ..73..
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ॥७४॥
śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ . dṛṣṭvaiva jarjaraṃ te'pi gamiṣyantyevameva tu ..74..
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥७५॥
evamevāstviti tataḥ śakraḥ provāca tānsurān . rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ ..75..
प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥७६॥
prayoge prastute hyevaṃ sphīte śakramahe punaḥ . trāsaṃ sañjanayanti sma vighnāḥ śeṣāstu nṛtyatām ..76..
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् । उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥७७॥
dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam . upasthito'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ ..77..
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥७८॥
niścitā bhagavanvighnā nāṭyasyāsya vināśane . asya rakṣāvidhiṃ samyagājñāpaya sureśvara ..78..
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥७९॥
tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ . kuru lakṣaṇasaṃpannaṃ nāṭyaveśma mahāmate ..79..
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥८०॥
tato'cireṇa kālena viśvakarmā mahacchubham . sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ ..80..
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः । सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥८१॥
proktavāndruhiṇaṃ gatvā sabhāyāntu kṛtāñjalīḥ . sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi ..81..
ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः । आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥ ८२॥
tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ . āagatastvarito dṛṣṭuṃ druhiṇo nāṭyamaṇḍapam .. 82..
दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥ ८३॥
dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ . aṃśabhāgairbhavadbhistu rakṣyo'yaṃ nāṭyamaṇḍapaḥ .. 83..
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥ ८४॥
rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ . lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ .. 84..
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ ८५॥
nepathyabhūmau mitrastu nikṣipto varuṇo'mbare . vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ .. 85..
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥ ८६॥
varṇāścatvāra evātha stambheṣu viniyojitāḥ . ādityāścaiva rudrāśca sthitāḥ stambhāntareśvatha .. 86..
धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ ८७॥
dhāraṇīśvatha bhūtāni śālāsvapsarastathā . sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ .. 87..
द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥ ८८॥
dvāraśālāniyuktau tu krutāntaḥ kāla eva ca . sthāpitau dvārapatreṣu nāgamukhyau mahābalau .. 88..
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥ ८९॥
dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam . dvārapālau sthitau caubhau niyatirmṛtyureva ca .. 89..
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ ९०॥
pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam . sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī .. 90..
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥ ९१॥
stambheṣu mattavāraṇyāḥ sthāpitā paripālane . bhūtayakṣapiśāśca guhyakāśca mahābalāḥ .. 91..
जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ ९२॥
jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam . tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ .. 92..
शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ ९३॥
śiraḥparvasthito brahmā dvitīye śaṅkarastathā . tṛtīye ca sthito viṣṇuścaturthe skanda eva ca .. 93..
पञ्चमे च महानागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥ ९४॥
pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ . evaṃ vighnavināśāya sthāpitā jarjare surāḥ .. 94..
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ ९५॥
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ . iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam .. 95..
पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ।९६॥
pātālavāsino ye ca yakṣaguhyakapannagāḥ . adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ .96..
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः ॥ ९७॥
nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī . vidūṣakamathauṅkāraḥ śeśāstu prakṛtirharaḥ .. 97..
यान्येतानि नियुक्तानि दैवतानीह रक्षणे । एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ ९८॥
yānyetāni niyuktāni daivatānīha rakṣaṇe . etānyevādhidaivāni bhaviṣyantītyuvāca saḥ .. 98..
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ ९९॥
etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ . sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā .. 99..
पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥ १००॥
pūrvaṃ sāmaṃ prayoktavyaṃ dvitīyaṃ dānameva ca . tayorupari bhedastu tato daṇḍaḥ prayujyate .. 100..
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥ १०१॥
devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha . kasmādbhavanto nāṭyasya vināśāya samutthitāḥ .. 101..
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥ १०२॥
brahmaṇo vacanaṃ śrutvā virūpākṣo'bravīdvacaḥ . daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ .. 102..
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥ १०३॥
yo'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā . pratyādeśo'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ .. 103..
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ १०४॥
tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha . yathā devastathā daityāstvattaḥ sarve vinirgatāḥ .. 104..
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥ १०५॥
vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt . alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ .. 105..
भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ १०६॥
bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ . karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ .. 106..
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ १०७॥
naikāntato'tra bhavatāṃ devānāṃ cānubhāvanam . trailokyāsyāsya sarvasya nāṭyaṃ bhāvānukīrtanam .. 107..
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः । \क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥ १०८॥
kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ . \kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ .. 108..
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥ १०९॥
dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām . nigraho durvinītānāṃ vinītānāṃ damakriyā .. 109..
क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ ११०॥।
klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām . abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi .. 110...
ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च । अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥ १११॥
īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca . arthopajīvināmartho dhṛtirudvegacetasām .. 111..
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ ११२॥
nānābhāvopasampannaṃ nānāvasthāntarātmakam . lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam .. 112..
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ ११३॥
uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam . hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt .. 113..
( एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ )
( etadraseṣu bhāveṣu sarvakarmakriyāsvatha . sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati .. )
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥ ११४॥
duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām . viśrāntijananaṃ kāle nāṭyametadbhaviṣyati .. 114..
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥ ११५॥
dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam . lokopadeśajananaṃ nāṭyametadbhaviṣyati .. 115..
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ ११६॥
na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā . nāsau yogo na tatkarma nāṭye'smin yanna dṛśyate .. 116..
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥ ११७॥
tannātra manyuḥ kartavyo bhavadbhiramarānprati . saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati .. 117..
( येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ॥)
( yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam ..)
देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् । ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ ११८॥
devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām . brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam .. 118..
योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ ११९॥
yo'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ . so'ṅgādyabhinayopeto nāṭyamityabhidhīyate .. 119..
( वेदविद्येतिहासानामाख्यानपरिकल्पनम् । विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । विनोदजननं लोके नाट्यमेतद्भविष्यति ॥)
( vedavidyetihāsānāmākhyānaparikalpanam . vinodakaraṇaṃ loke nāṭyametadbhaviṣyati .. śrutismṛtisadācārapariśeṣārthakalpanam . vinodajananaṃ loke nāṭyametadbhaviṣyati ..)
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥ १२०॥
etasminnantare devān sarvānāha pitāmahaḥ . kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape .. 120..
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥ १२१॥
balipradānairhomaiśca mantrauṣadhisamanvitaiḥ . bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpatām .. 121..
मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् ॥ १२२॥
martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha . apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet .. 122..
अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति ॥ १२३॥
apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati . niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati .. 123..
यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् । तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः ॥ १२४॥
yajñena saṃmitaṃ hyedadraṅgadaivatapūjanam . tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ .. 124..
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति । न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥ १२५॥
nartako'rthapatirvāpi yaḥ pūjāṃ na kariṣyati . na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ .. 125..
यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति । स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति ॥ १२६॥
yathāvidhiṃ yathādṛṣṭaṃ yastu pūjāṃ kariṣyati . sa lapsyate śubhānarthān svargalokaṃ ca yāsyati .. 126..
एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः । रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥ १२७॥
evamuktvā tu bhagavāndruhiṇaḥ sahadevataiḥ . raṅgapūjāṃ kuruśveti māmevaṃ samacodayat .. 127..
इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः ।
iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In