शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥] ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥
PADACHEDA
शारीराः च एव वैणाः च सप्त षड्ज-आदयः स्वराः । [निषाद-ऋषभ-गान्धार-मध्य-पञ्चम-धैवताः ॥] ततम् च एव अवनद्धम् च घनम् सुषिरम् एव च ॥ २७॥
TRANSLITERATION
śārīrāḥ ca eva vaiṇāḥ ca sapta ṣaḍja-ādayaḥ svarāḥ . [niṣāda-ṛṣabha-gāndhāra-madhya-pañcama-dhaivatāḥ ..] tatam ca eva avanaddham ca ghanam suṣiram eva ca .. 27..
स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते ।
PADACHEDA
स च स्त्री-पुरुष-हेतुकः उत्तम-युव-प्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगः विप्रलम्भः च । तत्र सम्भोगः तावत् ऋतु-माल्य-अनुलेपन-अलङ्कार-इष्ट-जन-विषय-वर-भवन-उपभोग-उपवन-गमन-अनुभवन-श्रवण-दर्शन-क्रीडा-लीला-आदिभिः विभावैः उत्पद्यते ।
TRANSLITERATION
sa ca strī-puruṣa-hetukaḥ uttama-yuva-prakṛtiḥ . tasya dve adhiṣṭhāne sambhogaḥ vipralambhaḥ ca . tatra sambhogaḥ tāvat ṛtu-mālya-anulepana-alaṅkāra-iṣṭa-jana-viṣaya-vara-bhavana-upabhoga-upavana-gamana-anubhavana-śravaṇa-darśana-krīḍā-līlā-ādibhiḥ vibhāvaiḥ utpadyate .
अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः सङ्ग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः ।
PADACHEDA
अथ रौद्रः नाम क्रोध-स्थायिभाव-आत्मकः रक्षः-दानव-उद्धत-मनुष्य-प्रकृतिः सङ्ग्राम-हेतुकः । स च क्रोध-आधर्षण-अधिक्षेप-अनृत-वचन-उपघात-वाच्-पारुष्य-अभिद्रोह-मात्सर्य-आदिभिः विभावैः उत्पद्यते । तस्य च ताडन-पाटन-पीडा-छेदन-प्रहरण-आहरण-शस्त्र-सम्पात-सम्प्रहार-रुधिर-आकर्षण-आद्यानि कर्माणि । पुनर् च रक्त-नयन-भ्रुकुटि-करण-दन्त-उष्ठ-पीडन-गण्ड-स्फुरण-हस्त-अग्र-निष्पेष-आदिः अनुभावैः अभिनयः प्रयोक्तव्यः ।
TRANSLITERATION
atha raudraḥ nāma krodha-sthāyibhāva-ātmakaḥ rakṣaḥ-dānava-uddhata-manuṣya-prakṛtiḥ saṅgrāma-hetukaḥ . sa ca krodha-ādharṣaṇa-adhikṣepa-anṛta-vacana-upaghāta-vāc-pāruṣya-abhidroha-mātsarya-ādibhiḥ vibhāvaiḥ utpadyate . tasya ca tāḍana-pāṭana-pīḍā-chedana-praharaṇa-āharaṇa-śastra-sampāta-samprahāra-rudhira-ākarṣaṇa-ādyāni karmāṇi . punar ca rakta-nayana-bhrukuṭi-karaṇa-danta-uṣṭha-pīḍana-gaṇḍa-sphuraṇa-hasta-agra-niṣpeṣa-ādiḥ anubhāvaiḥ abhinayaḥ prayoktavyaḥ .
भावाः च अस्य अ सम्मोह-उत्साह-आवेग-अमर्ष-चपल-ता-औग्र्य-गर्व-स्वेद-वेपथु-रोमाञ्च-गद्गद-आदयः । अत्र आह यत् अभिहितम् रक्षः-दानव-आदीनाम् रौद्रः रसः । किम् अन्येषाम् न अस्ति । उच्यते अस्ति अन्येषाम् अपि रौद्रः रसः । किन्तु अधिकारः अत्र गृह्यते । ते हि स्वभावतः एव रौद्रः । कस्मात् । बहु-बाहवः बहु-मुखाः प्रोद्धूत-विकीर्ण-पिङ्गल-शिरोजाः । रक्त-उद्वृत्त-विलोचनाः भीम-असित-रूपिणः च एव । यत् च किञ्चिद् समारम्भते स्वभाव-चेष्टितम् वाच्-अङ्ग-आदिकम् तत् सर्वम् रौद्रम् एव एषाम् । शृङ्गारः च तैः प्रायशस् प्रसभ्यम् सेव्यते । तेषाम् च अनुकारिणः ये पुरुषः तेषाम् अपि सङ्ग्राम-सम्प्रहार-कृतः रौद्रः रसः अनुमन्तव्यः ।
TRANSLITERATION
bhāvāḥ ca asya a sammoha-utsāha-āvega-amarṣa-capala-tā-augrya-garva-sveda-vepathu-romāñca-gadgada-ādayaḥ . atra āha yat abhihitam rakṣaḥ-dānava-ādīnām raudraḥ rasaḥ . kim anyeṣām na asti . ucyate asti anyeṣām api raudraḥ rasaḥ . kintu adhikāraḥ atra gṛhyate . te hi svabhāvataḥ eva raudraḥ . kasmāt . bahu-bāhavaḥ bahu-mukhāḥ proddhūta-vikīrṇa-piṅgala-śirojāḥ . rakta-udvṛtta-vilocanāḥ bhīma-asita-rūpiṇaḥ ca eva . yat ca kiñcid samārambhate svabhāva-ceṣṭitam vāc-aṅga-ādikam tat sarvam raudram eva eṣām . śṛṅgāraḥ ca taiḥ prāyaśas prasabhyam sevyate . teṣām ca anukāriṇaḥ ye puruṣaḥ teṣām api saṅgrāma-samprahāra-kṛtaḥ raudraḥ rasaḥ anumantavyaḥ .
अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः ।
PADACHEDA
अथ अद्भुतः नाम विस्मय-स्थायिभाव-आत्मकः । स च दिव्य-जन-दर्शन-ईप्सित-मनोरथ-अवाप्ति-उपवन-देवकुल-आदि-गमन-सभा-विमान-माया-इन्द्रजाल-सम्भावना-आदिभिः विभावैः उत्पद्यते । तस्य प्रयोक्तव्यः । भावाः च अस्य स्तम्भ-अश्रु-स्वेद-गद्गद-रोमाञ्च-आवेग-सम्भ्रम-जड-ता-प्रलय-आदयः ।
TRANSLITERATION
atha adbhutaḥ nāma vismaya-sthāyibhāva-ātmakaḥ . sa ca divya-jana-darśana-īpsita-manoratha-avāpti-upavana-devakula-ādi-gamana-sabhā-vimāna-māyā-indrajāla-sambhāvanā-ādibhiḥ vibhāvaiḥ utpadyate . tasya prayoktavyaḥ . bhāvāḥ ca asya stambha-aśru-sveda-gadgada-romāñca-āvega-sambhrama-jaḍa-tā-pralaya-ādayaḥ .
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Pathshala and begin your first Learning Path.