| |
|

This overlay will guide you through the buttons:

॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ सप्तमोऽध्यायः ।
अथ सप्तमः अध्यायः ।
atha saptamaḥ adhyāyaḥ .
भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते - वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् ।
भावान् इदानीम् व्याख्यास्यामः । अत्र आह भावाः इति कस्मात् । किम् भवन्ति इति भावाः किम् वा भावयन्ति इति भावाः । उच्यते वाच्-अङ्ग-सत्त्व-उपेतान् काव्य-अर्थान् भावयन्ति इति भावाः इति । इति करणे धातुः तथा च भावितम् वासितम् कृतम् इति अनर्थान्तरम् । लोके अपि च प्रसिद्धम् । अहो हि अनेन गन्धेन रसेन वा सर्वम् एव भावितम् इति । तत् च व्याप्ति-अर्थम् ।
bhāvān idānīm vyākhyāsyāmaḥ . atra āha bhāvāḥ iti kasmāt . kim bhavanti iti bhāvāḥ kim vā bhāvayanti iti bhāvāḥ . ucyate vāc-aṅga-sattva-upetān kāvya-arthān bhāvayanti iti bhāvāḥ iti . iti karaṇe dhātuḥ tathā ca bhāvitam vāsitam kṛtam iti anarthāntaram . loke api ca prasiddham . aho hi anena gandhena rasena vā sarvam eva bhāvitam iti . tat ca vyāpti-artham .
विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति सन्ज्ञितः ॥ १॥
विभावेन आहृतः यः अर्थः हि अनुभावैः तु गम्यते । वाच्-अङ्ग-सत्त्व-अभिनयैः स भावः इति सन्ज्ञितः ॥ १॥
vibhāvena āhṛtaḥ yaḥ arthaḥ hi anubhāvaiḥ tu gamyate . vāc-aṅga-sattva-abhinayaiḥ sa bhāvaḥ iti sanjñitaḥ .. 1..
वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ २॥
वाच्-अङ्ग-मुख-रागेण सत्त्वेन अभिनयेन च । कवेः अन्तर्गतम् भावम् भावयन् भावः उच्यते ॥ २॥
vāc-aṅga-mukha-rāgeṇa sattvena abhinayena ca . kaveḥ antargatam bhāvam bhāvayan bhāvaḥ ucyate .. 2..
नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३॥
नाना अभिनय-सम्बद्धान् भावयन्ति रसान् इमान् । यस्मात् तस्मात् अमी भावाः विज्ञेयाः नाट्य-योक्तृभिः ॥ ३॥
nānā abhinaya-sambaddhān bhāvayanti rasān imān . yasmāt tasmāt amī bhāvāḥ vijñeyāḥ nāṭya-yoktṛbhiḥ .. 3..
अथ विभाव इति कस्मात् । उच्यते-विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञा- तमित्यनर्थान्तरम् ।
अथ विभावः इति कस्मात् । उच्यते विभवः विज्ञान-अर्थः । विभावः कारणम् निमित्तम् हेतुः इति पर्यायाः । विभाव्यते अनेन वाच्-अङ्ग-सत्त्व-अभिनयाः इति अतस् विभावः । यथा विभावितम् विज्ञातम् इति अनर्थान्तरम् ।
atha vibhāvaḥ iti kasmāt . ucyate vibhavaḥ vijñāna-arthaḥ . vibhāvaḥ kāraṇam nimittam hetuḥ iti paryāyāḥ . vibhāvyate anena vāc-aṅga-sattva-abhinayāḥ iti atas vibhāvaḥ . yathā vibhāvitam vijñātam iti anarthāntaram .
बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति सन्ज्ञितः ॥ ४॥
बहवः अर्थाः विभाव्यन्ते वाच्-अङ्ग-अभिनय-आश्रयाः । अनेन यस्मात् तेन अयम् विभावः इति सन्ज्ञितः ॥ ४॥
bahavaḥ arthāḥ vibhāvyante vāc-aṅga-abhinaya-āśrayāḥ . anena yasmāt tena ayam vibhāvaḥ iti sanjñitaḥ .. 4..
अथानुभाव इति कस्मात् । उच्यते- अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति ।
अथ अनुभावः इति कस्मात् । उच्यते अनुभाव्यते अनेन वाच्-अङ्ग-सत्त्व-कृतः अभिनयः इति ।
atha anubhāvaḥ iti kasmāt . ucyate anubhāvyate anena vāc-aṅga-sattva-kṛtaḥ abhinayaḥ iti .
वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ ५ ॥
वाच्-अङ्ग-अभिनयेन इह यतस् तु अर्थः अनुभाव्यते । शाखा-अङ्ग-उपाङ्ग-संयुक्तः तु अनुभावः ततस् स्मृतः ॥ ५ ॥
vāc-aṅga-abhinayena iha yatas tu arthaḥ anubhāvyate . śākhā-aṅga-upāṅga-saṃyuktaḥ tu anubhāvaḥ tatas smṛtaḥ .. 5 ..
एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् ।
एवम् ते विभाव-अनुभाव-संयुक्ताः भावाः इति व्याख्याताः । अतस् हि एषाम् भावानाम् सिद्धिः भवति । तस्मात् एषाम् भावानाम् विभाव-अनुभाव-संयुक्तानाम् लक्षण-निदर्शनानि अभिव्याख्यास्यामः । तत्र विभाव-अनुभावौ लोक-प्रसिद्धौ । लोक-स्वभाव-अनुगत-त्वात् च तयोः लक्षणम् ना उच्यते अतिप्रसङ्ग-निवृति-अर्थम् ।
evam te vibhāva-anubhāva-saṃyuktāḥ bhāvāḥ iti vyākhyātāḥ . atas hi eṣām bhāvānām siddhiḥ bhavati . tasmāt eṣām bhāvānām vibhāva-anubhāva-saṃyuktānām lakṣaṇa-nidarśanāni abhivyākhyāsyāmaḥ . tatra vibhāva-anubhāvau loka-prasiddhau . loka-svabhāva-anugata-tvāt ca tayoḥ lakṣaṇam nā ucyate atiprasaṅga-nivṛti-artham .
लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ ६॥
लोक-स्वभाव-संसिद्धाः लोकयात्रा-अनुगामिनः । अनुभावाः विभावाः च ज्ञेयाः तु अभिनये बुधैः ॥ ६॥
loka-svabhāva-saṃsiddhāḥ lokayātrā-anugāminaḥ . anubhāvāḥ vibhāvāḥ ca jñeyāḥ tu abhinaye budhaiḥ .. 6..
तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते ।
तत्र अष्टौ भावाः स्थायिनः । त्रयस्त्रिंशत् व्यभिचारिणः । अष्टौ सात्विकाः इति भेदाः । एवम् एते काव्य-रस-अभिव्यक्ति-हेतवः एकोनपञ्चाशत्-भावाः प्रत्यवगन्तव्याः । एभ्यः च सामान्य-गुण-योगेन रसाः निष्पद्यन्ते ।
tatra aṣṭau bhāvāḥ sthāyinaḥ . trayastriṃśat vyabhicāriṇaḥ . aṣṭau sātvikāḥ iti bhedāḥ . evam ete kāvya-rasa-abhivyakti-hetavaḥ ekonapañcāśat-bhāvāḥ pratyavagantavyāḥ . ebhyaḥ ca sāmānya-guṇa-yogena rasāḥ niṣpadyante .
योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥ ७॥
यः अर्थः हृदय-संवादी तस्य भावः रस-उद्भवः । शरीरम् व्याप्यते तेन शुष्कम् काष्ठम् इव अग्निना ॥ ७॥
yaḥ arthaḥ hṛdaya-saṃvādī tasya bhāvaḥ rasa-udbhavaḥ . śarīram vyāpyate tena śuṣkam kāṣṭham iva agninā .. 7..
काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते- यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राज- त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह- को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः -
काव्य-अर्थ-संश्रितैः विभाव-अनुभाव-व्यञ्जितैः एकोनपञ्चाशत्-भावैः सामान्य-गुण-योगेन अभिनिष्पद्यन्ते रसाः तत् कथम् स्थायिनः एव भावाः रस-त्वम् आप्नुअवन्ति । उच्यते यथा हि समान-लक्षणाः तुल्य-पाणि-पाद-उदर-शरीराः समान-अङ्ग-प्रत्यङ्गाः अपि पुरुषाः कुल-शील-विद्या-कर्म-शिल्प-विचक्षण-त्वात् राज- त्वम् आप्नुवन्ति तत्र एव च अन्ये अल्पबुद्धयः तेषाम् एव अनुचराः भवन्ति तथा विभाव-अनुभाव-व्यभिचारिणः स्थायि-भाव-अन् उपाश्रिताः भवन्ति । बहु-आश्रय-त्व-अस्वामि-भूताः स्थायिनः भावाः । तद्वत् स्थानीय-पुरुष-गुण-भूताः अन्ये भावाः तान् गुणतया श्रयन्ते । स्थायिभावाः रस-त्वम् आप्नुवन्ति । परिजन-भूताः व्यभिचारिणः भावाः । अत्र आह कः दृष्टान्तः इति । यथा नरेन्द्रः बहु-जन-परिवारः अपि सः एव नाम लभते न अन्यः सु महान् अपि पुरुषः तथा विभाव-अनुभाव-व्यभिचारि-परिवृतः स्थायी भावः रस-नाम लभते । भवति च अत्र श्लोकः
kāvya-artha-saṃśritaiḥ vibhāva-anubhāva-vyañjitaiḥ ekonapañcāśat-bhāvaiḥ sāmānya-guṇa-yogena abhiniṣpadyante rasāḥ tat katham sthāyinaḥ eva bhāvāḥ rasa-tvam āpnuavanti . ucyate yathā hi samāna-lakṣaṇāḥ tulya-pāṇi-pāda-udara-śarīrāḥ samāna-aṅga-pratyaṅgāḥ api puruṣāḥ kula-śīla-vidyā-karma-śilpa-vicakṣaṇa-tvāt rāja- tvam āpnuvanti tatra eva ca anye alpabuddhayaḥ teṣām eva anucarāḥ bhavanti tathā vibhāva-anubhāva-vyabhicāriṇaḥ sthāyi-bhāva-an upāśritāḥ bhavanti . bahu-āśraya-tva-asvāmi-bhūtāḥ sthāyinaḥ bhāvāḥ . tadvat sthānīya-puruṣa-guṇa-bhūtāḥ anye bhāvāḥ tān guṇatayā śrayante . sthāyibhāvāḥ rasa-tvam āpnuvanti . parijana-bhūtāḥ vyabhicāriṇaḥ bhāvāḥ . atra āha kaḥ dṛṣṭāntaḥ iti . yathā narendraḥ bahu-jana-parivāraḥ api saḥ eva nāma labhate na anyaḥ su mahān api puruṣaḥ tathā vibhāva-anubhāva-vyabhicāri-parivṛtaḥ sthāyī bhāvaḥ rasa-nāma labhate . bhavati ca atra ślokaḥ
यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥ ८॥
यथा नराणाम् नृपतिः शिष्याणाम् च यथा गुरुः । एवम् हि सर्व-भावानाम् भावः स्थायि महान् इह ॥ ८॥
yathā narāṇām nṛpatiḥ śiṣyāṇām ca yathā guruḥ . evam hi sarva-bhāvānām bhāvaḥ sthāyi mahān iha .. 8..
लक्षणं खलु पूर्वमभिहितमेषां रससन्ज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः - रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना- प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथन- भ्रूक्षेपकटाक्षादिभिरनुभावैः ।
लक्षणम् खलु पूर्वम् अभिहितम् एषाम् रस-सन्ज्ञकानाम् । इदानीम् भाव-सामान्य-लक्षणम् अभिधास्यामः । तत्र स्थायिभावान् वक्ष्यामः रतिः नाम प्रमोद-आत्मिका प्रातिकूल्य-आदिभिः विभावैः समुत्पद्यते । ताम् अभिनयेत् स्मित-वदन-मधुर-कथन-भ्रू-क्षेप-कटाक्ष-आदिभिः अनुभावैः ।
lakṣaṇam khalu pūrvam abhihitam eṣām rasa-sanjñakānām . idānīm bhāva-sāmānya-lakṣaṇam abhidhāsyāmaḥ . tatra sthāyibhāvān vakṣyāmaḥ ratiḥ nāma pramoda-ātmikā prātikūlya-ādibhiḥ vibhāvaiḥ samutpadyate . tām abhinayet smita-vadana-madhura-kathana-bhrū-kṣepa-kaṭākṣa-ādibhiḥ anubhāvaiḥ .
इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ ९॥
इष्ट-अर्थ-विषय-प्राप्त्या रतिः इति उपजायते । सौम्य-त्वात् अभिनेया सा वाच्-माधुर्य-अङ्ग-चेष्टितैः ॥ ९॥
iṣṭa-artha-viṣaya-prāptyā ratiḥ iti upajāyate . saumya-tvāt abhineyā sā vāc-mādhurya-aṅga-ceṣṭitaiḥ .. 9..
हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः ।
हासः नाम पर-चेष्टा-अनुकरण-कुहक-असंबद्ध-प्रलाप-पौरोभाग्य-मौर्ख्य-आदिभिः विभावैः समुत्पद्यते । तम् अभिनयेत् पूर्व-उक्तैः हसित-आदिभिः अनुभावैः ।
hāsaḥ nāma para-ceṣṭā-anukaraṇa-kuhaka-asaṃbaddha-pralāpa-paurobhāgya-maurkhya-ādibhiḥ vibhāvaiḥ samutpadyate . tam abhinayet pūrva-uktaiḥ hasita-ādibhiḥ anubhāvaiḥ .
परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ १०॥
पर-चेष्टा-अनुकरणात् हासः समुपजायते । स्मित-हास-अति हसितैः अभिनेयः स पण्डितैः ॥ १०॥
para-ceṣṭā-anukaraṇāt hāsaḥ samupajāyate . smita-hāsa-ati hasitaiḥ abhineyaḥ sa paṇḍitaiḥ .. 10..
शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते। तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि- पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा- वैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधम् - आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति ।
शोकः नाम समुत्पद्यते। तस्य अस्र-पात-परिदेवित-विलपित-वैवर्ण्य-स्वरभेद-स्रस्त-गात्र-ता-भूमि-पतन-स स्वन-रुदित-आक्रन्दित-दीर्घ-निःश्वसित-जड-ता-उन्माद-मोह-मरण-आदिभिः अनुभावैः अभिनयः । रुदितम् अत्र त्रिविधम् आनन्द-जम् आर्ति-जम् ईर्ष्या-समुद्भवम् च इति ।
śokaḥ nāma samutpadyate. tasya asra-pāta-paridevita-vilapita-vaivarṇya-svarabheda-srasta-gātra-tā-bhūmi-patana-sa svana-rudita-ākrandita-dīrgha-niḥśvasita-jaḍa-tā-unmāda-moha-maraṇa-ādibhiḥ anubhāvaiḥ abhinayaḥ . ruditam atra trividham ānanda-jam ārti-jam īrṣyā-samudbhavam ca iti .
भवन्ति चात्रार्याः - [आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥]
भवन्ति च अत्र आर्याः [आनन्दे अपि आर्ति-कृतम् त्रिविधम् रुदितम् सदा बुधैः ज्ञेयम् । तस्य तु अभिनय-योगान् विभाव-गतितः प्रवक्ष्यामि ॥]
bhavanti ca atra āryāḥ [ānande api ārti-kṛtam trividham ruditam sadā budhaiḥ jñeyam . tasya tu abhinaya-yogān vibhāva-gatitaḥ pravakṣyāmi ..]
हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥ ११॥
हर्ष-उत्फुल्ल-कपोलम् स अनुस्मरणात् अपाङ्ग-विसृत-अस्रम् । रोमाञ्च-गात्रम् अनिभृतम् आनन्द-समुद्भवम् भवति ॥ ११॥
harṣa-utphulla-kapolam sa anusmaraṇāt apāṅga-visṛta-asram . romāñca-gātram anibhṛtam ānanda-samudbhavam bhavati .. 11..
पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ १२॥
पर्याप्त-विमुक्त-अस्रम् स स्वनम् अस्वस्थ-गात्र-गति-चेष्टम् । भूमि-निपात-निवर्तित-विलपितम् इति आर्ति-जम् भवति ॥ १२॥
paryāpta-vimukta-asram sa svanam asvastha-gātra-gati-ceṣṭam . bhūmi-nipāta-nivartita-vilapitam iti ārti-jam bhavati .. 12..
प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ १३॥
प्रस्फुरित-ओष्ठ-कपोलम् स शिरः-कम्पम् तथा स निःश्वासम् । भ्रुकुटी-कट-अक्ष-कुटिलम् स्त्रीणाम् ईर्ष्या-कृतम् भवति ॥ १३॥
prasphurita-oṣṭha-kapolam sa śiraḥ-kampam tathā sa niḥśvāsam . bhrukuṭī-kaṭa-akṣa-kuṭilam strīṇām īrṣyā-kṛtam bhavati .. 13..
स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ १४॥
स्त्री-नीच-प्रकृतिषु एष शोकः व्यसन-सम्भवः । धैर्येण उत्तम-मध्यानाम् नीचानाम् रुदितेन च ॥ १४॥
strī-nīca-prakṛtiṣu eṣa śokaḥ vyasana-sambhavaḥ . dhairyeṇa uttama-madhyānām nīcānām ruditena ca .. 14..
क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसन्दष्ठोष्ठपुट- गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः॥ १५॥
क्रोधः नाम आधर्षण-आक्रुष्ट-कलह-विवाद-प्रतिकूल-आदिभिः विभावैः समुत्पद्यते । अस्य विकृष्ट-नासा-पुट-उद्वृत्त-नयन-सन्दष्ठ-उष्ठ-पुट-गण्ड-स्फुरण-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । रिपु-जः गुरु-जः च एव प्रणयि-प्रभवः तथा । भृत्यजः कृतकः च इति क्रोधः पञ्चविधः स्मृतः॥ १५॥
krodhaḥ nāma ādharṣaṇa-ākruṣṭa-kalaha-vivāda-pratikūla-ādibhiḥ vibhāvaiḥ samutpadyate . asya vikṛṣṭa-nāsā-puṭa-udvṛtta-nayana-sandaṣṭha-uṣṭha-puṭa-gaṇḍa-sphuraṇa-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . ripu-jaḥ guru-jaḥ ca eva praṇayi-prabhavaḥ tathā . bhṛtyajaḥ kṛtakaḥ ca iti krodhaḥ pañcavidhaḥ smṛtaḥ.. 15..
भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ १६॥
भृकुटी-कुटिल-उत्कट-मुखः सन् दष्ठ-उष्ठः स्पृशन् करेण करम् । क्रुद्धः स्व-भुज-अप्रेक्षी शत्रौ निर्यन्त्रणम् रुष्येत् ॥ १६॥
bhṛkuṭī-kuṭila-utkaṭa-mukhaḥ san daṣṭha-uṣṭhaḥ spṛśan kareṇa karam . kruddhaḥ sva-bhuja-aprekṣī śatrau niryantraṇam ruṣyet .. 16..
किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ १७॥
किञ्चिद् अवाङ्ग्-मुख-दृष्टिः स अस्र-स्वेद-अपमार्जन-परः च । अव्यक्त-उल्बण-चेष्टः गुरौ विनय-यन्त्रितः रुष्येत् ॥ १७॥
kiñcid avāṅg-mukha-dṛṣṭiḥ sa asra-sveda-apamārjana-paraḥ ca . avyakta-ulbaṇa-ceṣṭaḥ gurau vinaya-yantritaḥ ruṣyet .. 17..
अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ १८॥
अल्प-प्रतर-विचारः विकिरन् अश्रूणि अपाङ्ग-विक्षेपैः । स भ्रुकुटि-स्फुरित-उष्ठः प्रणय-उपगताम् प्रिया रुष्येत् ॥ १८॥
alpa-pratara-vicāraḥ vikiran aśrūṇi apāṅga-vikṣepaiḥ . sa bhrukuṭi-sphurita-uṣṭhaḥ praṇaya-upagatām priyā ruṣyet .. 18..
अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ १९॥
अथ परिजने तु रोषः तर्जन-निर्भर्त्सन-अक्षि-विस्तारैः । विप्रेक्षणैः च विविधैः अभिनेयः क्रूर-ता-रहितः ॥ १९॥
atha parijane tu roṣaḥ tarjana-nirbhartsana-akṣi-vistāraiḥ . viprekṣaṇaiḥ ca vividhaiḥ abhineyaḥ krūra-tā-rahitaḥ .. 19..
कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ २०॥
कारणम् अवेक्षमाणः प्रायेण आयास-लिङ्ग-संयुक्तः । वीर-रस-अन्तर-चारी कार्यः कृतकः भवति कोपः ॥ २०॥
kāraṇam avekṣamāṇaḥ prāyeṇa āyāsa-liṅga-saṃyuktaḥ . vīra-rasa-antara-cārī kāryaḥ kṛtakaḥ bhavati kopaḥ .. 20..
उत्साहो नाम उत्तमप्रकृतिः। स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै- रुत्पद्यते। तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
उत्साहः नाम उत्तम-प्रकृतिः। स च अविषाद-शक्ति-धैर्य-शौर्य-आदिभिः विभावैः उत्पद्यते। तस्य धैर्य-त्याग-वैशारद्य-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
utsāhaḥ nāma uttama-prakṛtiḥ. sa ca aviṣāda-śakti-dhairya-śaurya-ādibhiḥ vibhāvaiḥ utpadyate. tasya dhairya-tyāga-vaiśāradya-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ २१॥
असम्मोह-आदिभिः व्यक्तः व्यवसाय-नय-आत्मकः । उत्साहः तु अभिनेयः स्यात् अप्रमाद-उत्थित-आदिभिः ॥ २१॥
asammoha-ādibhiḥ vyaktaḥ vyavasāya-naya-ātmakaḥ . utsāhaḥ tu abhineyaḥ syāt apramāda-utthita-ādibhiḥ .. 21..
भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन - कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन- स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
भयम् नाम स्त्री-नीच-प्रकृतिकम् । गुरु-राज-अपराध-श्वापद-शून्य-आगार-अटवी-पर्वत-गहन-गज-अहि-दर्शन-निर्भर्त्सन-कान्तार-दुर्दिन-निशा-अन्धकर-उलूक-नक्तञ्चर-आराव-श्रवण-आदिभिः विभावैः समुत्पद्यते । तस्य प्रकम्पित-कर-चरण-हृदय-कम्पन-स्तम्भ-मुख-शोष-जिह्वा-परिलेहन-स्वेद-वेपथु-त्रास-स परित्राण-अन्वेषण-धावन-उत्कृष्ट-आदिभिः अनुभवैः अभिनयः प्रयोक्तव्यः ।
bhayam nāma strī-nīca-prakṛtikam . guru-rāja-aparādha-śvāpada-śūnya-āgāra-aṭavī-parvata-gahana-gaja-ahi-darśana-nirbhartsana-kāntāra-durdina-niśā-andhakara-ulūka-naktañcara-ārāva-śravaṇa-ādibhiḥ vibhāvaiḥ samutpadyate . tasya prakampita-kara-caraṇa-hṛdaya-kampana-stambha-mukha-śoṣa-jihvā-parilehana-sveda-vepathu-trāsa-sa paritrāṇa-anveṣaṇa-dhāvana-utkṛṣṭa-ādibhiḥ anubhavaiḥ abhinayaḥ prayoktavyaḥ .
गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥ २२॥
गुरु-राज-अपराधेन रौद्राणाम् च अपि दर्शनात् । श्रवणात् अपि घोराणाम् भयम् मोहेन जायते ॥ २२॥
guru-rāja-aparādhena raudrāṇām ca api darśanāt . śravaṇāt api ghorāṇām bhayam mohena jāyate .. 22..
गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ २३॥
गात्र-कम्पन-वित्रासैः वक्त्र-शोषण-सम्भ्रमैः विस्फारित-ईक्षणैः कार्यम् अभिनेय-क्रिया-गुणैः ॥ २३॥
gātra-kampana-vitrāsaiḥ vaktra-śoṣaṇa-sambhramaiḥ visphārita-īkṣaṇaiḥ kāryam abhineya-kriyā-guṇaiḥ .. 23..
सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ २४॥
सत्त्व-वित्रासन-उद्भूतम् भयम् उत्पद्यते नृणाम् । स्रस्त-अङ्ग-अक्षि-निमेषैः तत् अभिनेयम् तु नर्तकैः ॥ २४॥
sattva-vitrāsana-udbhūtam bhayam utpadyate nṛṇām . srasta-aṅga-akṣi-nimeṣaiḥ tat abhineyam tu nartakaiḥ .. 24..
करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसन्त्रासकृतैरभिनयोऽस्य ॥ २५॥
कर-चरण-हृदय-कम्पैः मुख-शोषण-वदन-लेहन-स्तम्भैः । सम्भ्रान्त-वदन-वेपथु-सन्त्रास-कृतैः अभिनयः अस्य ॥ २५॥
kara-caraṇa-hṛdaya-kampaiḥ mukha-śoṣaṇa-vadana-lehana-stambhaiḥ . sambhrānta-vadana-vepathu-santrāsa-kṛtaiḥ abhinayaḥ asya .. 25..
जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि- भिरनुभावैरभिनयः प्रयोक्तव्यः ।
जुगुप्सा नाम स्त्री-नीच-प्रकृतिका । सा च अहृद्य-दर्शन-श्रवण-आदिभिः विभावैः समुत्पद्यते । तस्याः सर्व-अङ्ग-सङ्कोच-निष्ठीवन-मुख-विकूणन-हृल्लेखा-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
jugupsā nāma strī-nīca-prakṛtikā . sā ca ahṛdya-darśana-śravaṇa-ādibhiḥ vibhāvaiḥ samutpadyate . tasyāḥ sarva-aṅga-saṅkoca-niṣṭhīvana-mukha-vikūṇana-hṛllekhā-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ २६॥
नासा-प्रच्छादनेन इह गात्र-सङ्कोचनेन च । उद्वेजनैः स हृल्लेखैः जुगुप्साम् अभिनिर्दिशेत् ॥ २६॥
nāsā-pracchādanena iha gātra-saṅkocanena ca . udvejanaiḥ sa hṛllekhaiḥ jugupsām abhinirdiśet .. 26..
मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि- रनुभावैरभिनयः प्रयोक्तव्यः ।
माया-इन्द्रजाल-मानुष-कर्म-अतिशय-चित्र-पुस्त-शिल्प-विद्या-अतिशय-आदिभिः विभावैः समुत्पद्यते । तस्य नयन-विस्तार-अ निमेष-प्रेक्षित-भ्रू-क्षेप-रोमहर्षण-शिरः-कम्प-साधुवाद-आदिभिः रनुभावैः अभिनयः प्रयोक्तव्यः ।
māyā-indrajāla-mānuṣa-karma-atiśaya-citra-pusta-śilpa-vidyā-atiśaya-ādibhiḥ vibhāvaiḥ samutpadyate . tasya nayana-vistāra-a nimeṣa-prekṣita-bhrū-kṣepa-romaharṣaṇa-śiraḥ-kampa-sādhuvāda-ādibhiḥ ranubhāvaiḥ abhinayaḥ prayoktavyaḥ .
कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ २७॥
। सिद्धिस्थाने तु असौ साध्यः प्रहर्ष-पुलक-आदिभिः ॥ २७॥
. siddhisthāne tu asau sādhyaḥ praharṣa-pulaka-ādibhiḥ .. 27..
एवमेते स्थायिनो भावा रससन्ज्ञाः प्रत्यवगन्तव्याः ।
एवम् एते स्थायिनः भावाः रस-सन्ज्ञाः प्रत्यवगन्तव्याः ।
evam ete sthāyinaḥ bhāvāḥ rasa-sanjñāḥ pratyavagantavyāḥ .
व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह - व्यभिचारिण इति कस्मात् । उच्यते - वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह - कथं नयन्तीति । उच्यते - लोकसिद्धान्त एषः - यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्र- यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः ।
व्यभिचारिणः इदानीम् व्याख्यास्यामः । अत्र आह व्यभिचारिणः इति कस्मात् । उच्यते वि अभि इति एतौ उपसर्गौ । चरः इति गति-अर्थः धातुः । विविधम् आभिमुख्येन रसेषु चरन्ति इति व्यभिचारिणः । वाच्-अङ्ग-सत्त्व-उपेताः प्रयोगे रसान् नयन्ति इति व्यभिचारिणः । अत्र आह कथम् नयन्ति इति । उच्यते लोक-सिद्धान्तः एषः यथा सूर्यः इदम् दिनम् नक्षत्रम् वा नयति इति । न च तेन बाहुभ्याम् स्कन्धेन वा नीयते । किम् तु लोक-प्रसिद्धम् एतत् । यथा इदम् सूर्यः नक्षत्रम् दिन वा नयति इति । एवम् एते व्यभिचारिणः इति अवगन्तव्याः । तान् इह सङ्ग्रह-अभिहितान् त्रयस्त्रिंशत्-व्यभिचारिणः भावान् वर्णयिष्यामः ।
vyabhicāriṇaḥ idānīm vyākhyāsyāmaḥ . atra āha vyabhicāriṇaḥ iti kasmāt . ucyate vi abhi iti etau upasargau . caraḥ iti gati-arthaḥ dhātuḥ . vividham ābhimukhyena raseṣu caranti iti vyabhicāriṇaḥ . vāc-aṅga-sattva-upetāḥ prayoge rasān nayanti iti vyabhicāriṇaḥ . atra āha katham nayanti iti . ucyate loka-siddhāntaḥ eṣaḥ yathā sūryaḥ idam dinam nakṣatram vā nayati iti . na ca tena bāhubhyām skandhena vā nīyate . kim tu loka-prasiddham etat . yathā idam sūryaḥ nakṣatram dina vā nayati iti . evam ete vyabhicāriṇaḥ iti avagantavyāḥ . tān iha saṅgraha-abhihitān trayastriṃśat-vyabhicāriṇaḥ bhāvān varṇayiṣyāmaḥ .
दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन- वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् ।
दारिद्र्य-व्याधि-अवमान-अधिक्षेप-आक्रुष्ट-क्रोध-ताडन-इष्ट-जन-वियोग-तत्त्व-ज्ञान-आदिभिः विभावैः समुत्पद्यते स्त्री-नीच-कु-सत्त्वानाम् । रुदित-निःश्वसित-उच्छ्वसित-सम्प्रधारण-आदिभिः अनुभावैः तम् अभिनयेत् ।
dāridrya-vyādhi-avamāna-adhikṣepa-ākruṣṭa-krodha-tāḍana-iṣṭa-jana-viyoga-tattva-jñāna-ādibhiḥ vibhāvaiḥ samutpadyate strī-nīca-ku-sattvānām . rudita-niḥśvasita-ucchvasita-sampradhāraṇa-ādibhiḥ anubhāvaiḥ tam abhinayet .
दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ २८॥
दारिद्र्य-इष्ट-वियोग-आद्यैः निर्वेदः नाम जायते । सम्प्रधारण-निःश्वासैः तस्य तु अभिनयः भवेत् ॥ २८॥
dāridrya-iṣṭa-viyoga-ādyaiḥ nirvedaḥ nāma jāyate . sampradhāraṇa-niḥśvāsaiḥ tasya tu abhinayaḥ bhavet .. 28..
अत्रानुवंश्ये आर्ये भवतः - इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् ।
अत्र अनुवंश्ये आर्ये भवतः इष्ट-जन-विप्रयोगात् दारिद्र्यात् व्याधितः तथा दुःखात् ।
atra anuvaṃśye ārye bhavataḥ iṣṭa-jana-viprayogāt dāridryāt vyādhitaḥ tathā duḥkhāt .
इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ २९॥
इष्ट-जन-विप्रयोगात् दारिद्र्यात् व्याधितः तथा दुःखात् । ऋद्धिम् परस्य दृष्ट्वा निर्वेदः नाम सम्भवति ॥ २९॥
iṣṭa-jana-viprayogāt dāridryāt vyādhitaḥ tathā duḥkhāt . ṛddhim parasya dṛṣṭvā nirvedaḥ nāma sambhavati .. 29..
बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ ३०॥
बाष्प-परिप्लुत-नयनः पुनर् च निःश्वास-न दीन-मुख-नेत्रः । योगी इव ध्यान-परः भवति हि निर्वेदवान् पुरुषः ॥ ३०॥
bāṣpa-paripluta-nayanaḥ punar ca niḥśvāsa-na dīna-mukha-netraḥ . yogī iva dhyāna-paraḥ bhavati hi nirvedavān puruṣaḥ .. 30..
ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन- सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना- नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः
ग्लानिः नाम वान्त-विरिक्त-व्याधि-तपः-नियम-उपवास-मनः-ताप-अतिशय-मदन-सेवन-अति व्यायाम-अध्व-गमन-क्षुध्-पिपासा-निद्रा-छेद-आदिभिः विभावैः समुत्पद्यते । तस्याः क्षाम-वाक्य-नयन-कपोल-उदर-मन्द-पद-उत्क्षेपण-वेपन-अनुत्साह-तनु-गात्र-वैवर्ण्य-स्वरभेदाभिः अनुभावैः अभिनयः प्रयोक्तव्यः
glāniḥ nāma vānta-virikta-vyādhi-tapaḥ-niyama-upavāsa-manaḥ-tāpa-atiśaya-madana-sevana-ati vyāyāma-adhva-gamana-kṣudh-pipāsā-nidrā-cheda-ādibhiḥ vibhāvaiḥ samutpadyate . tasyāḥ kṣāma-vākya-nayana-kapola-udara-manda-pada-utkṣepaṇa-vepana-anutsāha-tanu-gātra-vaivarṇya-svarabhedābhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ
वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ ३१॥
वान्त-विरिक्त-व्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन सा अभिनेया मन्द-भ्रमणेन कम्पेन ॥ ३१॥
vānta-virikta-vyādhiṣu tapasā jarasā ca jāyate glāniḥ . kārśyena sā abhineyā manda-bhramaṇena kampena .. 31..
गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥ ३२॥
गदितैः क्षाम-क्षामैः नेत्र-विकारैः च दीन-सञ्चारैः । श्लथ-भावेन अङ्गानाम् मुहुर् मुहुर् निर्दिशेत् ग्लानिम् ॥ ३२॥
gaditaiḥ kṣāma-kṣāmaiḥ netra-vikāraiḥ ca dīna-sañcāraiḥ . ślatha-bhāvena aṅgānām muhur muhur nirdiśet glānim .. 32..
शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहण- नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य- स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
शङ्का नाम सन्देह-आत्मिका स्त्री-नीच-प्रभवा । चौर्य-अभिग्रहण-नृप-अपराध-पाप-कर्म-करण-आदिभिः विभावैः समुत्पद्यते । तस्याः मुहुर् मुहुर् अवलोकन-अवकुण्ठन-मुख-शोषण-जिह्वा-लेहन-मुख-वैवर्ण्य-स्वरभेद-वेपथु-शुष्क-उष्ठ-कण्ठ-आयास-साधर्म्य-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
śaṅkā nāma sandeha-ātmikā strī-nīca-prabhavā . caurya-abhigrahaṇa-nṛpa-aparādha-pāpa-karma-karaṇa-ādibhiḥ vibhāvaiḥ samutpadyate . tasyāḥ muhur muhur avalokana-avakuṇṭhana-mukha-śoṣaṇa-jihvā-lehana-mukha-vaivarṇya-svarabheda-vepathu-śuṣka-uṣṭha-kaṇṭha-āyāsa-sādharmya-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥ ३३॥
चौर्य-आदि-जनिता शङ्का प्रायस् कार्या भयानके । ॥ ३३॥
caurya-ādi-janitā śaṅkā prāyas kāryā bhayānake . .. 33..
अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् ।
अत्र आकार-संवरणम् अपि केचिद् इच्छन्ति । तत् च कुशलैः उपाधिभिः इङ्गितैः च उपलक्ष्यम् ।
atra ākāra-saṃvaraṇam api kecid icchanti . tat ca kuśalaiḥ upādhibhiḥ iṅgitaiḥ ca upalakṣyam .
द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ ३४॥
द्विविधा शङ्का च पर-समुत्था च । या तत्र आत्म-समुत्था सा ज्ञेया दृष्टि-चेष्टाभिः ॥ ३४॥
dvividhā śaṅkā ca para-samutthā ca . yā tatra ātma-samutthā sā jñeyā dṛṣṭi-ceṣṭābhiḥ .. 34..
किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥३५॥
किञ्चिद् प्रवेपित-अङ्गः तु अधोमुखः वीक्षते च पार्श्वानि । गुरु-सज्जमान-जिह्वः श्याम-आस्यः शङ्कितः पुरुषः ॥३५॥
kiñcid pravepita-aṅgaḥ tu adhomukhaḥ vīkṣate ca pārśvāni . guru-sajjamāna-jihvaḥ śyāma-āsyaḥ śaṅkitaḥ puruṣaḥ ..35..
असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा- नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
असूया नाम नाना अपराध-द्वेष-पर-ऐश्वर्य-सौभाग्य-मेधा-विद्या-लीला-आदिभिः विभावैः समुत्पद्यते । तस्याः च परिषदि दोष-प्रख्यापन-गुण-उपघात-ईर्ष्या-चक्षुः-प्रदान-अधोमुख-भ्रुकुटी-क्रिया-अवज्ञान-कुत्सन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
asūyā nāma nānā aparādha-dveṣa-para-aiśvarya-saubhāgya-medhā-vidyā-līlā-ādibhiḥ vibhāvaiḥ samutpadyate . tasyāḥ ca pariṣadi doṣa-prakhyāpana-guṇa-upaghāta-īrṣyā-cakṣuḥ-pradāna-adhomukha-bhrukuṭī-kriyā-avajñāna-kutsana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ ३६॥
पर-सौभाग्य-ईश्वर-ता-मेधा-लीला-समुच्छ्रयान् दृष्ट्वा । उत्पद्यते हि असूया कृत-अपराधः भवेत् यः च ॥ ३६॥
para-saubhāgya-īśvara-tā-medhā-līlā-samucchrayān dṛṣṭvā . utpadyate hi asūyā kṛta-aparādhaḥ bhavet yaḥ ca .. 36..
भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ ३७॥
भ्रुकुटि-कुटिल-उत्कट-मुखैः स ईर्ष्या-क्रोध-परिवृत्त-नेत्रैः च । गुण-नाशन-विद्वेषैः तत्र अभिनयः प्रयोक्तव्यः ॥ ३७॥
bhrukuṭi-kuṭila-utkaṭa-mukhaiḥ sa īrṣyā-krodha-parivṛtta-netraiḥ ca . guṇa-nāśana-vidveṣaiḥ tatra abhinayaḥ prayoktavyaḥ .. 37..
मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति -
मदः नाम मद्य-उपयोगात् उत्पद्यते । स च त्रिविधः पञ्च-विभावः च । अत्र आर्याः भवन्ति
madaḥ nāma madya-upayogāt utpadyate . sa ca trividhaḥ pañca-vibhāvaḥ ca . atra āryāḥ bhavanti
ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ ३८॥
ज्ञेयः तु मदः त्रिविधः तरुणः मध्यः तथा अवकृष्टः च । करणम् पञ्चविधम् स्यात् तस्य अभिनयः प्रयोक्तव्यः ॥ ३८॥
jñeyaḥ tu madaḥ trividhaḥ taruṇaḥ madhyaḥ tathā avakṛṣṭaḥ ca . karaṇam pañcavidham syāt tasya abhinayaḥ prayoktavyaḥ .. 38..
कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ ३९॥
कश्चिद् मत्तः गायति रोदिति कश्चिद् तथा हसति कश्चिद् । परुष-वचन-अभिधायी कश्चिद् कश्चिद् तथा स्वपिति ॥ ३९॥
kaścid mattaḥ gāyati roditi kaścid tathā hasati kaścid . paruṣa-vacana-abhidhāyī kaścid kaścid tathā svapiti .. 39..
उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ ४०॥
उत्तम-सत्त्वः शेते हसति च गायति च मध्यम-प्रकृतिः । परुष-वचन-अभिधायी रोदति अपि च अधम-प्रकृतिः ॥ ४०॥
uttama-sattvaḥ śete hasati ca gāyati ca madhyama-prakṛtiḥ . paruṣa-vacana-abhidhāyī rodati api ca adhama-prakṛtiḥ .. 40..
स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥४१॥
स्मित-वचन-मधुर-रागः हृष्ट-तनुः किञ्चिद् आकुलित-वाक्यः । सुकुमार-आविद्ध-गतिः तरुण-मदः तु उत्तम-प्रकृतिः ॥४१॥
smita-vacana-madhura-rāgaḥ hṛṣṭa-tanuḥ kiñcid ākulita-vākyaḥ . sukumāra-āviddha-gatiḥ taruṇa-madaḥ tu uttama-prakṛtiḥ ..41..
स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ ४२॥
स्खलित-आघूर्णित-नयनः स्रस्त-व्याकुलित-बाहु-विक्षेपः । कुटिल-व्याविद्ध-गतिः मध्यम-दः मध्यम-प्रकृतिः ॥ ४२॥
skhalita-āghūrṇita-nayanaḥ srasta-vyākulita-bāhu-vikṣepaḥ . kuṭila-vyāviddha-gatiḥ madhyama-daḥ madhyama-prakṛtiḥ .. 42..
नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ ४३॥
नष्ट-स्मृतिः हत-गतिः छर्दित-हिक्का-कफैः सु बीभत्सः । गुरु-सज्जमान-जिह्वः निष्ठीवति च अधम-प्रकृतिः ॥ ४३॥
naṣṭa-smṛtiḥ hata-gatiḥ chardita-hikkā-kaphaiḥ su bībhatsaḥ . guru-sajjamāna-jihvaḥ niṣṭhīvati ca adhama-prakṛtiḥ .. 43..
रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ४४॥
रङ्गे पिबतः कार्या मद-वृद्धिः नाट्य-योगम् आसाद्य । कार्यः मद-क्षयः वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ ४४॥
raṅge pibataḥ kāryā mada-vṛddhiḥ nāṭya-yogam āsādya . kāryaḥ mada-kṣayaḥ vai yaḥ khalu pītvā praviṣṭaḥ syāt .. 44..
सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ ४५॥
सन्त्रासात् शोकात् वा भयात् प्रहर्षात् च कारण-उपगतात् । उत्क्रम्य अपि हि कार्यः मद-प्रणाशः क्रमात् तद्-ज्ञैः ॥ ४५॥
santrāsāt śokāt vā bhayāt praharṣāt ca kāraṇa-upagatāt . utkramya api hi kāryaḥ mada-praṇāśaḥ kramāt tad-jñaiḥ .. 45..
एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ ४६॥
एभिः भाव-विशेषैः मदः द्रुतम् सम्प्रणाशम् उपयाति । अभ्युदय-सुखैः वाक्यैः यथा एव शोकः क्षयम् याति ॥ ४६॥
ebhiḥ bhāva-viśeṣaiḥ madaḥ drutam sampraṇāśam upayāti . abhyudaya-sukhaiḥ vākyaiḥ yathā eva śokaḥ kṣayam yāti .. 46..
श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन- वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
श्रमः नाम अध्व-व्यायाम-सेवन-आदिभिः विभावैः समुत्पद्यते। तस्य गात्र-परिमर्दन-संवाहन-निःश्वसित-विजृम्भित-मन्द-पद-उत्क्षेपण-नयन-वदन-विकूणन-सीत्कर-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
śramaḥ nāma adhva-vyāyāma-sevana-ādibhiḥ vibhāvaiḥ samutpadyate. tasya gātra-parimardana-saṃvāhana-niḥśvasita-vijṛmbhita-manda-pada-utkṣepaṇa-nayana-vadana-vikūṇana-sītkara-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४७॥
नृत्त-अध्व-व्यायामात् नरस्य सञ्जायते श्रमः नाम । निःश्वास-खेद-गमनैः तस्य अभिनयः प्रयोक्तव्यः ॥ ४७॥
nṛtta-adhva-vyāyāmāt narasya sañjāyate śramaḥ nāma . niḥśvāsa-kheda-gamanaiḥ tasya abhinayaḥ prayoktavyaḥ .. 47..
आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाषशयना- सननिद्रातन्द्रीसेवनादिभिरनुभावैः ।
आलस्यम् नाम खेद-व्याधि-गर्भ-स्वभाव-श्रम-सौहित्य-आदिभिः विभावैः समुत्पद्यते स्त्री-नीचानाम् । तत् अभिनयेत् सर्व-कर्म-अनभिलाष-शयन-आसन-निद्रा-तन्द्री-सेवन-आदिभिः अनुभावैः ।
ālasyam nāma kheda-vyādhi-garbha-svabhāva-śrama-sauhitya-ādibhiḥ vibhāvaiḥ samutpadyate strī-nīcānām . tat abhinayet sarva-karma-anabhilāṣa-śayana-āsana-nidrā-tandrī-sevana-ādibhiḥ anubhāvaiḥ .
आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥ ४८॥
आलस्यम् तु अभिनेयम् खेद-अपगतम् स्वभाव-जम् च अपि । आहार-वर्जितानाम् आरम्भाणाम् अनारम्भात् ॥ ४८॥
ālasyam tu abhineyam kheda-apagatam svabhāva-jam ca api . āhāra-varjitānām ārambhāṇām anārambhāt .. 48..
दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना- दिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
दैन्यम् नाम दौर्गत्य-मनः-ताप-आदिभिः विभावैः समुत्पद्यते । तस्य अधृति-शिरः-रोग-गात्र-गौरव-अन्य-मनस्क-ता-मृजा-परिवर्जन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
dainyam nāma daurgatya-manaḥ-tāpa-ādibhiḥ vibhāvaiḥ samutpadyate . tasya adhṛti-śiraḥ-roga-gātra-gaurava-anya-manaska-tā-mṛjā-parivarjana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥ ४९॥
चिन्ता-औत्सुक्य-समुत्था दुःख-आद्या भवति दीन-ताम् पुंसाम् । सर्व-मृजा-परिहारैः विविधः अभिनयः भवेत् तस्य ॥ ४९॥
cintā-autsukya-samutthā duḥkha-ādyā bhavati dīna-tām puṃsām . sarva-mṛjā-parihāraiḥ vividhaḥ abhinayaḥ bhavet tasya .. 49..
ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन- तनुकार्श्यादिभिरनुभावैः ।
ऐश्वर्य-भ्रंश-इष्ट-द्रव्य-अपहार-दारिद्र्य-आदिभिः विभावैः उत्पद्यते । ताम् अभिनयेत् निःश्वसित-उच्छ्वसित-सन्ताप-ध्यान-अधोमुख-चिन्तन-तनु-कार्श्य-आदिभिः अनुभावैः ।
aiśvarya-bhraṃśa-iṣṭa-dravya-apahāra-dāridrya-ādibhiḥ vibhāvaiḥ utpadyate . tām abhinayet niḥśvasita-ucchvasita-santāpa-dhyāna-adhomukha-cintana-tanu-kārśya-ādibhiḥ anubhāvaiḥ .
ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ ५०॥
ऐश्वर्य-भ्रंश-इष्ट-द्रव्य-क्षय-जा बहु-प्रकारा तु । हृदय-वितर्क-उपगता नॄणाम् चिन्ता समुद्भवति ॥ ५०॥
aiśvarya-bhraṃśa-iṣṭa-dravya-kṣaya-jā bahu-prakārā tu . hṛdaya-vitarka-upagatā nṝṇām cintā samudbhavati .. 50..
सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ ५१॥
स उच्छ्वासैः निःश्वसितैः सन्तापैः च एव हृदय-शून्यतया । अभिनेतव्या चिन्ता मृजा-विहीनैः अधृत्या च ॥ ५१॥
sa ucchvāsaiḥ niḥśvasitaiḥ santāpaiḥ ca eva hṛdaya-śūnyatayā . abhinetavyā cintā mṛjā-vihīnaiḥ adhṛtyā ca .. 51..
मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा- नुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमण- पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
मोहः नाम दैव-उपघात-व्यसन-अभिघात-व्याधि-भय-आवेग-पूर्व-वैर-अनुस्मरण-आदिभिः विभावैः समुत्पद्यते । तस्य निश्चैतन्य-भ्रमण-पतन-आघूर्णन-अदर्शन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
mohaḥ nāma daiva-upaghāta-vyasana-abhighāta-vyādhi-bhaya-āvega-pūrva-vaira-anusmaraṇa-ādibhiḥ vibhāvaiḥ samutpadyate . tasya niścaitanya-bhramaṇa-patana-āghūrṇana-adarśana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ ५२॥
अस्थाने तस्करान् दृष्ट्वा त्रासनैः विविधैः अपि । तद्-प्रतीकार-शून्यस्य मोहः समुपजायते ॥ ५२॥
asthāne taskarān dṛṣṭvā trāsanaiḥ vividhaiḥ api . tad-pratīkāra-śūnyasya mohaḥ samupajāyate .. 52..
व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ ५३॥
व्यसन-अभिघात-भय-पूर्व-वैर-संस्मरण-रोग-जः मोहः । सर्व-इन्द्रिय-सम्मोहात् तस्य अभिनयः प्रयोक्तव्यः ॥ ५३॥
vyasana-abhighāta-bhaya-pūrva-vaira-saṃsmaraṇa-roga-jaḥ mohaḥ . sarva-indriya-sammohāt tasya abhinayaḥ prayoktavyaḥ .. 53..
स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण-
स्मृतिः नाम सुख-दुःख-कृतानाम् भावानाम् अनुस्मरणम् । सा च स्वास्थ्य-जघन्य-रात्रि-निद्रा-छेद-समान-दर्शन-उदाहरण-
smṛtiḥ nāma sukha-duḥkha-kṛtānām bhāvānām anusmaraṇam . sā ca svāsthya-jaghanya-rātri-nidrā-cheda-samāna-darśana-udāharaṇa-
सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥ ५४॥
सुख-दुःखम् अतिक्रान्तम् तथा मति-विभावितम् यथावृत्तम् । चिर-विस्मृतम् स्मरति यः स्मृतिमान् इति वेदितव्यः असौ ॥ ५४॥
sukha-duḥkham atikrāntam tathā mati-vibhāvitam yathāvṛttam . cira-vismṛtam smarati yaḥ smṛtimān iti veditavyaḥ asau .. 54..
स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ ५५॥
स्वास्थ्य-अभ्यास-समुत्था श्रुति-दर्शन-सम्भवा स्मृतिः निपुणैः । शिरः उद्वाहन-कम्पैः भू-क्षेपैः च अभिनेतव्या ॥ ५५॥
svāsthya-abhyāsa-samutthā śruti-darśana-sambhavā smṛtiḥ nipuṇaiḥ . śiraḥ udvāhana-kampaiḥ bhū-kṣepaiḥ ca abhinetavyā .. 55..
धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक- मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्रा- प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु- शोचनादिभिरनुभावैः ।
धृतिः नाम शौर्य-विज्ञान-श्रुति-विभव-शौच-आचार-गुरु-भक्ति-अधिक-मनोरथ-अर्थ-लाभ-क्रीडा-आदिभिः विभावैः समुत्पद्यते । ताम् अभिनयेत् प्राप्तानाम् विषयाणाम् उपभोगात् अप्राप्त-अतीत-उपहृत-विनष्टानाम् अनु शोचन-आदिभिः अनुभावैः ।
dhṛtiḥ nāma śaurya-vijñāna-śruti-vibhava-śauca-ācāra-guru-bhakti-adhika-manoratha-artha-lābha-krīḍā-ādibhiḥ vibhāvaiḥ samutpadyate . tām abhinayet prāptānām viṣayāṇām upabhogāt aprāpta-atīta-upahṛta-vinaṣṭānām anu śocana-ādibhiḥ anubhāvaiḥ .
विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ ५६॥
विज्ञान-शौच-विभव-श्रुति-शक्ति-समुद्भवा धृतिः सद्भिः । भय-शोक-विषद-आद्यैः रहिता तु सदा प्रयोक्तव्या ॥ ५६॥
vijñāna-śauca-vibhava-śruti-śakti-samudbhavā dhṛtiḥ sadbhiḥ . bhaya-śoka-viṣada-ādyaiḥ rahitā tu sadā prayoktavyā .. 56..
प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥ ५७॥
प्राप्तानाम् उपभोगः शब्द-रस-स्पर्श-रूप-गन्धानाम् । अप्राप्तैः च न शोकः यस्याम् हि भवेत् धृतिः सा तु ॥ ५७॥
prāptānām upabhogaḥ śabda-rasa-sparśa-rūpa-gandhānām . aprāptaiḥ ca na śokaḥ yasyām hi bhavet dhṛtiḥ sā tu .. 57..
व्रीडा नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञान-प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श- नखनिकृन्तनादिभिरनुभावैरभिनयेत् ।
व्रीडा नाम अकार्य-करण-आत्मका । सा च गुरु-व्यतिक्रमण-अवज्ञान-प्रतिज्ञात-अनिर्वहन-पश्चात्ताप-आदिभिः विभावैः समुत्पद्यते । ताम् निगूढ-वदन-अधोमुख-विचिन्तन-ऊर्वी-लेखन-वस्त्र-अङ्गुलीयक-स्पर्श-नख-निकृन्तन-आदिभिः अनुभावैः अभिनयेत् ।
vrīḍā nāma akārya-karaṇa-ātmakā . sā ca guru-vyatikramaṇa-avajñāna-pratijñāta-anirvahana-paścāttāpa-ādibhiḥ vibhāvaiḥ samutpadyate . tām nigūḍha-vadana-adhomukha-vicintana-ūrvī-lekhana-vastra-aṅgulīyaka-sparśa-nakha-nikṛntana-ādibhiḥ anubhāvaiḥ abhinayet .
किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥ ५८॥
किञ्चिद् अकार्यम् कुर्वन् एवम् यः दृश्यते शुचिभिः अन्यैः । पश्चात्तापेन युतः व्रीडितः इति वेदितव्यः असौ ॥ ५८॥
kiñcid akāryam kurvan evam yaḥ dṛśyate śucibhiḥ anyaiḥ . paścāttāpena yutaḥ vrīḍitaḥ iti veditavyaḥ asau .. 58..
लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥ ५९॥
लज्जा-निगूढ-वदनः भूमिम् विलिखन् नखान् च विनिकृन्तन् । वस्त्र-अङ्गुलीयकानाम् संस्पर्शम् व्रीडितः कुर्यात् ॥ ५९॥
lajjā-nigūḍha-vadanaḥ bhūmim vilikhan nakhān ca vinikṛntan . vastra-aṅgulīyakānām saṃsparśam vrīḍitaḥ kuryāt .. 59..
चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार- ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
चपल-ता नाम राग-द्वेष-मात्सर्य-आमर्ष-अप्रतिकूल्य-आदिभिः विभावैः समुत्पद्यते । तस्याः च वाच्-पारुष्य-निर्भर्त्सन-वध-बन्ध-सम्प्रहार-ताडन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
capala-tā nāma rāga-dveṣa-mātsarya-āmarṣa-apratikūlya-ādibhiḥ vibhāvaiḥ samutpadyate . tasyāḥ ca vāc-pāruṣya-nirbhartsana-vadha-bandha-samprahāra-tāḍana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ ६०॥
अ विमृश्य तु यः कार्यम् पुरुषः वध-ताडनम् समारभते । अविनिश्चित-कारि-त्वात् स तु खलु चपलः बुधैः ज्ञेयः ॥ ६०॥
a vimṛśya tu yaḥ kāryam puruṣaḥ vadha-tāḍanam samārabhate . aviniścita-kāri-tvāt sa tu khalu capalaḥ budhaiḥ jñeyaḥ .. 60..
हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव- गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन- कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः ।
हर्षः नाम मनोरथ-लाभ-इष्ट-जन-समागमन-मनः-परितोष-देव-गुरु-राज-भर्तृ-प्रसाद-भोजन-आच्छादन-लाभ-उपभोग-आदिभिः विभावैः समुत्पद्यते । तम् अभिनयेत् नयन-वदन-प्रसाद-प्रिय-भाषण-आलिङ्गन-कण्टकित-पुलकित-अस्र-स्वेद-आदिभिः अनुभावैः ।
harṣaḥ nāma manoratha-lābha-iṣṭa-jana-samāgamana-manaḥ-paritoṣa-deva-guru-rāja-bhartṛ-prasāda-bhojana-ācchādana-lābha-upabhoga-ādibhiḥ vibhāvaiḥ samutpadyate . tam abhinayet nayana-vadana-prasāda-priya-bhāṣaṇa-āliṅgana-kaṇṭakita-pulakita-asra-sveda-ādibhiḥ anubhāvaiḥ .
अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ ६१॥
अ प्राप्ये प्राप्ये वा लब्धे अर्थे प्रिय-समागमे वा अपि । हृदय-मनोरथ-लाभे हर्षः सञ्जायते पुंसाम् ॥ ६१॥
a prāpye prāpye vā labdhe arthe priya-samāgame vā api . hṛdaya-manoratha-lābhe harṣaḥ sañjāyate puṃsām .. 61..
नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः । ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ ६२॥
नयन-वदन-प्रिय-भाषा-आलिङ्गनैः च रोमाञ्चैः । ललितैः च अङ्ग-विहारैः स्वेद-आद्यैः अभिनयः तस्य ॥ ६२॥
nayana-vadana-priya-bhāṣā-āliṅganaiḥ ca romāñcaiḥ . lalitaiḥ ca aṅga-vihāraiḥ sveda-ādyaiḥ abhinayaḥ tasya .. 62..
आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवण- व्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद- विस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र- सङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्ग- सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन- भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवण- कृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन- विलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पण- शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ ६३॥
आवेगः नाम उत्पात-वात-वर्षा-कुञ्जर-उद्भ्रमण-प्रिय-अप्रिय-श्रवण-व्यसन-अभिघात-आदिः विभावैः समुत्पद्यते । तत्र उत्पात-कृतः नाम विद्युत्-उल्का-निर्घात-प्रपतन-चन्द्र-सूर्य-उपराग-केतु-दर्शन-कृतः । तम् अभिनयेत् सर्व-अङ्ग-स्रस्त-ता-वैमनस्य-मुख-वैवर्ण्य-विषाद-विस्मय-आदिभिः । वात-कृतम् पुनर् अवकुण्ठन-अक्षि-परिमार्जन-वस्त्र-सङ्गूहन-त्वरित-गमन-आदिभिः । वर्ष-कृतम् पुनर् सर्व-अङ्ग-सम्पिण्डन-प्रधावन-छन्न-आश्रय-मार्गण-आदिभिः । अग्नि-कृतम् तु धूम-आकुल-नेत्र-ता-अङ्ग-सङ्कोचन-विधूनन-अतिक्रान्त-अपक्रान्त-आदिभिः । कुञ्जर-उद्भ्रमण-कृतम् नाम त्वरित-अपसर्पण-चञ्चल-गमन-भय-स्तम्भ-वेपथु-पश्चात् अवलोकन-विस्मय-आदिभिः । प्रिय-श्रवण-कृतम् नाम-अभ्युत्थान-आलिङ्गन-वस्त्र-आभरण-प्रदान-अश्रु-पुलकित-आदिभिः । अप्रिय-श्रवण-कृतम् नाम भूमि-पतन-विषम-विवर्तन-परिधावन-विलापन-आक्रन्दन-आदिभिः । व्यसन-अभिघात-जम् तु सहसा अपसर्पण-शस्त्र-चर्म-वर्म-धारण-गज-तुरग-रथ-आरोहण-सम्प्रधारण-आदिभिः । एवम् अष्ट-विकल्पः अयम् आवेगः सम्भ्रम-आत्मकः । स्थेर्येण उत्तम-मध्यानाम् नीचानाम् च अपसर्पणैः ॥ ६३॥
āvegaḥ nāma utpāta-vāta-varṣā-kuñjara-udbhramaṇa-priya-apriya-śravaṇa-vyasana-abhighāta-ādiḥ vibhāvaiḥ samutpadyate . tatra utpāta-kṛtaḥ nāma vidyut-ulkā-nirghāta-prapatana-candra-sūrya-uparāga-ketu-darśana-kṛtaḥ . tam abhinayet sarva-aṅga-srasta-tā-vaimanasya-mukha-vaivarṇya-viṣāda-vismaya-ādibhiḥ . vāta-kṛtam punar avakuṇṭhana-akṣi-parimārjana-vastra-saṅgūhana-tvarita-gamana-ādibhiḥ . varṣa-kṛtam punar sarva-aṅga-sampiṇḍana-pradhāvana-channa-āśraya-mārgaṇa-ādibhiḥ . agni-kṛtam tu dhūma-ākula-netra-tā-aṅga-saṅkocana-vidhūnana-atikrānta-apakrānta-ādibhiḥ . kuñjara-udbhramaṇa-kṛtam nāma tvarita-apasarpaṇa-cañcala-gamana-bhaya-stambha-vepathu-paścāt avalokana-vismaya-ādibhiḥ . priya-śravaṇa-kṛtam nāma-abhyutthāna-āliṅgana-vastra-ābharaṇa-pradāna-aśru-pulakita-ādibhiḥ . apriya-śravaṇa-kṛtam nāma bhūmi-patana-viṣama-vivartana-paridhāvana-vilāpana-ākrandana-ādibhiḥ . vyasana-abhighāta-jam tu sahasā apasarpaṇa-śastra-carma-varma-dhāraṇa-gaja-turaga-ratha-ārohaṇa-sampradhāraṇa-ādibhiḥ . evam aṣṭa-vikalpaḥ ayam āvegaḥ sambhrama-ātmakaḥ . stheryeṇa uttama-madhyānām nīcānām ca apasarpaṇaiḥ .. 63..
अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥ ६४॥
अप्रिय-निवेदनात् वा सहसा हि अवधारित-अरि-वचनस्य । शस्त्र-क्षेपात् त्रासात् आवेगः नाम सम्भवति ॥ ६४॥
apriya-nivedanāt vā sahasā hi avadhārita-ari-vacanasya . śastra-kṣepāt trāsāt āvegaḥ nāma sambhavati .. 64..
अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ ६५॥
अप्रिय-निवेदन-आद्यः विषाद-भाव-आश्रयः अनुभावस्य । सहसारि-दर्शनात् चेद् पहरण-परिघट्टनैः कार्यः ॥ ६५॥
apriya-nivedana-ādyaḥ viṣāda-bhāva-āśrayaḥ anubhāvasya . sahasāri-darśanāt ced paharaṇa-parighaṭṭanaiḥ kāryaḥ .. 65..
जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन- व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण- तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः ।
जड-ता नाम सर्व-कार्य-अप्रतिपत्तिः । इष्ट-अनिष्ट-श्रवण-दर्शन-व्याधि-आदिभिः विभावैः समुत्पद्यते । ताम् अभिनयेत् अकथन-अविभाषण-तूष्णीम्भाव-अप्रतिभा-अनिमेष-निरीक्षण-परवश-त्व-आदिभिः अनुभावैः ।
jaḍa-tā nāma sarva-kārya-apratipattiḥ . iṣṭa-aniṣṭa-śravaṇa-darśana-vyādhi-ādibhiḥ vibhāvaiḥ samutpadyate . tām abhinayet akathana-avibhāṣaṇa-tūṣṇīmbhāva-apratibhā-animeṣa-nirīkṣaṇa-paravaśa-tva-ādibhiḥ anubhāvaiḥ .
इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसन्ज्ञितः पुरुषः ॥ ६६॥
इष्टम् वा अनिष्टम् वा सुख-दुःखे वा न वेत्ति यः मोहात् । तूष्णीकः पर-वशगः भवति स जड-सन्ज्ञितः पुरुषः ॥ ६६॥
iṣṭam vā aniṣṭam vā sukha-duḥkhe vā na vetti yaḥ mohāt . tūṣṇīkaḥ para-vaśagaḥ bhavati sa jaḍa-sanjñitaḥ puruṣaḥ .. 66..
गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा- ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि- क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः
गर्वः नाम ऐश्वर्य-कुल-रूप-यौवन-विद्या-बल-धन-लाभ-आदिभिः विभावैः समुत्पद्यते । तस्य असूया-अवज्ञा-घर्षण-अनुत्तर-दान-असम्भाषण-अङ्ग-अवलोकन-विभ्रम-अपहसन-वाच्-पारुष्य-गुरु-व्यतिक्रमण-अधिक्षेप-वचन-विच्छेद-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः
garvaḥ nāma aiśvarya-kula-rūpa-yauvana-vidyā-bala-dhana-lābha-ādibhiḥ vibhāvaiḥ samutpadyate . tasya asūyā-avajñā-gharṣaṇa-anuttara-dāna-asambhāṣaṇa-aṅga-avalokana-vibhrama-apahasana-vāc-pāruṣya-guru-vyatikramaṇa-adhikṣepa-vacana-viccheda-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ
विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ ६७॥
विद्या-अवाप्ते रूपात् ऐश्वर्यात् अथ धन-आगमात् वा अपि । गर्वः खलु नीचानाम् दृष्टि-अङ्ग-विचारणैः कार्यः ॥ ६७॥
vidyā-avāpte rūpāt aiśvaryāt atha dhana-āgamāt vā api . garvaḥ khalu nīcānām dṛṣṭi-aṅga-vicāraṇaiḥ kāryaḥ .. 67..
विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य- निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा- निःश्वसितध्यानादिभिरनुभावैः ।
विषादः नाम कार्य-अनिस्तरण-दैव-व्यापत्ति-समुत्थः । तम् अभिनयेत् सहाय-अन्वेषण-उपाय-चिन्तन-उत्साह-विघात-वैमनस्य-निःश्वसित-आदिभिः अनुभावैः उत्तम-मध्यमानाम् । अधमानाम् तु विपरिधावन-आलोकन-मुख-शोषण-सृक्व-परिलेहन-निद्रा-निःश्वसित-ध्यान-आदिभिः अनुभावैः ।
viṣādaḥ nāma kārya-anistaraṇa-daiva-vyāpatti-samutthaḥ . tam abhinayet sahāya-anveṣaṇa-upāya-cintana-utsāha-vighāta-vaimanasya-niḥśvasita-ādibhiḥ anubhāvaiḥ uttama-madhyamānām . adhamānām tu viparidhāvana-ālokana-mukha-śoṣaṇa-sṛkva-parilehana-nidrā-niḥśvasita-dhyāna-ādibhiḥ anubhāvaiḥ .
कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ ६८॥
कार्य-अनिस्तरणात् वा चौर्य-अभिग्रहण-राज-दोषात् वा । दैवात् अर्थ-विपत्तेः भवति विषादः सदा पुंसाम् ॥ ६८॥
kārya-anistaraṇāt vā caurya-abhigrahaṇa-rāja-doṣāt vā . daivāt artha-vipatteḥ bhavati viṣādaḥ sadā puṃsām .. 68..
वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥६९॥
वैचित्र्य-उपाय-चिन्ताभ्याम् कार्यः उत्तम-मध्ययोः । निद्रा-निःश्वसित-ध्यानैः अधमानाम् तु योजयेत् ॥६९॥
vaicitrya-upāya-cintābhyām kāryaḥ uttama-madhyayoḥ . nidrā-niḥśvasita-dhyānaiḥ adhamānām tu yojayet ..69..
औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना- दिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुख- विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः ।
औत्सुक्यम् नाम इष्ट-जन-वियोग-अनुस्मरण-उद्यान-दर्शन-आदिभिः विभावैः समुत्पद्यते । तस्य दीर्घ-निःश्वसित-अधोमुख-विचिन्तन-निद्रा-तन्द्री-शयन-अभिलाष-आदिभिः अनुभवैः अभिनयः प्रयोक्तव्यः ।
autsukyam nāma iṣṭa-jana-viyoga-anusmaraṇa-udyāna-darśana-ādibhiḥ vibhāvaiḥ samutpadyate . tasya dīrgha-niḥśvasita-adhomukha-vicintana-nidrā-tandrī-śayana-abhilāṣa-ādibhiḥ anubhavaiḥ abhinayaḥ prayoktavyaḥ .
इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥ ७०॥
इष्ट-जनस्य वियोगात् औत्सुक्यम् जायते हि अनुस्मृत्या । चिन्ता-निद्रा-तन्द्री-गात्र-गुरु-त्वैः अभिनयः अस्य ॥ ७०॥
iṣṭa-janasya viyogāt autsukyam jāyate hi anusmṛtyā . cintā-nidrā-tandrī-gātra-guru-tvaiḥ abhinayaḥ asya .. 70..
निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार- स्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन- गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन- मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः ।
निद्रा नाम दौर्बल्य-श्रम-क्लम-मद-आलस्य-चिन्ता-अति आहार-स्वभाव-आदिभिः विभावैः समुत्पद्यते । ताम् अभिनयेत् वदन-गौरव-शरीर-अवलोकन-नेत्र-घूरणन-गात्र-विजृम्भन-मान्द्य-उच्छ्वसित-सन्न-गात्र-ता-अक्षि-निमीलन-आदिभिः अनुभावैः ।
nidrā nāma daurbalya-śrama-klama-mada-ālasya-cintā-ati āhāra-svabhāva-ādibhiḥ vibhāvaiḥ samutpadyate . tām abhinayet vadana-gaurava-śarīra-avalokana-netra-ghūraṇana-gātra-vijṛmbhana-māndya-ucchvasita-sanna-gātra-tā-akṣi-nimīlana-ādibhiḥ anubhāvaiḥ .
आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ ७१॥
आलस्यात् दौर्बल्यात् क्लमात् श्रमात् चिन्तनात् स्वभावात् च । रात्रौ जागरणात् अपि निद्रा पुरुषस्य सम्भवति ॥ ७१॥
ālasyāt daurbalyāt klamāt śramāt cintanāt svabhāvāt ca . rātrau jāgaraṇāt api nidrā puruṣasya sambhavati .. 71..
तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः॥ ७२॥
ताम् मुख-गौरव-गात्र-प्रतिलोलन-नयन-मीलन-जड-त्वैः । जृम्भण-गात्र-विमर्दैः अनुभावैः अभिनयेत् प्राज्ञः॥ ७२॥
tām mukha-gaurava-gātra-pratilolana-nayana-mīlana-jaḍa-tvaiḥ . jṛmbhaṇa-gātra-vimardaiḥ anubhāvaiḥ abhinayet prājñaḥ.. 72..
अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच-ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि- कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद- स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अपस्मारः नाम देव-यक्ष-नाग-ब्रह्मराक्षस-भूत-प्रेत-पिशाच-ग्रहण-अनुस्मरन-उच्छिष्ट-शून्य-आगार-सेवन-अशुचि-काल-अन्तर-अपरिपतन-व्याद्य-आदिभिः विभावैः समुत्पद्यते । तस्य स्फुरित-निःश्वसित-उत्कम्पित-धावन-पतन-स्वेद-स्तम्भ-वदन-फेन-जिह्वा-परिलेहन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
apasmāraḥ nāma deva-yakṣa-nāga-brahmarākṣasa-bhūta-preta-piśāca-grahaṇa-anusmarana-ucchiṣṭa-śūnya-āgāra-sevana-aśuci-kāla-antara-aparipatana-vyādya-ādibhiḥ vibhāvaiḥ samutpadyate . tasya sphurita-niḥśvasita-utkampita-dhāvana-patana-sveda-stambha-vadana-phena-jihvā-parilehana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ ७३॥
भूत-पिशाच-ग्रहण-अनुस्मरण-उच्छिष्ट-शून्य-गृह-गमन-आ । काल-अन्तर-अतिपातात् अशुचेः च भवति अपस्मारः ॥ ७३॥
bhūta-piśāca-grahaṇa-anusmaraṇa-ucchiṣṭa-śūnya-gṛha-gamana-ā . kāla-antara-atipātāt aśuceḥ ca bhavati apasmāraḥ .. 73..
सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसन्ज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ ७४॥
सहसा भूमौ पतनम् प्रवेपनम् वदन-फेन-मोक्षः च । निःसन्ज्ञस्य उत्थानम् रूपाणि एतानि अपस्मारे ॥ ७४॥
sahasā bhūmau patanam pravepanam vadana-phena-mokṣaḥ ca . niḥsanjñasya utthānam rūpāṇi etāni apasmāre .. 74..
सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन- प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्वसितंसन्नगात्राक्षिनिमीलन- सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् ।
सुप्तम् नाम निद्रा-अभिभव-विषय-उपगमन-क्षिति-तल-शयन-प्रसारण-अनुकर्षण-आदिभिः विभावैः समुत्पद्यते निद्रा-समुत्थम् । तद्-उच्छ्वसित-आसन्न-गात्र-अक्षि-निमीलन-सर्व-इन्द्रिय-सम्मोहन-उत्स्वप्नायित-आदिभिः अनुभावैः अभिनयेत् ।
suptam nāma nidrā-abhibhava-viṣaya-upagamana-kṣiti-tala-śayana-prasāraṇa-anukarṣaṇa-ādibhiḥ vibhāvaiḥ samutpadyate nidrā-samuttham . tad-ucchvasita-āsanna-gātra-akṣi-nimīlana-sarva-indriya-sammohana-utsvapnāyita-ādibhiḥ anubhāvaiḥ abhinayet .
निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ ७५॥
निद्रा-अभिभव-इन्द्रिय-उपरमण-मोहाइः हवेत् सुप्तम् । अक्षि-निमीलन-उच्छ्वसनैः स्वप्नायित-जल्पितैः कार्यः ॥ ७५॥
nidrā-abhibhava-indriya-uparamaṇa-mohāiḥ havet suptam . akṣi-nimīlana-ucchvasanaiḥ svapnāyita-jalpitaiḥ kāryaḥ .. 75..
सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ ७६॥
स उच्छ्वासैः निःश्वासैः मन्द-अक्षि-निमीलनेन निश्चेष्टः । सर्व-इन्द्रिय-सम्मोहात् सुप्तम् स्वप्नैः च युञ्जीत ॥ ७६॥
sa ucchvāsaiḥ niḥśvāsaiḥ manda-akṣi-nimīlanena niśceṣṭaḥ . sarva-indriya-sammohāt suptam svapnaiḥ ca yuñjīta .. 76..
विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त- तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः ।
विबोधः नाम आहार-परिणाम-निद्रा-छेद-स्वप्न-अन्त-तीव्र-शब्द-श्रवण-आदिभिः विभावैः समुत्पद्यते । तम् अभिनयेत् जृम्भण-अक्षि-परिमर्दन-शयन-मोक्षण-आदिभिः अनुभावैः ।
vibodhaḥ nāma āhāra-pariṇāma-nidrā-cheda-svapna-anta-tīvra-śabda-śravaṇa-ādibhiḥ vibhāvaiḥ samutpadyate . tam abhinayet jṛmbhaṇa-akṣi-parimardana-śayana-mokṣaṇa-ādibhiḥ anubhāvaiḥ .
आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ ७७॥
आहार-विपरिणामात् शब्द-स्पर्श-आदिभिः च सम्भूतः । प्रतिबोधः तु अभिनेयः जृम्भण-वदन-अक्षि-परिमर्दैः ॥ ७७॥
āhāra-vipariṇāmāt śabda-sparśa-ādibhiḥ ca sambhūtaḥ . pratibodhaḥ tu abhineyaḥ jṛmbhaṇa-vadana-akṣi-parimardaiḥ .. 77..
अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
अमर्षः नाम विद्या-ऐश्वर्य-शौर्य-बल-अधिकैः अधिक्षिप्तस्य अवमानितस्य वा समुत्पद्यते । तम् अभिनयेत् शिरः-कम्पन-प्रस्वेदन-अधोमुख-चिन्तन-ध्यान-अध्यवसाय-उपाय-सहाय-अन्वेषण-आदिभिः अनुभावैः ।
amarṣaḥ nāma vidyā-aiśvarya-śaurya-bala-adhikaiḥ adhikṣiptasya avamānitasya vā samutpadyate . tam abhinayet śiraḥ-kampana-prasvedana-adhomukha-cintana-dhyāna-adhyavasāya-upāya-sahāya-anveṣaṇa-ādibhiḥ anubhāvaiḥ .
आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ ७८॥
आक्षिप्तानाम् सभा-मध्ये विद्या-शौर्य-बल-अधिकैः । नॄणाम् उत्साह-संयोगात् अमर्षः नाम जायते ॥ ७८॥
ākṣiptānām sabhā-madhye vidyā-śaurya-bala-adhikaiḥ . nṝṇām utsāha-saṃyogāt amarṣaḥ nāma jāyate .. 78..
उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ ७९॥
उत्साह-अध्यवसायाभ्याम् अधोमुख-विचिन्तनैः । शिरः-प्रकम्प-स्वेद-आद्यैः तम् प्रयुञ्जीत पण्डितः ॥ ७९॥
utsāha-adhyavasāyābhyām adhomukha-vicintanaiḥ . śiraḥ-prakampa-sveda-ādyaiḥ tam prayuñjīta paṇḍitaḥ .. 79..
अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजय- गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकित- कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।
अवहित्थम् नाम आकार-प्रच्छादन-आत्मकम् । तत् च लजा-भय-अपजय-गौरव-जैह्मय-आदिभिः विभाविः समुत्पद्यते । तस्य अन्यथा कथन-अवलोकित-कथा-भङ्ग-कृतक-धैर्य-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
avahittham nāma ākāra-pracchādana-ātmakam . tat ca lajā-bhaya-apajaya-gaurava-jaihmaya-ādibhiḥ vibhāviḥ samutpadyate . tasya anyathā kathana-avalokita-kathā-bhaṅga-kṛtaka-dhairya-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥ ८०॥
धार्ष्ट्य-जैह्म्य-आदि-सम्भीतम् अवहित्थम् भयत्मकम् । तत् च अ गणनया कार्यम् न अतीव उत्तर-भाषणात् ॥ ८०॥
dhārṣṭya-jaihmya-ādi-sambhītam avahittham bhayatmakam . tat ca a gaṇanayā kāryam na atīva uttara-bhāṣaṇāt .. 80..
उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् ।
उग्र-ता चौर्य-अभिग्रहाण-नृप-अपराध-असत्-प्रलाप-आदिभिः विभावैः समुत्पद्यते । ताम् च वध-बन्धन-ताडन-निर्भत्सन-आदिभिः अनुभावैः अभिनयेत् ।
ugra-tā caurya-abhigrahāṇa-nṛpa-aparādha-asat-pralāpa-ādibhiḥ vibhāvaiḥ samutpadyate . tām ca vadha-bandhana-tāḍana-nirbhatsana-ādibhiḥ anubhāvaiḥ abhinayet .
चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥ ८१॥
चौर्य-अभिग्रहन-वशात् नृप-अपराधात् अथ उग्र-ता भवति । वध-बन्ध-ताडन-आदिभिः अनुभावैः अभिनयः तस्याः ॥ ८१॥
caurya-abhigrahana-vaśāt nṛpa-aparādhāt atha ugra-tā bhavati . vadha-bandha-tāḍana-ādibhiḥ anubhāvaiḥ abhinayaḥ tasyāḥ .. 81..
नानाशात्रार्थबोधेन मतिः सञ्जायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥८२॥
नाना शात्रा-अर्थ-बोधेन मतिः सञ्जायते नृणाम् । शिष्य-उपदेश-अर्थ-कृतः तस्याः तु अभिनयः भवेत् ॥८२॥
nānā śātrā-artha-bodhena matiḥ sañjāyate nṛṇām . śiṣya-upadeśa-artha-kṛtaḥ tasyāḥ tu abhinayaḥ bhavet ..82..
व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना- ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख- शोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि- लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र- स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना- दिभिरनुभावैरभिनेयाः ।
व्याधिः नाम वात-पित्त-कफ-सन्निपात-प्रभवः । तस्य ज्वर-आदयः विशेषाः । ज्वरः तु द्विविधः स शीतः स दाहः च । तत्र सशीतः नाम प्रवेपित-सर्व-अङ्ग-उप्कम्पन-निकुञ्चन-अग्नि-अभिलाष-रोमाञ्च-हनु-वलन-नासा-विकूनन-मुख-शोषण-परिदेवित-आदिभिः अनुभावैः अभिनेयः । स दाहः नाम विक्षिप्त-अङ्ग-कर-चरण-भूमि-अभिलाष-अनुलेपन-शीत-अभिलाष-परिदेवन-मुख-शोष-उत्क्रुष्ट-आदिभिः अनुभावैः । ये च अन्ये व्याधयः ते अपि खलु मुख-विकूणन-गात्र-स्तम्भ-स्रस्त-अक्षि-निःश्वसन-स्तनित-उत्क्रुष्ट-वेपना-आदिभिः अनुभावैः अभिनेयाः ।
vyādhiḥ nāma vāta-pitta-kapha-sannipāta-prabhavaḥ . tasya jvara-ādayaḥ viśeṣāḥ . jvaraḥ tu dvividhaḥ sa śītaḥ sa dāhaḥ ca . tatra saśītaḥ nāma pravepita-sarva-aṅga-upkampana-nikuñcana-agni-abhilāṣa-romāñca-hanu-valana-nāsā-vikūnana-mukha-śoṣaṇa-paridevita-ādibhiḥ anubhāvaiḥ abhineyaḥ . sa dāhaḥ nāma vikṣipta-aṅga-kara-caraṇa-bhūmi-abhilāṣa-anulepana-śīta-abhilāṣa-paridevana-mukha-śoṣa-utkruṣṭa-ādibhiḥ anubhāvaiḥ . ye ca anye vyādhayaḥ te api khalu mukha-vikūṇana-gātra-stambha-srasta-akṣi-niḥśvasana-stanita-utkruṣṭa-vepanā-ādibhiḥ anubhāvaiḥ abhineyāḥ .
समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ ८३॥
समासतस् तु व्याधीनाम् कर्तव्यः अभिनयः बुधैः । स्रस्त-अङ्ग-गात्र-विक्षेपैः तथा मुख-विकूणनैः ॥ ८३॥
samāsatas tu vyādhīnām kartavyaḥ abhinayaḥ budhaiḥ . srasta-aṅga-gātra-vikṣepaiḥ tathā mukha-vikūṇanaiḥ .. 83..
उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात- वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित- प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल- चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा- नुकरणादिभिरनुभावैरभिनयेत् ।
उन्मादः नाम इष्ट-जन-वियोग-विभव-नाश-अभिघात-वात-पित्त-श्लेष्म-प्रकोप-आदिभिः विभावैः उत्पद्यते । तम् अनिमित्त-हसित-रुदित-उत्क्रुष्ट-असम्बद्ध-प्रलाप-शयित-उपविष्ट-उत्थित-प्रधावित-नृत्त-गीत-पठित-भस्म-पांसु-अवधूलन-तृण-निर्माल्य-कु चेल-नृत्त-गीत-पठित-भस्म- चीर-घटक-कपाल-शराव-आभरण-धारण-उपभोगैः अनेकैः च अनवस्थितैः चेष्टा-अनुकरण-आदिभिः अनुभावैः अभिनयेत् ।
unmādaḥ nāma iṣṭa-jana-viyoga-vibhava-nāśa-abhighāta-vāta-pitta-śleṣma-prakopa-ādibhiḥ vibhāvaiḥ utpadyate . tam animitta-hasita-rudita-utkruṣṭa-asambaddha-pralāpa-śayita-upaviṣṭa-utthita-pradhāvita-nṛtta-gīta-paṭhita-bhasma-pāṃsu-avadhūlana-tṛṇa-nirmālya-ku cela-nṛtta-gīta-paṭhita-bhasma- cīra-ghaṭaka-kapāla-śarāva-ābharaṇa-dhāraṇa-upabhogaiḥ anekaiḥ ca anavasthitaiḥ ceṣṭā-anukaraṇa-ādibhiḥ anubhāvaiḥ abhinayet .
इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ ८४॥
इष्ट-जन-विभव-नाशात् अभिघातात् वात-पित्त-कफ-कोपात् । विविधात् चित्त-विकारात् उन्मादः नाम सम्भवति ॥ ८४॥
iṣṭa-jana-vibhava-nāśāt abhighātāt vāta-pitta-kapha-kopāt . vividhāt citta-vikārāt unmādaḥ nāma sambhavati .. 84..
अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ ८५॥
अनिमित्त-रुदित-हसित-उपविष्ट-गीत-प्रधावित-उत्क्रुष्टैः । अन्यैः च विकारैः अकृतैः उन्मादम् सम्प्रयुञ्जीत ॥ ८५॥
animitta-rudita-hasita-upaviṣṭa-gīta-pradhāvita-utkruṣṭaiḥ . anyaiḥ ca vikāraiḥ akṛtaiḥ unmādam samprayuñjīta .. 85..
मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्य- गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात- विनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः - तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन- हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् ।
मरणम् नाम व्याधि-जम् अभिघात-जञ्च । तत्र यदा अन्त्र-यकृत्-शूल-दोष-वैषम्य-गण्ड-पिटक-ज्वर-विषूचिका-आदिभिः उत्पद्यते तत् व्याधि-प्रभवम् । अभिघात-जम् तु शस्त्र-अहि-दंश-विष-पान-श्वापद-गज-तुरग-रथ-पशु-यान-पात-विनाश-प्रभवम् । एतयोः अभिनय-विशेषान् वक्ष्यामः तत्र हिक्का-श्वास-उपेत-अनवेक्षित-परिजन-अव्यक्त-अक्षर-कथन-आदिभिः अनुभावैः अभिनयेत् ।
maraṇam nāma vyādhi-jam abhighāta-jañca . tatra yadā antra-yakṛt-śūla-doṣa-vaiṣamya-gaṇḍa-piṭaka-jvara-viṣūcikā-ādibhiḥ utpadyate tat vyādhi-prabhavam . abhighāta-jam tu śastra-ahi-daṃśa-viṣa-pāna-śvāpada-gaja-turaga-ratha-paśu-yāna-pāta-vināśa-prabhavam . etayoḥ abhinaya-viśeṣān vakṣyāmaḥ tatra hikkā-śvāsa-upeta-anavekṣita-parijana-avyakta-akṣara-kathana-ādibhiḥ anubhāvaiḥ abhinayet .
व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ ८६॥
व्याधीनाम् एक-भावः हि मरण-अभिनयः स्मृतः । विषण्ण-गात्रैः निश्चेष्टैः इन्द्रिअयैः च विवर्जितः ॥ ८६॥
vyādhīnām eka-bhāvaḥ hi maraṇa-abhinayaḥ smṛtaḥ . viṣaṇṇa-gātraiḥ niśceṣṭaiḥ indriayaiḥ ca vivarjitaḥ .. 86..
अभिघातजे तु नानाप्रकाराअभिनयविशेषाः। शस्त्रक्षताहिदष्टविषपीत- गजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपन- स्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः ।
अभिघात-जे तु नाना प्रकाराः अभिनय-विशेषाः। शस्त्र-क्षत-अहि-दष्ट-विष-पीत-गज-आदि-पतित-श्वापद-हताः । यथा तत्र शस्त्र-क्षते तावत् सहसा भूमिपतन-वेपन-स्फुरण-आदिभिः अभिनयः प्रयोक्तव्यः । अहि-दष्ट-विष-पीतयोः विष-योगः यथा कार्श्य-वेपथु-विदाह-हिक्का-फेन-स्कन्धभङ्ग-जडता-मरणानि इति अष्टौ विष-वेगाः ।
abhighāta-je tu nānā prakārāḥ abhinaya-viśeṣāḥ. śastra-kṣata-ahi-daṣṭa-viṣa-pīta-gaja-ādi-patita-śvāpada-hatāḥ . yathā tatra śastra-kṣate tāvat sahasā bhūmipatana-vepana-sphuraṇa-ādibhiḥ abhinayaḥ prayoktavyaḥ . ahi-daṣṭa-viṣa-pītayoḥ viṣa-yogaḥ yathā kārśya-vepathu-vidāha-hikkā-phena-skandhabhaṅga-jaḍatā-maraṇāni iti aṣṭau viṣa-vegāḥ .
कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ ८७॥
कार्श्यम् तु प्रथमे वेगे द्वितीये वेपथुः भवेत् । दाहम् तृतीये हिक्काम् च चतुर्थे सम्प्रयोजयेत् ॥ ८७॥
kārśyam tu prathame vege dvitīye vepathuḥ bhavet . dāham tṛtīye hikkām ca caturthe samprayojayet .. 87..
फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ ८८॥
फेनम् च पञ्चमे कुर्यात् षष्ठे स्कन्धस्य भञ्जनम् । जड-ताम् सप्तमे कुर्यात् अष्टमे मरणम् भवेत् ॥ ८८॥
phenam ca pañcame kuryāt ṣaṣṭhe skandhasya bhañjanam . jaḍa-tām saptame kuryāt aṣṭame maraṇam bhavet .. 88..
श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ ८९॥
श्वापद-गज-तुरग-रथ-उद्भवम् तु पशु-यान-पतन-जम् वा अपि । शास्त्र-क्षत-वत् कुर्यात् अनवेक्षित-गात्र-सञ्चारम् ॥ ८९॥
śvāpada-gaja-turaga-ratha-udbhavam tu paśu-yāna-patana-jam vā api . śāstra-kṣata-vat kuryāt anavekṣita-gātra-sañcāram .. 89..
इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ ९०॥
इति एव मरणम् ज्ञेयम् नाना अवस्था-अन्तर-आत्मकम् । प्रयोक्तव्यम् बुधैः सम्यक् यथा भव-अङ्ग-चेष्टितैः ॥ ९०॥
iti eva maraṇam jñeyam nānā avasthā-antara-ātmakam . prayoktavyam budhaiḥ samyak yathā bhava-aṅga-ceṣṭitaiḥ .. 90..
त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु- रवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु- स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः ।
त्रासः नाम विद्युत्-उल्का-अशनि-पात-निर्घात-अम्बुधर-महासत्त्व-पशु-रव-आदिभिः विभावैः उत्पद्यते । तम् अभिनयेत् संक्षिप्त-अङ्ग-उत्कम्पन-वेपथु-स्तम्भ-रोमाञ्च-गद्गद-प्रलाप-आदिभिः अनुभावैः ।
trāsaḥ nāma vidyut-ulkā-aśani-pāta-nirghāta-ambudhara-mahāsattva-paśu-rava-ādibhiḥ vibhāvaiḥ utpadyate . tam abhinayet saṃkṣipta-aṅga-utkampana-vepathu-stambha-romāñca-gadgada-pralāpa-ādibhiḥ anubhāvaiḥ .
महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ ९१॥
महाभैरव-नाद-द्यैः त्रासः समुपजायते । स्रस्त-अङ्ग-अक्षि-निमेषैः च तस्य तु अभिनयः भवेत् ॥ ९१॥
mahābhairava-nāda-dyaiḥ trāsaḥ samupajāyate . srasta-aṅga-akṣi-nimeṣaiḥ ca tasya tu abhinayaḥ bhavet .. 91..
वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिन- येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः ।
वितर्कः नाम सन्देह-विमर्श-विप्रतिपत्ति-आदिभिः विभावैः उत्पद्यते । तम् अभिन येत् विविध-विचारित-प्रश्न-सम्प्रधारण-मन्त्र-सङ्गूहन-आदिभिः अनुभावैः ।
vitarkaḥ nāma sandeha-vimarśa-vipratipatti-ādibhiḥ vibhāvaiḥ utpadyate . tam abhina yet vividha-vicārita-praśna-sampradhāraṇa-mantra-saṅgūhana-ādibhiḥ anubhāvaiḥ .
विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ ९२॥
। वितर्कः सः अभिनेयः तु शिरः-भ्रू-क्षेप-कम्पनैः ॥ ९२॥
. vitarkaḥ saḥ abhineyaḥ tu śiraḥ-bhrū-kṣepa-kampanaiḥ .. 92..
एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्था- नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ ९३॥
एवम् एते त्रयस्त्रिंशत्-व्यभिचारिणः भावाः देश-काल-अवस्था-आनुरूप्येण आम-गत-पर-गत-मध्य-स्थाः उत्तम-मध्यम-अधमैः स्त्रीपुंसैः स्व-प्रयोग-वशात् उपपाद्याः इति । त्रयस्त्रिंशत् इमे भावाः विज्ञेयाः व्यभिचारिणः । सात्त्विकान् तु पुनर्भावान् प्रवक्ष्यामि अनुपूर्वशस् ॥ ९३॥
evam ete trayastriṃśat-vyabhicāriṇaḥ bhāvāḥ deśa-kāla-avasthā-ānurūpyeṇa āma-gata-para-gata-madhya-sthāḥ uttama-madhyama-adhamaiḥ strīpuṃsaiḥ sva-prayoga-vaśāt upapādyāḥ iti . trayastriṃśat ime bhāvāḥ vijñeyāḥ vyabhicāriṇaḥ . sāttvikān tu punarbhāvān pravakṣyāmi anupūrvaśas .. 93..
अत्राह - किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते -
अत्र आह किम् अन्ये भावाः सत्त्वेन विना अभिनीयन्ते यस्मात् उच्यते एते सात्त्विकाः इति । अत्र उच्यते
atra āha kim anye bhāvāḥ sattvena vinā abhinīyante yasmāt ucyate ete sāttvikāḥ iti . atra ucyate
मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः - इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे - स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ ९४॥
मनसः समाधौ सत्त्व-निष्पत्तिः भवति । तस्य च यः असौ स्वभावः रोमाञ्च-अश्रु-वैवर्ण्य-आदि-लक्षणः यथा भाव-उपगतः स न शक्यः अन्य-मनसा कर्तुम् इति । लोक-स्वभाव-अनुकरण-त्वात् च नाट्यस्य सत्त्वम् ईप्सितम् । कः दृष्टान्तः इह हि नाट्य-अधर्मि-प्रवृत्ताः सुख-दुःख-कृताः भावाः तथा सत्त्व-विशुद्धाः कार्याः यथा सरूपाः भवन्ति । तत्र दुःखम् नाम रोदन-आत्मकम् तत् कथम् अदुःखितेन सुखम् च प्रहर्ष-आत्मकम् असुखितेन वा अभिनेयम् । एतत् एव अस्य सत्त्वम् यत् दुःखितेन सुखितेन वा अश्रु-रोमाञ्चौ इति कृत्वा सात्त्विकाः भावाः इति अभिव्याख्याताः । ते इमे स्तम्भः स्वेदः अथ रोमाअञ्चः स्वरभेदः अथ वेपथुः । वैवर्ण्यम् अश्रु-प्रलयः इति अष्टौ सात्त्विकाः मताः ॥ ९४॥
manasaḥ samādhau sattva-niṣpattiḥ bhavati . tasya ca yaḥ asau svabhāvaḥ romāñca-aśru-vaivarṇya-ādi-lakṣaṇaḥ yathā bhāva-upagataḥ sa na śakyaḥ anya-manasā kartum iti . loka-svabhāva-anukaraṇa-tvāt ca nāṭyasya sattvam īpsitam . kaḥ dṛṣṭāntaḥ iha hi nāṭya-adharmi-pravṛttāḥ sukha-duḥkha-kṛtāḥ bhāvāḥ tathā sattva-viśuddhāḥ kāryāḥ yathā sarūpāḥ bhavanti . tatra duḥkham nāma rodana-ātmakam tat katham aduḥkhitena sukham ca praharṣa-ātmakam asukhitena vā abhineyam . etat eva asya sattvam yat duḥkhitena sukhitena vā aśru-romāñcau iti kṛtvā sāttvikāḥ bhāvāḥ iti abhivyākhyātāḥ . te ime stambhaḥ svedaḥ atha romāañcaḥ svarabhedaḥ atha vepathuḥ . vaivarṇyam aśru-pralayaḥ iti aṣṭau sāttvikāḥ matāḥ .. 94..
तत्र - क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥ ९५॥
तत्र क्रोध-भय-हर्ष-लजा-दुःख-श्रम-रोग-ताप-घातेभ्यः । व्यायाम-क्लम-धर्मैः स्वेदः सम्पीडनात् च एव ॥ ९५॥
tatra krodha-bhaya-harṣa-lajā-duḥkha-śrama-roga-tāpa-ghātebhyaḥ . vyāyāma-klama-dharmaiḥ svedaḥ sampīḍanāt ca eva .. 95..
हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ ९६॥
हर्ष-भय-शोक-विस्मय-विषाद-रोष-आदि-सम्भवः स्तम्भः । शीत-भय-हर्ष-रोष-स्पर्श-जरा-रोग-जः कम्पः ॥ ९६॥
harṣa-bhaya-śoka-vismaya-viṣāda-roṣa-ādi-sambhavaḥ stambhaḥ . śīta-bhaya-harṣa-roṣa-sparśa-jarā-roga-jaḥ kampaḥ .. 96..
आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् । अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ ९७॥
आनन्द-अमर्षाभ्याम् धूम-अञ्जन-जृम्भणात् भयात् शोकात् । अनिमेष-प्रेक्षणतः शीतात् रोगात् भवेत् अश्रु ॥ ९७॥
ānanda-amarṣābhyām dhūma-añjana-jṛmbhaṇāt bhayāt śokāt . animeṣa-prekṣaṇataḥ śītāt rogāt bhavet aśru .. 97..
शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ॥ ९८॥
शीत-क्रोध-भय-श्रम-रोग-क्लम-ताप-जम् च वैवर्ण्यम् । स्पर्श-भय-शीत-हर्षात् क्रोधात् रोगात् च रोमाञ्चः ॥ ९८॥
śīta-krodha-bhaya-śrama-roga-klama-tāpa-jam ca vaivarṇyam . sparśa-bhaya-śīta-harṣāt krodhāt rogāt ca romāñcaḥ .. 98..
स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ ९९॥
स्वरभेदः भय-हर्ष-क्रोध-जरा-रौक्ष्य-रोग-मद-जनितः । श्रम-मूर्छ-मद-निद्रा-अभिघात-मोह-आदिभिः प्रलयः ॥ ९९॥
svarabhedaḥ bhaya-harṣa-krodha-jarā-raukṣya-roga-mada-janitaḥ . śrama-mūrcha-mada-nidrā-abhighāta-moha-ādibhiḥ pralayaḥ .. 99..
एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ १००॥
एवम् एते बुधैः ज्ञेयाः भावाः हि अष्टौ तु सात्त्विकाः । कर्म च एषाम् प्रवक्ष्यामि रस-भाव-अनुभावकम् ॥ १००॥
evam ete budhaiḥ jñeyāḥ bhāvāḥ hi aṣṭau tu sāttvikāḥ . karma ca eṣām pravakṣyāmi rasa-bhāva-anubhāvakam .. 100..
निःसन्ज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥ १०१॥
निःसन्ज्ञः निष्प्रकम्पः च स्थितः शून्य-जड-आकृतिः । स्कन्न-गात्र-तया च एव स्तम्भम् तु अभिनयेत् बुधः ॥ १०१॥
niḥsanjñaḥ niṣprakampaḥ ca sthitaḥ śūnya-jaḍa-ākṛtiḥ . skanna-gātra-tayā ca eva stambham tu abhinayet budhaḥ .. 101..
व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥ १०२॥
व्यजन-ग्रहणात् च अपि स्वेद-अपनयनेन च । स्वेदस्य अभिनयः योज्यः तथा वात-अभिलाषतः ॥ १०२॥
vyajana-grahaṇāt ca api sveda-apanayanena ca . svedasya abhinayaḥ yojyaḥ tathā vāta-abhilāṣataḥ .. 102..
मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥ १०३॥
मुहुर् कण्टिकित-त्वेन तथा उल्लुकसनेन च । पुलकेन च रोमाञ्चम् गात्र-स्पर्शेन दर्शयेत् ॥ १०३॥
muhur kaṇṭikita-tvena tathā ullukasanena ca . pulakena ca romāñcam gātra-sparśena darśayet .. 103..
स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ १०४॥
स्वरभेदः अभिनेतव्यः भिन्न-गद्गद-निस्वनैः । वेपनात् स्फुरणात् कम्पात् वेपथुम् सम्प्रदर्शयेत् ॥ १०४॥
svarabhedaḥ abhinetavyaḥ bhinna-gadgada-nisvanaiḥ . vepanāt sphuraṇāt kampāt vepathum sampradarśayet .. 104..
मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ १०५॥
मुख-वर्ण-परावृत्त्या नाडी-पीडन-योगतः । वैवर्ण्यम् अभिनेतव्यम् प्रयत्नात् तत् हि दुष्करम् ॥ १०५॥
mukha-varṇa-parāvṛttyā nāḍī-pīḍana-yogataḥ . vaivarṇyam abhinetavyam prayatnāt tat hi duṣkaram .. 105..
बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ॥१०६॥
बाष्प-अम्बु-प्लुत-नेत्र-त्वात् नेत्र-संमार्जनेन च । मुहुर् अश्रु-कणा-पातैः अस्रम् तु अभिनयेत् बुधः ॥१०६॥
bāṣpa-ambu-pluta-netra-tvāt netra-saṃmārjanena ca . muhur aśru-kaṇā-pātaiḥ asram tu abhinayet budhaḥ ..106..
निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ १०७॥
निश्चेष्टः निष्प्रकम्प-त्वात् अव्यक्त-श्वसितात् अपि । महीनिपतनात् च अपि प्रलय-अभिनयः भवेत् ॥ १०७॥
niśceṣṭaḥ niṣprakampa-tvāt avyakta-śvasitāt api . mahīnipatanāt ca api pralaya-abhinayaḥ bhavet .. 107..
एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ १०८॥
एकोनपञ्चाशत् इमे यथावत् भावाः त्रि-अवस्थाः गदिताः मया इह । भूयस् च ये यत्र रसे नियोज्याः तान् श्रोतुम् अर्हन्ति च विप्र-मुख्याः ॥ १०८॥
ekonapañcāśat ime yathāvat bhāvāḥ tri-avasthāḥ gaditāḥ mayā iha . bhūyas ca ye yatra rase niyojyāḥ tān śrotum arhanti ca vipra-mukhyāḥ .. 108..
[ शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
[ शङ्का-व्याधिः तथा अग्लानिः चिन्ता असूया भयम् तथा । विस्मयः च वितर्कः च स्तम्भः चपलता तथा ॥ रोमाञ्च-हर्षौ निद्रा च तथा उन्माद-मदौ अपि । स्वेदः च एव अवहित्थम् च प्रलयः वेपथुः तथा ॥ विषाद-श्रम-निर्वेदाः गर्व-आवेगौ धृतिः स्मृतिः । मतिः मोहः विबोधः च सुप्तम् औत्सुक्य-वर्जिते ॥ क्रोध-अमर्षौ च हासः च शोकः अपस्मारः एव च । दैन्यम् च मरणम् च एव रतिः उत्साह-संयुता ॥ त्रास-वैवर्ण्य-रुदितैः स्वरभेदः शमः अपि च । जड-ता च तथा षष् च चत्वारिंशत्-प्रकीर्तिताः ॥]
[ śaṅkā-vyādhiḥ tathā aglāniḥ cintā asūyā bhayam tathā . vismayaḥ ca vitarkaḥ ca stambhaḥ capalatā tathā .. romāñca-harṣau nidrā ca tathā unmāda-madau api . svedaḥ ca eva avahittham ca pralayaḥ vepathuḥ tathā .. viṣāda-śrama-nirvedāḥ garva-āvegau dhṛtiḥ smṛtiḥ . matiḥ mohaḥ vibodhaḥ ca suptam autsukya-varjite .. krodha-amarṣau ca hāsaḥ ca śokaḥ apasmāraḥ eva ca . dainyam ca maraṇam ca eva ratiḥ utsāha-saṃyutā .. trāsa-vaivarṇya-ruditaiḥ svarabhedaḥ śamaḥ api ca . jaḍa-tā ca tathā ṣaṣ ca catvāriṃśat-prakīrtitāḥ ..]
आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसन्ज्ञया ॥ १०९॥
आलस्य-औग्र्य-जुगुप्सा-आख्यैः एवम् भावैः तु वर्जिताः । उद्भावयन्ति शृङ्गारम् सर्वे भावाः स्व-सन्ज्ञया ॥ १०९॥
ālasya-augrya-jugupsā-ākhyaiḥ evam bhāvaiḥ tu varjitāḥ . udbhāvayanti śṛṅgāram sarve bhāvāḥ sva-sanjñayā .. 109..
[ यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य सन्ज्ञितम् ॥]
[ यथा अवसरम् एते हि स्थायि-सञ्चारि-सत्त्व-जाः । उद्दीपयन्ति शृङ्गारम् रसम् आसाद्य सन्ज्ञितम् ॥]
[ yathā avasaram ete hi sthāyi-sañcāri-sattva-jāḥ . uddīpayanti śṛṅgāram rasam āsādya sanjñitam ..]
ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ ११०॥
ग्लानिः शङ्का हि असूया च श्रमः चपलता तथा । सुप्तम् निद्रा-अवहित्थम् च हास्ये भावाः प्रकीर्तिताः ॥ ११०॥
glāniḥ śaṅkā hi asūyā ca śramaḥ capalatā tathā . suptam nidrā-avahittham ca hāsye bhāvāḥ prakīrtitāḥ .. 110..
निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ १११॥
निर्वेदः च एव चिन्ता च दैन्यम् ग्लानि-अस्रम् एव च जड-ता मरणम् च एव व्याधिः च करुणे स्मृताः ॥ १११॥
nirvedaḥ ca eva cintā ca dainyam glāni-asram eva ca jaḍa-tā maraṇam ca eva vyādhiḥ ca karuṇe smṛtāḥ .. 111..
गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ ११२॥
गर्वः असूया मद-उत्साहौ आवेगः अमर्षः एव च । क्रोधः चपलता औग्र्यम् च विज्ञेयाः रौद्र-सम्भवाः ॥ ११२॥
garvaḥ asūyā mada-utsāhau āvegaḥ amarṣaḥ eva ca . krodhaḥ capalatā augryam ca vijñeyāḥ raudra-sambhavāḥ .. 112..
असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ ११३॥
असम्मोहः तथा उत्साहः आवेगः हर्षः एव च । मतिः च एव तथा उग्र-त्वम् अमर्षः मदः एव च ॥ ११३॥
asammohaḥ tathā utsāhaḥ āvegaḥ harṣaḥ eva ca . matiḥ ca eva tathā ugra-tvam amarṣaḥ madaḥ eva ca .. 113..
रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ ११४॥
रोमाञ्चः स्वरभेदः च क्रोधः असूया धृतिः तथा । गर्वः च एव वितर्कः च वीरे भावाः भवन्ति हि ॥ ११४॥
romāñcaḥ svarabhedaḥ ca krodhaḥ asūyā dhṛtiḥ tathā . garvaḥ ca eva vitarkaḥ ca vīre bhāvāḥ bhavanti hi .. 114..
स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा । त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥ ११५॥
स्वेदः च वेपथुः च एव रोमाञ्चः गद्गदः तथा । त्रासः च वैवर्ण्यम् च भयानके ॥ ११५॥
svedaḥ ca vepathuḥ ca eva romāñcaḥ gadgadaḥ tathā . trāsaḥ ca vaivarṇyam ca bhayānake .. 115..
अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ ११६॥
अपस्मारः तथा उन्मादः विषादः मदः एव च । मृत्युः व्याधिः भयम् च एव भावाः बीभत्स-संश्रयाः ॥ ११६॥
apasmāraḥ tathā unmādaḥ viṣādaḥ madaḥ eva ca . mṛtyuḥ vyādhiḥ bhayam ca eva bhāvāḥ bībhatsa-saṃśrayāḥ .. 116..
स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ ११७॥
स्तम्भः स्वेदः च मोहः च रोमाञ्चः विस्मयः तथा । आवेगः जड-ता हर्षः मूर्छा च एव अद्भुत-आश्रयाः ॥ ११७॥
stambhaḥ svedaḥ ca mohaḥ ca romāñcaḥ vismayaḥ tathā . āvegaḥ jaḍa-tā harṣaḥ mūrchā ca eva adbhuta-āśrayāḥ .. 117..
ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ ११८॥
ये तु एते सात्त्विकाः भावाः नाना अभिनय-संश्रिताः । रसेषु एतेषु सर्वे ते ज्ञेयाः नाट्य-प्रयोक्तृभिः ॥ ११८॥
ye tu ete sāttvikāḥ bhāvāḥ nānā abhinaya-saṃśritāḥ . raseṣu eteṣu sarve te jñeyāḥ nāṭya-prayoktṛbhiḥ .. 118..
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ ११९॥
न हि एक-रस-जम् काव्यम् किञ्चिद् अस्ति प्रयोगतः । भावः वा अपि रसः वा अपि प्रवृत्तिः वृत्तिः एव च ॥ ११९॥
na hi eka-rasa-jam kāvyam kiñcid asti prayogataḥ . bhāvaḥ vā api rasaḥ vā api pravṛttiḥ vṛttiḥ eva ca .. 119..
[ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । सञ्चारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥]
[ बहूनाम् समवेतानाम् रूपम् यस्य भवेत् बहु । स मन्तव्यः रसः स्थायी शेषाः सञ्चारिणः मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनर् स्थायिनम् रसम् । ते तु सञ्चारिणः ज्ञेयाः ते हि स्थायि-त्वम् आगताः ॥ विभाव-अनुभाव-युतः हि अङ्ग-वस्तु-समाश्रयः । सञ्चारिभिः तु संयुक्तः स्थायी एव तु रसः भवेत् ॥ स्थायी सत्त्व-अतिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चारी आकार-मात्रेण स्थायी यस्मात् अवस्थितः ॥ ये तु एते सात्त्विकाः भावाः नाना अभिनय-योजिताः । रसेषु एतेषु सर्वेषु ते ज्ञेयाः नाट्य-कोविदैः ॥ न हि एक-रस-जम् काव्यम् न एक-भाव-एक-वृत्तिकम् । विमर्दे रागम् आयाति प्रयुक्तम् हि प्रयत्नतः ॥ भावाः वा अपि रसाः वा अपि प्रवृत्तिः वृत्तिः एव वा । बीभत्स-अद्भुत-शान्तानाम् त्रैविध्यम् न अत्र कथ्यते ॥ षण्णाम् रसानाम् त्रैविध्यम् नाना भाव-अरस-अन्वितम् । सत्त्व-प्रयोजितः हि अर्थः प्रयोगः अत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रम् हि दुर्लभम् ॥]
[ bahūnām samavetānām rūpam yasya bhavet bahu . sa mantavyaḥ rasaḥ sthāyī śeṣāḥ sañcāriṇaḥ matāḥ .. dīpayantaḥ pravartante ye punar sthāyinam rasam . te tu sañcāriṇaḥ jñeyāḥ te hi sthāyi-tvam āgatāḥ .. vibhāva-anubhāva-yutaḥ hi aṅga-vastu-samāśrayaḥ . sañcāribhiḥ tu saṃyuktaḥ sthāyī eva tu rasaḥ bhavet .. sthāyī sattva-atirekeṇa prayoktavyaḥ prayoktṛbhiḥ . sañcārī ākāra-mātreṇa sthāyī yasmāt avasthitaḥ .. ye tu ete sāttvikāḥ bhāvāḥ nānā abhinaya-yojitāḥ . raseṣu eteṣu sarveṣu te jñeyāḥ nāṭya-kovidaiḥ .. na hi eka-rasa-jam kāvyam na eka-bhāva-eka-vṛttikam . vimarde rāgam āyāti prayuktam hi prayatnataḥ .. bhāvāḥ vā api rasāḥ vā api pravṛttiḥ vṛttiḥ eva vā . bībhatsa-adbhuta-śāntānām traividhyam na atra kathyate .. ṣaṇṇām rasānām traividhyam nānā bhāva-arasa-anvitam . sattva-prayojitaḥ hi arthaḥ prayogaḥ atra virājate .. viditvā hi virājante loke citram hi durlabham ..]
नानाभावार्थसम्पन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ १२०॥
नाना भाव-अर्थ-सम्पन्नाः स्थायि-सत्त्व-अभिचारिणः । पुष्प-अवकीर्णाः कर्तव्याः काव्येषु हि रसाः बुधैः ॥ १२०॥
nānā bhāva-artha-sampannāḥ sthāyi-sattva-abhicāriṇaḥ . puṣpa-avakīrṇāḥ kartavyāḥ kāvyeṣu hi rasāḥ budhaiḥ .. 120..
एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥ १२१॥
एवम् रसाः च भावाः च व्यवस्थाः नाटके स्मृताः । यः एवम् एतान् जानाति स गच्छेत् सिद्धिम् उत्तमाम् ॥ १२१॥
evam rasāḥ ca bhāvāḥ ca vyavasthāḥ nāṭake smṛtāḥ . yaḥ evam etān jānāti sa gacchet siddhim uttamām .. 121..
इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः ॥
इति श्री-भारतीये नाट्यशास्त्रे भावव्यञ्जकः नाम सप्तमः अध्यायः ॥
iti śrī-bhāratīye nāṭyaśāstre bhāvavyañjakaḥ nāma saptamaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In