| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २७ ॥
॥ नाट्य-शास्त्रम् अध्याय ॥
.. nāṭya-śāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ सप्तविंशोऽध्यायः
अथ सप्तविंशः अध्यायः
atha saptaviṃśaḥ adhyāyaḥ
सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् । यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं सम्प्रदर्शितः ॥ १॥
सिद्धीनाम् तु प्रवक्ष्यामि लक्षणम् नाटक-आश्रयम् । यस्मात् प्रयोगः सर्वः अयम् सिद्धि-अर्थम् सम्प्रदर्शितः ॥ १॥
siddhīnām tu pravakṣyāmi lakṣaṇam nāṭaka-āśrayam . yasmāt prayogaḥ sarvaḥ ayam siddhi-artham sampradarśitaḥ .. 1..
सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा । दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ २॥
सिद्धिः तु द्विविधा ज्ञेया वाच्-मनः-ओङ्ग-समुद्भवा । दैवी च मानुषी च एव नाना भाव-समुत्थिता ॥ २॥
siddhiḥ tu dvividhā jñeyā vāc-manaḥ-oṅga-samudbhavā . daivī ca mānuṣī ca eva nānā bhāva-samutthitā .. 2..
दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ ३॥
दश-अङ्गा मानुषी सिद्धीः दैवी तु द्विविधा स्मृता । नाना सत्त्व-आश्रय-कृता वाच् नैपथ्य-शरीर-जा ॥ ३॥
daśa-aṅgā mānuṣī siddhīḥ daivī tu dvividhā smṛtā . nānā sattva-āśraya-kṛtā vāc naipathya-śarīra-jā .. 3..
स्मितापहासिनी हासा साध्वहो कष्टमेव च । प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ ४॥
स्मित-अपहासिनी हासा साधु अहो कष्टम् एव च । प्रबद्ध-नादा च तथा सिद्धिः ज्ञेया अथ वाच्-मयी ॥ ४॥
smita-apahāsinī hāsā sādhu aho kaṣṭam eva ca . prabaddha-nādā ca tathā siddhiḥ jñeyā atha vāc-mayī .. 4..
पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च । चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ ५॥
पुलकैः च स रोमाञ्चैः अभ्युत्थानैः तथा एव च । चेल-दान-अङ्गुलि-क्षेपैः शारीरी सिद्धिः इष्यते ॥ ५॥
pulakaiḥ ca sa romāñcaiḥ abhyutthānaiḥ tathā eva ca . cela-dāna-aṅguli-kṣepaiḥ śārīrī siddhiḥ iṣyate .. 5..
किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ ६॥
किञ्चिद् शिष्टः रसः हास्यः नृत्यद्भिः यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैः नित्यम् एव च ॥ ६॥
kiñcid śiṣṭaḥ rasaḥ hāsyaḥ nṛtyadbhiḥ yatra yujyate . smitena sa pratigrāhyaḥ prekṣakaiḥ nityam eva ca .. 6..
किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च । अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ७॥
किञ्चिद् अस्पष्ट-हास्यम् यत् तथा वचनम् एव च । अर्थ-हास्येन तत् ग्राह्यम् प्रेक्षकैः नित्यम् एव हि ॥ ७॥
kiñcid aspaṣṭa-hāsyam yat tathā vacanam eva ca . artha-hāsyena tat grāhyam prekṣakaiḥ nityam eva hi .. 7..
विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ ८॥
विदूषक-उच्छेद-कृतम् भवेत् शिल्प-कृतम् च यत् । अति हास्येन तत् ग्राह्यम् प्रेक्षकैः नित्यम् एव तु ॥ ८॥
vidūṣaka-uccheda-kṛtam bhavet śilpa-kṛtam ca yat . ati hāsyena tat grāhyam prekṣakaiḥ nityam eva tu .. 8..
अहोकारस्तथा कार्यो नृणां प्रकृतिसम्भवः । यद्धर्मपदसंयुक्तं यथातिशयसम्भवम् ॥ ९॥
अहोकारः तथा कार्यः नृणाम् प्रकृति-सम्भवः । यद्-धर्म-पद-संयुक्तम् यथा अतिशय-सम्भवम् ॥ ९॥
ahokāraḥ tathā kāryaḥ nṛṇām prakṛti-sambhavaḥ . yad-dharma-pada-saṃyuktam yathā atiśaya-sambhavam .. 9..
तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः । विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ १०॥
तत्र साधु इति यत् वाक्यम् प्रयोक्तव्यम् हि साधकैः । विस्मय-आविष्ट-भावेषु प्रहर्ष-अर्थेषु च एव हि ॥ १०॥
tatra sādhu iti yat vākyam prayoktavyam hi sādhakaiḥ . vismaya-āviṣṭa-bhāveṣu praharṣa-artheṣu ca eva hi .. 10..
करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु । प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ ११॥
करुणे अपि प्रयोक्तव्यम् कष्टम् शास्त्र-कृतेन तु । प्रबद्ध-नादा च तथा विस्मय-अर्थेषु नित्यशस् ॥ ११॥
karuṇe api prayoktavyam kaṣṭam śāstra-kṛtena tu . prabaddha-nādā ca tathā vismaya-artheṣu nityaśas .. 11..
साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः । कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ १२॥
स अधिक्षेपेषु वाक्येषु प्रस्पन्दित-तनूरुहैः । कुतूहल-उत्तरा-वेधैः बहु-मानेन साधयेत् ॥ १२॥
sa adhikṣepeṣu vākyeṣu praspandita-tanūruhaiḥ . kutūhala-uttarā-vedhaiḥ bahu-mānena sādhayet .. 12..
दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् । सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ १३॥
दीप्त-प्रदेशम् यत् कार्यम् छेद्य-भेद्य-आहव-आत्मकम् । स विद्रवम् अथ उत्फुल्लम् तथा युद्ध-नियुद्ध-जम् ॥ १३॥
dīpta-pradeśam yat kāryam chedya-bhedya-āhava-ātmakam . sa vidravam atha utphullam tathā yuddha-niyuddha-jam .. 13..
प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ १४॥
प्रकम्पित-अंस-शीर्षम् च स अश्रम् स उत्थानम् एव च । तत् प्रेक्षकैः तु कुशलैः साध्यम् एवम् विधानतः ॥ १४॥
prakampita-aṃsa-śīrṣam ca sa aśram sa utthānam eva ca . tat prekṣakaiḥ tu kuśalaiḥ sādhyam evam vidhānataḥ .. 14..
एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी । दैविकीञ्च पुनः सिद्धिं सम्प्रवक्ष्यामि तत्त्वतः ॥ १५॥
एवम् साधयितव्या एषा तद्-ज्ञैः सिद्धिः तु मानुषी । दैविकीन् च पुनर् सिद्धिम् सम्प्रवक्ष्यामि तत्त्वतः ॥ १५॥
evam sādhayitavyā eṣā tad-jñaiḥ siddhiḥ tu mānuṣī . daivikīn ca punar siddhim sampravakṣyāmi tattvataḥ .. 15..
या भावातिशयोपेता सत्त्वयुक्ता तथैव च । सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६॥
या भाव-अतिशय-उपेता सत्त्व-युक्ता तथा एव च । सा प्रेक्षकैः तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६॥
yā bhāva-atiśaya-upetā sattva-yuktā tathā eva ca . sā prekṣakaiḥ tu kartavyā daivī siddhiḥ prayogataḥ .. 16..
न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् । सम्पूर्णता च रङ्गस्य दैवी सिद्धिस्तु सा स्मृता ॥ १७॥
न शब्दः न यत्र न क्षोभः न च उत्पात-निदर्शनम् । सम्पूर्ण-ता च रङ्गस्य दैवी सिद्धिः तु सा स्मृता ॥ १७॥
na śabdaḥ na yatra na kṣobhaḥ na ca utpāta-nidarśanam . sampūrṇa-tā ca raṅgasya daivī siddhiḥ tu sā smṛtā .. 17..
दैवी च मानुषी चैव सिद्धिरेषा मयोदिता । अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ १८॥
दैवी च मानुषी च एव सिद्धिः एषा मया उदिता । अतस् ऊर्ध्वम् प्रवक्ष्यामि ॥ १८॥
daivī ca mānuṣī ca eva siddhiḥ eṣā mayā uditā . atas ūrdhvam pravakṣyāmi .. 18..
दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया । औत्पातिकश्चतुर्थः कदाचिदथ सम्भवत्येषु ॥ १९॥
दैव-आत्म-पर-समुत्था त्रिविधा घाताः बुधैः तु विज्ञेया । औत्पातिकः चतुर्थः कदाचिद् अथ सम्भवति एषु ॥ १९॥
daiva-ātma-para-samutthā trividhā ghātāḥ budhaiḥ tu vijñeyā . autpātikaḥ caturthaḥ kadācid atha sambhavati eṣu .. 19..
वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः । कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ २०॥
वात-अग्नि-वर्ष-कुञ्जर-भुजङ्ग-मण्डप-निपाताः । कीट-व्याल-पिपीलिक-पशु-प्रवेशनाः च दैवक-कृता ॥ २०॥
vāta-agni-varṣa-kuñjara-bhujaṅga-maṇḍapa-nipātāḥ . kīṭa-vyāla-pipīlika-paśu-praveśanāḥ ca daivaka-kṛtā .. 20..
घातनतः परमहं परयुक्तान् सम्प्रवक्ष्यामि । [वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ २१॥
घातनतः परम् अहम् पर-युक्तान् सम्प्रवक्ष्यामि । [वैवर्ण्यम् च अचेष्टम् विभ्रमित-त्वम् स्मृति-प्रमोहः च ॥ २१॥
ghātanataḥ param aham para-yuktān sampravakṣyāmi . [vaivarṇyam ca aceṣṭam vibhramita-tvam smṛti-pramohaḥ ca .. 21..
अन्यवचनं च काव्यं तथाङ्गदोषो विहस्तत्वम् । एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः ॥ २२॥]
अन्य-वचनम् च काव्यम् तथा अङ्ग-दोषः विहस्त-त्वम् । एते तु आत्म-समुत्थाः घाताः ज्ञेया प्रयोग-ज्ञैः ॥ २२॥]
anya-vacanam ca kāvyam tathā aṅga-doṣaḥ vihasta-tvam . ete tu ātma-samutthāḥ ghātāḥ jñeyā prayoga-jñaiḥ .. 22..]
मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् । एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ २३॥
मात्सर्यात् द्वेषात् वा तद्-पक्ष-त्वात् तथा अर्थ-भेद-त्वात् । एते तु पर-समुत्थाः ज्ञेयाः घाताः बुधैः नित्यम् ॥ २३॥
mātsaryāt dveṣāt vā tad-pakṣa-tvāt tathā artha-bheda-tvāt . ete tu para-samutthāḥ jñeyāḥ ghātāḥ budhaiḥ nityam .. 23..
अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः । गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसम्भूताः ॥ २४॥
अति हसित-रुदित-विस्फोटित-अन्यथा उत्कृष्ट-नालिका-पाताः । गोमय-लोष्ट-पिपीलिका-विक्षेपाः च अरि-सम्भूताः ॥ २४॥
ati hasita-rudita-visphoṭita-anyathā utkṛṣṭa-nālikā-pātāḥ . gomaya-loṣṭa-pipīlikā-vikṣepāḥ ca ari-sambhūtāḥ .. 24..
औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः । पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ २५॥
औत्पतिकाः च घाताः मत्त-उन्मत्त-प्रवेश-लिङ्ग-कृतः । पुनर् आत्म-समुत्थाः ये घातान् तान् तान् प्रवक्ष्यामि ॥ २५॥
autpatikāḥ ca ghātāḥ matta-unmatta-praveśa-liṅga-kṛtaḥ . punar ātma-samutthāḥ ye ghātān tān tān pravakṣyāmi .. 25..
वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च । अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ २६॥
वैलक्षण्यम् अचेष्टित-विभूमिक-त्वम् स्मृति-प्रमोषः च । अन्य-वचनम् च काव्यम् तथा आर्त-नादः विहस्त-त्वम् ॥ २६॥
vailakṣaṇyam aceṣṭita-vibhūmika-tvam smṛti-pramoṣaḥ ca . anya-vacanam ca kāvyam tathā ārta-nādaḥ vihasta-tvam .. 26..
अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च । मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ २७॥
अति हसित-रुदित-विस्वर-पिपीलिका-कीट-पशु-विरावाः च । मुकुट-आभरण-निपाता पुष्कर-जाः काव्य-दोषाः च ॥ २७॥
ati hasita-rudita-visvara-pipīlikā-kīṭa-paśu-virāvāḥ ca . mukuṭa-ābharaṇa-nipātā puṣkara-jāḥ kāvya-doṣāḥ ca .. 27..
अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः । कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ २८॥
अतिहसित-रुदित-हसितानि सिद्धैः भावस्य दूषकाणि स्युः । कीट-पिपीलिक-पाता सिद्धिम् सर्व-आत्मना घ्नान्त ॥ २८॥
atihasita-rudita-hasitāni siddhaiḥ bhāvasya dūṣakāṇi syuḥ . kīṭa-pipīlika-pātā siddhim sarva-ātmanā ghnānta .. 28..
विवस्वरमजाततालं वर्णस्वरसम्पदा च परिहीणम् । अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ २९॥
विवस्वरम् अजात-तालम् वर्ण-स्वर-सम्पदा च परिहीणम् । अज्ञात-स्थान-लयम् स्वर-गतम् एवंविधम् हन्यात् ॥ २९॥
vivasvaram ajāta-tālam varṇa-svara-sampadā ca parihīṇam . ajñāta-sthāna-layam svara-gatam evaṃvidham hanyāt .. 29..
मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति । पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ ३०॥
मुकुट-आभरण-निपातः प्रबद्ध-नादः च नाशनः भवति । पशु-विशसनम् स्यात् बहुवचन-घ्नम् प्रयोगेषु ॥ ३०॥
mukuṭa-ābharaṇa-nipātaḥ prabaddha-nādaḥ ca nāśanaḥ bhavati . paśu-viśasanam syāt bahuvacana-ghnam prayogeṣu .. 30..
विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च । अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ ३१॥
विषमम् मान-विहीनम् विमार्जनम् च आकुल-प्रहारम् च । अविभक्त-ग्रह-मोक्षम् पुष्कर-गतम् ईदृशम् हन्ति ॥ ३१॥
viṣamam māna-vihīnam vimārjanam ca ākula-prahāram ca . avibhakta-graha-mokṣam puṣkara-gatam īdṛśam hanti .. 31..
पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः । त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ ३२॥
पुनरुक्तः हि असमासः विभक्तिभेदः विसन्धयः अपार्थः । त्रैलिङ्ग-जः च दोषः प्रत्यक्ष-परोक्ष-संमोहाः ॥ ३२॥
punaruktaḥ hi asamāsaḥ vibhaktibhedaḥ visandhayaḥ apārthaḥ . trailiṅga-jaḥ ca doṣaḥ pratyakṣa-parokṣa-saṃmohāḥ .. 32..
छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः । एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ ३३॥
। एतानि यथा स्थूलम् घात-स्थानानि काव्यस्य ॥ ३३॥
. etāni yathā sthūlam ghāta-sthānāni kāvyasya .. 33..
ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् । प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ ३४॥
ज्ञेयौ तु काव्य-जातौ द्वौ घातौ अप्रतिक्रियौ नित्यम् । ॥ ३४॥
jñeyau tu kāvya-jātau dvau ghātau apratikriyau nityam . .. 34..
अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ ३५॥
अप्रतिभागम् स्खलनम् विस्वरम् उच्चारणम् च काव्यस्य । अस्थान-भूषण-त्वम् पतनम् मुकुटस्य विभ्रंशः ॥ ३५॥
apratibhāgam skhalanam visvaram uccāraṇam ca kāvyasya . asthāna-bhūṣaṇa-tvam patanam mukuṭasya vibhraṃśaḥ .. 35..
वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् । आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ ३६॥
वाजि-स्यन्दन-कुञ्जर-खर-उष्ट्र-शिबिका-विमान-यानानाम् । आरोहण-अवतरणेषु अनभिज्ञ-त्वम् विहस्त्वम् ॥ ३६॥
vāji-syandana-kuñjara-khara-uṣṭra-śibikā-vimāna-yānānām . ārohaṇa-avataraṇeṣu anabhijña-tvam vihastvam .. 36..
प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि । अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ॥ ३७॥
प्रहरण-कवचानाम् अपि अयथा ग्रहणम् विधारणम् च अपि । अ मुकुट-भूषण-योगः चिर-प्रवेशः अथवा रङ्गे ॥ ३७॥
praharaṇa-kavacānām api ayathā grahaṇam vidhāraṇam ca api . a mukuṭa-bhūṣaṇa-yogaḥ cira-praveśaḥ athavā raṅge .. 37..
एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः । यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ ३८॥
एभिः स्थान-विशेषैः घाताः लक्ष्याः तु सूरिभिः कुशलैः । यूप-अग्नि-चयन-दर्भ-स्त्रज्-भाण्ड-परिग्रहान् मुक्त्वा ॥ ३८॥
ebhiḥ sthāna-viśeṣaiḥ ghātāḥ lakṣyāḥ tu sūribhiḥ kuśalaiḥ . yūpa-agni-cayana-darbha-straj-bhāṇḍa-parigrahān muktvā .. 38..
सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि । नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ ३९॥
सिद्ध्या मिश्रः घातः सर्व-गतः च एक-देश-जः वा अपि । नाट्य-कुशलैः स लेख्या सिद्धिः वा स्यात् विघातः वा ॥ ३९॥
siddhyā miśraḥ ghātaḥ sarva-gataḥ ca eka-deśa-jaḥ vā api . nāṭya-kuśalaiḥ sa lekhyā siddhiḥ vā syāt vighātaḥ vā .. 39..
नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः । यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् ॥ ४०॥
न आलेख्यः बहु-दिन-जः सर्व-गतः अव्यक्त-लक्षण-विशेषः । यः तु अ एक-दिवस-जातः स प्रत्यवरः अपि लेख्यः स्यात् ॥ ४०॥
na ālekhyaḥ bahu-dina-jaḥ sarva-gataḥ avyakta-lakṣaṇa-viśeṣaḥ . yaḥ tu a eka-divasa-jātaḥ sa pratyavaraḥ api lekhyaḥ syāt .. 40..
जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु । कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ ४१॥
जर्जरमोक्ष्यस्य अन्ते सिद्धेः मोक्षः तु नालिकायाः तु । कर्तव्यः तु इह सततम् नाट्य-ज्ञैः प्राश्निकैः विधिना ॥ ४१॥
jarjaramokṣyasya ante siddheḥ mokṣaḥ tu nālikāyāḥ tu . kartavyaḥ tu iha satatam nāṭya-jñaiḥ prāśnikaiḥ vidhinā .. 41..
दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ ४२॥
दैन्ये दीन-त्वम् आयान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिम् आयान्ति शोके शोकम् व्रजन्ति च ॥ ४२॥
dainye dīna-tvam āyānti te nāṭye prekṣakāḥ smṛtāḥ . ye tuṣṭau tuṣṭim āyānti śoke śokam vrajanti ca .. 42..
योऽन्यस्य महे मूर्धो नान्दीश्लोकं पठेद्धि देवस्य । स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥४३॥
यः अन्यस्य महे मूर्धः नान्दीश्लोकम् पठेत् हि देवस्य । स्व-वशेन पूर्वरङ्गे सिद्धेः घातः प्रयोगस्य ॥४३॥
yaḥ anyasya mahe mūrdhaḥ nāndīślokam paṭhet hi devasya . sva-vaśena pūrvaraṅge siddheḥ ghātaḥ prayogasya ..43..
यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या । तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ ४४॥
यः देश-भाव-रहितम् भाषा-काव्यम् प्रयोजयेत् बुद्ध्या । तस्य अपि अभिलेख्यः स्यात् घातः देशः प्रयोग-ज्ञैः ॥ ४४॥
yaḥ deśa-bhāva-rahitam bhāṣā-kāvyam prayojayet buddhyā . tasya api abhilekhyaḥ syāt ghātaḥ deśaḥ prayoga-jñaiḥ .. 44..
कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य । कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ ४५॥
कः शक्तः नाट्य-विधौ यथावत् उपपादनम् प्रयोगस्य । कर्तुम् व्यग्र-मनाः वा यथावत् उक्तम् परिज्ञातम् ॥ ४५॥
kaḥ śaktaḥ nāṭya-vidhau yathāvat upapādanam prayogasya . kartum vyagra-manāḥ vā yathāvat uktam parijñātam .. 45..
तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः । सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ ४६॥
तस्मात् गम्भीर-अर्थाः शब्दाः ये लोक-वेद-संसिद्धाः । सर्व-जनेन ग्राह्या योज्या नाटके विधिवत् ॥ ४६॥
tasmāt gambhīra-arthāḥ śabdāḥ ye loka-veda-saṃsiddhāḥ . sarva-janena grāhyā yojyā nāṭake vidhivat .. 46..
न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् । तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ ४७॥
न च किञ्चिद् गुण-हीनम् दोषैः परिवर्जितम् न च अकिञ्चित् । तस्मात् नाट्य-प्रकृतौ दोषाः नाट्य-अर्थतः ग्राह्या ॥ ४७॥
na ca kiñcid guṇa-hīnam doṣaiḥ parivarjitam na ca akiñcit . tasmāt nāṭya-prakṛtau doṣāḥ nāṭya-arthataḥ grāhyā .. 47..
न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये । रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ ४८॥
न च न आदरः तु कार्यः नटेन वाच्-अङ्ग-सत्त्व-नेपथ्ये । रस-भावयोः च गीतेषु आतोद्ये लोक-युक्त्याम् च ॥ ४८॥
na ca na ādaraḥ tu kāryaḥ naṭena vāc-aṅga-sattva-nepathye . rasa-bhāvayoḥ ca gīteṣu ātodye loka-yuktyām ca .. 48..
एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः । अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ ४९॥
एवम् एतत् तु विज्ञेयम् सिद्धीनाम् लक्षणम् बुधैः । अतस् ऊर्ध्वम् प्रवक्ष्यामि प्राश्निकानाम् तु लक्षणम् ॥ ४९॥
evam etat tu vijñeyam siddhīnām lakṣaṇam budhaiḥ . atas ūrdhvam pravakṣyāmi prāśnikānām tu lakṣaṇam .. 49..
चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः । यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ ५०॥
चारित्र-अभिजन-उपेताः शान्त-वृत्ताः कृत-श्रमाः । यशः-धर्म-पराः च एव मध्यस्थ-वयसा अन्विताः ॥ ५०॥
cāritra-abhijana-upetāḥ śānta-vṛttāḥ kṛta-śramāḥ . yaśaḥ-dharma-parāḥ ca eva madhyastha-vayasā anvitāḥ .. 50..
षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः । चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ ५१॥
षडङ्ग-नाट्य-कुशलाः प्रबुद्धाः शुचयः समाः । चतुर्-आतोद्य-कुशलाः वृत्त-ज्ञाः तत्त्व-दर्शिनः ॥ ५१॥
ṣaḍaṅga-nāṭya-kuśalāḥ prabuddhāḥ śucayaḥ samāḥ . catur-ātodya-kuśalāḥ vṛtta-jñāḥ tattva-darśinaḥ .. 51..
देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः ॥ चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ ५२॥
देश-भाषा-विधान-ज्ञाः कला-शिल्प-प्रयोजकाः ॥ चतुर्थ-अभिनय-उपेताः रस-भाव-विकल्पकाः ॥ ५२॥
deśa-bhāṣā-vidhāna-jñāḥ kalā-śilpa-prayojakāḥ .. caturtha-abhinaya-upetāḥ rasa-bhāva-vikalpakāḥ .. 52..
शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ ५३॥
शब्द-छन्दः-विधान-ज्ञाः नाना शास्त्र-विचक्षणाः । एवंविधाः तु कर्तव्याः प्राश्निकाः दश-रूपके ॥ ५३॥
śabda-chandaḥ-vidhāna-jñāḥ nānā śāstra-vicakṣaṇāḥ . evaṃvidhāḥ tu kartavyāḥ prāśnikāḥ daśa-rūpake .. 53..
अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ५४॥
अव्यग्रैः इन्द्रियैः शुद्धः ऊह-अपोह-विशारदः । च स नाट्ये प्रेक्षकः स्मृतः ॥ ५४॥
avyagraiḥ indriyaiḥ śuddhaḥ ūha-apoha-viśāradaḥ . ca sa nāṭye prekṣakaḥ smṛtaḥ .. 54..
न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वात्सङ्कीर्णानां च पार्षदि ॥ ५५॥
न च एव इते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्य अप्रमेय-त्वात् सङ्कीर्णानाम् च पार्षदि ॥ ५५॥
na ca eva ite guṇāḥ samyak sarvasmin prekṣake smṛtāḥ . vijñeyasya aprameya-tvāt saṅkīrṇānām ca pārṣadi .. 55..
यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा । तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ ५६॥
यदि अस्य शिल्पम् नेपथ्यम् कर्म-चेष्टितम् एव वा । तत् तथा तेन कार्यम् तु स्व-कर्म-विषयम् प्रति ॥ ५६॥
yadi asya śilpam nepathyam karma-ceṣṭitam eva vā . tat tathā tena kāryam tu sva-karma-viṣayam prati .. 56..
नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ ५७॥
नाना शीलाः प्रकृतयः शीले नाट्यम् विनिर्मितम् । उत्तम-अधम-मध्यानाम् वृद्ध-बालिश-योषिताम् ॥ ५७॥
nānā śīlāḥ prakṛtayaḥ śīle nāṭyam vinirmitam . uttama-adhama-madhyānām vṛddha-bāliśa-yoṣitām .. 57..
तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते । अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ ५८॥
तुष्यन्ति तरुणाः कामे विदग्धाः । अर्थेषु अर्थ-पराः च एव मोक्षे च अथ विरागिणः ॥ ५८॥
tuṣyanti taruṇāḥ kāme vidagdhāḥ . artheṣu artha-parāḥ ca eva mokṣe ca atha virāgiṇaḥ .. 58..
शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ ५९॥
शूराः तु वीर-रौद्रेषु नियुद्धेषु आहवेषु च । धर्म-आख्याने पुराणेषु वृद्धाः तुष्यन्ति नित्यशस् ॥ ५९॥
śūrāḥ tu vīra-raudreṣu niyuddheṣu āhaveṣu ca . dharma-ākhyāne purāṇeṣu vṛddhāḥ tuṣyanti nityaśas .. 59..
न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् । तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ ६०॥
न शक्यम् अधमैः ज्ञातुम् उत्तमानाम् विचेष्टितम् । तत्त्व-भावेषु सर्वेषु तुष्यन्ति सततम् बुधाः ॥ ६०॥
na śakyam adhamaiḥ jñātum uttamānām viceṣṭitam . tattva-bhāveṣu sarveṣu tuṣyanti satatam budhāḥ .. 60..
बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा । यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ ६१॥
बालाः मूर्खाः स्त्रियः च एव हास्य-नैपथ्ययोः सदा । यः तुष्टः तुष्टिम् आयाति शोके शोकम् उपैति च ॥ ६१॥
bālāḥ mūrkhāḥ striyaḥ ca eva hāsya-naipathyayoḥ sadā . yaḥ tuṣṭaḥ tuṣṭim āyāti śoke śokam upaiti ca .. 61..
क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ ६२॥
क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवम् भाव-अनुकरणे यः यस्मिन् प्रविशेत् नरः ॥ ६२॥
kruddhaḥ krodhe bhaye bhītaḥ sa śreṣṭhaḥ prekṣakaḥ smṛtaḥ . evam bhāva-anukaraṇe yaḥ yasmin praviśet naraḥ .. 62..
स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः । एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ ६३॥
स तत्र प्रेक्षकः ज्ञेयः गुणैः एभिः अलङ्कृतः । एवम् हि प्रेक्षकाः ज्ञेयाः प्रयोगे दश-रूपतः ॥ ६३॥
sa tatra prekṣakaḥ jñeyaḥ guṇaiḥ ebhiḥ alaṅkṛtaḥ . evam hi prekṣakāḥ jñeyāḥ prayoge daśa-rūpataḥ .. 63..
सङ्घर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ ६४॥
सङ्घर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञ-विद् नर्तकः च एव छन्दः-विद् शब्द-विद् तथा ॥ ६४॥
saṅgharṣe tu samutpanne prāśnikān saṃnibodhata . yajña-vid nartakaḥ ca eva chandaḥ-vid śabda-vid tathā .. 64..
अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः । यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ॥ ६५॥
। यज्ञ-विद् यज्ञ-योगे तु नर्तकः अभिनये स्मृतः ॥ ६५॥
. yajña-vid yajña-yoge tu nartakaḥ abhinaye smṛtaḥ .. 65..
छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे । इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ ६६॥
छन्दः-विद् वृत्त-बन्धेषु शब्द-विद् पाठ्य-विस्तरे । इषु-अस्त्र-विद् सौष्ठवे तु नेपथ्ये च एव चित्र-कृत् ॥ ६६॥
chandaḥ-vid vṛtta-bandheṣu śabda-vid pāṭhya-vistare . iṣu-astra-vid sauṣṭhave tu nepathye ca eva citra-kṛt .. 66..
कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ ६७॥
काम-उपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकः तु उपचारे स्यात् एते वै प्राश्निकाः स्मृताः ॥ ६७॥
kāma-upacāre veśyā ca gāndharvaḥ svarakarmaṇi . sevakaḥ tu upacāre syāt ete vai prāśnikāḥ smṛtāḥ .. 67..
एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः । अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ ६८॥
एभिः दृष्टान्त-संयुक्तैः दोषाः वाच्याः तथा गुणाः । अ शास्त्र-ज्ञाः विवादेषु यथा प्रकृति-कर्मतः ॥ ६८॥
ebhiḥ dṛṣṭānta-saṃyuktaiḥ doṣāḥ vācyāḥ tathā guṇāḥ . a śāstra-jñāḥ vivādeṣu yathā prakṛti-karmataḥ .. 68..
अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः । शास्त्रज्ञानाद्यदा तु स्यात्सङ्घर्षः शास्त्रसंश्रयः ॥ ६९॥
अथ एते प्रश्निकाः ज्ञेयाः कथिताः ये मया अनघाः । शास्त्र-ज्ञानात् यदा तु स्यात् सङ्घर्षः शास्त्र-संश्रयः ॥ ६९॥
atha ete praśnikāḥ jñeyāḥ kathitāḥ ye mayā anaghāḥ . śāstra-jñānāt yadā tu syāt saṅgharṣaḥ śāstra-saṃśrayaḥ .. 69..
शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा । भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ ७०॥
शास्त्र-प्रामाण-निर्माणैः व्यवहारः भवेत् तदा । भर्तृ-नियोगात् अन्यः अन्य-विग्रात् स्पर्धया अपि भरतानाम् ॥ ७०॥
śāstra-prāmāṇa-nirmāṇaiḥ vyavahāraḥ bhavet tadā . bhartṛ-niyogāt anyaḥ anya-vigrāt spardhayā api bharatānām .. 70..
अर्थपताका हेतोस्सङ्घर्षो नाम सम्भवति । तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ ७१॥
अर्थपताकाः हेतोः सङ्घर्षः नाम सम्भवति । तेषाम् कार्यम् व्यवहार-दर्शनम् पक्षपात-विरहेण ॥ ७१॥
arthapatākāḥ hetoḥ saṅgharṣaḥ nāma sambhavati . teṣām kāryam vyavahāra-darśanam pakṣapāta-viraheṇa .. 71..
कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु । सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ ७२॥
कृत्वा पणम् पताकाम् व्यवहारः स भवितव्यः तु । सर्वैः अनन्य-मतिभिः सुख-उपविष्टैः च शुद्ध-भावैः च ॥ ७२॥
kṛtvā paṇam patākām vyavahāraḥ sa bhavitavyaḥ tu . sarvaiḥ ananya-matibhiḥ sukha-upaviṣṭaiḥ ca śuddha-bhāvaiḥ ca .. 72..
यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः । नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ ७३॥
यैः लेखक-गमक-सहायाः सह सिद्धिभिः घाताः । न अति आसनैः न दूर-संस्थितैः प्रेक्षकैः तु भवितव्यम् ॥ ७३॥
yaiḥ lekhaka-gamaka-sahāyāḥ saha siddhibhiḥ ghātāḥ . na ati āsanaiḥ na dūra-saṃsthitaiḥ prekṣakaiḥ tu bhavitavyam .. 73..
तेषामासनयोगो द्वादशहस्तस्थितः कार्यः । यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ ७४॥
तेषाम् आसन-योगः द्वादश-हस्त-स्थितः कार्यः । यानि विहितानि पूर्वम् सिद्धिस्थानानि तानि लक्ष्याणि ॥ ७४॥
teṣām āsana-yogaḥ dvādaśa-hasta-sthitaḥ kāryaḥ . yāni vihitāni pūrvam siddhisthānāni tāni lakṣyāṇi .. 74..
घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु । दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ ७५॥
घाताः च लक्षणीयाः प्रयोगतः नाट्य-योगे तु । दैवात् घात-समुत्थाः पर-उत्थिताः वा बुधैः नवैः लेख्याः ॥ ७५॥
ghātāḥ ca lakṣaṇīyāḥ prayogataḥ nāṭya-yoge tu . daivāt ghāta-samutthāḥ para-utthitāḥ vā budhaiḥ navaiḥ lekhyāḥ .. 75..
घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः । घाता यस्य त्वल्पाः सङ्ख्याताः सिद्धयश्च बहुलाः स्युः ॥ ७६॥
घाताः नाट्य-समुत्थाः हि आत्म-समुत्थाः तु लेख्याः स्युः । घाताः यस्य तु अल्पाः सङ्ख्याताः सिद्धयः च बहुलाः स्युः ॥ ७६॥
ghātāḥ nāṭya-samutthāḥ hi ātma-samutthāḥ tu lekhyāḥ syuḥ . ghātāḥ yasya tu alpāḥ saṅkhyātāḥ siddhayaḥ ca bahulāḥ syuḥ .. 76..
विदितं कृत्वा राज्ञस्तस्मै देया पताका हि । सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ ७७॥
विदितम् कृत्वा राज्ञः तस्मै देया पताका हि । सिधि-अतिशयात् पताका सम-सिद्धौ पार्थिव-आज्ञया देया ॥ ७७॥
viditam kṛtvā rājñaḥ tasmai deyā patākā hi . sidhi-atiśayāt patākā sama-siddhau pārthiva-ājñayā deyā .. 77..
अथ नरपतिः समः स्यादुभयोरपि सा तदा देया । एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ ७८॥
अथ नरपतिः समः स्यात् उभयोः अपि सा तदा देया । एवम् विधि-ज्ञैः यष्टव्यः व्यवहारः समञ्जसाम् ॥ ७८॥
atha narapatiḥ samaḥ syāt ubhayoḥ api sā tadā deyā . evam vidhi-jñaiḥ yaṣṭavyaḥ vyavahāraḥ samañjasām .. 78..
स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः । विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ ७९॥
सु विशिष्टैः गुण-अर्थिभिः । विमृश्य प्रेक्षकैः ग्राह्यम् सर्व-राग-पर-अङ्ग-मुखैः ॥ ७९॥
su viśiṣṭaiḥ guṇa-arthibhiḥ . vimṛśya prekṣakaiḥ grāhyam sarva-rāga-para-aṅga-mukhaiḥ .. 79..
साधन दूषणाभासः प्रयोगसमयाश्रितैः । समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ ८०॥
साधन-दूषण-आभासः प्रयोग-समय-आश्रितैः । सम-त्वम् अङ्ग-माधुर्यम् पाठ्यम् प्रकृतयः रसाः ॥ ८०॥
sādhana-dūṣaṇa-ābhāsaḥ prayoga-samaya-āśritaiḥ . sama-tvam aṅga-mādhuryam pāṭhyam prakṛtayaḥ rasāḥ .. 80..
वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः । गीतवादित्रतालेन कलान्तरकलासु च ॥ ८१॥
वाद्यम् गानम् स नेपथ्यम् एतत् ज्ञेयम् प्रयत्नतः । गीत-वादित्र-तालेन कला-अन्तर-कलासु च ॥ ८१॥
vādyam gānam sa nepathyam etat jñeyam prayatnataḥ . gīta-vāditra-tālena kalā-antara-kalāsu ca .. 81..
उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते । अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ ८२॥
उअदङ्गम् क्रियते नाट्यम् समन्तात् सममुच्यते । अङ्ग-उपाङ्ग-समायुक्तम् गीत-ताल-लय-अन्वितम् ॥ ८२॥
uadaṅgam kriyate nāṭyam samantāt samamucyate . aṅga-upāṅga-samāyuktam gīta-tāla-laya-anvitam .. 82..
गानवाद्यसमत्वं च तद्बुधैः सममुच्यते । सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ ८३॥
गान-वाद्य-सम-त्वम् च तत् बुधैः समम् उच्यते । स निर्भुग्नम् उरः कृत्वा चतुरश्र-क्रुतौ करौ ॥ ८३॥
gāna-vādya-sama-tvam ca tat budhaiḥ samam ucyate . sa nirbhugnam uraḥ kṛtvā caturaśra-krutau karau .. 83..
ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च । पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकै ह्॥ ८४॥
ग्रीवा-आञ्चिता तथा तु अङ्ग-माधुर्यम् एव च । पूर्व्र-उक्तानि इह शेषाणि यानि द्रव्याणि साधकैः॥ ८४॥
grīvā-āñcitā tathā tu aṅga-mādhuryam eva ca . pūrvra-uktāni iha śeṣāṇi yāni dravyāṇi sādhakaiḥ.. 84..
वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत । वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ ८५॥
वद्य-आदीनाम् पुनर् वुप्राः लक्षणम् सन् निबोधत । वाद्य-प्रभृतयः गानम् वाद्यमाणानि निर्दिशेत् ॥ ८५॥
vadya-ādīnām punar vuprāḥ lakṣaṇam san nibodhata . vādya-prabhṛtayaḥ gānam vādyamāṇāni nirdiśet .. 85..
यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् । हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ ८६॥
यानि स्थानानि सिद्धीनाम् तैः सिद्धिम् तु प्रकाशयेत् । हर्षात् अङ्ग-समुद्भूताम् नाना रस-समुत्थिताम् ॥ ८६॥
yāni sthānāni siddhīnām taiḥ siddhim tu prakāśayet . harṣāt aṅga-samudbhūtām nānā rasa-samutthitām .. 86..
वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत ॥ ८७॥
वारकालाः तु विज्ञेयाः नाट्य-ज्ञैः विविध-आश्रयाः । दिवसैः च एव रात्रिः च तयोः वारान् निबोधत ॥ ८७॥
vārakālāḥ tu vijñeyāḥ nāṭya-jñaiḥ vividha-āśrayāḥ . divasaiḥ ca eva rātriḥ ca tayoḥ vārān nibodhata .. 87..
पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च । दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ ८८॥
पूर्वाह्णः तु अथ मध्याह्नः तु अपराह्णः तथा एव च । दिवा समुत्थाः विज्ञेयाः नाट्यवाराः प्रयोगतः ॥ ८८॥
pūrvāhṇaḥ tu atha madhyāhnaḥ tu aparāhṇaḥ tathā eva ca . divā samutthāḥ vijñeyāḥ nāṭyavārāḥ prayogataḥ .. 88..
प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ ८९॥
प्रादोषिका अर्धरात्रिः च तथा प्राभातिकः अपरः । नाट्य-वाराः भवन्ति एते रात्रौ इति अनुपूर्वशस् ॥ ८९॥
prādoṣikā ardharātriḥ ca tathā prābhātikaḥ aparaḥ . nāṭya-vārāḥ bhavanti ete rātrau iti anupūrvaśas .. 89..
एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् । तदहं सम्प्रवक्ष्यामि वारकालसमाश्रयम् ॥ ९०॥
एतेषाम् अत्र यत् योज्यम् नाट्य-कार्यम् रस-आश्रयम् । तत् अहम् सम्प्रवक्ष्यामि वार-काल-समाश्रयम् ॥ ९०॥
eteṣām atra yat yojyam nāṭya-kāryam rasa-āśrayam . tat aham sampravakṣyāmi vāra-kāla-samāśrayam .. 90..
यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् । पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ ९१॥
यत् श्रोत्र-रमणीयम् स्यात् धर्म-उत्थन-कृतम् च यत् । पूर्वाह्णे तत् प्रयोक्तव्यम् शुद्धम् वा विकृतम् तथा ॥ ९१॥
yat śrotra-ramaṇīyam syāt dharma-utthana-kṛtam ca yat . pūrvāhṇe tat prayoktavyam śuddham vā vikṛtam tathā .. 91..
सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च । पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ ९२॥
सत्त्व-उत्थान-गुणैः युक्तम् वाद्य-भूयिष्ठम् एव च । पुष्कलम् सत्त्व-युक्तम् च अपराह्णे प्रयोजयेत् ॥ ९२॥
sattva-utthāna-guṇaiḥ yuktam vādya-bhūyiṣṭham eva ca . puṣkalam sattva-yuktam ca aparāhṇe prayojayet .. 92..
कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् । नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ॥ ९३॥
। नृत्य-वादित्र-गीत-आढ्यम् प्रदोषे नाट्यम् इष्यते ॥ ९३॥
. nṛtya-vāditra-gīta-āḍhyam pradoṣe nāṭyam iṣyate .. 93..
यन्नर्महास्यबहुलं करुणप्रायमेव च । प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ ९४॥
यत् नर्म-हास्य-बहुलम् करुण-प्रायम् एव च । प्रभात-काले तत् कार्यम् नाट्यम् निद्रा-विनाशनम् ॥ ९४॥
yat narma-hāsya-bahulam karuṇa-prāyam eva ca . prabhāta-kāle tat kāryam nāṭyam nidrā-vināśanam .. 94..
अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च । सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ ९५॥
अर्धरात्रे नियुञ्जीत स मध्याह्ने तथा एव च । सन्ध्या-भोजन-काले च नाट्यम् ना एव प्रयोजयेत् ॥ ९५॥
ardharātre niyuñjīta sa madhyāhne tathā eva ca . sandhyā-bhojana-kāle ca nāṭyam nā eva prayojayet .. 95..
एवं कालं च देशं च समीक्ष्य च बलाबलम् । नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ ९६॥
एवम् कालम् च देशम् च समीक्ष्य च बलाबलम् । नित्यम् नाट्यम् प्रयुञ्जीत यथाभावम् यथारसम् ॥ ९६॥
evam kālam ca deśam ca samīkṣya ca balābalam . nityam nāṭyam prayuñjīta yathābhāvam yathārasam .. 96..
अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्। । ९७॥
अथवा देश-कालौ च न परीक्ष्यौ प्रयोक्तृभिः यथा एव आज्ञापयेत् भर्ता तदा योज्यम् असंशयम्। । ९७॥
athavā deśa-kālau ca na parīkṣyau prayoktṛbhiḥ yathā eva ājñāpayet bhartā tadā yojyam asaṃśayam. . 97..
तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः । पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ ९८॥
तथा विज्ञेयाः नाटक-आश्रिताः । पात्रम् प्रयोगम् ऋद्धिः च विज्ञेयाः तु त्रयः गुणाः ॥ ९८॥
tathā vijñeyāḥ nāṭaka-āśritāḥ . pātram prayogam ṛddhiḥ ca vijñeyāḥ tu trayaḥ guṇāḥ .. 98..
बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा । रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ ९९॥
बुद्धिमत्-त्वम् सुरूप-त्वम् लय-ताल-ज्ञ-ता तथा । रस-भाव-ज्ञ-ता च एव वयःस्थ-त्वम् कुतूहलम् ॥ ९९॥
buddhimat-tvam surūpa-tvam laya-tāla-jña-tā tathā . rasa-bhāva-jña-tā ca eva vayaḥstha-tvam kutūhalam .. 99..
ग्रहणं धारणं चैव गात्रावैकल्यमेव च । निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ १००॥
ग्रहणम् धारणम् च एव गात्र-अवैकल्यम् एव च । निज-साध्वस-ता-उत्साहः इति पात्र-गतः विधिः ॥ १००॥
grahaṇam dhāraṇam ca eva gātra-avaikalyam eva ca . nija-sādhvasa-tā-utsāhaḥ iti pātra-gataḥ vidhiḥ .. 100..
सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च । शास्त्रकर्मसमायोगः प्रयोग इति सन्ज्ञितः ॥ १०१॥
सु वाद्य-ता सु गान-त्वम् सु पाठ्य-त्वम् तथा एव च । शास्त्र-कर्म-समायोगः प्रयोगः इति सन्ज्ञितः ॥ १०१॥
su vādya-tā su gāna-tvam su pāṭhya-tvam tathā eva ca . śāstra-karma-samāyogaḥ prayogaḥ iti sanjñitaḥ .. 101..
शुचिभूषणतायां तु माल्याभरणवाससाम् । विचित्ररचना चैव समृद्धिरिति सन्ज्ञिता ॥ १०२॥
शुचि-भूषण-तायाम् तु माल्य-आभरण-वाससाम् । विचित्र-रचना च एव समृद्धिः इति सन्ज्ञिता ॥ १०२॥
śuci-bhūṣaṇa-tāyām tu mālya-ābharaṇa-vāsasām . vicitra-racanā ca eva samṛddhiḥ iti sanjñitā .. 102..
यदा समुदिताः सर्वे एकीभूता भवन्ति हि । अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ १०३॥
यदा समुदिताः सर्वे एकीभूताः भवन्ति हि । अलङ्काराः स कुतपाः मन्तव्यः नाटक-आश्रयाः ॥ १०३॥
yadā samuditāḥ sarve ekībhūtāḥ bhavanti hi . alaṅkārāḥ sa kutapāḥ mantavyaḥ nāṭaka-āśrayāḥ .. 103..
एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया । अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ १०४॥
एतत् उक्तम् द्विजश्रेष्ठाः सिद्धीनाम् लक्षणम् मया । अतस् ऊर्ध्वम् प्रवक्ष्यामि आतोद्यानाम् विकल्पनम् ॥ १०४॥
etat uktam dvijaśreṣṭhāḥ siddhīnām lakṣaṇam mayā . atas ūrdhvam pravakṣyāmi ātodyānām vikalpanam .. 104..
इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम सप्तविंशोऽध्यायः ॥
इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जकः नाम सप्तविंशः अध्यायः ॥
iti bhāratīye nāṭyaśāstre siddhivyañjakaḥ nāma saptaviṃśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In