अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन- ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः ।
[ शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥]
[ śaṅkāvyādhistathāglāniścintāsūyā bhayaṃ tathā . vismayaśca vitarkaśca stambhaścapalatā tathā .. romāñcaharṣau nidrā ca tathonmādamadāvapi . svedaścaivāvahitthaṃ ca pralayo vepathustathā .. viṣādaśramanirvedā garvāvegau dhṛtiḥ smṛtiḥ . matirmoho vibodhaśca suptamautsukyavarjite .. krodhāmarṣau ca hāsaśca śoko'pasmāra eva ca . dainyaṃ ca maraṇaṃ caiva ratirutsāhasaṃyutā .. trāsavaivarṇyaruditaiḥ svarabhedaḥ śamo'pi ca . jaḍatā ca tathā ṣaṭ ca catvāriṃśatprakīrtitāḥ ..]