| |
|

This overlay will guide you through the buttons:

॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ सप्तत्रिंशोऽध्यायः ।
atha saptatriṃśo'dhyāyaḥ .
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ १ ॥
kasyacittvatha kālasya nahuṣo nāma pārthivaḥ . prāptavān devarājyaṃ hi nayabuddhiparākramaḥ .. 1 ..
प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चैअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ २ ॥
praśaśāsa tadā rājyaṃ devairvyuṣṭimavāpnuvan . gāndharvaṃ caia nāṭyaṃ ca dṛṣṭvā cintāmupāgamat .. 2 ..
स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ ३ ॥
sa cintayitvā manasā kathameṣa gṛhe mama . nāṭyaprayogo hi bhavediti sādara eva san .. 3 ..
कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥
kṛtāñjaliḥ prayogārthaṃ proktavāṃstu surān nṛpaḥ . apsarobhiridaṃ sārdhaṃ nāṭyaṃ bhavatu me gṛhe .. 4 ..
प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ ५ ॥
pratyuktaśca tato devairbṛhaspatipurogamaiḥ . divyāṅganānāṃ naiveha mānuṣaiḥ saha saṅgatiḥ .. 5 ..
हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
hitaṃ pathyaṃ ca vaktavyo bhavān svargādhipo hi yat . ācāryāstatra gacchantu gatvā kurvantu te priyam .. 6 ..
प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः । इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥
proktavāṃstu tato māṃ tu nṛpatiḥ sa kṛtāñjaliḥ . idamicchāmi bhagavan nāṭyamurvyāṃ pratiṣṭhitam .. 7 ..
पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥
pūrvamācāryakaṃ caiva bhavatā'bhihitaṃ śrutam . vyaktabhāvātvidaṃ labdhaṃ tvatsakāśād dvijottama .. 8 ..
पितामहगृहेऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥
pitāmahagṛhe'smākaṃ tadantaḥpure jane . pitāmahakriyāyukta murvaśyāṃ sampravartitam .. 9 ..
तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥
tasyāḥ praṇāśaśokena unmādoparate nṛpe . vipanne'ntaḥpurajane punarnāśamupāgatam .. 10 ..
प्रकाशमेतदिच्छामो भूयस्तत् सम्प्रयोजितम् । तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ ११ ॥
prakāśametadicchāmo bhūyastat samprayojitam . tithiyajñakriyāsvetad yathā syān maṅgalaiḥ śubhaiḥ .. 11 ..
तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥
tasmin mama gṛhe baddhaṃ nānāprakṛtisaṃśrayam . strīṇāṃ lalitavinyāsairyato naḥ prathayiṣyati .. 12 ..
तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ १३ ॥
tathā'stviti mayā prokto nahuṣaḥ pārthivastadā . sutāścāhūya samproktā sāmapūrvaṃ suraiḥ saha .. 13 ..
अयं हि नहुषो राजा याचते नः कृताञ्जलिः । गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ १४ ॥
ayaṃ hi nahuṣo rājā yācate naḥ kṛtāñjaliḥ . gamyatāṃ sahitairbhūmiṃ prayoktuṃ nāṭyameva ca .. 14 ..
करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ १५ ॥
kariṣyamaśca śāpāntamasmin samyak prayojite . brāhmaṇānāṃ nṛpāṇāṃ ca bhaviṣyatha na kutsitāḥ .. 15 ..
तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥
tatra gatvā prayujyantāṃ prayogān vasudhātale . na śakyaṃ cānyathā kartuṃ vacanaṃ pārthivasya hi .. 16 ..
अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयम्भुवा ॥ १७ ॥
asmākaṃ caiva sarveṣāṃ nahuṣasya mahātmanaḥ . ātmopadeśasiddhaṃ hi nāṭyaṃ proktaṃ svayambhuvā .. 17 ..
शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥
śeṣamuttaratantreṇa kohalastu kariṣyati . prayogaḥ kārikāścaiva niruktāni tathaiva ca .. 18 ..
अप्सरोभिरिदं सार्धं क्रीडनीयकहेतुकम् । अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
apsarobhiridaṃ sārdhaṃ krīḍanīyakahetukam . adhiṣṭhitaṃ mayā svarge svātinā nāradena ca .. 19 ..
ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ २० ॥
tataśca vasudhāṃ gatvā nahuṣasya gṛhe dvijāḥ . strīṇāṃ prayogaṃ bahudhā baddhavanto yathākramam .. 20 ..
अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तोऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ २१ ॥
atropabhogataste tu mānuṣīṣu māmātmajāḥ . baddhavanto'dhikasnehaṃ tāsu tad dvijasattamāḥ .. 21 ..
पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ २२ ॥
putrānutpādya vadhvā ca prayogaṃ ca yathākramam . brahmaṇā samanujñātāḥ prāptāḥ svargaṃ punaḥ sutāḥ .. 22 ..
एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥
evamurvītale nāṭyaṃ śiṣyaiḥ samavatāritam . bharatānāṃ ca vaṃśo'yaṃ bhaviṣyaṃ ca pravartitaḥ .. 23 ..
कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ २४ ॥
kohalādibhirevaṃ tu vatsaśāṇḍilyadhūrtitaiḥ . matyadharmakriyāyuktaiḥ kaścitkālamavasthitaiḥ .. 24 ..
एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
etacchātraṃ praṇītaṃ hi nārāṇāṃ buddhivardhanam . trailokyasya kriyopetaṃ sarvaśāstranidarśanam . maṅgalyaṃ lalitaṃ caiva brahmaṇo vadanodbhavam .. 25 ..
य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ २६ ॥
ya idaṃ śruṇuyān nityaṃ proktaṃ cedaṃ svayambhuvā . kuryāt prayogaṃ yaścaivamathavā'dhītavān naraḥ .. 26 ..
या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ २७ ॥
yā gatirvedaviduṣāṃ yā gatiryajñakāriṇām . yā gatirdānaśīlānāṃ tāṃ gatiṃ prāpnuyāddhi saḥ .. 27 ..
दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ २८ ॥
dānadharmeṣu sarveṣu kīrtyate tu mahat phalam . prekṣaṇīyapradānaṃ hi sarvadāneṣu śasyate .. 28 ..
न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ २९ ॥
na tathā gandhamālyena devāstuṣyanti pūjitāḥ . yathā nāṭyaprayogasthairnityaṃ tuṣyanti maṅgalaiḥ .. 29 ..
गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ ३० ॥
gāndharvaṃ ceha nāṭyaṃ ca yaḥ samyak paripālayet . sa īśvaragaṇeśānāṃ labhate sadgatiṃ parām .. 30 ..
एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥
evaṃ nāṭyaprayoge bahuvidhivihitaṃ karmaśāstraṃ praṇītam . noktaṃ yaccātra lokādanukṛtikaraṇāt . saṃvibhāvyaṃ tu tajjñaiḥ ..
किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ ३१ ॥
kiṃ cānyat samprapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā . śāntirgobrāhmaṇānāṃ bhavatu narapatiḥ pātu pṛthvīṃ samagrām .. 31 ..
इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ॥ ३७॥
iti bharatīye nāṭyaśāstre guhyatattvakathanādhyāyaḥ saptatriṃśaḥ .. 37..
॥ नाट्यशास्त्रम् सम्पूर्णम् ॥
.. nāṭyaśāstram sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In