| |
|

This overlay will guide you through the buttons:

॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ सप्तत्रिंशोऽध्यायः ।
अथ सप्तत्रिंशः अध्यायः ।
atha saptatriṃśaḥ adhyāyaḥ .
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥
कस्यचिद् तु अथ कालस्य नहुषः नाम पार्थिवः । प्राप्तवान् देव-राज्यम् हि नय-बुद्धि-पराक्रमः ॥ १ ॥
kasyacid tu atha kālasya nahuṣaḥ nāma pārthivaḥ . prāptavān deva-rājyam hi naya-buddhi-parākramaḥ .. 1 ..
प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ २ ॥
प्रशशास तदा राज्यम् देवैः व्युष्टिम् अवाप्नुवन् । गान्धर्वम् नाट्यम् च दृष्ट्वा चिन्ताम् उपागमत् ॥ २ ॥
praśaśāsa tadā rājyam devaiḥ vyuṣṭim avāpnuvan . gāndharvam nāṭyam ca dṛṣṭvā cintām upāgamat .. 2 ..
स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥
स चिन्तयित्वा मनसा कथम् एष गृहे मम । नाट्य-प्रयोगः हि भवेत् इति सादरः एव सन् ॥ ३ ॥
sa cintayitvā manasā katham eṣa gṛhe mama . nāṭya-prayogaḥ hi bhavet iti sādaraḥ eva san .. 3 ..
कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥
कृताञ्जलिः प्रयोग-अर्थम् प्रोक्तवान् तु सुरान् नृपः । अप्सरोभिः इदम् सार्धम् नाट्यम् भवतु मे गृहे ॥ ४ ॥
kṛtāñjaliḥ prayoga-artham proktavān tu surān nṛpaḥ . apsarobhiḥ idam sārdham nāṭyam bhavatu me gṛhe .. 4 ..
प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥
प्रत्युक्तः च ततस् देवैः बृहस्पति-पुरोगमैः । दिव्य-अङ्गनानाम् ना एवा इह मानुषैः सह सङ्गतिः ॥ ५ ॥
pratyuktaḥ ca tatas devaiḥ bṛhaspati-purogamaiḥ . divya-aṅganānām nā evā iha mānuṣaiḥ saha saṅgatiḥ .. 5 ..
हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
हितम् पथ्यम् च वक्तव्यः भवान् स्वर्ग-अधिपः हि यत् । आचार्याः तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
hitam pathyam ca vaktavyaḥ bhavān svarga-adhipaḥ hi yat . ācāryāḥ tatra gacchantu gatvā kurvantu te priyam .. 6 ..
प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः । इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥
प्रोक्तवान् तु ततस् माम् तु नृपतिः स कृताञ्जलिः । इदम् इच्छामि भगवत् नाट्यम् उर्व्याम् प्रतिष्ठितम् ॥ ७ ॥
proktavān tu tatas mām tu nṛpatiḥ sa kṛtāñjaliḥ . idam icchāmi bhagavat nāṭyam urvyām pratiṣṭhitam .. 7 ..
पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥
पूर्वम् आचार्यकम् च एव भवता अभिहितम् श्रुतम् । व्यक्त-भावात् तु इदम् लब्धम् त्वद्-सकाशात् द्विजोत्तम ॥ ८ ॥
pūrvam ācāryakam ca eva bhavatā abhihitam śrutam . vyakta-bhāvāt tu idam labdham tvad-sakāśāt dvijottama .. 8 ..
पितामहगृहेऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥
पितामह-गृहे अस्माकम् तद्-अन्तःपुरे जने । पितामह-क्रिया-युक्त उर्वश्याम् सम्प्रवर्तितम् ॥ ९ ॥
pitāmaha-gṛhe asmākam tad-antaḥpure jane . pitāmaha-kriyā-yukta urvaśyām sampravartitam .. 9 ..
तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥
तस्याः प्रणाश-शोकेन उन्माद-उपरते नृपे । विपन्ने अन्तःपुर-जने पुनर् नाशम् उपागतम् ॥ १० ॥
tasyāḥ praṇāśa-śokena unmāda-uparate nṛpe . vipanne antaḥpura-jane punar nāśam upāgatam .. 10 ..
प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् । तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥
प्रकाशम् एतत् इच्छामः भूयस् तत् सम्प्रयोजितम् । तिथि-यज्ञ-क्रियासु एतत् यथा स्यात् मङ्गलैः शुभैः ॥ ११ ॥
prakāśam etat icchāmaḥ bhūyas tat samprayojitam . tithi-yajña-kriyāsu etat yathā syāt maṅgalaiḥ śubhaiḥ .. 11 ..
तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥
तस्मिन् मम गृहे बद्धम् नाना प्रकृति-संश्रयम् । स्त्रीणाम् ललित-विन्यासैः यतस् नः प्रथयिष्यति ॥ १२ ॥
tasmin mama gṛhe baddham nānā prakṛti-saṃśrayam . strīṇām lalita-vinyāsaiḥ yatas naḥ prathayiṣyati .. 12 ..
तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ १३ ॥
तथा अस्तु इति मया प्रोक्तः नहुषः पार्थिवः तदा । सुताः च आहूय सम्प्रोक्ता साम-पूर्वम् सुरैः सह ॥ १३ ॥
tathā astu iti mayā proktaḥ nahuṣaḥ pārthivaḥ tadā . sutāḥ ca āhūya samproktā sāma-pūrvam suraiḥ saha .. 13 ..
अयं हि नहुषो राजा याचते नः कृताञ्जलिः । गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ १४ ॥
अयम् हि नहुषः राजा याचते नः कृताञ्जलिः । गम्यताम् सहितैः भूमिम् प्रयोक्तुम् नाट्यम् एव च ॥ १४ ॥
ayam hi nahuṣaḥ rājā yācate naḥ kṛtāñjaliḥ . gamyatām sahitaiḥ bhūmim prayoktum nāṭyam eva ca .. 14 ..
करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥
करिष्यमः च शाप-अन्तम् अस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानाम् नृपाणाम् च भविष्यथ न कुत्सिताः ॥ १५ ॥
kariṣyamaḥ ca śāpa-antam asmin samyak prayojite . brāhmaṇānām nṛpāṇām ca bhaviṣyatha na kutsitāḥ .. 15 ..
तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥
तत्र गत्वा प्रयुज्यन्ताम् प्रयोगान् वसुधा-तले । न शक्यम् च अन्यथा कर्तुम् वचनम् पार्थिवस्य हि ॥ १६ ॥
tatra gatvā prayujyantām prayogān vasudhā-tale . na śakyam ca anyathā kartum vacanam pārthivasya hi .. 16 ..
अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयम्भुवा ॥ १७ ॥
अस्माकम् च एव सर्वेषाम् नहुषस्य महात्मनः । आत्म-उपदेश-सिद्धम् हि नाट्यम् प्रोक्तम् स्वयम्भुवा ॥ १७ ॥
asmākam ca eva sarveṣām nahuṣasya mahātmanaḥ . ātma-upadeśa-siddham hi nāṭyam proktam svayambhuvā .. 17 ..
शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥
शेषम् उत्तर-तन्त्रेण कोहलः तु करिष्यति । प्रयोगः कारिकाः च एव निरुक्तानि तथा एव च ॥ १८ ॥
śeṣam uttara-tantreṇa kohalaḥ tu kariṣyati . prayogaḥ kārikāḥ ca eva niruktāni tathā eva ca .. 18 ..
अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् । अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
अप्सरोभिः इदम् सार्धम् क्रीडनीयक-हेतुकम् । अधिष्ठितम् मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
apsarobhiḥ idam sārdham krīḍanīyaka-hetukam . adhiṣṭhitam mayā svarge svātinā nāradena ca .. 19 ..
ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥
ततस् च वसुधाम् गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणाम् प्रयोगम् बहुधा बद्धवन्तः यथाक्रमम् ॥ २० ॥
tatas ca vasudhām gatvā nahuṣasya gṛhe dvijāḥ . strīṇām prayogam bahudhā baddhavantaḥ yathākramam .. 20 ..
अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥
अत्र उपभोगतः ते तु मानुषीषु माम् आत्मजाः । बद्धवन्तः अधिक-स्नेहम् तासु तत् द्विजसत्तमाः ॥ २१ ॥
atra upabhogataḥ te tu mānuṣīṣu mām ātmajāḥ . baddhavantaḥ adhika-sneham tāsu tat dvijasattamāḥ .. 21 ..
पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ २२ ॥
पुत्रान् उत्पाद्य वध्वा च प्रयोगम् च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गम् पुनर् सुताः ॥ २२ ॥
putrān utpādya vadhvā ca prayogam ca yathākramam . brahmaṇā samanujñātāḥ prāptāḥ svargam punar sutāḥ .. 22 ..
एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥
एवम् उर्वी-तले नाट्यम् शिष्यैः समवतारितम् । भरतानाम् च वंशः अयम् भविष्यम् च प्रवर्तितः ॥ २३ ॥
evam urvī-tale nāṭyam śiṣyaiḥ samavatāritam . bharatānām ca vaṃśaḥ ayam bhaviṣyam ca pravartitaḥ .. 23 ..
कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ २४ ॥
कोहल-आदिभिः एवम् तु वत्स-शाण्डिल्य-धूर्तितैः । मति-अधर्म-क्रिया-युक्तैः कश्चिद् कालम् अवस्थितैः ॥ २४ ॥
kohala-ādibhiḥ evam tu vatsa-śāṇḍilya-dhūrtitaiḥ . mati-adharma-kriyā-yuktaiḥ kaścid kālam avasthitaiḥ .. 24 ..
एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
एतत् शात्रम् प्रणीतम् हि नाराणाम् बुद्धि-वर्धनम् । त्रैलोक्यस्य क्रिया-उपेतम् सर्व-शास्त्र-निदर्शनम् । मङ्गल्यम् ललितम् च एव ब्रह्मणः वदन-उद्भवम् ॥ २५ ॥
etat śātram praṇītam hi nārāṇām buddhi-vardhanam . trailokyasya kriyā-upetam sarva-śāstra-nidarśanam . maṅgalyam lalitam ca eva brahmaṇaḥ vadana-udbhavam .. 25 ..
य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ २६ ॥
यः इदम् श्रुणुयात् नित्यम् प्रोक्तम् च इदम् स्वयम्भुवा । कुर्यात् प्रयोगम् यः च एवम् अथवा अधीतवान् नरः ॥ २६ ॥
yaḥ idam śruṇuyāt nityam proktam ca idam svayambhuvā . kuryāt prayogam yaḥ ca evam athavā adhītavān naraḥ .. 26 ..
या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ २७ ॥
या गतिः वेद-विदुषाम् या गतिः यज्ञ-कारिणाम् । या गतिः दान-शीलानाम् ताम् गतिम् प्राप्नुयात् हि सः ॥ २७ ॥
yā gatiḥ veda-viduṣām yā gatiḥ yajña-kāriṇām . yā gatiḥ dāna-śīlānām tām gatim prāpnuyāt hi saḥ .. 27 ..
दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥
दान-धर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीय-प्रदानम् हि सर्व-दानेषु शस्यते ॥ २८ ॥
dāna-dharmeṣu sarveṣu kīrtyate tu mahat phalam . prekṣaṇīya-pradānam hi sarva-dāneṣu śasyate .. 28 ..
न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥
न तथा गन्ध-माल्येन देवाः तुष्यन्ति पूजिताः । यथा नाट्य-प्रयोग-स्थैः नित्यम् तुष्यन्ति मङ्गलैः ॥ २९ ॥
na tathā gandha-mālyena devāḥ tuṣyanti pūjitāḥ . yathā nāṭya-prayoga-sthaiḥ nityam tuṣyanti maṅgalaiḥ .. 29 ..
गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३० ॥
गान्धर्वम् च इह नाट्यम् च यः सम्यक् परिपालयेत् । सः ईश्वर-गण-ईशानाम् लभते सत्-गतिम् पराम् ॥ ३० ॥
gāndharvam ca iha nāṭyam ca yaḥ samyak paripālayet . saḥ īśvara-gaṇa-īśānām labhate sat-gatim parām .. 30 ..
एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥
एवम् नाट्य-प्रयोगे बहु-विधि-विहितम् कर्म-शास्त्रम् प्रणीतम् । न उक्तम् यत् च अत्र लोकात् अनुकृति-करणात् । संविभाव्यम् तु तद्-ज्ञैः ॥
evam nāṭya-prayoge bahu-vidhi-vihitam karma-śāstram praṇītam . na uktam yat ca atra lokāt anukṛti-karaṇāt . saṃvibhāvyam tu tad-jñaiḥ ..
किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥
किम् च अन्यत् सम्प्रपूर्णा भवतु वसुमती नष्ट-दुर्भिक्ष-रोगा । शान्तिः गो-ब्राह्मणानाम् भवतु नरपतिः पातु पृथ्वीम् समग्राम् ॥ ३१ ॥
kim ca anyat samprapūrṇā bhavatu vasumatī naṣṭa-durbhikṣa-rogā . śāntiḥ go-brāhmaṇānām bhavatu narapatiḥ pātu pṛthvīm samagrām .. 31 ..
इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥
इति भरतीये नाट्य-शास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥
iti bharatīye nāṭya-śāstre guhyatattvakathanādhyāyaḥ saptatriṃśaḥ .. 37..
॥ नाट्यशास्त्रम् सम्पूर्णम् ॥
॥ नाट्यशास्त्रम् सम्पूर्णम् ॥
.. nāṭyaśāstram sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In