| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १७ काकुस्वरव्यञ्जनः ॥
.. nāṭyaśāstram adhyāya 17 kākusvaravyañjanaḥ ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ सप्तदशोऽध्यायः ।
atha saptadaśo'dhyāyaḥ .
एवं तु संस्कृतं पाठ्यं मया प्रोक्तं द्विजोत्तमाः । प्राकृतस्यापि पाठ्यस्य सम्प्रवक्ष्यामि लक्षणम् ॥ १॥
evaṃ tu saṃskṛtaṃ pāṭhyaṃ mayā proktaṃ dvijottamāḥ . prākṛtasyāpi pāṭhyasya sampravakṣyāmi lakṣaṇam .. 1..
एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ २॥
etadeva viparyastaṃ saṃskāraguṇavarjitam . vijñeyaṃ prākṛtaṃ pāṭhyaṃ nānāvasthāntarātmakam .. 2..
त्रिविधं तच्च विज्ञेयं नाट्ययोगे समासतः । समानशब्दं विभ्रष्टं देशीगतमथापि च ॥ ३॥
trividhaṃ tacca vijñeyaṃ nāṭyayoge samāsataḥ . samānaśabdaṃ vibhraṣṭaṃ deśīgatamathāpi ca .. 3..
कमलामलरेणुतरङ्गलोलसलिलादिवाक्यसम्पन्नम् । प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति ॥ ४॥
kamalāmalareṇutaraṅgalolasalilādivākyasampannam . prākṛtabandheṣvevaṃ saṃskṛtamapi yogamupayāti .. 4..
ये वर्णाः संयोगात् स्वरवर्णान्यत्वं न्यूनतां चापि । गच्छन्ति पदन्यस्तास्ते विभ्रष्टा इति ज्ञेयाः ॥ ५॥
ye varṇāḥ saṃyogāt svaravarṇānyatvaṃ nyūnatāṃ cāpi . gacchanti padanyastāste vibhraṣṭā iti jñeyāḥ .. 5..
ये वर्णा वर्णगता व्यञ्जनयुक्ताश्च ये स्वरा नियताः । तानपरस्परवृत्ते प्राकृतयुक्त्या प्रवक्ष्यामि ॥ ६॥
ye varṇā varṇagatā vyañjanayuktāśca ye svarā niyatāḥ . tānaparasparavṛtte prākṛtayuktyā pravakṣyāmi .. 6..
यथा - एओआरपराणिअ अं आरपरं अ पाअए णत्थि । बसआरमज्झिमाइ अ कच वग्गतवाणिहणाइं ॥ ७॥
yathā - eoāraparāṇia aṃ āraparaṃ a pāae ṇatthi . basaāramajjhimāi a kaca vaggatavāṇihaṇāiṃ .. 7..
वच्चन्ति कगतदयवा लोपं अत्थं च से वहन्ति सरा । खधथधभा उण हत्तं उर्वेति अत्थं अ मुञ्चन्ता ॥ ८॥
vaccanti kagatadayavā lopaṃ atthaṃ ca se vahanti sarā . khadhathadhabhā uṇa hattaṃ urveti atthaṃ a muñcantā .. 8..
उप्परहुत्तरआरो हेटाहुत्तो अ पाअए णत्थि । मोत्तूण भद्रचोद्रह पद्रह्वदचन्द्रजाई स ॥ ९॥
upparahuttaraāro heṭāhutto a pāae ṇatthi . mottūṇa bhadracodraha padrahvadacandrajāī sa .. 9..
खधथधभाण हआरो मुहमेहकहावहूपह्वएसु । कगतदयवाण णिच्चं वीयम्मि ठिओ सरो होई ॥ १०॥
khadhathadhabhāṇa haāro muhamehakahāvahūpahvaesu . kagatadayavāṇa ṇiccaṃ vīyammi ṭhio saro hoī .. 10..
छ इति षकारो नित्यं बोद्धव्यः षटपदादियोगेषु । किल शब्दान्त्यो रेफो भवति तथा खु त्ति खलुशब्दः ॥ ११॥
cha iti ṣakāro nityaṃ boddhavyaḥ ṣaṭapadādiyogeṣu . kila śabdāntyo repho bhavati tathā khu tti khaluśabdaḥ .. 11..
ड इति च भवति टकारो भटकटककुटीतटाद्येषु । सत्वं च भवति शषयोः सर्वत्र तथा हि स स आदेशः ॥ १२॥
ḍa iti ca bhavati ṭakāro bhaṭakaṭakakuṭītaṭādyeṣu . satvaṃ ca bhavati śaṣayoḥ sarvatra tathā hi sa sa ādeśaḥ .. 12..
अष्टस्पश्च दकारो भवत्यनादौ तकार इतराद्यः । बडवातडागतुल्यो भवति डकारोऽपि च ककारः ॥ १३॥
aṣṭaspaśca dakāro bhavatyanādau takāra itarādyaḥ . baḍavātaḍāgatulyo bhavati ḍakāro'pi ca kakāraḥ .. 13..
वर्धनगते च भावे धकारवर्णोऽपि ढत्वमुपयाति । सर्वत्र च प्रयोगे भवति नकारोऽपि च णकारः ॥ १४॥
vardhanagate ca bhāve dhakāravarṇo'pi ḍhatvamupayāti . sarvatra ca prayoge bhavati nakāro'pi ca ṇakāraḥ .. 14..
आपानम् आवानं भवति पकारेन वत्वयुक्तेन । अयथातथादिकेषु तु भकारवर्णो व्रजीत हत्वम् ॥ १५॥
āpānam āvānaṃ bhavati pakārena vatvayuktena . ayathātathādikeṣu tu bhakāravarṇo vrajīta hatvam .. 15..
परुषं फरुसं विद्यात्पकारवर्णोऽपि फत्वमुपयाति । यस्तु मृतः सोऽपि मओ यश्च मृगः सोऽपि हि तथैव ॥ १६॥
paruṣaṃ pharusaṃ vidyātpakāravarṇo'pi phatvamupayāti . yastu mṛtaḥ so'pi mao yaśca mṛgaḥ so'pi hi tathaiva .. 16..
ओकारत्वं गच्छेदौकारश्चौषधादिषु नियुक्तः । प्रचलाचिराचलादिषु भवति चकारोऽपि तु यकारः ॥ १७॥
okāratvaṃ gacchedaukāraścauṣadhādiṣu niyuktaḥ . pracalācirācalādiṣu bhavati cakāro'pi tu yakāraḥ .. 17..
अपरस्परनिष्पन्ना ह्येवं प्राकृतसमाश्रया वर्णाः । संयुक्तानां तु पुनर्वक्ष्ये परिवृत्तिसंयोगम् ॥ १८॥
aparasparaniṣpannā hyevaṃ prākṛtasamāśrayā varṇāḥ . saṃyuktānāṃ tu punarvakṣye parivṛttisaṃyogam .. 18..
श्चप्सत्सध्याः छ इति तथाभ्यह्यध्या भवन्ति तु झकाराः । ष्टः ट्ठः स्तः स्थः ष्मौ म्हः क्ष्णो ह्णः ष्णो ण्हः क्षः खकाररूपोऽपि ॥ १९॥
ścapsatsadhyāḥ cha iti tathābhyahyadhyā bhavanti tu jhakārāḥ . ṣṭaḥ ṭṭhaḥ staḥ sthaḥ ṣmau mhaḥ kṣṇo hṇaḥ ṣṇo ṇhaḥ kṣaḥ khakārarūpo'pi .. 19..
आश्चर्यं अच्छरियं निश्चयमिच्छन्ति णिच्छयं च यथा । वत्सं वच्छं च यथा अप्सरसं तद्वदच्छरअम् ॥ २०॥
āścaryaṃ acchariyaṃ niścayamicchanti ṇicchayaṃ ca yathā . vatsaṃ vacchaṃ ca yathā apsarasaṃ tadvadaccharaam .. 20..
उत्साहो उच्छाहो पथ्यं च पच्छं विज्ञेयम् । तुभ्यं तुज्झं मह्यं मज्झं विन्ध्यश्च भवति विञ्ज्झोत्ति ॥ २१॥
utsāho ucchāho pathyaṃ ca pacchaṃ vijñeyam . tubhyaṃ tujjhaṃ mahyaṃ majjhaṃ vindhyaśca bhavati viñjjhotti .. 21..
दष्टो वट्ठोत्ति तहा हस्तोऽपि च भवति हत्थोत्ति । ग्रीष्मो गिम्होत्ति तथा श्लक्ष्णं सह्णं सदा तु विज्ञेयम् ॥ २२॥
daṣṭo vaṭṭhotti tahā hasto'pi ca bhavati hatthotti . grīṣmo gimhotti tathā ślakṣṇaṃ sahṇaṃ sadā tu vijñeyam .. 22..
उष्णं उह्णं यक्षो जक्खो पर्यङ्को भवति पल्लङ्कु । विपरीतं हमयोगे ब्रह्मादौ स्याद् बृहस्पतौ फत्वम् ॥ २३॥
uṣṇaṃ uhṇaṃ yakṣo jakkho paryaṅko bhavati pallaṅku . viparītaṃ hamayoge brahmādau syād bṛhaspatau phatvam .. 23..
यज्ञो भवति न जन्नो भीष्मो भिम्होत्ति विज्ञेयः । उपरिगतोऽधस्ताद्वा भवेत्ककारादिकस्तु यो वर्णः ॥ २४॥
yajño bhavati na janno bhīṣmo bhimhotti vijñeyaḥ . uparigato'dhastādvā bhavetkakārādikastu yo varṇaḥ .. 24..
स हि संयोगविहीनः शुद्धः कार्यः प्रयोगेऽस्मिन् । एवमेतत्तु विज्ञेयं प्राकृतं संस्कृतं तथा ॥ २५॥
sa hi saṃyogavihīnaḥ śuddhaḥ kāryaḥ prayoge'smin . evametattu vijñeyaṃ prākṛtaṃ saṃskṛtaṃ tathā .. 25..
अत ऊर्ध्वं प्रवक्ष्यामि देशभाषाविकल्पनम् । भाषा चतुर्विधा ज्ञेया दशरूपे प्रयोगतः ॥ २६॥
ata ūrdhvaṃ pravakṣyāmi deśabhāṣāvikalpanam . bhāṣā caturvidhā jñeyā daśarūpe prayogataḥ .. 26..
संस्कृतं प्राकृतं चैव यत्र पाठ्यं प्रयुज्यते । अतिभाषार्यभाषा च जातिभाषा तथैव च ॥ २७॥
saṃskṛtaṃ prākṛtaṃ caiva yatra pāṭhyaṃ prayujyate . atibhāṣāryabhāṣā ca jātibhāṣā tathaiva ca .. 27..
तथा योन्यन्तरी चैव भाषा नाट्ये प्रकीर्तिता । अतिभाषा तु देवानामार्यभाषा तु भूभुजाम् ॥ २८॥
tathā yonyantarī caiva bhāṣā nāṭye prakīrtitā . atibhāṣā tu devānāmāryabhāṣā tu bhūbhujām .. 28..
संस्कारपाठ्यसंयुक्ता सम्यङ् न्याय्यप्रतिष्ठिता । विविधा जातिभाषा च प्रयोगे समुदाहृता ॥ २९॥
saṃskārapāṭhyasaṃyuktā samyaṅ nyāyyapratiṣṭhitā . vividhā jātibhāṣā ca prayoge samudāhṛtā .. 29..
म्लेच्छशब्दोपचारा च भारतं वर्षमाश्रिता । अथ योन्यन्तरी भाषा ग्राम्यारण्यपशूद्भवा ॥ ३०॥
mlecchaśabdopacārā ca bhārataṃ varṣamāśritā . atha yonyantarī bhāṣā grāmyāraṇyapaśūdbhavā .. 30..
नानाविहङ्गजा चैव नाट्यधर्मी प्रतिष्ठिता ॥ ३१॥
nānāvihaṅgajā caiva nāṭyadharmī pratiṣṭhitā .. 31..
जातिभाषाश्रयं पाठ्यं द्विविधं समुदाहृतम् । प्राकृतं संस्कृतं चैव चातुर्वर्ण्यसमाश्रयम् । धीरोद्धते सललिते धीरोदात्ते तथैव च ॥ ३२॥
jātibhāṣāśrayaṃ pāṭhyaṃ dvividhaṃ samudāhṛtam . prākṛtaṃ saṃskṛtaṃ caiva cāturvarṇyasamāśrayam . dhīroddhate salalite dhīrodātte tathaiva ca .. 32..
धीरप्रशान्ते च तथा पाठ्यं योज्यं तु संस्कृतम् । एषामेव तु सर्वेषां नायकानां प्रयोगतः ॥ ३३॥
dhīrapraśānte ca tathā pāṭhyaṃ yojyaṃ tu saṃskṛtam . eṣāmeva tu sarveṣāṃ nāyakānāṃ prayogataḥ .. 33..
कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् । दारिद्र्याध्ययनाभावयदृच्छादिभिरेव च ॥ ३४॥
kāraṇavyapadeśena prākṛtaṃ samprayojayet . dāridryādhyayanābhāvayadṛcchādibhireva ca .. 34..
ऐश्वर्येण प्रमत्तानां दारिद्र्येण प्लुतात्मनाम् । अनधीतोत्तमानां च संस्कृतं न प्रयोजयेत् ॥ ३५॥
aiśvaryeṇa pramattānāṃ dāridryeṇa plutātmanām . anadhītottamānāṃ ca saṃskṛtaṃ na prayojayet .. 35..
व्याजलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम् । भिक्षुचक्रचराणां च प्राकृतं सम्प्रयोजयेत् ॥ ३६॥
vyājaliṅgapraviṣṭānāṃ śramaṇānāṃ tapasvinām . bhikṣucakracarāṇāṃ ca prākṛtaṃ samprayojayet .. 36..
भागवततापसोन्मत्तबालनीचग्रहोपसृष्टेषु । स्त्रीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम् ॥ ३७॥
bhāgavatatāpasonmattabālanīcagrahopasṛṣṭeṣu . strīnīcajātiṣu tathā napuṃsake prākṛtaṃ yojyam .. 37..
परिव्राण्मुनिशाक्येषु चोक्षेषु श्रोत्रियेषु च । शिष्टा ये चैव लिङ्गस्थाः संस्कृतं तेषु योजयेत् ॥ ३८॥
parivrāṇmuniśākyeṣu cokṣeṣu śrotriyeṣu ca . śiṣṭā ye caiva liṅgasthāḥ saṃskṛtaṃ teṣu yojayet .. 38..
राज्ञाश्च गणिकायाश्च शिल्पकार्यास्तथैव च । कलावस्थान्तरकृतं योज्यं पाठ्यं तु संस्कृतम् ॥ ३९॥
rājñāśca gaṇikāyāśca śilpakāryāstathaiva ca . kalāvasthāntarakṛtaṃ yojyaṃ pāṭhyaṃ tu saṃskṛtam .. 39..
सन्धिविग्रहसम्बन्धं तथा च प्राप्तवाग्गतिम् । ग्रहनक्षत्रचरितं खगानां रुतमेव च ॥ ४०॥
sandhivigrahasambandhaṃ tathā ca prāptavāggatim . grahanakṣatracaritaṃ khagānāṃ rutameva ca .. 40..
सर्वमेतत्तु विज्ञेयं काव्यबन्धे शुभाशुभम् ॥ ४१॥
sarvametattu vijñeyaṃ kāvyabandhe śubhāśubham .. 41..
क्रीडार्थं सर्वलोकस्य प्रयोगे च सुखाश्रयम् । कलाभ्यासाश्रयं चैव पाठ्यं वेश्यासु संस्कृतम् ॥ ४२॥
krīḍārthaṃ sarvalokasya prayoge ca sukhāśrayam . kalābhyāsāśrayaṃ caiva pāṭhyaṃ veśyāsu saṃskṛtam .. 42..
कलोपचारज्ञानार्थं क्रीडार्थं पार्थिवस्य च । निर्दिष्टं शिल्पकार्यास्तु नाटके संस्कृतं वचः ॥ ४३॥
kalopacārajñānārthaṃ krīḍārthaṃ pārthivasya ca . nirdiṣṭaṃ śilpakāryāstu nāṭake saṃskṛtaṃ vacaḥ .. 43..
आम्नायसिद्धं सर्वासां शुभमप्सरसां वचः । संसर्गाद्देवतानां च तद्धि लोकोऽनुवर्तते ॥ ४४॥
āmnāyasiddhaṃ sarvāsāṃ śubhamapsarasāṃ vacaḥ . saṃsargāddevatānāṃ ca taddhi loko'nuvartate .. 44..
छन्दतः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि । मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया ॥ ४५॥
chandataḥ prākṛtaṃ pāṭhyaṃ smṛtamapsarasāṃ bhuvi . mānuṣāṇāṃ ca kartavyaṃ kāraṇārthavyapekṣayā .. 45..
सर्वास्वेह हि शुद्धासु जातिषु द्विजसत्तमाः । शौरसेनीं समाश्रित्य भाषां काव्येषु योजयेत् ॥ ४६॥
sarvāsveha hi śuddhāsu jātiṣu dvijasattamāḥ . śaurasenīṃ samāśritya bhāṣāṃ kāvyeṣu yojayet .. 46..
अथवा छन्दतः कार्या देशभाषा प्रयोक्तृभिः । नानादेशसमुत्थं हि काव्यं भवति नाटके ॥ ४७॥
athavā chandataḥ kāryā deśabhāṣā prayoktṛbhiḥ . nānādeśasamutthaṃ hi kāvyaṃ bhavati nāṭake .. 47..
मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाह्लीका दक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८॥
māgadhyavantijā prācyā śaurasenyardhamāgadhī . bāhlīkā dakṣiṇātyā ca sapta bhāṣāḥ prakīrtitāḥ .. 48..
शकाराभीरचण्डालशवरद्रमिलोद्रजाः । हीना वनेचराणां च विभाषा नाटके स्मृता ॥ ४९॥
śakārābhīracaṇḍālaśavaradramilodrajāḥ . hīnā vanecarāṇāṃ ca vibhāṣā nāṭake smṛtā .. 49..
मागधी तु नरेन्द्राणामन्तःपुरसमाश्रया । चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी ॥ ५०॥
māgadhī tu narendrāṇāmantaḥpurasamāśrayā . ceṭānāṃ rājaputrāṇāṃ śreṣṭhināṃ cārdhamāgadhī .. 50..
प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां सखीनां च शूरसेन्यविरोधिनी ॥ ५१॥
prācyā vidūṣakādīnāṃ dhūrtānāmapyavantijā . nāyikānāṃ sakhīnāṃ ca śūrasenyavirodhinī .. 51..
यौधनागरकादीनां दक्षिणात्याथ दीव्यताम् । बाह्लीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ ५२॥
yaudhanāgarakādīnāṃ dakṣiṇātyātha dīvyatām . bāhlīkabhāṣodīcyānāṃ khasānāṃ ca svadeśajā .. 52..
शकारघोषकादीनां तत्स्वभावश्च यो गणः । शकारभाषा योक्तव्या चाण्डाली पुल्कसादिषु ॥ ५३॥
śakāraghoṣakādīnāṃ tatsvabhāvaśca yo gaṇaḥ . śakārabhāṣā yoktavyā cāṇḍālī pulkasādiṣu .. 53..
अङ्गारकारकव्याधकाष्ठयन्त्रोपजीविनाम् । योज्या शकारभाषा तु किञ्चिद्वानौकसी तथा ॥ ५४॥
aṅgārakārakavyādhakāṣṭhayantropajīvinām . yojyā śakārabhāṣā tu kiñcidvānaukasī tathā .. 54..
गजाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । आभीरोक्तिः शावरी वा द्रामिडी वनचारिषु ॥ ५५॥
gajāśvājāvikoṣṭrādighoṣasthānanivāsinām . ābhīroktiḥ śāvarī vā drāmiḍī vanacāriṣu .. 55..
सुरङ्गाखनकादीनां सन्धिकाराश्वरक्षताम् । व्यसने नायकानां चाप्यात्मरक्षासु मागधी ॥ ५६॥
suraṅgākhanakādīnāṃ sandhikārāśvarakṣatām . vyasane nāyakānāṃ cāpyātmarakṣāsu māgadhī .. 56..
न बर्बरकिरातान्ध्रद्रमिलाद्यासु जातिषु । नाट्यप्रयोगे कर्तव्यं काव्यं भाषासमाश्रितम् ॥ ५७॥
na barbarakirātāndhradramilādyāsu jātiṣu . nāṭyaprayoge kartavyaṃ kāvyaṃ bhāṣāsamāśritam .. 57..
गङ्गासागरमध्ये तु ये देशाः सम्प्रकीर्तिताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५८॥
gaṅgāsāgaramadhye tu ye deśāḥ samprakīrtitāḥ . ekārabahulāṃ teṣu bhāṣāṃ tajjñaḥ prayojayet .. 58..
विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥
vindhyasāgaramadhye tu ye deśāḥ śrutimāgatāḥ . nakārabahulāṃ teṣu bhāṣāṃ tajjñaḥ prayojayet .. 59..
सुराष्ट्रावन्तिदेषेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारप्रायसंश्रयाम् ॥ ६०॥
surāṣṭrāvantideṣeṣu vetravatyuttareṣu ca . ye deśāsteṣu kurvīta cakāraprāyasaṃśrayām .. 60..
हिमवत्सिन्धुसौवीरान्ये जनाः समुपाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६१॥
himavatsindhusauvīrānye janāḥ samupāśritāḥ . ukārabahulāṃ tajjñasteṣu bhāṣāṃ prayojayet .. 61..
चर्मण्वतीनदीतीरे ये चार्बुदसमाश्रिताः । तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥
carmaṇvatīnadītīre ye cārbudasamāśritāḥ . takārabahulāṃ nityaṃ teṣu bhāṣāṃ prayojayet .. 62..
एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोक्तं मया यत्तु लोकाद् ग्राह्यं बुधैस्तु तत् ॥ ६३॥
evaṃ bhāṣāvidhānaṃ tu kartavyaṃ nāṭakāśrayam . atra noktaṃ mayā yattu lokād grāhyaṃ budhaistu tat .. 63..
एवं भाषाविधानं तु मया प्रोक्तं द्विजोत्तमाः । पुनर्वाक्यविधानं तु लौकिकं सन्निबोधत ॥ ६४॥
evaṃ bhāṣāvidhānaṃ tu mayā proktaṃ dvijottamāḥ . punarvākyavidhānaṃ tu laukikaṃ sannibodhata .. 64..
उत्तमैर्मध्यमैर्नीचैर्ये सम्भाष्या यथा नराः । समानोत्कृष्टहीनाश्च नाटके तान्निबोधत ॥ ६५॥
uttamairmadhyamairnīcairye sambhāṣyā yathā narāḥ . samānotkṛṣṭahīnāśca nāṭake tānnibodhata .. 65..
देवानामपि ये देवा महात्मानो महर्षयः । भगवन्निति ते वाच्या यास्तेषां योषितस्तथा ॥ ६६॥
devānāmapi ye devā mahātmāno maharṣayaḥ . bhagavanniti te vācyā yāsteṣāṃ yoṣitastathā .. 66..
देवाश्च लिङ्गिनश्चैव नानाश्रुतधराश्च ये । भगवन्निति ये वाच्याः पुरुषैः स्त्रीभिरेव च ॥ ६७॥
devāśca liṅginaścaiva nānāśrutadharāśca ye . bhagavanniti ye vācyāḥ puruṣaiḥ strībhireva ca .. 67..
आर्येति ब्राह्मणं ब्रूयान्महाराजेति पार्थिवम् । उपाध्यायेति चाचार्यं वृद्धं तातेति चैव हि ॥ ६८॥
āryeti brāhmaṇaṃ brūyānmahārājeti pārthivam . upādhyāyeti cācāryaṃ vṛddhaṃ tāteti caiva hi .. 68..
नाम्ना राजेति वा वाच्या ब्राह्मणैस्तु नराधिपाः । तत्क्षाम्यं हि महीपालैर्यस्मात्पूज्या द्विजाः स्मृताः ॥ ६९॥
nāmnā rājeti vā vācyā brāhmaṇaistu narādhipāḥ . tatkṣāmyaṃ hi mahīpālairyasmātpūjyā dvijāḥ smṛtāḥ .. 69..
ब्राह्मणैः सचिवो वाच्यो ह्यमात्यः सचिवेति वा । शेषैरन्यैर्जनैर्वाच्यो हीनैरार्येति नित्यशः ॥ ७०॥
brāhmaṇaiḥ sacivo vācyo hyamātyaḥ saciveti vā . śeṣairanyairjanairvācyo hīnairāryeti nityaśaḥ .. 70..
समैः सम्भाषणं कार्यं येन नाम्ना स संज्ञितः । हीनैः सपरिवारं तु नाम्ना सम्भाष्य उत्तमः ॥ ७१॥
samaiḥ sambhāṣaṇaṃ kāryaṃ yena nāmnā sa saṃjñitaḥ . hīnaiḥ saparivāraṃ tu nāmnā sambhāṣya uttamaḥ .. 71..
नियोगाधिकृताश्चैव पुरुषा योषितस्तथा । कारुकाः शिल्पिनश्चैव सम्भाष्यास्ते तथैव हि ॥ ७२॥
niyogādhikṛtāścaiva puruṣā yoṣitastathā . kārukāḥ śilpinaścaiva sambhāṣyāste tathaiva hi .. 72..
मार्षो भावेति वक्तव्यः किञ्चिदूनस्तु मार्षकः । समानोऽथ वयस्येति हं ह्वो हण्डेति वाधमः ॥ ७३॥
mārṣo bhāveti vaktavyaḥ kiñcidūnastu mārṣakaḥ . samāno'tha vayasyeti haṃ hvo haṇḍeti vādhamaḥ .. 73..
आयुष्मन्निति वाच्यस्तु रथी सूतेन सर्वदा । तपस्वीति प्रशान्तस्तु साधो इति च शब्द्यते ॥ ७४॥
āyuṣmanniti vācyastu rathī sūtena sarvadā . tapasvīti praśāntastu sādho iti ca śabdyate .. 74..
स्वामीति युवराजस्तु कुमारो भर्तृदारकः । सौम्य भद्रमुखेत्येवं हे पूर्वं चाधमं वदेत् ॥ ७५॥
svāmīti yuvarājastu kumāro bhartṛdārakaḥ . saumya bhadramukhetyevaṃ he pūrvaṃ cādhamaṃ vadet .. 75..
यद्यस्य कर्म शिल्पं वा विद्या वा जातिरेव वा । स तेन नाम्ना भाष्यो हि नाटकादौ प्रयोक्तृभिः ॥ ७६॥
yadyasya karma śilpaṃ vā vidyā vā jātireva vā . sa tena nāmnā bhāṣyo hi nāṭakādau prayoktṛbhiḥ .. 76..
वत्स पुत्रक तातेति नाम्ना गोत्रेण वा पुनः । वाच्यः शिष्यः सुतो वापि पित्रा वा गुरुणापि वा ॥ ७७॥
vatsa putraka tāteti nāmnā gotreṇa vā punaḥ . vācyaḥ śiṣyaḥ suto vāpi pitrā vā guruṇāpi vā .. 77..
सम्भाष्या शाक्यनिर्ग्रन्था भदन्तेति प्रयोक्तृभिः । आमन्त्रणैस्तु पाषण्डाः शेषाः स्वसमयाश्रितैः ॥ ७८॥
sambhāṣyā śākyanirgranthā bhadanteti prayoktṛbhiḥ . āmantraṇaistu pāṣaṇḍāḥ śeṣāḥ svasamayāśritaiḥ .. 78..
देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । भट्टेति सार्वभौमस्तु नित्यं परिजनेन हि ॥ ७९॥
deveti nṛpatirvācyo bhṛtyaiḥ prakṛtibhistathā . bhaṭṭeti sārvabhaumastu nityaṃ parijanena hi .. 79..
राजन्नित्यृषिभिर्वाच्यो ह्यपत्यप्रत्ययेन वा । वयस्य राजन्निति वा भवेद्वाच्यो महीपतिः ॥ ८०॥
rājannityṛṣibhirvācyo hyapatyapratyayena vā . vayasya rājanniti vā bhavedvācyo mahīpatiḥ .. 80..
विदूषकेण राज्ञी च चेटी च भवतीत्यपि । नाम्ना वयस्येत्यपि वा राज्ञा वाच्यो विदूषकः ॥ ८१॥
vidūṣakeṇa rājñī ca ceṭī ca bhavatītyapi . nāmnā vayasyetyapi vā rājñā vācyo vidūṣakaḥ .. 81..
सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने । अन्यदा पुनरार्येति महाराजेति भूपतिः ॥ ८२॥
sarvastrībhiḥ patirvācya āryaputreti yauvane . anyadā punarāryeti mahārājeti bhūpatiḥ .. 82..
आर्येति पूर्वजो भ्राता वाच्यः पुत्र इवानुजः । योषिद्भिरथ काम्येति राजपुत्रेति योधनैः ॥ ८३॥
āryeti pūrvajo bhrātā vācyaḥ putra ivānujaḥ . yoṣidbhiratha kāmyeti rājaputreti yodhanaiḥ .. 83..
पुरुषाभाषणं ह्येव कार्यं नाट्ये प्रयोक्तृभिः । पुनः स्त्रीणां प्रवक्ष्यामि यथाभाष्यास्तु नाटके ॥ ८४॥
puruṣābhāṣaṇaṃ hyeva kāryaṃ nāṭye prayoktṛbhiḥ . punaḥ strīṇāṃ pravakṣyāmi yathābhāṣyāstu nāṭake .. 84..
तपस्विन्यो देवताश्च वाच्या भगवतीति च । गुरुभार्या तु वक्तव्या स्थानीया भवतीति च ॥ ८५॥
tapasvinyo devatāśca vācyā bhagavatīti ca . gurubhāryā tu vaktavyā sthānīyā bhavatīti ca .. 85..
गम्या भद्रेति वाच्या वै वृद्धाम्बेति च नाटके । राजपत्न्यस्तु सम्भाष्याः सर्वाः परिजनेन वै ॥ ८६॥
gamyā bhadreti vācyā vai vṛddhāmbeti ca nāṭake . rājapatnyastu sambhāṣyāḥ sarvāḥ parijanena vai .. 86..
भट्टिनी स्वामिनी देवीत्येवं वै नाटके बुधैः । देवीति महिषी वाच्या राज्ञा परिजनेन वा ॥ ८७॥
bhaṭṭinī svāminī devītyevaṃ vai nāṭake budhaiḥ . devīti mahiṣī vācyā rājñā parijanena vā .. 87..
भोगिन्यः परिशिष्टास्तु स्वामिन्य इति वा पुनः । कुमार्यश्चैव वक्तव्याः प्रेष्याभिर्भर्तृदारिकाः ॥ ८८॥
bhoginyaḥ pariśiṣṭāstu svāminya iti vā punaḥ . kumāryaścaiva vaktavyāḥ preṣyābhirbhartṛdārikāḥ .. 88..
स्वसेति भगिनी वाच्या वत्सेति च यवीयसी । ब्राह्मण्यार्येति वक्तव्या लिङ्गस्था व्रतिनी च या ॥ ८९॥
svaseti bhaginī vācyā vatseti ca yavīyasī . brāhmaṇyāryeti vaktavyā liṅgasthā vratinī ca yā .. 89..
पत्नी चार्येति सम्भाष्या पितृनाम्ना सुतस्य सा । समानाभिस्तथा सख्यो हलेति स्यात्परस्परम् ॥ ९०॥
patnī cāryeti sambhāṣyā pitṛnāmnā sutasya sā . samānābhistathā sakhyo haleti syātparasparam .. 90..
प्रेष्या हज्जेति वक्तव्या स्त्रियो या तूत्तमा भवेत् । अज्जुकेति च वक्तव्या वेश्या परिजनेन च ॥ ९१॥
preṣyā hajjeti vaktavyā striyo yā tūttamā bhavet . ajjuketi ca vaktavyā veśyā parijanena ca .. 91..
अत्तेति गणिका माता वाच्या परिजनेन हि । प्रियेति भार्या शृङ्गारे वाच्या राज्ञेतरेण वा ॥ ९२॥
atteti gaṇikā mātā vācyā parijanena hi . priyeti bhāryā śṛṅgāre vācyā rājñetareṇa vā .. 92..
पुरोधः सार्थवाहानां भार्यास्त्वार्येति सर्वदा । तल्लिङ्गार्थानि नामानि कार्याणि कविभिः सदा ॥ ९३॥
purodhaḥ sārthavāhānāṃ bhāryāstvāryeti sarvadā . talliṅgārthāni nāmāni kāryāṇi kavibhiḥ sadā .. 93..
औत्पत्तिकानि यानि स्युर्न प्रख्यातानि नाटके । ब्रह्मक्षत्रस्य नामानि गोत्रकर्मानुरूपतः ॥ ९४॥
autpattikāni yāni syurna prakhyātāni nāṭake . brahmakṣatrasya nāmāni gotrakarmānurūpataḥ .. 94..
काव्ये कार्याणि कविभिः शर्मवर्मकृतानि हि । दत्तप्रायाणि नामानि वणिजां सम्प्रयोजयेत् ॥ ९५॥
kāvye kāryāṇi kavibhiḥ śarmavarmakṛtāni hi . dattaprāyāṇi nāmāni vaṇijāṃ samprayojayet .. 95..
कापालिकास्तु घण्टान्तनामानः समुदाहृता । शौर्योदात्तानि नामानि तथा शूरेषु योजयेत् ॥ ९६॥
kāpālikāstu ghaṇṭāntanāmānaḥ samudāhṛtā . śauryodāttāni nāmāni tathā śūreṣu yojayet .. 96..
विजयार्थानि नामानि राजस्त्रीणां तु नित्यशः । दत्ता मित्रा सेनेति वेश्यानामानि योजयेत् ॥ ९७॥
vijayārthāni nāmāni rājastrīṇāṃ tu nityaśaḥ . dattā mitrā seneti veśyānāmāni yojayet .. 97..
नानाकुसुमनामानः प्रेष्याः कार्यास्तु नाटके । मङ्गलार्थानि नामानि चेटानामपि योजयेत् ॥ ९८॥
nānākusumanāmānaḥ preṣyāḥ kāryāstu nāṭake . maṅgalārthāni nāmāni ceṭānāmapi yojayet .. 98..
गम्भीरार्थानि नामानि ह्युत्तमानां प्रयोजयेत् । यस्मान्नामानुसदृशं कर्म तेषां भविष्यति ॥ ९९॥
gambhīrārthāni nāmāni hyuttamānāṃ prayojayet . yasmānnāmānusadṛśaṃ karma teṣāṃ bhaviṣyati .. 99..
जातिचेष्टानुरूपाणि शेषाणामपि कारयेत् । नामानि पुरुषाणां तु स्त्रीणां चोक्तानि तत्त्वतः ॥ १००॥
jāticeṣṭānurūpāṇi śeṣāṇāmapi kārayet . nāmāni puruṣāṇāṃ tu strīṇāṃ coktāni tattvataḥ .. 100..
एवं नामविधानं तु कर्तव्यं कविभिः सदा । एवं भाषाविधानं तु ज्ञात्वा कर्माण्यशेषतः ॥ १०१॥
evaṃ nāmavidhānaṃ tu kartavyaṃ kavibhiḥ sadā . evaṃ bhāṣāvidhānaṃ tu jñātvā karmāṇyaśeṣataḥ .. 101..
पाठ्यगुणानिदानीं वक्ष्यामः । तद्यथा सप्तस्वराः, त्रीणि स्थानानि, चत्वारो वर्णाः, द्विविधा काकुः, षडलङ्काराः, षडङ्गानीति । एषामिदानीं लक्षणमभिव्याख्यास्यामः । तत्र सप्तस्वरा नाम - षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः त एते रसेषूपपाद्याः ॥ १०२॥
pāṭhyaguṇānidānīṃ vakṣyāmaḥ . tadyathā saptasvarāḥ, trīṇi sthānāni, catvāro varṇāḥ, dvividhā kākuḥ, ṣaḍalaṅkārāḥ, ṣaḍaṅgānīti . eṣāmidānīṃ lakṣaṇamabhivyākhyāsyāmaḥ . tatra saptasvarā nāma - ṣaḍjarṣabhagāndhāramadhyamapañcamadhaivataniṣādāḥ ta ete raseṣūpapādyāḥ .. 102..
यथा - ततः पाठ्यं प्रयुञ्जीत षडलङ्कारसंयुतम् । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ १०३॥
yathā - tataḥ pāṭhyaṃ prayuñjīta ṣaḍalaṅkārasaṃyutam . hāsyaśṛṅgārayoḥ kāryau svarau madhyamapañcamau .. 103..
षड्जर्षभौ तथा चैव वीररौद्राद्भुतेष्वथ । गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ १०४॥
ṣaḍjarṣabhau tathā caiva vīraraudrādbhuteṣvatha . gāndhāraśca niṣādaśca kartavyau karuṇe rase .. 104..
धैवतश्चैव कर्तव्यो बीभत्से सभयानके । त्रीणि स्थानानि - उरः कण्ठः शिर इति । भवत्यपि च शारीर्यामथ वीणायां त्रिभ्यः स्थानिभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ १०५॥
dhaivataścaiva kartavyo bībhatse sabhayānake . trīṇi sthānāni - uraḥ kaṇṭhaḥ śira iti . bhavatyapi ca śārīryāmatha vīṇāyāṃ tribhyaḥ sthānibhya eva tu . urasaḥ śirasaḥ kaṇṭhātsvaraḥ kākuḥ pravartate .. 105..
आभाषणं च दूरस्थे शिरसा सम्प्रयोजयेत् । नातिदूरे च कण्ठेन ह्युरसा चैव पार्श्वतः ॥ १०६॥
ābhāṣaṇaṃ ca dūrasthe śirasā samprayojayet . nātidūre ca kaṇṭhena hyurasā caiva pārśvataḥ .. 106..
उरसोदाहृतं वाक्यं शिरसा दीपयेद् बुधः । कण्ठेन शमनं कुर्यात्पाठ्ययोगेषु सर्वदा ॥ १०७॥
urasodāhṛtaṃ vākyaṃ śirasā dīpayed budhaḥ . kaṇṭhena śamanaṃ kuryātpāṭhyayogeṣu sarvadā .. 107..
उदात्तश्चानुदात्तश्च स्वरितः कम्पितस्तथा । वर्णाश्चत्वार एव स्युः पाठ्ययोगे तपोधनाः ॥ १०८॥
udāttaścānudāttaśca svaritaḥ kampitastathā . varṇāścatvāra eva syuḥ pāṭhyayoge tapodhanāḥ .. 108..
तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यं, वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा काकुः साकाङ्क्षा निराकाङ्क्षा चेति वाक्यस्य साकाङ्क्षनिराकाङ्क्षकत्वात् ॥ १०९॥
tatra hāsyaśṛṅgārayoḥ svaritodāttairvarṇaiḥ pāṭhyamupapādyaṃ, vīraraudrādbhuteṣūdāttakampitaiḥ karuṇabībhatsabhayānakeṣvanudāttasvaritakampitairiti . dvividhā kākuḥ sākāṅkṣā nirākāṅkṣā ceti vākyasya sākāṅkṣanirākāṅkṣakatvāt .. 109..
अनियुक्तार्थकं वाक्यं साकाङ्क्षमिति संज्ञितम् । नियुक्तार्थं तु यद्वाक्यं निराकाङ्क्षं तदुच्यते ॥ ११०॥
aniyuktārthakaṃ vākyaṃ sākāṅkṣamiti saṃjñitam . niyuktārthaṃ tu yadvākyaṃ nirākāṅkṣaṃ taducyate .. 110..
तत्र साकाङ्क्षं नाम तारादिमन्द्रान्तमनियुक्तार्थमनिर्यातितवर्णालङ्कारं कण्ठोरःस्थानगतम् । निराकाङ्क्षं नाम नियुक्तार्थं निर्यातितवर्णालङ्कारं शिरःस्थानगतं मान्द्रादितारान्तमिति । अथ षडलङ्कारा नाम - उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ । पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत ॥ ११२॥
tatra sākāṅkṣaṃ nāma tārādimandrāntamaniyuktārthamaniryātitavarṇālaṅkāraṃ kaṇṭhoraḥsthānagatam . nirākāṅkṣaṃ nāma niyuktārthaṃ niryātitavarṇālaṅkāraṃ śiraḥsthānagataṃ māndrāditārāntamiti . atha ṣaḍalaṅkārā nāma - ucco dīptaśca mandraśca nīco drutavilambitau . pāṭhyasyaite hyalaṅkārā lakṣaṇaṃ ca nibodhata .. 112..
उच्चो नाम शिरःस्थानगतस्तारस्वरः, स च दूरस्थाभाषणविस्मयोत्तरोत्तरसञ्जल्पदूराह्वानत्रासनाबाधाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः, स चाक्षेपकलहविवादामर्षक्रुष्टाधर्षणक्रोधशौर्यदर्पती- क्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दितादिषु । मन्द्रो नाम उरःस्थानगतो निर्वेदग्लानिचिन्तौत्सुक्यदैन्यव्याधिक्रीडा- गाढशस्त्रक्षतमूर्छामदगुह्यार्थवचनादिषु । नीचो नाम उरःस्थानगतो मन्द्रतरः, स च स्वभावाभाषणव्याधिशमश्रमार्तत्रस्तपतितमूर्छितादिषु । द्रुतो नाम कण्ठगतः स च त्वरितः, लल्लनमन्मनभयशीतज्वरत्रासात्यस्तात्ययिककार्यावेदनादिषु । विलम्बितो नाम कण्ठस्थानगतस्तनुमन्द्रः, स च शृङ्गारकरुणवितर्कितविचारामर्षासूयिताव्यक्तार्थप्रवादलज्जा- चिन्तातर्जनविस्मयदोषानुकीर्तनदीर्घरोगनिपीडनादिषु अत्रानुवंश्या श्लोका भवन्ति ॥ ११३-११४॥
ucco nāma śiraḥsthānagatastārasvaraḥ, sa ca dūrasthābhāṣaṇavismayottarottarasañjalpadūrāhvānatrāsanābādhādyeṣu . dīpto nāma śiraḥsthānagatastārataraḥ, sa cākṣepakalahavivādāmarṣakruṣṭādharṣaṇakrodhaśauryadarpatī- kṣṇarūkṣābhidhānanirbhartsanākranditādiṣu . mandro nāma uraḥsthānagato nirvedaglānicintautsukyadainyavyādhikrīḍā- gāḍhaśastrakṣatamūrchāmadaguhyārthavacanādiṣu . nīco nāma uraḥsthānagato mandrataraḥ, sa ca svabhāvābhāṣaṇavyādhiśamaśramārtatrastapatitamūrchitādiṣu . druto nāma kaṇṭhagataḥ sa ca tvaritaḥ, lallanamanmanabhayaśītajvaratrāsātyastātyayikakāryāvedanādiṣu . vilambito nāma kaṇṭhasthānagatastanumandraḥ, sa ca śṛṅgārakaruṇavitarkitavicārāmarṣāsūyitāvyaktārthapravādalajjā- cintātarjanavismayadoṣānukīrtanadīrgharoganipīḍanādiṣu atrānuvaṃśyā ślokā bhavanti .. 113-114..
उत्तरोत्तरसञ्जल्पपरुषाक्षेपणेषु च । तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा ॥ ११५॥
uttarottarasañjalpaparuṣākṣepaṇeṣu ca . tīkṣṇarūkṣābhinayane āvege krandite tathā .. 115..
परोक्षस्य समाह्वाने तर्जने त्रासने तथा । दूरस्थाभाषणे चैव तथा निर्भर्त्सनेषु च ॥ ११६॥
parokṣasya samāhvāne tarjane trāsane tathā . dūrasthābhāṣaṇe caiva tathā nirbhartsaneṣu ca .. 116..
भावेष्वेतेषु नित्यं हि नानारससमाश्रया । उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तृभिः ॥ ११७॥
bhāveṣveteṣu nityaṃ hi nānārasasamāśrayā . uccā dīptā drutā caiva kākuḥ kāryā prayoktṛbhiḥ .. 117..
व्याधिते च ज्वरार्ते च भयार्ते शीतविप्लुते । नियमस्थे वितर्के च गाढशस्त्रक्षतेषु च ॥ ११८॥
vyādhite ca jvarārte ca bhayārte śītaviplute . niyamasthe vitarke ca gāḍhaśastrakṣateṣu ca .. 118..
गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते । मन्द्रा नीचा च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ ११९॥
guhyārthavacane caiva cintāyāṃ tapasi sthite . mandrā nīcā ca kartavyā kākurnāṭyaprayoktṛbhiḥ .. 119..
लल्ले च मन्मने चैव भयार्ते शीतविप्लुते । मन्द्रा द्रुता च कर्तव्या काकुर्नाट्यप्रयोक्तृभिः ॥ १२०॥
lalle ca manmane caiva bhayārte śītaviplute . mandrā drutā ca kartavyā kākurnāṭyaprayoktṛbhiḥ .. 120..
दृष्टनष्टानुसरणे इष्टानिष्टश्रुते तथा । इष्टार्थख्यापने चैव चिन्ताध्याने तथैव च ॥ १२१॥
dṛṣṭanaṣṭānusaraṇe iṣṭāniṣṭaśrute tathā . iṣṭārthakhyāpane caiva cintādhyāne tathaiva ca .. 121..
उन्मादेऽसूयिते चैव उपालम्भे तथैव हि । अव्यक्तार्थप्रवादे च कथायोगे तथैव च ॥ १२२॥
unmāde'sūyite caiva upālambhe tathaiva hi . avyaktārthapravāde ca kathāyoge tathaiva ca .. 122..
उत्तरोत्तरसञ्जल्पे कार्येऽतिशयसंयुते । विकृते व्याधिते क्रोधे दुःखे शोके तथैव च ॥ १२३॥
uttarottarasañjalpe kārye'tiśayasaṃyute . vikṛte vyādhite krodhe duḥkhe śoke tathaiva ca .. 123..
विस्मयामर्षयोश्चैव प्रहर्षे परिदेविते । विलम्बिता च दीप्ता च काकुर्मन्द्रा च वै भवेत् ॥ १२४॥
vismayāmarṣayoścaiva praharṣe paridevite . vilambitā ca dīptā ca kākurmandrā ca vai bhavet .. 124..
लघ्वक्षरप्रायकृते गुर्वक्षरकृते तथा । उच्चा दीप्ता च कर्तव्या काकुस्तत्र प्रयोक्तृभिः ॥ १२५॥
laghvakṣaraprāyakṛte gurvakṣarakṛte tathā . uccā dīptā ca kartavyā kākustatra prayoktṛbhiḥ .. 125..
यानि सौम्यार्थयुक्तानि सुखभावकृतानि च । मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते ॥ १२६॥
yāni saumyārthayuktāni sukhabhāvakṛtāni ca . mandrā vilambitā caiva tatra kākurvidhīyate .. 126..
यानि स्युस्तीक्ष्णरूक्षाणि दीप्ता चोच्चा च तेष्वपि । एवं नानाश्रयोपेतं पाठ्यं योज्यं प्रयोक्तृभिः ॥ १२७॥
yāni syustīkṣṇarūkṣāṇi dīptā coccā ca teṣvapi . evaṃ nānāśrayopetaṃ pāṭhyaṃ yojyaṃ prayoktṛbhiḥ .. 127..
हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । वीररौद्राद्भुतेषूच्चा दीप्ता वापि प्रशस्यते ॥ १२८॥
hāsyaśṛṅgārakaruṇeṣviṣṭā kākurvilambitā . vīraraudrādbhuteṣūccā dīptā vāpi praśasyate .. 128..
भयानके सबीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ १२९॥
bhayānake sabībhatse drutā nīcā ca kīrtitā . evaṃ bhāvarasopetā kākuḥ kāryā prayoktṛbhiḥ .. 129..
अथाङ्गानि षट् - विच्छेदोऽर्पण विसर्गोऽनुबन्धो दीपनं प्रशमनमिति । तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुना स्वरेण पूरयतेव रङ्गं यत्पठ्यते तदर्पणम् । विसर्गो नाम वाक्यन्यासः । अनुबन्धो नाम पदान्तरेष्वपि विच्छेदः, अनुच्छ्वसनं वा । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं चेति । प्रशमनं नाम तारगतानां स्वराणां प्रशाम्यतामवैस्वर्येणावतारणमिति । एषां च रसगतः प्रयोगः - तत्र हास्यशृङ्गारयोराकाङ्क्षायामर्पणविच्छेददीपनप्रशमनयुक्तं पाठ्यं कार्यम् । दीपनप्रशमनयुक्तं करुणे । विच्छेदप्रशमनदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु विसर्गविच्छेदयुक्तं बीभत्सभयानकयोरिति । सर्वेषामप्येषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानगतः । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति । मन्द्रात्तारं न गच्छेत्, ताराद्वा मन्द्रमिति ॥ १३०॥
athāṅgāni ṣaṭ - vicchedo'rpaṇa visargo'nubandho dīpanaṃ praśamanamiti . tatra vicchedo nāma virāmakṛtaḥ . arpaṇaṃ nāma līlāyamānamadhuravalgunā svareṇa pūrayateva raṅgaṃ yatpaṭhyate tadarpaṇam . visargo nāma vākyanyāsaḥ . anubandho nāma padāntareṣvapi vicchedaḥ, anucchvasanaṃ vā . dīpanaṃ nāma tristhānaśobhi vardhamānasvaraṃ ceti . praśamanaṃ nāma tāragatānāṃ svarāṇāṃ praśāmyatāmavaisvaryeṇāvatāraṇamiti . eṣāṃ ca rasagataḥ prayogaḥ - tatra hāsyaśṛṅgārayorākāṅkṣāyāmarpaṇavicchedadīpanapraśamanayuktaṃ pāṭhyaṃ kāryam . dīpanapraśamanayuktaṃ karuṇe . vicchedapraśamanadīpanānubandhabahulaṃ vīraraudrādbhuteṣu visargavicchedayuktaṃ bībhatsabhayānakayoriti . sarveṣāmapyeṣāṃ mandramadhyatārakṛtaḥ prayogastristhānagataḥ . tatra dūrasthābhāṣaṇe tāraṃ śirasā, nātidūre madhyaṃ kaṇṭhena, pārśvato mandramurasā prayojayetpāṭhyamiti . mandrāttāraṃ na gacchet, tārādvā mandramiti .. 130..
एषां च द्रुतमध्यविलम्बितास्त्रयो लया रसेषूपपाद्याः । तत्र हास्यशृङ्गारयोर्मध्यलयः, करुणे विलम्बितो, वीररौद्राद्भुतबीभत्सभयानकेषु द्रुत इति । अथ विरामः अर्धसमाप्तो कार्यवशान्न छन्दोवशात् । कस्मात्, दृश्यन्ते ह्येकद्वित्रिचतुरक्षरा विरामाः । यथा - किं ! गच्छ, मा विश सुदुर्जन ! वारितोऽऽसि कार्यं त्वया न मम सर्वजनोपयुक्तम् । सूचासु चाङ्कुरगते च तथोपचारे - ष्वल्पाक्षराणि हि पदानि भवन्ति काव्ये ॥ १३२॥
eṣāṃ ca drutamadhyavilambitāstrayo layā raseṣūpapādyāḥ . tatra hāsyaśṛṅgārayormadhyalayaḥ, karuṇe vilambito, vīraraudrādbhutabībhatsabhayānakeṣu druta iti . atha virāmaḥ ardhasamāpto kāryavaśānna chandovaśāt . kasmāt, dṛśyante hyekadvitricaturakṣarā virāmāḥ . yathā - kiṃ ! gaccha, mā viśa sudurjana ! vārito''si kāryaṃ tvayā na mama sarvajanopayuktam . sūcāsu cāṅkuragate ca tathopacāre - ṣvalpākṣarāṇi hi padāni bhavanti kāvye .. 132..
एवं विरामे प्रयत्नोऽनुष्ठेयः । कस्मात्, विरामो ह्यर्थानुदर्शकः सः ।
evaṃ virāme prayatno'nuṣṭheyaḥ . kasmāt, virāmo hyarthānudarśakaḥ saḥ .
विरामेषु प्रयत्नो हि नित्यं कार्यः प्रयोक्तृभिः । कस्मादभिनयो ह्यस्मिन्नर्थापेक्षी यतः स्मृतः ॥ १३३॥
virāmeṣu prayatno hi nityaṃ kāryaḥ prayoktṛbhiḥ . kasmādabhinayo hyasminnarthāpekṣī yataḥ smṛtaḥ .. 133..
यत्र व्यग्रावुभौ हस्तौ तत्र दृष्टिसमन्वितः । वाचिकाभिनयः कार्यो विरामैरर्थदर्शकैः ॥ १३४॥
yatra vyagrāvubhau hastau tatra dṛṣṭisamanvitaḥ . vācikābhinayaḥ kāryo virāmairarthadarśakaiḥ .. 134..
प्रायो वीरे च रौद्रे च करौ प्रहरणाकुलौ । बीभत्से कुत्सितत्वाच्च भवतः कुञ्चितौ करौ ॥ १३५॥
prāyo vīre ca raudre ca karau praharaṇākulau . bībhatse kutsitatvācca bhavataḥ kuñcitau karau .. 135..
हास्ये चोद्देशमात्रेण करुणे च प्रलम्बितौ । अद्भुते विस्मयात्स्तब्धौ भयाच्चैव भयानके ॥ १३६॥
hāsye coddeśamātreṇa karuṇe ca pralambitau . adbhute vismayātstabdhau bhayāccaiva bhayānake .. 136..
एवमादिषु चान्येषु प्रविचारेऽपि हस्तयोः । अलङ्कारविरामाभ्यां साध्यते ह्यर्थनिश्चयः ॥ १३७॥
evamādiṣu cānyeṣu pravicāre'pi hastayoḥ . alaṅkāravirāmābhyāṃ sādhyate hyarthaniścayaḥ .. 137..
ये विरामाः स्मृता वृत्ते तेष्वलङ्कार इष्यते । समाप्तेऽर्थे पदे वापि तथा प्राणवशेन वा ॥ १३८॥
ye virāmāḥ smṛtā vṛtte teṣvalaṅkāra iṣyate . samāpte'rthe pade vāpi tathā prāṇavaśena vā .. 138..
पदवर्णसमासे च द्रुते बह्वर्थसङ्कटे । कार्यो विरामः पादान्ते तथा प्राणवशेन वा ॥ १३९॥
padavarṇasamāse ca drute bahvarthasaṅkaṭe . kāryo virāmaḥ pādānte tathā prāṇavaśena vā .. 139..
शेषमर्थवशेनैव विरामं सम्प्रयोजयेत् । अत्र च भावगतानि च कृष्याक्षराणि बोद्धव्यानि, तद्यथा - आकारैकारसंयुक्तमैकारौकारसंयुतम् । व्यञ्जनं यद्भवेद्दीर्घं कृष्यं तत्तु विधीयते ॥ १४०॥
śeṣamarthavaśenaiva virāmaṃ samprayojayet . atra ca bhāvagatāni ca kṛṣyākṣarāṇi boddhavyāni, tadyathā - ākāraikārasaṃyuktamaikāraukārasaṃyutam . vyañjanaṃ yadbhaveddīrghaṃ kṛṣyaṃ tattu vidhīyate .. 140..
विषादे च वितर्के च प्रश्नेऽथामर्ष एव च । कलाकालप्रमाणेन पाठ्यं कार्यं प्रयोक्तृभिः ॥ १४१॥
viṣāde ca vitarke ca praśne'thāmarṣa eva ca . kalākālapramāṇena pāṭhyaṃ kāryaṃ prayoktṛbhiḥ .. 141..
शेषाणामर्थयोगेन विरामे विरमेदिह । एकद्वित्रिचतुःपञ्चषट्कलं च विलम्बितम् ॥ १४२॥
śeṣāṇāmarthayogena virāme viramediha . ekadvitricatuḥpañcaṣaṭkalaṃ ca vilambitam .. 142..
विलम्बिते विरामे हि सदा गुर्वक्षरं भवेत् । षण्णां कलानां परतो विलम्बो च विधीयते ॥ १४३॥
vilambite virāme hi sadā gurvakṣaraṃ bhavet . ṣaṇṇāṃ kalānāṃ parato vilambo ca vidhīyate .. 143..
अथवा कारणोपेतं प्रयोगं कार्यमेव च । समीक्ष्य वृत्ते कर्तव्यो विरामो रसभावतः ॥ १४४॥
athavā kāraṇopetaṃ prayogaṃ kāryameva ca . samīkṣya vṛtte kartavyo virāmo rasabhāvataḥ .. 144..
ये विरामाः स्मृताः पाठ्ये वृत्तपादसमुद्भवाः । उत्क्रम्यापि क्रमं तज्ज्ञैः कार्यास्तेऽर्थवशानुगाः ॥ १४५॥
ye virāmāḥ smṛtāḥ pāṭhye vṛttapādasamudbhavāḥ . utkramyāpi kramaṃ tajjñaiḥ kāryāste'rthavaśānugāḥ .. 145..
नापशब्दं पठेत्तज्ज्ञो भिन्नवृत्तं तथैव हि । विश्रमेन्नाविरामेषु दैन्ये काकुं न दीपयेत् ॥ १४६॥
nāpaśabdaṃ paṭhettajjño bhinnavṛttaṃ tathaiva hi . viśramennāvirāmeṣu dainye kākuṃ na dīpayet .. 146..
वर्जितं काव्यदोषैस्तु लक्षणाढ्यं गुणान्वितम् । स्वरालङ्कारसंयुक्तं पठेत्पाठ्यं यथाविधि ॥ १४७॥
varjitaṃ kāvyadoṣaistu lakṣaṇāḍhyaṃ guṇānvitam . svarālaṅkārasaṃyuktaṃ paṭhetpāṭhyaṃ yathāvidhi .. 147..
अलङ्कारा विरामाश्च ये पाठ्ये संस्कृते स्मृताः । त एव सर्वे कर्तव्या स्त्रीणां पाठ्ये त्वसंस्कृते ॥ १४८॥
alaṅkārā virāmāśca ye pāṭhye saṃskṛte smṛtāḥ . ta eva sarve kartavyā strīṇāṃ pāṭhye tvasaṃskṛte .. 148..
एवमेतत्स्वरकृतं कलाताललयान्वितम् । दशरूपविधाने तु पाठ्यं योज्यं प्रयोक्तृभिः ॥ १४९॥
evametatsvarakṛtaṃ kalātālalayānvitam . daśarūpavidhāne tu pāṭhyaṃ yojyaṃ prayoktṛbhiḥ .. 149..
उक्तं काकुविधानं तु यथावदनुपूर्वशः । अत ऊर्ध्वं प्रवक्ष्यामि दशरूपविकल्पनम् ॥ १५०॥
uktaṃ kākuvidhānaṃ tu yathāvadanupūrvaśaḥ . ata ūrdhvaṃ pravakṣyāmi daśarūpavikalpanam .. 150..
॥ इति भरतीये नाट्यशास्त्रे वागभिनये काकुस्वरव्यञ्जनो नाम सप्तदशोऽध्यायः ॥
.. iti bharatīye nāṭyaśāstre vāgabhinaye kākusvaravyañjano nāma saptadaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In