असूया नाम नाना अपराध-द्वेष-पर-ऐश्वर्य-सौभाग्य-मेधा-विद्या-लीला-आदिभिः विभावैः समुत्पद्यते । तस्याः च परिषदि दोष-प्रख्यापन-गुण-उपघात-ईर्ष्या-चक्षुः-प्रदान-अधोमुख-भ्रुकुटी-क्रिया-अवज्ञान-कुत्सन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
PADACHEDA
अमर्षः नाम विद्या-ऐश्वर्य-शौर्य-बल-अधिकैः अधिक्षिप्तस्य अवमानितस्य वा समुत्पद्यते । तम् अभिनयेत् शिरः-कम्पन-प्रस्वेदन-अधोमुख-चिन्तन-ध्यान-अध्यवसाय-उपाय-सहाय-अन्वेषण-आदिभिः अनुभावैः ।
व्याधिः नाम वात-पित्त-कफ-सन्निपात-प्रभवः । तस्य ज्वर-आदयः विशेषाः । ज्वरः तु द्विविधः स शीतः स दाहः च । तत्र सशीतः नाम प्रवेपित-सर्व-अङ्ग-उप्कम्पन-निकुञ्चन-अग्नि-अभिलाष-रोमाञ्च-हनु-वलन-नासा-विकूनन-मुख-शोषण-परिदेवित-आदिभिः अनुभावैः अभिनेयः । स दाहः नाम विक्षिप्त-अङ्ग-कर-चरण-भूमि-अभिलाष-अनुलेपन-शीत-अभिलाष-परिदेवन-मुख-शोष-उत्क्रुष्ट-आदिभिः अनुभावैः । ये च अन्ये व्याधयः ते अपि खलु मुख-विकूणन-गात्र-स्तम्भ-स्रस्त-अक्षि-निःश्वसन-स्तनित-उत्क्रुष्ट-वेपना-आदिभिः अनुभावैः अभिनेयाः ।
TRANSLITERATION
vyādhiḥ nāma vāta-pitta-kapha-sannipāta-prabhavaḥ . tasya jvara-ādayaḥ viśeṣāḥ . jvaraḥ tu dvividhaḥ sa śītaḥ sa dāhaḥ ca . tatra saśītaḥ nāma pravepita-sarva-aṅga-upkampana-nikuñcana-agni-abhilāṣa-romāñca-hanu-valana-nāsā-vikūnana-mukha-śoṣaṇa-paridevita-ādibhiḥ anubhāvaiḥ abhineyaḥ . sa dāhaḥ nāma vikṣipta-aṅga-kara-caraṇa-bhūmi-abhilāṣa-anulepana-śīta-abhilāṣa-paridevana-mukha-śoṣa-utkruṣṭa-ādibhiḥ anubhāvaiḥ . ye ca anye vyādhayaḥ te api khalu mukha-vikūṇana-gātra-stambha-srasta-akṣi-niḥśvasana-stanita-utkruṣṭa-vepanā-ādibhiḥ anubhāvaiḥ abhineyāḥ .
[ शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
PADACHEDA
[ शङ्का-व्याधिः तथा अग्लानिः चिन्ता असूया भयम् तथा । विस्मयः च वितर्कः च स्तम्भः चपलता तथा ॥ रोमाञ्च-हर्षौ निद्रा च तथा उन्माद-मदौ अपि । स्वेदः च एव अवहित्थम् च प्रलयः वेपथुः तथा ॥ विषाद-श्रम-निर्वेदाः गर्व-आवेगौ धृतिः स्मृतिः । मतिः मोहः विबोधः च सुप्तम् औत्सुक्य-वर्जिते ॥ क्रोध-अमर्षौ च हासः च शोकः अपस्मारः एव च । दैन्यम् च मरणम् च एव रतिः उत्साह-संयुता ॥ त्रास-वैवर्ण्य-रुदितैः स्वरभेदः शमः अपि च । जड-ता च तथा षष् च चत्वारिंशत्-प्रकीर्तिताः ॥]
TRANSLITERATION
[ śaṅkā-vyādhiḥ tathā aglāniḥ cintā asūyā bhayam tathā . vismayaḥ ca vitarkaḥ ca stambhaḥ capalatā tathā .. romāñca-harṣau nidrā ca tathā unmāda-madau api . svedaḥ ca eva avahittham ca pralayaḥ vepathuḥ tathā .. viṣāda-śrama-nirvedāḥ garva-āvegau dhṛtiḥ smṛtiḥ . matiḥ mohaḥ vibodhaḥ ca suptam autsukya-varjite .. krodha-amarṣau ca hāsaḥ ca śokaḥ apasmāraḥ eva ca . dainyam ca maraṇam ca eva ratiḥ utsāha-saṃyutā .. trāsa-vaivarṇya-ruditaiḥ svarabhedaḥ śamaḥ api ca . jaḍa-tā ca tathā ṣaṣ ca catvāriṃśat-prakīrtitāḥ ..]
[ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । सञ्चारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥]
PADACHEDA
[ बहूनाम् समवेतानाम् रूपम् यस्य भवेत् बहु । स मन्तव्यः रसः स्थायी शेषाः सञ्चारिणः मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनर् स्थायिनम् रसम् । ते तु सञ्चारिणः ज्ञेयाः ते हि स्थायि-त्वम् आगताः ॥ विभाव-अनुभाव-युतः हि अङ्ग-वस्तु-समाश्रयः । सञ्चारिभिः तु संयुक्तः स्थायी एव तु रसः भवेत् ॥ स्थायी सत्त्व-अतिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चारी आकार-मात्रेण स्थायी यस्मात् अवस्थितः ॥ ये तु एते सात्त्विकाः भावाः नाना अभिनय-योजिताः । रसेषु एतेषु सर्वेषु ते ज्ञेयाः नाट्य-कोविदैः ॥ न हि एक-रस-जम् काव्यम् न एक-भाव-एक-वृत्तिकम् । विमर्दे रागम् आयाति प्रयुक्तम् हि प्रयत्नतः ॥ भावाः वा अपि रसाः वा अपि प्रवृत्तिः वृत्तिः एव वा । बीभत्स-अद्भुत-शान्तानाम् त्रैविध्यम् न अत्र कथ्यते ॥ षण्णाम् रसानाम् त्रैविध्यम् नाना भाव-अरस-अन्वितम् । सत्त्व-प्रयोजितः हि अर्थः प्रयोगः अत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रम् हि दुर्लभम् ॥]
TRANSLITERATION
[ bahūnām samavetānām rūpam yasya bhavet bahu . sa mantavyaḥ rasaḥ sthāyī śeṣāḥ sañcāriṇaḥ matāḥ .. dīpayantaḥ pravartante ye punar sthāyinam rasam . te tu sañcāriṇaḥ jñeyāḥ te hi sthāyi-tvam āgatāḥ .. vibhāva-anubhāva-yutaḥ hi aṅga-vastu-samāśrayaḥ . sañcāribhiḥ tu saṃyuktaḥ sthāyī eva tu rasaḥ bhavet .. sthāyī sattva-atirekeṇa prayoktavyaḥ prayoktṛbhiḥ . sañcārī ākāra-mātreṇa sthāyī yasmāt avasthitaḥ .. ye tu ete sāttvikāḥ bhāvāḥ nānā abhinaya-yojitāḥ . raseṣu eteṣu sarveṣu te jñeyāḥ nāṭya-kovidaiḥ .. na hi eka-rasa-jam kāvyam na eka-bhāva-eka-vṛttikam . vimarde rāgam āyāti prayuktam hi prayatnataḥ .. bhāvāḥ vā api rasāḥ vā api pravṛttiḥ vṛttiḥ eva vā . bībhatsa-adbhuta-śāntānām traividhyam na atra kathyate .. ṣaṇṇām rasānām traividhyam nānā bhāva-arasa-anvitam . sattva-prayojitaḥ hi arthaḥ prayogaḥ atra virājate .. viditvā hi virājante loke citram hi durlabham ..]
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.