| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ६ ॥
.. nāṭyaśāstram adhyāya 6 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ षष्ठोऽध्यायः ।
atha ṣaṣṭho'dhyāyaḥ .
पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ १॥
pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ . bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ .. 1..
ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ २॥
ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ . rasatvaṃ kena vai teṣāmetadākhyātumarhasi .. 2..
भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । सङ्ग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ ३॥
bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi . saṅgrahaṃ kārikāṃ caiva niruktaṃ caiva tatvataḥ .. 3..
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ ४॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ . pratyuvāca punarvākyaṃ rasabhāvavikalpanam .. 4..
अहं वः कथयिष्यामि निखिलेन तपोधनाः । सङ्ग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ ५॥
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ . saṅgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam .. 5..
न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ ६॥
na śakyamasya nāṭyasya gantumantaṃ kathañcana . kasmādbahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ .. 6..
एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ ७॥
ekasyāpi na vai śakyastvanto jñānārṇavasya hi . gantuṃ kiṃ punaranyeṣāṃ jñānānāmarthatattvataḥ .. 7..
किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ ८॥
kintvalpasūtragranthārthamanumānaprasādhakam . nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham .. 8..
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ ९॥
vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ . nibandho yo samāsena saṅgrahaṃ taṃ vidurbudhāḥ .. 9..
रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ १०॥
rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ . siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ .. 10..
अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ ११॥
alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ . sūtrataḥ sā'numatavyā kārikārthapradarśinī .. 11..
नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ १२॥
nānānāmāśrayotpannaṃ nighaṇṭunigamānvitam . dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam .. 12..
स्थापितोऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ १३॥
sthāpito'rtho bhavedyatra samāsenārthāsūcakaḥ . dhātvarthavacaneneha niruktaṃ tatpracakṣate .. 13..
सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ १४॥
saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ . vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam .. 14..
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसन्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ १५॥
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ . bībhatsādbhutasanjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ .. 15..
एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ १६॥
ete hyaṣṭau rasāḥ proktā druhinena mahātmanā . punaśca bhāvānvakṣyāmi sthāyisañcārisattvajān .. 16..
रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ १७॥
ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā . jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ .. 17..
निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ १८॥
nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ . ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ .. 18..
व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ १९॥
vrīḍā capalatā harṣa āvego jaḍatā tathā . garvo viṣāda autsukyaṃ nidrāpasmāra eva ca .. 19..
सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ २०॥
suptaṃ vibodho'marṣaścāpyavahitthamathogratā . matirvyādhistathonmādastathā maraṇameva ca .. 20..
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ २१॥
trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ . trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ .. 21..
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ २२॥
stambhaḥ svedo'tha romāñcaḥ svarabhedo'tha vepathuḥ . vaivarṇyamaśru pralaya ityaṣṭau sātvikāḥ smṛtāḥ .. 22..
आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारोऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ २३॥
āṅgikau vācikaścaiva hyāhāryaḥ sātvikastathā . catvāro'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ .. 23..
लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ २४॥
lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ . bhāratī sātvatī caiva kaiśikyārabhaṭī tathā .. 24..
चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ २५॥
catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam . āvantī dākṣiṇātyā ca tathā caivoḍhramāgadhī .. 25..
पाञ्चालमध्यमा चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ २६॥
pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ . daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu .. 26..
शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः ॥] ततं चैवावनद्धं च घनं सुषिरमेव च ॥ २७॥
śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ . [niṣādarṣabhagāndhāramadhyapañcamadhaivatāḥ ..] tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca .. 27..
चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ २८॥
caturvidhaṃ ca vijñeyamātodyaṃ lakṣaṇānvitam . tataṃ tantrīgataṃ jñeyamavanaddhaṃ tu pauṣkaram .. 28..
घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥२९॥
ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca . praveśākṣepaniṣkrāmaprāsādikamathāntaram ..29..
गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ ३०॥
gānaṃ pañcavidhaṃ jñeyaṃ dhruvāyogasamanvitam . caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ .. 30..
एवमेषोऽल्पसूत्रार्थो निर्दिष्टो नाट्यसङ्ग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ ३१॥
evameṣo'lpasūtrārtho nirdiṣṭo nāṭyasaṅgrahaḥ . ataḥ paraṃ pravakṣyāmi sūtragranthavikalpanam .. 31..
तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह - यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि - गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह - रस इति कः पदार्थः । उच्यते - आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः ।
tatra rasāneva tāvadādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate . tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ . ko dṛṣṭāntaḥ . atrāha - yathā hi nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ . yathā hi - guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti . atrāha - rasa iti kaḥ padārthaḥ . ucyate - āsvādyatvāt . kathamāsvādyate rasaḥ . yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjāna rasānāsvādayanti sumanasaḥ puruṣa harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti . tasmānnāṭyarasā ityabhivyākhyātāḥ .
यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ ३२॥
yathā bahudravyayutairvyañjanairbahubhiryutam . āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ .. 32..
भावाभिनयसम्बद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ ३३॥
bhāvābhinayasambaddhānsthāyibhāvāṃstathā budhāḥ . āsvādayanti manasā tasmānnāṭyarasāḥ smṛtāḥ .. 33..
अत्राह - किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः - नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ ३४॥
atrāha - kiṃ rasebhyo bhāvānāmabhinirvṛttirutāho bhāvebhyo rasānāmiti . keṣāñcinmataṃ parasparasambandhādeṣāmabhinirvṛttiriti . tanna . kasmāt . dṛśyate hi bhāvebhyo rasānāmabhinirvṛttirna tu rasebhyo bhāvānāmabhinirvṛttiriti . bhavanti cātra ślokāḥ - nānābhinayasambaddhānbhāvayanti rasanimān . yasmāttasmādamī bhāvā vijñeyā nāṭyayoktṛbhiḥ .. 34..
नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥ ३५॥
nānādravyaibahuvidhairvyañjanaṃ bhāvyate yathā . evaṃ bhāvā bhāvayanti rasānabhinayaiḥ saha .. 35..
न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ ३६॥
na bhāvahīno'sti raso na bhāvo rasavarjitaḥ . parasparakṛtā siddhistayorabhinaye bhavet .. 36..
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ ३७॥
vyañjanauṣadhisaṃyogo yathānnaṃ svādutāṃ nayet . evaṃ bhāvā rasāścaiva bhāvayanti parasparam .. 37..
यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ ३८॥
yathā bījādbhavedvṛkṣo vṛkṣātpuṣpaṃ phalaṃ yathā . tathā mūlaṃ rasāḥ sarve tebhyo bhāvā vyavasthitāḥ .. 38..
तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा - शृङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र - शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ ३९॥
tadeṣaṃ rasānāmutpattivarṇadaivatanidarśanānyabhivyākhyāsyāmaḥ . teṣāmutpattihetavaścatvāro rasāḥ . tadyathā - śṛṅgāro raudrau vīro bībhatsa iti . atra - śṛṅgārāddhi bhaveddhāsyo raudrācca karuṇo rasaḥ . vīrāccaivādbhutotpattirbībhatsācca bhayānakaḥ .. 39..
शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ ४०॥
śṛṅgārānukṛtiryā tu sa hāsyastu prakīrtitaḥ . raudrasyaiva ca yatkarma sa jñeyaḥ karuṇo rasaḥ .. 40..
वीरस्यापि च यत्कर्म सोऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ ४१॥
vīrasyāpi ca yatkarma so'dbhutaḥ parikīrtitaḥ . bībhatsadarśanaṃ yacca jñeyaḥ sa tu bhayānakaḥ .. 41..
श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ ४२॥
śyāmo bhavati śṛṅgāraḥ sito hāsyaḥ prakīrtitaḥ . kapotaḥ karuṇaścaiva rakto raudraḥ prakīrtitaḥ .. 42..
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ ४३॥
gauro vīrastu vijñeyaḥ kṛṣṇaścaiva bhayānakaḥ . nīlavarṇastu bībhatsaḥ pītaścaivādbhutaḥ smṛtaḥ .. 43..
शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ ४४॥
śṛṅgāro viṣṇudevatyo hāsyaḥ pramathadaivataḥ . raudro rudrādhidaivatyaḥ karuṇo yamadaivataḥ .. 44..
बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ ४५॥
bībhatsasya mahākālaḥ kāladevo bhayānakaḥ . vīro mahendradevaḥ syādadbhuto brahmadaivataḥ .. 45..
एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः ।
etameteṣāṃ rasānāmutpattivarṇadaivatānyabhivyākhyātāni . idānīmanubhāvavibhāvavyabhicārisaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ . sthāyibhāvāṃśca rasatvamupaneṣyāmaḥ . tatra śṛṅgāro nāma ratisthāyibhāvaprabhavaḥ . ujjvalaveṣātmakaḥ . yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tacchṛṅgāreṇopamīyate . yastāvadujjvalaveṣaḥ sa śṛṅgāravānityucyate . yathā ca gotrakulācārotpannānyāptopadeśasiddhāni puṃsāṃ nāmāni bhavanti tathaiveṣāṃ rasānāṃ bhāvānāṃ ca nāṭyāśritānāṃ cārthānāmācārotpannānyoptopadeśasiddhāni nāmāni . evameṣa ācārasiddho hṛdyojjvalaveṣātmakatvācchṛṅgāro rasaḥ .
स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ऋतुमाल्यानुलेपनालङ्कारेष्टजनविषयवरभवनोपभोगोपवन- गमनानुभवनश्रवणदर्शनक्रीडालीलादिभिर्विभावैरुत्पद्यते ।
sa ca strīpuruṣahetuka uttamayuvaprakṛtiḥ . tasya dve adhiṣṭhāne sambhogo vipralambhaśca . tatra sambhogastāvat ṛtumālyānulepanālaṅkāreṣṭajanaviṣayavarabhavanopabhogopavana- gamanānubhavanaśravaṇadarśanakrīḍālīlādibhirvibhāvairutpadyate .
तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहार- वाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु निर्वेदग्लानिशङ्कासूयाश्रमचिन्तौत्सुक्यनिद्रास्वप्नविबोधव्याध्युन्माद- मदापस्मारजाड्यमरणादिभिरनुभावैरभिनेतव्यः । अत्राह - यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते - पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थोऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणोऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति सन्ज्ञितः ॥ ४६॥
tasya nayanacāturyabhrūkṣepakaṭākṣasañcāralalitamadhurāṅgahāra- vākyādibhiranubhāvairabhinayaḥ prayoktavyaḥ . vyabhicāriṇaścāsyālasyaugryajugupsāvarjyāḥ . vipralambhakṛtastu nirvedaglāniśaṅkāsūyāśramacintautsukyanidrāsvapnavibodhavyādhyunmāda- madāpasmārajāḍyamaraṇādibhiranubhāvairabhinetavyaḥ . atrāha - yadyayaṃ ratiprabhavaḥ śṛṅgāraḥ kathamasya karuṇāśrayiṇo bhāvā bhavanti . atrocyate - pūrvamevābhihitaṃ sambhogavipralambhakṛtaḥ śṛṅgāra iti . vaiśikaśāstrakāraiśca daśāvastho'bhihitaḥ . tāśca sāmānyābhinaye vakṣyāmaḥ . karuṇastu śāpakleśavinipatiteṣṭajanavibhavanāśavadhabandhasamuttho nirapekṣabhāvaḥ . autsukyacintāsamutthaḥ sāpekṣabhāvo vipralambhakṛtaḥ . evamanyaḥ karuṇo'nyaśca vipralambha iti . evameṣa sarvabhāvasaṃyuktaḥ śṛṅgāro bhavati . api ca sukhaprāyeṣu sampannaḥ ṛtumālyadisevakaḥ . puruṣaḥ pramadāyuktaḥ śṛṅgāra iti sanjñitaḥ .. 46..
अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः । ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ ४७॥
api cātra sūtrārthānuviddhe ārye bhavataḥ . ṛtumālyālaṅkāraiḥ priyajanagāndharvakāvyasevābhiḥ . upavanagamanavihāraiḥ śṛṅgārarasaḥ samudbhavati .. 47..
नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ ४८॥
nayanavadanaprasādaiḥ smitamadhuravacodhṛtipramodaiśca . madhuraiścāṅgavihāraistasyābhinayaḥ prayoktavyaḥ .. 48..
अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शन- दोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दन- दृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ ४९॥
atha hāsyo nāma hāsasthāyibhāvātmakaḥ . sa ca vikṛtaparaveṣālaṅkāradhārṣṭyalaulyakuhakāsatpralāpavyaṅgadarśana- doṣodāharaṇādibhirvibhāvairutpadyate . tasyoṣṭhanāsākapolaspandana- dṛṣṭivyākośākuñcanasvedāsyarāgapārśvagrahaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ . vyabhicāriṇaścāsyāvahitthālasyatandrānidrāsvapnaprabodhādayaḥ . dvividhaścāyamātmasthaḥ parasthaśca . yadā svayaṃ hasati tadā'tmasthaḥ . yadā tu paraṃ hāsayati tadā parasthaḥ . atrānuvaṃśye ārye bhavataḥ . viparitālaṅkārairvikṛtācarābhidhānaveṣaiśca . vikṛtairarthaviśeṣairhasatīti rasaḥ smṛto hāsyaḥ .. 49..
विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥५०॥
vikṛtācārairvākyairaṅgavikāraiśca vikṛtaveṣaiśca . hāsayati janaṃ yasmāttasmajjjñeyo raso hāsyaḥ ..50..
स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ ५१॥
strīnīcaprakṛtāveṣa bhūyiṣṭhaṃ dṛśyate rasaḥ . ṣaḍbhedāścāsya vijñeyāstāṃśca vakṣyāmyahaṃ punaḥ .. 51..
स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ॥५२॥
smitamatha hasitaṃ vihasitamupahasitaṃ cāpahasitamatihasitam . dvau dvau bhedau syātāmuttamamadhyādhamaprakṛtau..52..
तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ ५३॥
tatra smitahasite jyeṣṭhānāṃ madhyānāṃ vihasitopahasite ca . adhamānāmapahasitaṃ hyatihasitaṃ cāpi vijñeyam .. 53..
ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ ५४॥
īṣadvikasitairgaṇḍaiḥ kaṭākṣaiḥ sauṣṭhavānvitaiḥ . alakṣitadvijaṃ dhīramuttamānāṃ smitaṃ bhavet .. 54..
उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ ५५॥
utphullānananetraṃ tu gaṇḍairvikasitairatha . kiñcillakṣitadantaṃ ca hasitaṃ tadvidhīyate .. 55..
आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत्॥५६॥
ākuñcitākṣigaṇḍaṃ yatsasvanaṃ madhuraṃ tathā . kālāgataṃ sāsyarāgaṃ tadvai vihasitaṃ bhavet..56..
उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ ५७॥
utphullanāsikaṃ yattu jihmadṛṣṭinirīkṣitam . nikuñcitāṅgakaśirastaccopahasitaṃ bhavet .. 57..
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ ५८॥
asthānahasitaṃ yattu sāśrunetraṃ tathaiva ca . utkampitāṃsakaśirastaccāpahasiataṃ bhavet .. 58..
संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥ ५९॥
saṃrabdhasāśrunetraṃ ca vikṛṣṭasvaramuddhatam . karopagūḍhapārśvaṃ ca taccātihasitaṃ bhavet .. 59..
हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ ६०॥
hāsyasthānāni yāni syuḥ kāryotpannāni nāṭake . uttamādhamamadhyānāmevaṃ tāni prayojayet .. 60..
इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ ६१॥
ityeṣa svasamutthastathā parasamutthaśca vijñeyaḥ . dvividhastriprakṛtigatastryavasthabhāvo raso hāsyaḥ .. 61..
अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघात- व्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वास- स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधि- जडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रु-
atha karuṇo nāma śokasthāyibhāvaprabhavaḥ . sa ca śāpakleśavinipatiteṣṭajanaviprayogavibhavanāśavadhabandhavidravopaghāta- vyasanasaṃyogādibhirvibhāvaiḥ samupajāyate . tasyāśrupātaparidevanamukhaśoṣaṇavaivarṇyasrastagātratāniśśvāsa- smṛtilopādibhiranubhāvairabhinayaḥ prayoktavyaḥ . vyabhicāriṇaścāsya nirvedaglānicintautsukyāvegabhramamohaśramabhayaviṣādadainyavyādhi- jaḍatonmādāpasmāratrāsālasyamaraṇastambhavepathuvaivarṇyāśru-
इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम सम्भवति ॥ ६२॥
iṣṭavadhadarśanādvā vipriyavacanasya saṃśravādvāpi . ebhirbhāvaviśeṣaiḥ karuṇo nāma sambhavati .. 62..
सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ६३॥
sasvanaruditairmohāgamaiśca paridaivatairvilapitaiśca . abhineyaḥ karuṇaraso dehāyāsābhighātaiśca .. 63..
अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः सङ्ग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पा- रुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च ताडनपाटनपीडाच्छेदनप्रहरणाहरणशस्त्रसम्पातसम्प्रहाररुधिराकर्षणाद्यानि कर्माणि । पुनश्च रक्तनयनभ्रुकुटिकरणदन्तोष्ठपीडनगण्डस्फुरण- हस्ताग्रनिष्पेषादिरनुभावैरभिनयः प्रयोक्तव्यः ।
atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṅgrāmahetukaḥ . sa ca krodhādharṣaṇādhikṣepānṛtavacanopaghātavākpā- ruṣyābhidrohamātsaryādibhirvibhāvairutpadyate . tasya ca tāḍanapāṭanapīḍācchedanapraharaṇāharaṇaśastrasampātasamprahārarudhirākarṣaṇādyāni karmāṇi . punaśca raktanayanabhrukuṭikaraṇadantoṣṭhapīḍanagaṇḍasphuraṇa- hastāgraniṣpeṣādiranubhāvairabhinayaḥ prayoktavyaḥ .
भावाश्चास्यासम्मोहोत्साहावेगामर्षचपलतौग्र्यगर्वस्वेदवेपथुरोमाञ्च- गद्गदादयः । अत्राह - यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते - अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारोऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसोऽनुमन्तव्यः ।
bhāvāścāsyāsammohotsāhāvegāmarṣacapalataugryagarvasvedavepathuromāñca- gadgadādayaḥ . atrāha - yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ . kimanyeṣāṃ nāsti . ucyate - astyanyeṣāmapi raudro rasaḥ . kintvadhikāro'tra gṛhyate . te hi svabhāvata eva raudraḥ . kasmāt . bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ . raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva . yacca kiñcitsamārambhate svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām . śṛṅgāraśca taiḥ prāyaśaḥ prasabhyaṃ sevyate . teṣāṃ cānukāriṇo ye puruṣasteṣāmapi saṅgrāmasamprahārakṛto raudro raso'numantavyaḥ .
युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ ६४॥
yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva . saṃṅgrāmasambhramādyairebhiḥ sañjāyate raudraḥ .. 64..
नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ ६५॥
nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva . ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ .. 65..
इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ ६६॥
iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ . śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ .. 66..
अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासम्मोहाध्यवसायन- विनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य धृतिमतिगर्वावेगौग्र्यामर्षस्मृतिरोमाञ्चादयः ।
atha vīro nāmottamaprakṛtirutsāhātmakaḥ . sa cāsammohādhyavasāyana- vinayabalaparākramaśaktipratāpaprabhāvādibhirvibhāvairutpadyate . tasya sthairyadhairyaśauryatyāgavaiśāradyādibhiranubhāvairabhinayaḥ prayoktavyaḥ . bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ .
उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ ६७॥
utsāhādhyavasāyādaviṣāditvādavismayāmohāt . vividhādarthaviśeṣādvīraraso nāma sambhavati .. 67..
स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ ६८॥
sthitidhairyavīryagarvairutsāhaparākramaprabhāvaiśca . vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ .. 68..
अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्ध- दर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते ।तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यशङ्कामोहदैन्यावेग- चापलजडतात्रासापस्मारमरणादयः ।
atha bhayānako nāma bhayasthāyibhāvātmakaḥ . sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandha- darśanaśrutikathādibhirvibhāvairutpadyate .tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhiranubhāvairabhinayaḥ prayoktavyaḥ . bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvega- cāpalajaḍatātrāsāpasmāramaraṇādayaḥ .
विकृतरवसत्त्वदर्शनसङ्ग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ ६९॥
vikṛtaravasattvadarśanasaṅgrāmāraṇyaśūnyagṛhagamanāt . gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ .. 69..
गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ ७०॥
gātramukhadṛṣṭibhedairūrustambhābhivīkṣaṇodvegaiḥ . sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam .. 70..
एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥७१॥
etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam . punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam ..71..
करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ ७२॥
karacaraṇavepathustambhagātrahṛdayaprakampena . śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ .. 72..
अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः - अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ ७३॥
atha bībhatso nāma jugupsāsthāyibhāvātmakaḥ . sa cāhṛdyāpriyācoṣyāniṣṭaśravaṇadarśanakīrtanādibhirvibhāvairutpadyate . tasya sarvāṅgasaṃhāramukhavikūṇanollekhananiṣṭhīvanodvejanādibhiranubhāvairabhinayaḥ prayoktavyaḥ . bhāvāścāsyāpasmārodvegāvegamohavyādhimaraṇādayaḥ . atrānuvaṃśye ārye bhavataḥ - anabhimatadarśanena ca gandharasasparśaśabdadoṣaiśca . udvejanaiśca bahubhirbībhatsarasaḥ samudbhavati .. 73..
मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ ७४॥
mukhanetravikūṇanayā nāsāpracchādanāvanamitāsyaiḥ . avyaktapādapatanairbībhatsaḥ samyagabhineyaḥ .. 74..
अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमान- मायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षणरोमाञ्चाश्रुस्वेदहर्षसाधुवाददानप्रबन्ध- हाहाकारबाहुवदनचेलाङ्गुलिभ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेगसम्भ्रमजडताप्रलयादयः ।
athādbhuto nāma vismayasthāyibhāvātmakaḥ . sa ca divyajanadarśanepsitamanorathāvāptyupavanadevakulādigamanasabhāvimāna- māyendrajālasambhāvanādibhirvibhāvairutpadyate . tasya nayanavistārānimeṣaprekṣaṇaromāñcāśrusvedaharṣasādhuvādadānaprabandha- hāhākārabāhuvadanacelāṅgulibhramaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ . bhāvāścāsya stambhāśrusvedagadgadaromāñcāvegasambhramajaḍatāpralayādayaḥ .
यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ ७५॥
yattvātiśayārthayuktaṃ vākyaṃ śilpaṃ ca karmarūpaṃ vā . tatsarvamadbhutarase vibhāvarūpaṃ hi vijñeyam .. 75..
स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ ७६॥
sparśagrahollukasanairhāhākāraiśca sādhuvādaiśca . vepathugadgadavacanaiḥ svedādyairabhinayastasya .. 76..
शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ ७७॥
śṛṅgāraṃ trividhaṃ vidyātdvāṅnaipathyakriyātmakam . aṅganaipathyavākyaiśca hāsyaraudrau tridhā smṛtau .. 77..
धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ ७८॥
dharmopaghātajaścaiva tathārthāpacayodbhavaḥ . tathā śokakṛtaścaiva karuṇastrividhaḥ smṛtaḥ .. 78..
दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ ७९॥
dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca . rasaṃ vīramapi prāha brahmā trividhameva hi .. 79..
व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ ८०॥
vyājāccaivāparādhācca vitrāsitakameva ca . punarbhayānakañcaiva vidyāt trividhameva hi .. 80..
बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ ८१॥
bībhatsaḥ kṣobhajaḥ śuddha udvegī syāt dvitīyakaḥ . viṣṭhākṛmibhirudvegī kṣobhajo rudhirādiajaḥ .. 81..
दिव्यश्चानन्दजश्चैव द्विधा ख्यातोऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ ८२॥
divyaścānandajaścaiva dvidhā khyāto'dbhuto rasaḥ . divyadarśanajo divyo harṣādānadajaḥ smṛtaḥ .. 82..
[ अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य
[ atha śānto nāma śamasthāyibhāvātmako mokṣapravartakaḥ . sa tu tattvajñānavairāgyāśayaśuddhyādibhirvibhāvaiḥ samutpadyate . tasya
मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥
mokṣādhyātmasamutthastattvajñānārthahetusaṃyuktaḥ . naiḥśreyasopadiṣṭaḥ śāntaraso nāma sambhavati ..
बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥
buddhīndriyakarmendriyasaṃrodhādhyātmasaṃsthitopetaḥ . sarvaprāṇisukhahitaḥ śāntaraso nāma vijñeyaḥ ..
न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥
na yatra duḥkhaṃ na sukhaṃ na dveṣo nāpi matsaraḥ . samaḥ sarveṣu bhūteṣu sa śāntaḥ prathito rasaḥ ..
भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥
bhāvā vikārā ratyādyāḥ śāntastu prakṛtirmataḥ . vikāraḥ prakṛtairjātaḥ punastatraiva līyate . svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate ..
पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥]
punarnimittāpāye ca śānta evopalīyate . evaṃ navarasā dṛṣṭā nāṭyajñairlakṣaṇānviatāḥ ..]
एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ ८३॥
evamete rasā jñeyāstvaṣṭau lakṣaṇalakṣitāḥ . ata ūrdhvaṃ pravakṣyāmi bhāvānāmapi lakṣaṇam .. 83..
इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः ॥
iti bhāratīye nāṭyaśāstre rasādhyāyaḥ ṣaṣṭhaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In