| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ६ ॥
॥ नाट्यशास्त्रम् अध्याय ॥
.. nāṭyaśāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ षष्ठोऽध्यायः ।
अथ षष्ठः अध्यायः ।
atha ṣaṣṭhaḥ adhyāyaḥ .
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ १॥
पूर्वरङ्ग-विधिम् श्रुत्वा पुनर् आहुः महत्तमाः । भरतम् मुनयः सर्वे प्रश्नान् पञ्च अभिधत्स्व नः ॥ १॥
pūrvaraṅga-vidhim śrutvā punar āhuḥ mahattamāḥ . bharatam munayaḥ sarve praśnān pañca abhidhatsva naḥ .. 1..
ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ २॥
ये रसाः इति पठ्यन्ते नाट्ये नाट्य-विचक्षणैः । रस-त्वम् केन वै तेषाम् एतत् आख्यातुम् अर्हसि ॥ २॥
ye rasāḥ iti paṭhyante nāṭye nāṭya-vicakṣaṇaiḥ . rasa-tvam kena vai teṣām etat ākhyātum arhasi .. 2..
भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । सङ्ग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ ३॥
भावाः च एव कथम् प्रोक्ताः किम् वा ते भावयन्ति अपि । सङ्ग्रहम् कारिकाम् च एव निरुक्तम् च एव तत्वतः ॥ ३॥
bhāvāḥ ca eva katham proktāḥ kim vā te bhāvayanti api . saṅgraham kārikām ca eva niruktam ca eva tatvataḥ .. 3..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ४॥
तेषाम् तु वचनम् श्रुत्वा मुनीनाम् भरतः मुनिः । प्रत्युवाच पुनर् वाक्यम् रस-भाव-विकल्पनम् ॥ ४॥
teṣām tu vacanam śrutvā munīnām bharataḥ muniḥ . pratyuvāca punar vākyam rasa-bhāva-vikalpanam .. 4..
अहं वः कथयिष्यामि निखिलेन तपोधनाः । सङ्ग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ ५॥
अहम् वः कथयिष्यामि निखिलेन तपोधनाः । सङ्ग्रहम् कारिकाम् च एव निरुक्तम् च यथाक्रमम् ॥ ५॥
aham vaḥ kathayiṣyāmi nikhilena tapodhanāḥ . saṅgraham kārikām ca eva niruktam ca yathākramam .. 5..
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ ६॥
न शक्यम् अस्य नाट्यस्य गन्तुम् अन्तम् कथञ्चन । कस्मात् बहु-त्वात् ज्ञानानाम् शिल्पानाम् वा अपि अनन्ततः ॥ ६॥
na śakyam asya nāṭyasya gantum antam kathañcana . kasmāt bahu-tvāt jñānānām śilpānām vā api anantataḥ .. 6..
एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ ७॥
एकस्य अपि न वै शक्यः तु अन्तः ज्ञान-अर्णवस्य हि । गन्तुम् किम् पुनर् अन्येषाम् ज्ञानानाम् अर्थ-तत्त्वतः ॥ ७॥
ekasya api na vai śakyaḥ tu antaḥ jñāna-arṇavasya hi . gantum kim punar anyeṣām jñānānām artha-tattvataḥ .. 7..
किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ ८॥
किन्तु अल्प-सूत्र-ग्रन्थ-अर्थम् अनुमान-प्रसाधकम् । नाट्यस्य अस्य प्रवक्ष्यामि रस-भाव-आदि-सङ्ग्रहम् ॥ ८॥
kintu alpa-sūtra-grantha-artham anumāna-prasādhakam . nāṭyasya asya pravakṣyāmi rasa-bhāva-ādi-saṅgraham .. 8..
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ९॥
विस्तरेण उपदिष्टानाम् अर्थानाम् सूत्र-भाष्ययोः । निबन्धः समासेन सङ्ग्रहम् तम् विदुः बुधाः ॥ ९॥
vistareṇa upadiṣṭānām arthānām sūtra-bhāṣyayoḥ . nibandhaḥ samāsena saṅgraham tam viduḥ budhāḥ .. 9..
रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ १०॥
रसाः भावाः हि अभिनयाः धर्मी वृत्ति-प्रवृत्तयः । सिद्धिः स्वराः तथा आतोद्यम् गानम् रङ्गः च सङ्ग्रहः ॥ १०॥
rasāḥ bhāvāḥ hi abhinayāḥ dharmī vṛtti-pravṛttayaḥ . siddhiḥ svarāḥ tathā ātodyam gānam raṅgaḥ ca saṅgrahaḥ .. 10..
अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ ११॥
अल्प-अभिधानेन अर्थः यः समासेन उच्यते बुधैः । सूत्रतः सा अनुमतव्या कारिका अर्थ-प्रदर्शिनी ॥ ११॥
alpa-abhidhānena arthaḥ yaḥ samāsena ucyate budhaiḥ . sūtrataḥ sā anumatavyā kārikā artha-pradarśinī .. 11..
नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ १२॥
नाना नाम-आश्रय-उत्पन्नम् निघण्टु-निगम-अन्वितम् । धात्वर्थ-हेतु-संयुक्तम् नाना सिद्धान्त-साधितम् ॥ १२॥
nānā nāma-āśraya-utpannam nighaṇṭu-nigama-anvitam . dhātvartha-hetu-saṃyuktam nānā siddhānta-sādhitam .. 12..
स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ १३॥
स्थापितः अर्थः भवेत् यत्र समासेन अर्थ-असूचकः । धात्वर्थ-वचनेन इह निरुक्तम् तत् प्रचक्षते ॥ १३॥
sthāpitaḥ arthaḥ bhavet yatra samāsena artha-asūcakaḥ . dhātvartha-vacanena iha niruktam tat pracakṣate .. 13..
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ १४॥
सङ्ग्रहः यः मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरम् तस्य वक्ष्यामि स निरुक्तम् स कारिकम् ॥ १४॥
saṅgrahaḥ yaḥ mayā proktaḥ samāsena dvijottamāḥ . vistaram tasya vakṣyāmi sa niruktam sa kārikam .. 14..
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसन्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ १५॥
शृङ्गार-हास्य-करुणाः रौद्र-वीर-भयानकाः । बीभत्स-अद्भुत-सन्ज्ञौ च इति अष्टौ नाट्ये रसाः स्मृताः ॥ १५॥
śṛṅgāra-hāsya-karuṇāḥ raudra-vīra-bhayānakāḥ . bībhatsa-adbhuta-sanjñau ca iti aṣṭau nāṭye rasāḥ smṛtāḥ .. 15..
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ १६॥
एते हि अष्टौ रसाः प्रोक्ताः द्रुहिनेन महात्मना । पुनर् च भावान् वक्ष्यामि स्थायि-सञ्चारि-सत्त्व-जान् ॥ १६॥
ete hi aṣṭau rasāḥ proktāḥ druhinena mahātmanā . punar ca bhāvān vakṣyāmi sthāyi-sañcāri-sattva-jān .. 16..
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ १७॥
रति-हासः च शोकः च क्रोध-उत्साहौ भयम् तथा । जुगुप्सा विस्मयः च इति स्थायिभावाः प्रकीर्तिताः ॥ १७॥
rati-hāsaḥ ca śokaḥ ca krodha-utsāhau bhayam tathā . jugupsā vismayaḥ ca iti sthāyibhāvāḥ prakīrtitāḥ .. 17..
निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ १८॥
निर्वेद-ग्लानि-शङ्का-आख्याः तथा असूया मदः श्रमः । आलस्यम् च एव दैन्यम् च चिन्ता-मोहः स्मृतिः धृतिः ॥ १८॥
nirveda-glāni-śaṅkā-ākhyāḥ tathā asūyā madaḥ śramaḥ . ālasyam ca eva dainyam ca cintā-mohaḥ smṛtiḥ dhṛtiḥ .. 18..
व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १९॥
व्रीडा चपल-ता हर्षः आवेगः जड-ता तथा । गर्वः विषादः औत्सुक्यम् निद्रा अपस्मारः एव च ॥ १९॥
vrīḍā capala-tā harṣaḥ āvegaḥ jaḍa-tā tathā . garvaḥ viṣādaḥ autsukyam nidrā apasmāraḥ eva ca .. 19..
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ २०॥
सुप्तम् विबोधः अमर्षः च अपि अवहित्थम् अथ उग्रता । मतिः व्याधिः तथा उन्मादः तथा मरणम् एव च ॥ २०॥
suptam vibodhaḥ amarṣaḥ ca api avahittham atha ugratā . matiḥ vyādhiḥ tathā unmādaḥ tathā maraṇam eva ca .. 20..
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ २१॥
त्रासः च एव वितर्कः च विज्ञेयाः व्यभिचारिणः । त्रयस्त्रिंशत् अमी भावाः समाख्याताः तु नामतः ॥ २१॥
trāsaḥ ca eva vitarkaḥ ca vijñeyāḥ vyabhicāriṇaḥ . trayastriṃśat amī bhāvāḥ samākhyātāḥ tu nāmataḥ .. 21..
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ २२॥
स्तम्भः स्वेदः अथ रोमाञ्चः स्वरभेदः अथ वेपथुः । वैवर्ण्यम् अश्रु प्रलयः इति अष्टौ सात्विकाः स्मृताः ॥ २२॥
stambhaḥ svedaḥ atha romāñcaḥ svarabhedaḥ atha vepathuḥ . vaivarṇyam aśru pralayaḥ iti aṣṭau sātvikāḥ smṛtāḥ .. 22..
आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ २३॥
आङ्गिकौ वाचिकः च एव हि आहार्यः सात्विकः तथा । चत्वारः अभिनयाः हि एते विज्ञेयाः नाट्य-संश्रयाः ॥ २३॥
āṅgikau vācikaḥ ca eva hi āhāryaḥ sātvikaḥ tathā . catvāraḥ abhinayāḥ hi ete vijñeyāḥ nāṭya-saṃśrayāḥ .. 23..
लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ २४॥
लोक-धर्मी नाट्य-धर्मी धर्मी इति द्विविधः स्मृतः । भारती सात्वती च एव कैशिकी आरभटी तथा ॥ २४॥
loka-dharmī nāṭya-dharmī dharmī iti dvividhaḥ smṛtaḥ . bhāratī sātvatī ca eva kaiśikī ārabhaṭī tathā .. 24..
चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ २५॥
चतस्रः वृत्तयः हि एताः यासु नाट्यम् प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा ॥ २५॥
catasraḥ vṛttayaḥ hi etāḥ yāsu nāṭyam pratiṣṭhitam . āvantī dākṣiṇātyā ca tathā .. 25..
पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ २६॥
पाञ्चाल-मध्यमा च इति विज्ञेयाः तु प्रवृत्तयः । दैविकी मानुषी च एव सिद्धिः स्यात् द्विविधा एव तु ॥ २६॥
pāñcāla-madhyamā ca iti vijñeyāḥ tu pravṛttayaḥ . daivikī mānuṣī ca eva siddhiḥ syāt dvividhā eva tu .. 26..
शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥] ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥
शारीराः च एव वैणाः च सप्त षड्ज-आदयः स्वराः । [निषाद-ऋषभ-गान्धार-मध्य-पञ्चम-धैवताः ॥] ततम् च एव अवनद्धम् च घनम् सुषिरम् एव च ॥ २७॥
śārīrāḥ ca eva vaiṇāḥ ca sapta ṣaḍja-ādayaḥ svarāḥ . [niṣāda-ṛṣabha-gāndhāra-madhya-pañcama-dhaivatāḥ ..] tatam ca eva avanaddham ca ghanam suṣiram eva ca .. 27..
चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ २८॥
चतुर्विधम् च विज्ञेयम् आतोद्यम् लक्षण-अन्वितम् । ततम् तन्त्री-गतम् ज्ञेयम् अवनद्धम् तु पौष्करम् ॥ २८॥
caturvidham ca vijñeyam ātodyam lakṣaṇa-anvitam . tatam tantrī-gatam jñeyam avanaddham tu pauṣkaram .. 28..
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥२९॥
घनः तु तालः विज्ञेयः सुषिरः वंशः एव च । प्रवेश-आक्षेप-निष्क्राम-प्रासादिकम् अथ अन्तरम् ॥२९॥
ghanaḥ tu tālaḥ vijñeyaḥ suṣiraḥ vaṃśaḥ eva ca . praveśa-ākṣepa-niṣkrāma-prāsādikam atha antaram ..29..
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ ३०॥
गानम् पञ्चविधम् ज्ञेयम् ध्रुवा-योग-समन्वितम् । चतुर्-अस्रः विकृष्टः च रङ्गः त्रि-अश्रः च कीर्तितः ॥ ३०॥
gānam pañcavidham jñeyam dhruvā-yoga-samanvitam . catur-asraḥ vikṛṣṭaḥ ca raṅgaḥ tri-aśraḥ ca kīrtitaḥ .. 30..
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसङ्ग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ३१॥
एवम् एषः अल्प-सूत्र-अर्थः निर्दिष्टः नाट्य-सङ्ग्रहः । अतस् परम् प्रवक्ष्यामि सूत्र-ग्रन्थ-विकल्पनम् ॥ ३१॥
evam eṣaḥ alpa-sūtra-arthaḥ nirdiṣṭaḥ nāṭya-saṅgrahaḥ . atas param pravakṣyāmi sūtra-grantha-vikalpanam .. 31..
तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह - यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि - गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह - रस इति कः पदार्थः । उच्यते - आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः ।
तत्र रसान् एव तावत् आदौ अभिव्याख्यास्यामः । न हि रसात् ऋते कश्चिद् अर्थः प्रवर्तते । तत्र विभाव-अनुभाव-व्यभिचारि-संयोगात् रस-निष्पत्तिः । कः दृष्टान्तः । अत्र आह यथा हि नाना व्यञ्जन-ओषधि-द्रव्य-संयोगात् रस-निष्पत्तिः तथा नाना भाव-उपगमात् रस-निष्पत्तिः । यथा हि गुड-आदिभिः द्रव्यैः व्यञ्जनैः औषधिभिः च षाडव-आदयः रसाः निर्वर्त्यन्ते तथा नाना भाव-उपगताः अपि स्थायिनः भावाः रस-त्वम् आप्नुवन्ति इति । अत्र आह रसः इति कः पदार्थः । उच्यते आस्वाद्य-त्वात् । कथम् आस्वाद्यते रसः । यथा हि नाना व्यञ्जन-संस्कृतम् अन्नम् सुमनसः पुरुष-हर्ष-आदीन् च अधिगच्छन्ति तथा नाना भाव-अभिनय-व्यञ्जितान् वाच्-अङ्ग-सत्ता-उपेतान् स्थायि-भावान् आस्वादयन्ति सुमनसः प्रेक्षकाः हर्ष-आदीन् च अधिगच्छन्ति । तस्मात् नाट्य-रसाः इति अभिव्याख्याताः ।
tatra rasān eva tāvat ādau abhivyākhyāsyāmaḥ . na hi rasāt ṛte kaścid arthaḥ pravartate . tatra vibhāva-anubhāva-vyabhicāri-saṃyogāt rasa-niṣpattiḥ . kaḥ dṛṣṭāntaḥ . atra āha yathā hi nānā vyañjana-oṣadhi-dravya-saṃyogāt rasa-niṣpattiḥ tathā nānā bhāva-upagamāt rasa-niṣpattiḥ . yathā hi guḍa-ādibhiḥ dravyaiḥ vyañjanaiḥ auṣadhibhiḥ ca ṣāḍava-ādayaḥ rasāḥ nirvartyante tathā nānā bhāva-upagatāḥ api sthāyinaḥ bhāvāḥ rasa-tvam āpnuvanti iti . atra āha rasaḥ iti kaḥ padārthaḥ . ucyate āsvādya-tvāt . katham āsvādyate rasaḥ . yathā hi nānā vyañjana-saṃskṛtam annam sumanasaḥ puruṣa-harṣa-ādīn ca adhigacchanti tathā nānā bhāva-abhinaya-vyañjitān vāc-aṅga-sattā-upetān sthāyi-bhāvān āsvādayanti sumanasaḥ prekṣakāḥ harṣa-ādīn ca adhigacchanti . tasmāt nāṭya-rasāḥ iti abhivyākhyātāḥ .
यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ३२॥
यथा बहु-द्रव्य-युतैः व्यञ्जनैः बहुभिः युतम् । आस्वादयन्ति भुञ्जानाः भक्तम् भक्त-विदः जनाः ॥ ३२॥
yathā bahu-dravya-yutaiḥ vyañjanaiḥ bahubhiḥ yutam . āsvādayanti bhuñjānāḥ bhaktam bhakta-vidaḥ janāḥ .. 32..
भावाभिनयसम्बद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ ३३॥
भाव-अभिनय-सम्बद्धान् स्थायिभावान् तथा बुधाः । आस्वादयन्ति मनसा तस्मात् नाट्य-रसाः स्मृताः ॥ ३३॥
bhāva-abhinaya-sambaddhān sthāyibhāvān tathā budhāḥ . āsvādayanti manasā tasmāt nāṭya-rasāḥ smṛtāḥ .. 33..
अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः - नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३४॥
अत्र आह किम् रसेभ्यः भावानाम् अभिनिर्वृत्तिः उत अहो भावेभ्यः रसानाम् इति । केषाञ्चिद् मतम् परस्पर-सम्बन्धात् एषाम् अभिनिर्वृत्तिः इति । तत् न । कस्मात् । दृश्यते हि भावेभ्यः रसानाम् अभिनिर्वृत्तिः न तु रसेभ्यः भावानाम् अभिनिर्वृत्तिः इति । भवन्ति च अत्र श्लोकाः नाना अभिनय-सम्बद्धान् भावयन्ति । यस्मात् तस्मात् अमी भावाः विज्ञेयाः नाट्य-योक्तृभिः ॥ ३४॥
atra āha kim rasebhyaḥ bhāvānām abhinirvṛttiḥ uta aho bhāvebhyaḥ rasānām iti . keṣāñcid matam paraspara-sambandhāt eṣām abhinirvṛttiḥ iti . tat na . kasmāt . dṛśyate hi bhāvebhyaḥ rasānām abhinirvṛttiḥ na tu rasebhyaḥ bhāvānām abhinirvṛttiḥ iti . bhavanti ca atra ślokāḥ nānā abhinaya-sambaddhān bhāvayanti . yasmāt tasmāt amī bhāvāḥ vijñeyāḥ nāṭya-yoktṛbhiḥ .. 34..
नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥ ३५॥
नाना द्रव्यैः बहुविधैः व्यञ्जनम् भाव्यते यथा । एवम् भावाः भावयन्ति रस-अनभिनयैः सह ॥ ३५॥
nānā dravyaiḥ bahuvidhaiḥ vyañjanam bhāvyate yathā . evam bhāvāḥ bhāvayanti rasa-anabhinayaiḥ saha .. 35..
न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ३६॥
न भाव-हीनः अस्ति रसः न भावः रस-वर्जितः । परस्पर-कृता सिद्धिः तयोः अभिनये भवेत् ॥ ३६॥
na bhāva-hīnaḥ asti rasaḥ na bhāvaḥ rasa-varjitaḥ . paraspara-kṛtā siddhiḥ tayoḥ abhinaye bhavet .. 36..
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ३७॥
व्यञ्जन-ओषधि-संयोगः यथा अन्नम् स्वादु-ताम् नयेत् । एवम् भावाः रसाः च एव भावयन्ति परस्परम् ॥ ३७॥
vyañjana-oṣadhi-saṃyogaḥ yathā annam svādu-tām nayet . evam bhāvāḥ rasāḥ ca eva bhāvayanti parasparam .. 37..
यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ ३८॥
यथा बीजात् भवेत् वृक्षः वृक्षात् पुष्पम् फलम् यथा । तथा मूलम् रसाः सर्वे तेभ्यः भावाः व्यवस्थिताः ॥ ३८॥
yathā bījāt bhavet vṛkṣaḥ vṛkṣāt puṣpam phalam yathā . tathā mūlam rasāḥ sarve tebhyaḥ bhāvāḥ vyavasthitāḥ .. 38..
तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा - शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र - शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ ३९॥
रसानाम् उत्पत्ति-वर्ण-दैवत-निदर्शनानि अभिव्याख्यास्यामः । तेषाम् उत्पत्ति-हेतवः चत्वारः रसाः । तत् यथा शृङ्गारः रौद्रौ वीरः बीभत्सः इति । अत्र -हि भवेत् हास्यः रौद्रात् च करुणः रसः । वीरात् च एव अद्भुत-उत्पत्तिः बीभत्सात् च भयानकः ॥ ३९॥
rasānām utpatti-varṇa-daivata-nidarśanāni abhivyākhyāsyāmaḥ . teṣām utpatti-hetavaḥ catvāraḥ rasāḥ . tat yathā śṛṅgāraḥ raudrau vīraḥ bībhatsaḥ iti . atra -hi bhavet hāsyaḥ raudrāt ca karuṇaḥ rasaḥ . vīrāt ca eva adbhuta-utpattiḥ bībhatsāt ca bhayānakaḥ .. 39..
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ४०॥
शृङ्गार-अनुकृतिः या तु स हास्यः तु प्रकीर्तितः । रौद्रस्य एव च यत् कर्म स ज्ञेयः करुणः रसः ॥ ४०॥
śṛṅgāra-anukṛtiḥ yā tu sa hāsyaḥ tu prakīrtitaḥ . raudrasya eva ca yat karma sa jñeyaḥ karuṇaḥ rasaḥ .. 40..
वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ ४१॥
वीरस्य अपि च यत् कर्म सः अद्भुतः परिकीर्तितः । बीभत्स-दर्शनम् यत् च ज्ञेयः स तु भयानकः ॥ ४१॥
vīrasya api ca yat karma saḥ adbhutaḥ parikīrtitaḥ . bībhatsa-darśanam yat ca jñeyaḥ sa tu bhayānakaḥ .. 41..
श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ ४२॥
श्यामः भवति शृङ्गारः सितः हास्यः प्रकीर्तितः । कपोतः करुणः च एव रक्तः रौद्रः प्रकीर्तितः ॥ ४२॥
śyāmaḥ bhavati śṛṅgāraḥ sitaḥ hāsyaḥ prakīrtitaḥ . kapotaḥ karuṇaḥ ca eva raktaḥ raudraḥ prakīrtitaḥ .. 42..
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ ४३॥
गौरः वीरः तु विज्ञेयः कृष्णः च एव भयानकः । नील-वर्णः तु बीभत्सः पीतः च एव अद्भुतः स्मृतः ॥ ४३॥
gauraḥ vīraḥ tu vijñeyaḥ kṛṣṇaḥ ca eva bhayānakaḥ . nīla-varṇaḥ tu bībhatsaḥ pītaḥ ca eva adbhutaḥ smṛtaḥ .. 43..
शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ ४४॥
शृङ्गारः विष्णु-देवत्यः हास्यः प्रमथ-दैवतः । ॥ ४४॥
śṛṅgāraḥ viṣṇu-devatyaḥ hāsyaḥ pramatha-daivataḥ . .. 44..
बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ४५॥
बीभत्सस्य महाकालः कालदेवः भयानकः । स्यात् ॥ ४५॥
bībhatsasya mahākālaḥ kāladevaḥ bhayānakaḥ . syāt .. 45..
एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः ।
एतम् एतेषाम् रसानाम् उत्पत्ति-वर्ण-दैवतानि अभिव्याख्यातानि । इदानीम् अनुभाव-विभाव-व्यभिचारि-संयुक्तानाम् लक्षण-निदर्शनानि अभिव्याख्यास्यामः । स्थायिभावान् च रस-त्वम् उपनेष्यामः । तत्र शृङ्गारः नाम रति-स्थायिभाव-प्रभवः । उज्ज्वल-वेष-आत्मकः । यत् किञ्चिद् लोके शुचि मेध्यम् उज्ज्वलम् दर्शनीयम् वा तत् शृङ्गारेण उपमीयते । यः तावत् उज्ज्वल-वेषः स शृङ्गारवान् इति उच्यते । यथा च गोत्र-कुल-आचार-उत्पन्नानि आप्त-उपदेश-सिद्धानि पुंसाम् नामानि भवन्ति तथा एव इषाम् रसानाम् भावानाम् च नाट्य-आश्रितानाम् च अर्थानाम् आचार-उत्पन्नानि ओप्त-उपदेश-सिद्धानि नामानि । एवम् एषः आचार-सिद्धः हृद्य-उज्ज्वल-वेष-आत्मक-त्वात् शृङ्गारः रसः ।
etam eteṣām rasānām utpatti-varṇa-daivatāni abhivyākhyātāni . idānīm anubhāva-vibhāva-vyabhicāri-saṃyuktānām lakṣaṇa-nidarśanāni abhivyākhyāsyāmaḥ . sthāyibhāvān ca rasa-tvam upaneṣyāmaḥ . tatra śṛṅgāraḥ nāma rati-sthāyibhāva-prabhavaḥ . ujjvala-veṣa-ātmakaḥ . yat kiñcid loke śuci medhyam ujjvalam darśanīyam vā tat śṛṅgāreṇa upamīyate . yaḥ tāvat ujjvala-veṣaḥ sa śṛṅgāravān iti ucyate . yathā ca gotra-kula-ācāra-utpannāni āpta-upadeśa-siddhāni puṃsām nāmāni bhavanti tathā eva iṣām rasānām bhāvānām ca nāṭya-āśritānām ca arthānām ācāra-utpannāni opta-upadeśa-siddhāni nāmāni . evam eṣaḥ ācāra-siddhaḥ hṛdya-ujjvala-veṣa-ātmaka-tvāt śṛṅgāraḥ rasaḥ .
स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते ।
स च स्त्री-पुरुष-हेतुकः उत्तम-युव-प्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगः विप्रलम्भः च । तत्र सम्भोगः तावत् ऋतु-माल्य-अनुलेपन-अलङ्कार-इष्ट-जन-विषय-वर-भवन-उपभोग-उपवन-गमन-अनुभवन-श्रवण-दर्शन-क्रीडा-लीला-आदिभिः विभावैः उत्पद्यते ।
sa ca strī-puruṣa-hetukaḥ uttama-yuva-prakṛtiḥ . tasya dve adhiṣṭhāne sambhogaḥ vipralambhaḥ ca . tatra sambhogaḥ tāvat ṛtu-mālya-anulepana-alaṅkāra-iṣṭa-jana-viṣaya-vara-bhavana-upabhoga-upavana-gamana-anubhavana-śravaṇa-darśana-krīḍā-līlā-ādibhiḥ vibhāvaiḥ utpadyate .
तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार- वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद- मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः । अत्राह - यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति सन्ज्ञितः ॥ ४६॥
तस्य नयन-चातुर्य-भ्रू-क्षेप-कटाक्ष-सञ्चार-ललित-मधुर-अङ्गहार-वाक्य-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । व्यभिचारिणः च अस्य आलस्य-औग्र्य-जुगुप्सा-वर्ज्याः । विप्रलम्भ-कृतः तु निर्वेद-ग्लानि-शङ्का-असूया-श्रम-चिन्ता-औत्सुक्य-निद्रा-स्वप्न-विबोध-व्याधि-उन्माद-मद-अपस्मार-जाड्य-मरण-आदिभिः अनुभावैः अभिनेतव्यः । अत्र आह यदि अयम् रति-प्रभवः शृङ्गारः कथम् अस्य करुणा-आश्रयिणः भावाः भवन्ति । अत्र उच्यते पूर्वम् एव अभिहितम् सम्भोग-विप्रलम्भ-कृतः शृङ्गारः इति । वैशिक-शास्त्र-कारैः च दश-अवस्थः अभिहितः । ताः च सामान्य-अभिनये वक्ष्यामः । करुणः तु शाप-क्लेश-विनिपतित-इष्ट-जन-विभव-नाश-वध-बन्ध-समुत्थः निरपेक्ष-भावः । औत्सुक्य-चिन्ता-समुत्थः सापेक्ष-भावः विप्रलम्भ-कृतः । एवम् अन्यः करुणः अन्यः च विप्रलम्भः इति । एवम् एष सर्व-भाव-संयुक्तः शृङ्गारः भवति । अपि च सुख-प्रायेषु सम्पन्नः ऋतुमाली-अदि-सेवकः । पुरुषः प्रमदा-युक्तः शृङ्गारः इति सन्ज्ञितः ॥ ४६॥
tasya nayana-cāturya-bhrū-kṣepa-kaṭākṣa-sañcāra-lalita-madhura-aṅgahāra-vākya-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . vyabhicāriṇaḥ ca asya ālasya-augrya-jugupsā-varjyāḥ . vipralambha-kṛtaḥ tu nirveda-glāni-śaṅkā-asūyā-śrama-cintā-autsukya-nidrā-svapna-vibodha-vyādhi-unmāda-mada-apasmāra-jāḍya-maraṇa-ādibhiḥ anubhāvaiḥ abhinetavyaḥ . atra āha yadi ayam rati-prabhavaḥ śṛṅgāraḥ katham asya karuṇā-āśrayiṇaḥ bhāvāḥ bhavanti . atra ucyate pūrvam eva abhihitam sambhoga-vipralambha-kṛtaḥ śṛṅgāraḥ iti . vaiśika-śāstra-kāraiḥ ca daśa-avasthaḥ abhihitaḥ . tāḥ ca sāmānya-abhinaye vakṣyāmaḥ . karuṇaḥ tu śāpa-kleśa-vinipatita-iṣṭa-jana-vibhava-nāśa-vadha-bandha-samutthaḥ nirapekṣa-bhāvaḥ . autsukya-cintā-samutthaḥ sāpekṣa-bhāvaḥ vipralambha-kṛtaḥ . evam anyaḥ karuṇaḥ anyaḥ ca vipralambhaḥ iti . evam eṣa sarva-bhāva-saṃyuktaḥ śṛṅgāraḥ bhavati . api ca sukha-prāyeṣu sampannaḥ ṛtumālī-adi-sevakaḥ . puruṣaḥ pramadā-yuktaḥ śṛṅgāraḥ iti sanjñitaḥ .. 46..
अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः । ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ४७॥
अपि च अत्र सूत्र-अर्थ-अनुविद्धे आर्ये भवतः । ऋतु-माल्य-अलङ्कारैः प्रिय-जन-गान्धर्व-काव्य-सेवाभिः । उपवन-गमन-विहारैः शृङ्गार-रसः समुद्भवति ॥ ४७॥
api ca atra sūtra-artha-anuviddhe ārye bhavataḥ . ṛtu-mālya-alaṅkāraiḥ priya-jana-gāndharva-kāvya-sevābhiḥ . upavana-gamana-vihāraiḥ śṛṅgāra-rasaḥ samudbhavati .. 47..
नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४८॥
नयन-वदन-प्रसादैः स्मित-मधुर-वचः-धृति-प्रमोदैः च । मधुरैः च अङ्ग-विहारैः तस्य अभिनयः प्रयोक्तव्यः ॥ ४८॥
nayana-vadana-prasādaiḥ smita-madhura-vacaḥ-dhṛti-pramodaiḥ ca . madhuraiḥ ca aṅga-vihāraiḥ tasya abhinayaḥ prayoktavyaḥ .. 48..
अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन- दोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दन- दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ ४९॥
अथ हास्यः नाम हास-स्थायिभाव-आत्मकः । स च विकृत-पर-वेष-अलङ्कार-धार्ष्ट्य-लौल्य-कुह-कासत्-प्रलाप-व्यङ्ग-दर्शन-दोष-उदाहरण-आदिभिः विभावैः उत्पद्यते । तस्य उष्ठ-नासा-कपोल-स्पन्दन-दृष्टि-व्याकोश-आकुञ्चन-स्वेद-आस्य-राग-पार्श्व-ग्रहण-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । व्यभिचारिणः च अस्य अवहित्थ-आलस्य-तन्द्रा-निद्रा-स्वप्न-प्रबोध-आदयः । द्विविधः च अयम् आत्म-स्थः पर-स्थः च । यदा स्वयम् हसति तदा आत्म-स्थः । यदा तु परम् हासयति तदा पर-स्थः । अत्र अनुवंश्ये आर्ये भवतः । विपरित-अलङ्कारैः विकृत-अचर-अभिधान-वेषैः च । विकृतैः अर्थ-विशेषैः हसति इति रसः स्मृतः हास्यः ॥ ४९॥
atha hāsyaḥ nāma hāsa-sthāyibhāva-ātmakaḥ . sa ca vikṛta-para-veṣa-alaṅkāra-dhārṣṭya-laulya-kuha-kāsat-pralāpa-vyaṅga-darśana-doṣa-udāharaṇa-ādibhiḥ vibhāvaiḥ utpadyate . tasya uṣṭha-nāsā-kapola-spandana-dṛṣṭi-vyākośa-ākuñcana-sveda-āsya-rāga-pārśva-grahaṇa-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . vyabhicāriṇaḥ ca asya avahittha-ālasya-tandrā-nidrā-svapna-prabodha-ādayaḥ . dvividhaḥ ca ayam ātma-sthaḥ para-sthaḥ ca . yadā svayam hasati tadā ātma-sthaḥ . yadā tu param hāsayati tadā para-sthaḥ . atra anuvaṃśye ārye bhavataḥ . viparita-alaṅkāraiḥ vikṛta-acara-abhidhāna-veṣaiḥ ca . vikṛtaiḥ artha-viśeṣaiḥ hasati iti rasaḥ smṛtaḥ hāsyaḥ .. 49..
विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥५०॥
विकृत-आचारैः वाक्यैः अङ्ग-विकारैः च विकृत-वेषैः च । हासयति जनम् यस्मात् तस्मात् ज्ञेयः रसः हास्यः ॥५०॥
vikṛta-ācāraiḥ vākyaiḥ aṅga-vikāraiḥ ca vikṛta-veṣaiḥ ca . hāsayati janam yasmāt tasmāt jñeyaḥ rasaḥ hāsyaḥ ..50..
स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ ५१॥
स्त्री-नीच-प्रकृतौ एष भूयिष्ठम् दृश्यते रसः । षट् भेदाः च अस्य विज्ञेयाः तान् च वक्ष्यामि अहम् पुनर् ॥ ५१॥
strī-nīca-prakṛtau eṣa bhūyiṣṭham dṛśyate rasaḥ . ṣaṭ bhedāḥ ca asya vijñeyāḥ tān ca vakṣyāmi aham punar .. 51..
स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ॥५२॥
स्मितम् अथ हसितम् विहसितम् उपहसितम् च अपहसितम् अतिहसितम् । द्वौ द्वौ भेदौ स्याताम् उत्तम-मध्य-अधम-प्रकृतौ॥५२॥
smitam atha hasitam vihasitam upahasitam ca apahasitam atihasitam . dvau dvau bhedau syātām uttama-madhya-adhama-prakṛtau..52..
तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ ५३॥
तत्र स्मित-हसिते ज्येष्ठानाम् मध्यानाम् विहसित-उपहसिते च । अधमानाम् अपहसितम् हि अतिहसितम् च अपि विज्ञेयम् ॥ ५३॥
tatra smita-hasite jyeṣṭhānām madhyānām vihasita-upahasite ca . adhamānām apahasitam hi atihasitam ca api vijñeyam .. 53..
ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ५४॥
ईषत् विकसितैः गण्डैः कटाक्षैः सौष्ठव-अन्वितैः । अलक्षित-द्विजम् धीरम् उत्तमानाम् स्मितम् भवेत् ॥ ५४॥
īṣat vikasitaiḥ gaṇḍaiḥ kaṭākṣaiḥ sauṣṭhava-anvitaiḥ . alakṣita-dvijam dhīram uttamānām smitam bhavet .. 54..
उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ५५॥
उत्फुल्ल-आनन-नेत्रम् तु गण्डैः विकसितैः अथ । किञ्चिद् लक्षित-दन्तम् च हसितम् तत् विधीयते ॥ ५५॥
utphulla-ānana-netram tu gaṇḍaiḥ vikasitaiḥ atha . kiñcid lakṣita-dantam ca hasitam tat vidhīyate .. 55..
आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत्॥५६॥
आकुञ्चित-अक्षि-गण्डम् यत् स स्वनम् मधुरम् तथा । कालागतम् स आस्य-रागम् तत् वै विहसितम् भवेत्॥५६॥
ākuñcita-akṣi-gaṇḍam yat sa svanam madhuram tathā . kālāgatam sa āsya-rāgam tat vai vihasitam bhavet..56..
उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ ५७॥
उत्फुल्ल-नासिकम् यत् तु जिह्म-दृष्टि-निरीक्षितम् । निकुञ्चित-अङ्गक-शिरः तत् च उपहसितम् भवेत् ॥ ५७॥
utphulla-nāsikam yat tu jihma-dṛṣṭi-nirīkṣitam . nikuñcita-aṅgaka-śiraḥ tat ca upahasitam bhavet .. 57..
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ ५८॥
अस्थान-हसितम् यत् तु स अश्रु-नेत्रम् तथा एव च । भवेत् ॥ ५८॥
asthāna-hasitam yat tu sa aśru-netram tathā eva ca . bhavet .. 58..
संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ ५९॥
संरब्ध-स अश्रु-नेत्रम् च विकृष्ट-स्वरम् उद्धतम् । कर-उपगूढ-पार्श्वम् च तत् च अति हसितम् भवेत् ॥ ५९॥
saṃrabdha-sa aśru-netram ca vikṛṣṭa-svaram uddhatam . kara-upagūḍha-pārśvam ca tat ca ati hasitam bhavet .. 59..
हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६०॥
हास्य-स्थानानि यानि स्युः कार्य-उत्पन्नानि नाटके । उत्तम-अधम-मध्यानाम् एवम् तानि प्रयोजयेत् ॥ ६०॥
hāsya-sthānāni yāni syuḥ kārya-utpannāni nāṭake . uttama-adhama-madhyānām evam tāni prayojayet .. 60..
इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ ६१॥
इति एष स्व-समुत्थः तथा पर-समुत्थः च विज्ञेयः । द्विविधः त्रि-प्रकृति-गतः त्रि-अवस्थ-भावः रसः हास्यः ॥ ६१॥
iti eṣa sva-samutthaḥ tathā para-samutthaḥ ca vijñeyaḥ . dvividhaḥ tri-prakṛti-gataḥ tri-avastha-bhāvaḥ rasaḥ hāsyaḥ .. 61..
अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात- व्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास- स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि- जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु-
अथ करुणः नाम शोक-स्थायिभाव-प्रभवः । स च शाप-क्लेश-विनिपतित-इष्ट-जन-विप्रयोग-विभव-नाश-वध-बन्ध-विद्रव-उपघात-व्यसन-संयोग-आदिभिः विभावैः समुपजायते । तस्य अश्रु-पात-परिदेवन-मुख-शोषण-वैवर्ण्य-स्रस्त-गात्र-ता-निश्श्वास-स्मृति-लोप-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । व्यभिचारिणः च अस्य निर्वेद-ग्लानि-चिन्ता-औत्सुक्य-आवेग-भ्रम-मोह-श्रम-भय-विषाद-दैन्य-व्याधि-जडता-उन्माद-अपस्मार-त्रास-आलस्य-मरण-स्तम्भ-वेपथु-वैवर्ण्य-अश्रु-
atha karuṇaḥ nāma śoka-sthāyibhāva-prabhavaḥ . sa ca śāpa-kleśa-vinipatita-iṣṭa-jana-viprayoga-vibhava-nāśa-vadha-bandha-vidrava-upaghāta-vyasana-saṃyoga-ādibhiḥ vibhāvaiḥ samupajāyate . tasya aśru-pāta-paridevana-mukha-śoṣaṇa-vaivarṇya-srasta-gātra-tā-niśśvāsa-smṛti-lopa-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . vyabhicāriṇaḥ ca asya nirveda-glāni-cintā-autsukya-āvega-bhrama-moha-śrama-bhaya-viṣāda-dainya-vyādhi-jaḍatā-unmāda-apasmāra-trāsa-ālasya-maraṇa-stambha-vepathu-vaivarṇya-aśru-
इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम सम्भवति ॥ ६२॥
इष्ट-वध-दर्शनात् वा विप्रिय-वचनस्य संश्रवात् वा अपि । एभिः भाव-विशेषैः करुणः नाम सम्भवति ॥ ६२॥
iṣṭa-vadha-darśanāt vā vipriya-vacanasya saṃśravāt vā api . ebhiḥ bhāva-viśeṣaiḥ karuṇaḥ nāma sambhavati .. 62..
सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ६३॥
स स्वन-रुदितैः मोह-आगमैः च परिदैवतैः विलपितैः च । अभिनेयः करुण-रसः देह-आयास-अभिघातैः च ॥ ६३॥
sa svana-ruditaiḥ moha-āgamaiḥ ca paridaivataiḥ vilapitaiḥ ca . abhineyaḥ karuṇa-rasaḥ deha-āyāsa-abhighātaiḥ ca .. 63..
अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः सङ्ग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः ।
अथ रौद्रः नाम क्रोध-स्थायिभाव-आत्मकः रक्षः-दानव-उद्धत-मनुष्य-प्रकृतिः सङ्ग्राम-हेतुकः । स च क्रोध-आधर्षण-अधिक्षेप-अनृत-वचन-उपघात-वाच्-पारुष्य-अभिद्रोह-मात्सर्य-आदिभिः विभावैः उत्पद्यते । तस्य च ताडन-पाटन-पीडा-छेदन-प्रहरण-आहरण-शस्त्र-सम्पात-सम्प्रहार-रुधिर-आकर्षण-आद्यानि कर्माणि । पुनर् च रक्त-नयन-भ्रुकुटि-करण-दन्त-उष्ठ-पीडन-गण्ड-स्फुरण-हस्त-अग्र-निष्पेष-आदिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
atha raudraḥ nāma krodha-sthāyibhāva-ātmakaḥ rakṣaḥ-dānava-uddhata-manuṣya-prakṛtiḥ saṅgrāma-hetukaḥ . sa ca krodha-ādharṣaṇa-adhikṣepa-anṛta-vacana-upaghāta-vāc-pāruṣya-abhidroha-mātsarya-ādibhiḥ vibhāvaiḥ utpadyate . tasya ca tāḍana-pāṭana-pīḍā-chedana-praharaṇa-āharaṇa-śastra-sampāta-samprahāra-rudhira-ākarṣaṇa-ādyāni karmāṇi . punar ca rakta-nayana-bhrukuṭi-karaṇa-danta-uṣṭha-pīḍana-gaṇḍa-sphuraṇa-hasta-agra-niṣpeṣa-ādiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च- गद्गदादयः । अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते - अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः ।
भावाः च अस्य अ सम्मोह-उत्साह-आवेग-अमर्ष-चपल-ता-औग्र्य-गर्व-स्वेद-वेपथु-रोमाञ्च-गद्गद-आदयः । अत्र आह यत् अभिहितम् रक्षः-दानव-आदीनाम् रौद्रः रसः । किम् अन्येषाम् न अस्ति । उच्यते अस्ति अन्येषाम् अपि रौद्रः रसः । किन्तु अधिकारः अत्र गृह्यते । ते हि स्वभावतः एव रौद्रः । कस्मात् । बहु-बाहवः बहु-मुखाः प्रोद्धूत-विकीर्ण-पिङ्गल-शिरोजाः । रक्त-उद्वृत्त-विलोचनाः भीम-असित-रूपिणः च एव । यत् च किञ्चिद् समारम्भते स्वभाव-चेष्टितम् वाच्-अङ्ग-आदिकम् तत् सर्वम् रौद्रम् एव एषाम् । शृङ्गारः च तैः प्रायशस् प्रसभ्यम् सेव्यते । तेषाम् च अनुकारिणः ये पुरुषः तेषाम् अपि सङ्ग्राम-सम्प्रहार-कृतः रौद्रः रसः अनुमन्तव्यः ।
bhāvāḥ ca asya a sammoha-utsāha-āvega-amarṣa-capala-tā-augrya-garva-sveda-vepathu-romāñca-gadgada-ādayaḥ . atra āha yat abhihitam rakṣaḥ-dānava-ādīnām raudraḥ rasaḥ . kim anyeṣām na asti . ucyate asti anyeṣām api raudraḥ rasaḥ . kintu adhikāraḥ atra gṛhyate . te hi svabhāvataḥ eva raudraḥ . kasmāt . bahu-bāhavaḥ bahu-mukhāḥ proddhūta-vikīrṇa-piṅgala-śirojāḥ . rakta-udvṛtta-vilocanāḥ bhīma-asita-rūpiṇaḥ ca eva . yat ca kiñcid samārambhate svabhāva-ceṣṭitam vāc-aṅga-ādikam tat sarvam raudram eva eṣām . śṛṅgāraḥ ca taiḥ prāyaśas prasabhyam sevyate . teṣām ca anukāriṇaḥ ye puruṣaḥ teṣām api saṅgrāma-samprahāra-kṛtaḥ raudraḥ rasaḥ anumantavyaḥ .
युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ ६४॥
युद्ध-प्रहार-घातन-विकृत-छेदन-विदारणैः च एव । संङ्ग्राम-सम्भ्रम-आद्यैः एभिः सञ्जायते रौद्रः ॥ ६४॥
yuddha-prahāra-ghātana-vikṛta-chedana-vidāraṇaiḥ ca eva . saṃṅgrāma-sambhrama-ādyaiḥ ebhiḥ sañjāyate raudraḥ .. 64..
नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६५॥
नाना प्रहरण-मोक्षैः शिरः-कबन्ध-भुज-कर्तनैः च एव । एभिः च अर्थ-विशेषैः अस्य अभिनयः प्रयोक्तव्यः ॥ ६५॥
nānā praharaṇa-mokṣaiḥ śiraḥ-kabandha-bhuja-kartanaiḥ ca eva . ebhiḥ ca artha-viśeṣaiḥ asya abhinayaḥ prayoktavyaḥ .. 65..
इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६६॥
इति रौद्र-रसः दृष्टः रौद्र-वाच्-अङ्ग-चेष्टितः । शस्त्र-प्रहार-भूयिष्ठः उग्र-कर्म-क्रिया-आत्मकः ॥ ६६॥
iti raudra-rasaḥ dṛṣṭaḥ raudra-vāc-aṅga-ceṣṭitaḥ . śastra-prahāra-bhūyiṣṭhaḥ ugra-karma-kriyā-ātmakaḥ .. 66..
अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासम्मोहाध्यवसायन- विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः ।
अथ वीरः नाम उत्तम-प्रकृतिः उत्साह-आत्मकः । स च असम्मोह-अध्यवसायन-विनय-बल-पराक्रम-शक्ति-प्रताप-प्रभाव-आदिभिः विभावैः उत्पद्यते । तस्य स्थैर्य-धैर्य-शौर्य-त्याग-वैशारद्य-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । भावाः च अस्य धृति-मति-गर्व-आवेग-औग्र्य-आमर्ष-स्मृति-रोमाञ्च-आदयः ।
atha vīraḥ nāma uttama-prakṛtiḥ utsāha-ātmakaḥ . sa ca asammoha-adhyavasāyana-vinaya-bala-parākrama-śakti-pratāpa-prabhāva-ādibhiḥ vibhāvaiḥ utpadyate . tasya sthairya-dhairya-śaurya-tyāga-vaiśāradya-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . bhāvāḥ ca asya dhṛti-mati-garva-āvega-augrya-āmarṣa-smṛti-romāñca-ādayaḥ .
उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ ६७॥
उत्साह-अध्यवसायात् अ विषादि-त्वात् अविस्मय-अमोहात् । विविधात् अर्थ-विशेषात् वीर-रसः नाम सम्भवति ॥ ६७॥
utsāha-adhyavasāyāt a viṣādi-tvāt avismaya-amohāt . vividhāt artha-viśeṣāt vīra-rasaḥ nāma sambhavati .. 67..
स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६८॥
स्थिति-धैर्य-वीर्य-गर्वैः उत्साह-पराक्रम-प्रभावैः च । वाक्यैः च आक्षेप-कृतैः वीर-रसः सम्यक् अभिनेयः ॥ ६८॥
sthiti-dhairya-vīrya-garvaiḥ utsāha-parākrama-prabhāvaiḥ ca . vākyaiḥ ca ākṣepa-kṛtaiḥ vīra-rasaḥ samyak abhineyaḥ .. 68..
अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध- दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते ।तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग- चापलजडतात्रासापस्मारमरणादयः ।
अथ भयानकः नाम भय-स्थायिभाव-आत्मकः । स च विकृत-रव-सत्त्व-दर्शन-शिवा-उलूक-त्रास-उद्वेग-शून्य-आगार-अरण्य-गमन-स्व-जन-वध-बन्ध-दर्शन-श्रुति-कथा-आदिभिः विभावैः उत्पद्यते ।तस्य प्रवेपित-कर-चरण-नयन-चपल-पुलक-मुख-वैवर्ण्य-स्वरभेद-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । भावाः च अस्य स्तम्भ-स्वेद-गद्गद-रोमाञ्च-वेपथु-स्वरभेद-वैवर्ण्य-शङ्का-मोह-दैन्य-आवेग-चापल-जड-ता-त्रास-अपस्मार-मरण-आदयः ।
atha bhayānakaḥ nāma bhaya-sthāyibhāva-ātmakaḥ . sa ca vikṛta-rava-sattva-darśana-śivā-ulūka-trāsa-udvega-śūnya-āgāra-araṇya-gamana-sva-jana-vadha-bandha-darśana-śruti-kathā-ādibhiḥ vibhāvaiḥ utpadyate .tasya pravepita-kara-caraṇa-nayana-capala-pulaka-mukha-vaivarṇya-svarabheda-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . bhāvāḥ ca asya stambha-sveda-gadgada-romāñca-vepathu-svarabheda-vaivarṇya-śaṅkā-moha-dainya-āvega-cāpala-jaḍa-tā-trāsa-apasmāra-maraṇa-ādayaḥ .
विकृतरवसत्त्वदर्शनसङ्ग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६९॥
विकृत-रव-सत्त्व-दर्शन-सङ्ग्राम-अरण्य-शून्य-गृह-गमनात् । गुरु-नृपयोः अपराधात् कृतकः च भयानकः ज्ञेयः ॥ ६९॥
vikṛta-rava-sattva-darśana-saṅgrāma-araṇya-śūnya-gṛha-gamanāt . guru-nṛpayoḥ aparādhāt kṛtakaḥ ca bhayānakaḥ jñeyaḥ .. 69..
गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ ७०॥
गात्र-मुख-दृष्टि-भेदैः ऊरुस्तम्भ-अभिवीक्षण-उद्वेगैः । सन्न-मुख-शोष-हृदय-स्पन्दन-रोम-उद्गमैः च भयम् ॥ ७०॥
gātra-mukha-dṛṣṭi-bhedaiḥ ūrustambha-abhivīkṣaṇa-udvegaiḥ . sanna-mukha-śoṣa-hṛdaya-spandana-roma-udgamaiḥ ca bhayam .. 70..
एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥७१॥
एतत् स्वभाव-जम् स्यात् सत्त्व-समुत्थम् तथा एव कर्तव्यम् । पुनर् एभिः एव भावैः कृतकम् मृदु-चेष्टितैः कार्यम् ॥७१॥
etat svabhāva-jam syāt sattva-samuttham tathā eva kartavyam . punar ebhiḥ eva bhāvaiḥ kṛtakam mṛdu-ceṣṭitaiḥ kāryam ..71..
करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ७२॥
कर-चरण-वेपथु-स्तम्भ-गात्र-हृदय-प्रकम्पेन । शुष्क-उष्ठ-तालु-कण्ठैः भयानकः नित्यम् अभिनेयः ॥ ७२॥
kara-caraṇa-vepathu-stambha-gātra-hṛdaya-prakampena . śuṣka-uṣṭha-tālu-kaṇṭhaiḥ bhayānakaḥ nityam abhineyaḥ .. 72..
अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः - अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ ७३॥
अथ बीभत्सः नाम जुगुप्सा-स्थायिभाव-आत्मकः । स च अहृद्य-अप्रिय-अ चोष्य-अनिष्ट-श्रवण-दर्शन-कीर्तन-आदिभिः विभावैः उत्पद्यते । तस्य सर्व-अङ्ग-संहार-मुख-विकूणन-उल्लेखन-निष्ठीवन-उद्वेजन-आदिभिः अनुभावैः अभिनयः प्रयोक्तव्यः । भावाः च अस्य अपस्मार-उद्वेग-आवेग-मोह-व्याधि-मरण-आदयः । अत्र अनुवंश्ये आर्ये भवतः अनभिमत-दर्शनेन च गन्ध-रस-स्पर्श-शब्द-दोषैः च । उद्वेजनैः च बहुभिः बीभत्स-रसः समुद्भवति ॥ ७३॥
atha bībhatsaḥ nāma jugupsā-sthāyibhāva-ātmakaḥ . sa ca ahṛdya-apriya-a coṣya-aniṣṭa-śravaṇa-darśana-kīrtana-ādibhiḥ vibhāvaiḥ utpadyate . tasya sarva-aṅga-saṃhāra-mukha-vikūṇana-ullekhana-niṣṭhīvana-udvejana-ādibhiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ . bhāvāḥ ca asya apasmāra-udvega-āvega-moha-vyādhi-maraṇa-ādayaḥ . atra anuvaṃśye ārye bhavataḥ anabhimata-darśanena ca gandha-rasa-sparśa-śabda-doṣaiḥ ca . udvejanaiḥ ca bahubhiḥ bībhatsa-rasaḥ samudbhavati .. 73..
मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ ७४॥
मुख-नेत्र-विकूणनया नासा-प्रच्छादन-अवनमित-आस्यैः । अव्यक्त-पाद-पतनैः बीभत्सः सम्यक् अभिनेयः ॥ ७४॥
mukha-netra-vikūṇanayā nāsā-pracchādana-avanamita-āsyaiḥ . avyakta-pāda-patanaiḥ bībhatsaḥ samyak abhineyaḥ .. 74..
अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः ।
अथ अद्भुतः नाम विस्मय-स्थायिभाव-आत्मकः । स च दिव्य-जन-दर्शन-ईप्सित-मनोरथ-अवाप्ति-उपवन-देवकुल-आदि-गमन-सभा-विमान-माया-इन्द्रजाल-सम्भावना-आदिभिः विभावैः उत्पद्यते । तस्य प्रयोक्तव्यः । भावाः च अस्य स्तम्भ-अश्रु-स्वेद-गद्गद-रोमाञ्च-आवेग-सम्भ्रम-जड-ता-प्रलय-आदयः ।
atha adbhutaḥ nāma vismaya-sthāyibhāva-ātmakaḥ . sa ca divya-jana-darśana-īpsita-manoratha-avāpti-upavana-devakula-ādi-gamana-sabhā-vimāna-māyā-indrajāla-sambhāvanā-ādibhiḥ vibhāvaiḥ utpadyate . tasya prayoktavyaḥ . bhāvāḥ ca asya stambha-aśru-sveda-gadgada-romāñca-āvega-sambhrama-jaḍa-tā-pralaya-ādayaḥ .
यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ ७५॥
यत् त्व-अतिशय-अर्थ-युक्तम् वाक्यम् शिल्पम् च कर्म-रूपम् वा । तत् सर्वम् अद्भुत-रसे विभाव-रूपम् हि विज्ञेयम् ॥ ७५॥
yat tva-atiśaya-artha-yuktam vākyam śilpam ca karma-rūpam vā . tat sarvam adbhuta-rase vibhāva-rūpam hi vijñeyam .. 75..
स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ७६॥
स्पर्श-ग्रह-उल्लुकसनैः हाहाकारैः च साधुवादैः च । वेपथु-गद्गद-वचनैः स्वेद-आद्यैः अभिनयः तस्य ॥ ७६॥
sparśa-graha-ullukasanaiḥ hāhākāraiḥ ca sādhuvādaiḥ ca . vepathu-gadgada-vacanaiḥ sveda-ādyaiḥ abhinayaḥ tasya .. 76..
शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ ७७॥
शृङ्गारम् त्रिविधम् विद्यात् द्वाच्-नैपथ्य-क्रिया-आत्मकम् । अङ्ग-नैपथ्य-वाक्यैः च हास्य-रौद्रौ त्रिधा स्मृतौ ॥ ७७॥
śṛṅgāram trividham vidyāt dvāc-naipathya-kriyā-ātmakam . aṅga-naipathya-vākyaiḥ ca hāsya-raudrau tridhā smṛtau .. 77..
धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ ७८॥
धर्म-उपघात-जः च एव तथा अर्थ-अपचय-उद्भवः । तथा शोक-कृतः च एव करुणः त्रिविधः स्मृतः ॥ ७८॥
dharma-upaghāta-jaḥ ca eva tathā artha-apacaya-udbhavaḥ . tathā śoka-kṛtaḥ ca eva karuṇaḥ trividhaḥ smṛtaḥ .. 78..
दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ ७९॥
दान-वीरम् धर्म-वीरम् युद्ध-वीरम् तथा एव च । रसम् वीरम् अपि प्राह ब्रह्मा त्रिविधम् एव हि ॥ ७९॥
dāna-vīram dharma-vīram yuddha-vīram tathā eva ca . rasam vīram api prāha brahmā trividham eva hi .. 79..
व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ ८०॥
व्याजात् च एव अपराधात् च वित्रासितकम् एव च । पुनर् भयानकञ्च च एव विद्यात् त्रिविधम् एव हि ॥ ८०॥
vyājāt ca eva aparādhāt ca vitrāsitakam eva ca . punar bhayānakañca ca eva vidyāt trividham eva hi .. 80..
बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ ८१॥
बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठा-कृमिभिः उद्वेगी क्षोभ-जः रुधिर-आदि-अजः ॥ ८१॥
bībhatsaḥ kṣobhajaḥ śuddha udvegī syāt dvitīyakaḥ . viṣṭhā-kṛmibhiḥ udvegī kṣobha-jaḥ rudhira-ādi-ajaḥ .. 81..
दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ ८२॥
दिव्यः च आनन्द-जः च एव द्विधा ख्यातः अद्भुतः रसः । ॥ ८२॥
divyaḥ ca ānanda-jaḥ ca eva dvidhā khyātaḥ adbhutaḥ rasaḥ . .. 82..
[ अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य
[ अथ शान्तः नाम शम-स्थायिभाव-आत्मकः मोक्ष-प्रवर्तकः । स तु तत्त्व-ज्ञान-वैराग्य-आशय-शुद्धि-आदिभिः विभावैः समुत्पद्यते । तस्य
[ atha śāntaḥ nāma śama-sthāyibhāva-ātmakaḥ mokṣa-pravartakaḥ . sa tu tattva-jñāna-vairāgya-āśaya-śuddhi-ādibhiḥ vibhāvaiḥ samutpadyate . tasya
मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥
मोक्ष-अध्यात्म-समुत्थः तत्त्व-ज्ञान-अर्थ-हेतु-संयुक्तः । नैःश्रेयस-उपदिष्टः शान्त-रसः नाम सम्भवति ॥
mokṣa-adhyātma-samutthaḥ tattva-jñāna-artha-hetu-saṃyuktaḥ . naiḥśreyasa-upadiṣṭaḥ śānta-rasaḥ nāma sambhavati ..
बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥
बुद्धीन्द्रिय-कर्मेन्द्रिय-संरोध-अध्यात्म-संस्थित-उपेतः । सर्व-प्राणि-सुख-हितः शान्तरसः नाम विज्ञेयः ॥
buddhīndriya-karmendriya-saṃrodha-adhyātma-saṃsthita-upetaḥ . sarva-prāṇi-sukha-hitaḥ śāntarasaḥ nāma vijñeyaḥ ..
न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥
न यत्र दुःखम् न सुखम् न द्वेषः न अपि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितः रसः ॥
na yatra duḥkham na sukham na dveṣaḥ na api matsaraḥ . samaḥ sarveṣu bhūteṣu sa śāntaḥ prathitaḥ rasaḥ ..
भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥
भावाः विकाराः रति-आद्याः शान्तः तु प्रकृतिः मतः । विकारः प्रकृतैः जातः पुनर् तत्र एव लीयते । स्वम् स्वम् निमित्तम् आसाद्य शान्तात् भावः प्रवर्तते ॥
bhāvāḥ vikārāḥ rati-ādyāḥ śāntaḥ tu prakṛtiḥ mataḥ . vikāraḥ prakṛtaiḥ jātaḥ punar tatra eva līyate . svam svam nimittam āsādya śāntāt bhāvaḥ pravartate ..
पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥]
पुनर् निमित्त-अपाये च शान्ते एव उपलीयते । एवम् नव-रसाः दृष्टाः नाट्य-ज्ञैः लक्षण-अन्विताः ॥]
punar nimitta-apāye ca śānte eva upalīyate . evam nava-rasāḥ dṛṣṭāḥ nāṭya-jñaiḥ lakṣaṇa-anvitāḥ ..]
एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ८३॥
एवम् एते रसाः ज्ञेयाः तु अष्टौ लक्षण-लक्षिताः । अतस् ऊर्ध्वम् प्रवक्ष्यामि भावानाम् अपि लक्षणम् ॥ ८३॥
evam ete rasāḥ jñeyāḥ tu aṣṭau lakṣaṇa-lakṣitāḥ . atas ūrdhvam pravakṣyāmi bhāvānām api lakṣaṇam .. 83..
इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ॥
इति भारतीये नाट्य-शास्त्रे रस-अध्यायः षष्ठः ॥
iti bhāratīye nāṭya-śāstre rasa-adhyāyaḥ ṣaṣṭhaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In