जाति-भाषा-आश्रयम् पाठ्यम् द्विविधम् समुदाहृतम् । प्राकृतम् संस्कृतम् च एव चातुर्वर्ण्य-समाश्रयम् । धीर-उद्धते स ललिते धीर-उदात्ते तथा एव च ॥ ३२॥
TRANSLITERATION
jāti-bhāṣā-āśrayam pāṭhyam dvividham samudāhṛtam . prākṛtam saṃskṛtam ca eva cāturvarṇya-samāśrayam . dhīra-uddhate sa lalite dhīra-udātte tathā eva ca .. 32..
dhaivataḥ ca eva kartavyaḥ bībhatse sa bhayānake . trīṇi sthānāni uraḥ kaṇṭhaḥ śiraḥ iti . bhavati api ca śārīryām atha vīṇāyām tribhyaḥ sthānibhyaḥ eva tu . urasaḥ śirasaḥ kaṇṭhāt svaraḥ kākuḥ pravartate .. 105..
उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्थाभाषणविस्मयोत्तरोत्तरसञ्जल्पदूराह्वानत्रासनाबाधाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः, स चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती- क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु । मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा- गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु । नीचो नाम उरःस्थानगतो मन्द्रतरः, स च स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम कण्ठगतः स च त्वरितः, लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा- चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥
PADACHEDA
उच्चः नाम शिरः-स्थान-गतः तार-स्वरः, स च दूर-स्थ-आभाषण-विस्मय-उत्तर-उत्तर-सञ्जल्प-दूर-आह्वान-त्रासन-आबाध-आद्येषु । दीप्तः नाम शिरः-स्थान-गतः तारतरः, स च आक्षेप-कलह-विवाद-अमर्ष-क्रुष्ट-आधर्षण-क्रोध-शौर्य-दर्प-तीक्ष्ण-रूक्ष-अभिधान-निर्भर्त्सन-आक्रन्दित-आदिषु । मन्द्रः नाम उरः-स्थान-गतः निर्वेद-ग्लानि-चिन्ता-औत्सुक्य-दैन्य-व्याधि-क्रीडा-गाढ-शस्त्र-क्षत-मूर्छा-मद-गुह्य-अर्थ-वचन-आदिषु । नीचः नाम उरः-स्थान-गतः मन्द्रतरः, स च स्वभाव-आभाषण-व्याधि-शम-श्रम-आर्त-त्रस्त-पतित-मूर्छित-आदिषु । द्रुतः नाम कण्ठ-गतः स च त्वरितः, लल्लन-मन्मन-भय-शीतज्वर-त्रास-अत्यस्त-आत्ययिक-कार्य-आवेदन-आदिषु । विलम्बितः नाम कण्ठ-स्थान-गतः तनु-मन्द्रः, स च शृङ्गार-करुण-वितर्कित-विचार-अमर्ष-असूयिता-व्यक्त-अर्थ-प्रवाद-लज्जा-चिन्ता-तर्जन-विस्मय-दोष-अनुकीर्तन-दीर्घ-रोग-निपीडन-आदिषु अत्र अनुवंश्या श्लोकाः भवन्ति ॥ ११३॥
TRANSLITERATION
uccaḥ nāma śiraḥ-sthāna-gataḥ tāra-svaraḥ, sa ca dūra-stha-ābhāṣaṇa-vismaya-uttara-uttara-sañjalpa-dūra-āhvāna-trāsana-ābādha-ādyeṣu . dīptaḥ nāma śiraḥ-sthāna-gataḥ tārataraḥ, sa ca ākṣepa-kalaha-vivāda-amarṣa-kruṣṭa-ādharṣaṇa-krodha-śaurya-darpa-tīkṣṇa-rūkṣa-abhidhāna-nirbhartsana-ākrandita-ādiṣu . mandraḥ nāma uraḥ-sthāna-gataḥ nirveda-glāni-cintā-autsukya-dainya-vyādhi-krīḍā-gāḍha-śastra-kṣata-mūrchā-mada-guhya-artha-vacana-ādiṣu . nīcaḥ nāma uraḥ-sthāna-gataḥ mandrataraḥ, sa ca svabhāva-ābhāṣaṇa-vyādhi-śama-śrama-ārta-trasta-patita-mūrchita-ādiṣu . drutaḥ nāma kaṇṭha-gataḥ sa ca tvaritaḥ, lallana-manmana-bhaya-śītajvara-trāsa-atyasta-ātyayika-kārya-āvedana-ādiṣu . vilambitaḥ nāma kaṇṭha-sthāna-gataḥ tanu-mandraḥ, sa ca śṛṅgāra-karuṇa-vitarkita-vicāra-amarṣa-asūyitā-vyakta-artha-pravāda-lajjā-cintā-tarjana-vismaya-doṣa-anukīrtana-dīrgha-roga-nipīḍana-ādiṣu atra anuvaṃśyā ślokāḥ bhavanti .. 113..
एषाम् च द्रुत-मध्य-विलम्बिताः त्रयः लयाः रसेषु उपपाद्याः । तत्र हास्य-शृङ्गारयोः मध्य-लयः, करुणे, वीर-रौद्र-अद्भुत-बीभत्स-भयानकेषु द्रुतः इति । अथ विरामः कार्य-वशात् न छन्दः-वशात् । कस्मात्, दृश्यन्ते हि एक-द्वि-त्रि-चतुर्-अक्षराः विरामाः । यथा किम् ! गच्छ, मा विश सु दुर्जन ! वारितः असि कार्यम् त्वया न मम सर्व-जन-उपयुक्तम् । सूचासु च अङ्कुर-गते च तथा उपचारे षु अल्प-अक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥
TRANSLITERATION
eṣām ca druta-madhya-vilambitāḥ trayaḥ layāḥ raseṣu upapādyāḥ . tatra hāsya-śṛṅgārayoḥ madhya-layaḥ, karuṇe, vīra-raudra-adbhuta-bībhatsa-bhayānakeṣu drutaḥ iti . atha virāmaḥ kārya-vaśāt na chandaḥ-vaśāt . kasmāt, dṛśyante hi eka-dvi-tri-catur-akṣarāḥ virāmāḥ . yathā kim ! gaccha, mā viśa su durjana ! vāritaḥ asi kāryam tvayā na mama sarva-jana-upayuktam . sūcāsu ca aṅkura-gate ca tathā upacāre ṣu alpa-akṣarāṇi hi padāni bhavanti kāvye .. 132..
śeṣam artha-vaśena eva virāmam samprayojayet . atra ca bhāva-gatāni ca kṛṣya-akṣarāṇi boddhavyāni, tat yathā ākāra-aikāra-saṃyuktam aikāra-aukāra-saṃyutam . vyañjanam yat bhavet dīrgham kṛṣyam tat tu vidhīyate .. 140..