| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३६ नाट्यशापः ॥
॥ नाट्य-शास्त्रम् अध्याय-नाट्य-शापः ॥
.. nāṭya-śāstram adhyāya-nāṭya-śāpaḥ ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ षट्त्रिंशोऽध्यायः
अथ षट्त्रिंशः अध्यायः
atha ṣaṭtriṃśaḥ adhyāyaḥ
अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यो मनुरायुस्तथात्मवान् ॥ १॥
अथ आत्रेयः वसिष्ठः च पुलस्त्यः पुलहः क्रतुः । अङ्गिराः गौतमः अगस्त्यः मनुः आयुः तथा आत्मवान् ॥ १॥
atha ātreyaḥ vasiṣṭhaḥ ca pulastyaḥ pulahaḥ kratuḥ . aṅgirāḥ gautamaḥ agastyaḥ manuḥ āyuḥ tathā ātmavān .. 1..
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ २॥
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिः दनुः । उशनाः बृहस्पतिः व्यासः च्यवनः काश्यपः ध्रुवः ॥ २॥
viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatiḥ danuḥ . uśanāḥ bṛhaspatiḥ vyāsaḥ cyavanaḥ kāśyapaḥ dhruvaḥ .. 2..
दुर्वासा जामदग्न्यश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ ३॥
दुर्वासाः जामदग्न्यः च मार्कण्डेयः अथ गालवः । भरद्वाजः च रैभ्यः च यवक्रीतः तथा एव च ॥ ३॥
durvāsāḥ jāmadagnyaḥ ca mārkaṇḍeyaḥ atha gālavaḥ . bharadvājaḥ ca raibhyaḥ ca yavakrītaḥ tathā eva ca .. 3..
स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ ४॥
स्थूलाक्षः शकलाक्षः च काण्वः मेघातिथिः क्रतुः । नारदः पर्वतः च एव सुवर्मा अथ एकजः द्विजः ॥ ४॥
sthūlākṣaḥ śakalākṣaḥ ca kāṇvaḥ meghātithiḥ kratuḥ . nāradaḥ parvataḥ ca eva suvarmā atha ekajaḥ dvijaḥ .. 4..
नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ ५॥
। जामदग्न्यः तथा रामः कचः च इति एवमादयः ॥ ५॥
. jāmadagnyaḥ tathā rāmaḥ kacaḥ ca iti evamādayaḥ .. 5..
एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ ६॥
एवम् ते मुनयः श्रुत्वा सर्वज्ञम् भरतम् ततस् । पुनर् ऊचुः इदम् वाक्यम् कुतूहल-पुरोगमम् ॥ ६॥
evam te munayaḥ śrutvā sarvajñam bharatam tatas . punar ūcuḥ idam vākyam kutūhala-purogamam .. 6..
यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ ७॥
यः त्वया गदितः हि एष नाट्य-वेदः पुरातनः । एकचित्तैः स च अस्माभिः सम्यक् समुपधारितः ॥ ७॥
yaḥ tvayā gaditaḥ hi eṣa nāṭya-vedaḥ purātanaḥ . ekacittaiḥ sa ca asmābhiḥ samyak samupadhāritaḥ .. 7..
एकश्च संशयोऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ ८॥
एकः च संशयः अस्माकम् तम् नः व्याख्यातुम् अर्हसि । कः वा अन्यः नाट्य-वेदस्य निश्चयम् वक्तुम् अर्हति ॥ ८॥
ekaḥ ca saṃśayaḥ asmākam tam naḥ vyākhyātum arhasi . kaḥ vā anyaḥ nāṭya-vedasya niścayam vaktum arhati .. 8..
न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ ९॥
न वयम् परिहासेन न विरोधेन न च ईर्ष्यया । पृच्छामः भगवत् नाट्यम् उपदेश-अर्थम् एव तु ॥ ९॥
na vayam parihāsena na virodhena na ca īrṣyayā . pṛcchāmaḥ bhagavat nāṭyam upadeśa-artham eva tu .. 9..
अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ १०॥
अस्माभिः च तदा ना उक्तम् कथा-छेदः भवेत् इति । इदानीम् तु उपशिक्षा-अर्थम् नाट्य-गुह्यम् निदर्शय ॥ १०॥
asmābhiḥ ca tadā nā uktam kathā-chedaḥ bhavet iti . idānīm tu upaśikṣā-artham nāṭya-guhyam nidarśaya .. 10..
लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ ११॥
लोकस्य चरितम् नाट्यम् इति अवोचः त्वम् ईदृशम् । तेषाम् तु लोकम् गुह्यानाम् निश्चयम् वक्तुम् अर्हसि ॥ ११॥
lokasya caritam nāṭyam iti avocaḥ tvam īdṛśam . teṣām tu lokam guhyānām niścayam vaktum arhasi .. 11..
देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ १२॥
देवस्य कस्य चरितम् पूर्वरङ्गे द्विजर्षभ । किमर्थम् भुज्यते हि एष प्रयुक्तः किम् करोति वा ॥ १२॥
devasya kasya caritam pūrvaraṅge dvijarṣabha . kimartham bhujyate hi eṣa prayuktaḥ kim karoti vā .. 12..
कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ १३॥
कस्मात् च एव पुनर् शौचम् सम्यक् चरति सूत्रदृश् । कथम् उर्वी-तले नाट्यम् स्वर्गात् निपतितम् विभो ॥ १३॥
kasmāt ca eva punar śaucam samyak carati sūtradṛś . katham urvī-tale nāṭyam svargāt nipatitam vibho .. 13..
कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ १४॥
कथम् तव अयम् वंशः च नट-संज्ञः प्रतिष्ठितः । सर्वम् एव यथातत्त्वम् कथयस्व महा-मुने ॥ १४॥
katham tava ayam vaṃśaḥ ca naṭa-saṃjñaḥ pratiṣṭhitaḥ . sarvam eva yathātattvam kathayasva mahā-mune .. 14..
तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ १५॥
तु वचनम् श्रुत्वा मुनीनाम् भरतः मुनिः । प्रत्युवाच पुनर् वाक्यम् गुह्य-अर्थ-अभिनयम् प्रति ॥ १५॥
tu vacanam śrutvā munīnām bharataḥ muniḥ . pratyuvāca punar vākyam guhya-artha-abhinayam prati .. 15..
ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ १६॥
ब्रवीमि वः कथाम् गुह्याम् यत् माम् पृच्छन् सुव्रताः । पूर्वरङ्ग-विधानस्य ताम् च मे सन् निबोधत ॥ १६॥
bravīmi vaḥ kathām guhyām yat mām pṛcchan suvratāḥ . pūrvaraṅga-vidhānasya tām ca me san nibodhata .. 16..
प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥
प्रोक्तवान् अस्मि यत् पूर्वम् शुभम् विघ्न-निबर्हणम् । तस्य अनुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ १७॥
proktavān asmi yat pūrvam śubham vighna-nibarhaṇam . tasya anubandhena mayā pūrvaraṅgaḥ prakīrtitaḥ .. 17..
शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ १८॥
शस्त्राणाम् प्रतिकार-अर्थम् शरीर-आवरणम् यथा । क्रियते हि तथा पापम् हुतेन एव प्रशाम्यति ॥ १८॥
śastrāṇām pratikāra-artham śarīra-āvaraṇam yathā . kriyate hi tathā pāpam hutena eva praśāmyati .. 18..
एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ १९॥
एवम् जप्यैः च होमैः च देवता-अभ्यर्चनेन च । सर्व-आतोद्य-विधानैः च तथा गीत-स्वनेन च ॥ १९॥
evam japyaiḥ ca homaiḥ ca devatā-abhyarcanena ca . sarva-ātodya-vidhānaiḥ ca tathā gīta-svanena ca .. 19..
स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ २०॥
स्तुत्य-आशीर्वचनैः शान्तैः कर्म-भाव-अनुकीर्तनैः । मया पाप-अपहरणैः कृते विघ्न-निबर्हणे ॥ २०॥
stutya-āśīrvacanaiḥ śāntaiḥ karma-bhāva-anukīrtanaiḥ . mayā pāpa-apaharaṇaiḥ kṛte vighna-nibarhaṇe .. 20..
स्तुतिगीतादिसंसृष्टैर्देवैरभिहितोऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ २१॥
स्तुति-गीत-आदि-संसृष्टैः देवैः अभिहितः अस्मि अहम् । नितराम् परितुष्टाः स्मः प्रयोगेण अमुना च ते ॥ २१॥
stuti-gīta-ādi-saṃsṛṣṭaiḥ devaiḥ abhihitaḥ asmi aham . nitarām parituṣṭāḥ smaḥ prayogeṇa amunā ca te .. 21..
देवतासुरमानन्द्य यस्माँल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ २२॥
देवता-असुरम् आनन्द्य यस्मान् लोकः च नन्दति । तस्मात् अयम् प्रयोगः तु नान्दी-नामा भविष्यति ॥ २२॥
devatā-asuram ānandya yasmān lokaḥ ca nandati . tasmāt ayam prayogaḥ tu nāndī-nāmā bhaviṣyati .. 22..
गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ २३॥
गीत-वाद्य-अनुनादः हि यत्र काकु-स्वनः शुभः । तस्मिन् देशे विपाप्मानः माङ्गल्यम् च भविष्यति ॥ २३॥
gīta-vādya-anunādaḥ hi yatra kāku-svanaḥ śubhaḥ . tasmin deśe vipāpmānaḥ māṅgalyam ca bhaviṣyati .. 23..
यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ २४॥
यावत् तम् पूरयेत् देशम् ध्वनिः नाट्य-समाश्रयः । न स्थास्यन्ति हि रक्षांसि तम् देशम् न विनायकाः ॥ २४॥
yāvat tam pūrayet deśam dhvaniḥ nāṭya-samāśrayaḥ . na sthāsyanti hi rakṣāṃsi tam deśam na vināyakāḥ .. 24..
आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ २५॥
आवाहे च विवाहे च यज्ञे नृपति-मङ्गले । नान्दी-शब्दम् उपश्रुत्य हिंस्राः नश्यन्ति च एव हि ॥ २५॥
āvāhe ca vivāhe ca yajñe nṛpati-maṅgale . nāndī-śabdam upaśrutya hiṃsrāḥ naśyanti ca eva hi .. 25..
पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ २६॥
पाठ्यम् नाट्यम् तथा गेयम् चित्र-वादित्रम् एव च । वेद-मन्त्र-अर्थ-वचनैः समम् हि एतत् भविष्यति ॥ २६॥
pāṭhyam nāṭyam tathā geyam citra-vāditram eva ca . veda-mantra-artha-vacanaiḥ samam hi etat bhaviṣyati .. 26..
श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ २७॥
श्रुतम् मया देवदेवात् तत्त्वतः शङ्करात् हितम् । स्नान-जप्य-सहस्रेभ्यः पवित्रम् गीत-वादितम् ॥ २७॥
śrutam mayā devadevāt tattvataḥ śaṅkarāt hitam . snāna-japya-sahasrebhyaḥ pavitram gīta-vāditam .. 27..
यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ २८॥
यस्मिन् आतोद्य-नाट्यस्य गीत-पाठ्य-ध्वनिः शुभः । भविष्यति अशुभम् देशे ना एव तस्मिन् कदाचन ॥ २८॥
yasmin ātodya-nāṭyasya gīta-pāṭhya-dhvaniḥ śubhaḥ . bhaviṣyati aśubham deśe nā eva tasmin kadācana .. 28..
एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ २९॥
एवम् पूजा-अधिकार-अर्थम् पूर्वरङ्गः कृतः मया । नाना स्तुति-कृतैः वाक्यैः देवता-अभ्यर्चनेन च ॥ २९॥
evam pūjā-adhikāra-artham pūrvaraṅgaḥ kṛtaḥ mayā . nānā stuti-kṛtaiḥ vākyaiḥ devatā-abhyarcanena ca .. 29..
यतोऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ ३०॥
यतस् अभिवादनम् क्लिष्टम् शिष्टम् तत् रङ्ग-मण्डले । ततस् तस्य हि तत् शौचम् विहितम् तु द्विजोत्तमाः ॥ ३०॥
yatas abhivādanam kliṣṭam śiṣṭam tat raṅga-maṇḍale . tatas tasya hi tat śaucam vihitam tu dvijottamāḥ .. 30..
शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गेऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ ३१॥
शौचम् कृत्वा यतस् मन्त्रम् पूजनम् जर्जरस्य तु । उच्यते पूर्वरङ्गे अस्मिन् तस्मात् शौचम् प्रकीर्तितम् ॥ ३१॥
śaucam kṛtvā yatas mantram pūjanam jarjarasya tu . ucyate pūrvaraṅge asmin tasmāt śaucam prakīrtitam .. 31..
यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ ३२॥
यथा अवतारितम् च एव नाट्यम् एतत् मही-तले । वक्तव्यम् सर्वम् एतत् हि न शक्यम् हि निगूहितुम् ॥ ३२॥
yathā avatāritam ca eva nāṭyam etat mahī-tale . vaktavyam sarvam etat hi na śakyam hi nigūhitum .. 32..
ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ ३३॥
मम एते तनयाः सर्वे नाट्य-वेद-समन्विताः । सर्व-लोकम् प्रहसनैः बाधन्ते नाट्य-संश्रयैः ॥ ३३॥
mama ete tanayāḥ sarve nāṭya-veda-samanvitāḥ . sarva-lokam prahasanaiḥ bādhante nāṭya-saṃśrayaiḥ .. 33..
कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ ३४॥
कस्यचिद् तु अथ कालस्य शिल्पकम् ग्राम्यधर्मकम् । ऋषीणाम् व्यङ्ग्य-करणम् कुर्वद्भिः गुण-संश्रयम् ॥ ३४॥
kasyacid tu atha kālasya śilpakam grāmyadharmakam . ṛṣīṇām vyaṅgya-karaṇam kurvadbhiḥ guṇa-saṃśrayam .. 34..
अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ ३५॥
अ श्राव्यम् तत् दुराचारम् ग्राम्य-धर्म-प्रवर्तितम् । निष्ठुरम् च अप्रस्तुतम् च काव्यम् संसदि योजितम् ॥ ३५॥
a śrāvyam tat durācāram grāmya-dharma-pravartitam . niṣṭhuram ca aprastutam ca kāvyam saṃsadi yojitam .. 35..
तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ ३६॥
तत् श्रुत्वा मुनयः सर्वे भीम-रोष-प्रकम्पिताः । ऊचुः तान् भरतान् क्रुद्धाः निर्दहन्तः इव अग्नयः ॥ ३६॥
tat śrutvā munayaḥ sarve bhīma-roṣa-prakampitāḥ . ūcuḥ tān bharatān kruddhāḥ nirdahantaḥ iva agnayaḥ .. 36..
मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ ३७॥
मा तावत् भो द्विजाः युक्तम् इदम् अस्मद्-विडम्बनम् । कः नाम अयम् परिभवः किञ्च न अस्मासु सम्मतम् ॥ ३७॥
mā tāvat bho dvijāḥ yuktam idam asmad-viḍambanam . kaḥ nāma ayam paribhavaḥ kiñca na asmāsu sammatam .. 37..
यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ ३८॥
यस्मात् ज्ञान-मद-उन्मत्ताः न वेत्थ अविनय-आश्रिताः । तस्मात् एतत् हि भवताम् कुज्ञानम् नाशम् एष्यति ॥ ३८॥
yasmāt jñāna-mada-unmattāḥ na vettha avinaya-āśritāḥ . tasmāt etat hi bhavatām kujñānam nāśam eṣyati .. 38..
ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ ३९॥
ऋषीणाम् ब्राह्मणानाम् च समवाय-समागताः । निराहुताः विना होमैः शूद्र-आचाराः भविष्यथ ॥ ३९॥
ṛṣīṇām brāhmaṇānām ca samavāya-samāgatāḥ . nirāhutāḥ vinā homaiḥ śūdra-ācārāḥ bhaviṣyatha .. 39..
अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ ४०॥
अ पाङ्क्तेयाः कुत्सिताः च अवमाः एव भविष्यथ । यः च वः भविता वंशः सर्व-आशौचः भविष्यति ॥ ४०॥
a pāṅkteyāḥ kutsitāḥ ca avamāḥ eva bhaviṣyatha . yaḥ ca vaḥ bhavitā vaṃśaḥ sarva-āśaucaḥ bhaviṣyati .. 40..
ये च वो वंशजास्तेऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ ४१॥
ये च वः वंश-जाः ते अपि भविष्यन्ति अथ नर्तकाः । पर-उपस्थानवन्तः च शस्त्र-पण्य-उपजीविनः ॥ ४१॥
ye ca vaḥ vaṃśa-jāḥ te api bhaviṣyanti atha nartakāḥ . para-upasthānavantaḥ ca śastra-paṇya-upajīvinaḥ .. 41..
शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ ४२॥
शापम् दत्तम् तथा ज्ञात्वा सुतेभ्यः मे तदा सुराः । सर्वे विमनसः भूत्वा तान् ऋषीन् समुपस्थिताः ॥ ४२॥
śāpam dattam tathā jñātvā sutebhyaḥ me tadā surāḥ . sarve vimanasaḥ bhūtvā tān ṛṣīn samupasthitāḥ .. 42..
याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ ४३॥
याचमानैः ततस् प्रोक्तम् देवैः शक्र-पुरोगमैः । इदानीम् दुःखम् उत्पन्नम् नाट्यम् एतत् विनङ्क्षति ॥ ४३॥
yācamānaiḥ tatas proktam devaiḥ śakra-purogamaiḥ . idānīm duḥkham utpannam nāṭyam etat vinaṅkṣati .. 43..
ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ ४४॥
ऋषिभिः च ततस् प्रोक्तम् न च एतत् हि विनक्ष्यति । शेषम् अन्यत्र यत् प्रोक्तम् सर्वम् एतत् भविष्यति ॥ ४४॥
ṛṣibhiḥ ca tatas proktam na ca etat hi vinakṣyati . śeṣam anyatra yat proktam sarvam etat bhaviṣyati .. 44..
एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ ४५॥
एतत् श्रुत्वा तु वचनम् मुनीनाम् उग्र-तेजसाम् । विष्ण्णाः ते ततस् सर्वे श्रुत्वा माम् समुपस्थिताः ॥ ४५॥
etat śrutvā tu vacanam munīnām ugra-tejasām . viṣṇṇāḥ te tatas sarve śrutvā mām samupasthitāḥ .. 45..
प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ ४६॥
प्रोक्तवन्तः च माम् पुत्राः त्वया अहो नाशिताः वयम् । अनेन नाट्य-दोषेण शूद्र-आचाराः हि यत् कृताः ॥ ४६॥
proktavantaḥ ca mām putrāḥ tvayā aho nāśitāḥ vayam . anena nāṭya-doṣeṇa śūdra-ācārāḥ hi yat kṛtāḥ .. 46..
मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितोऽस्माकं नूनमेष विधिः सुताः ॥ ४७॥
मया अपि सान्त्वयित्वा उक्ताः मा क्रोधम् व्रजत अनघाः । कृतान्त-विहितः अस्माकम् नूनम् एष विधिः सुताः ॥ ४७॥
mayā api sāntvayitvā uktāḥ mā krodham vrajata anaghāḥ . kṛtānta-vihitaḥ asmākam nūnam eṣa vidhiḥ sutāḥ .. 47..
मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ ४८॥
मुनीनाम् हि मृषा वाक्यम् भविष्यति कदाचन । निधने च मनः मा भूत् युष्माकम् इति सान्त्विताः ॥ ४८॥
munīnām hi mṛṣā vākyam bhaviṣyati kadācana . nidhane ca manaḥ mā bhūt yuṣmākam iti sāntvitāḥ .. 48..
जानीध्वं तत्तथा नाट्यं ब्रह्मणा सम्प्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥
जानीध्वम् तत् तथा नाट्यम् ब्रह्मणा सम्प्रवर्तितम् । शिष्येभ्यः च तद्-अन्येभ्यः प्रयच्छामः प्रयोगतः ॥ ४९॥
jānīdhvam tat tathā nāṭyam brahmaṇā sampravartitam . śiṣyebhyaḥ ca tad-anyebhyaḥ prayacchāmaḥ prayogataḥ .. 49..
मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ ५०॥
मा वै प्रणश्यताम् एतत् नाट्यम् दुःख-प्रवर्तितम् । महा-आश्रयम् महा-पुण्यम् वेदाङ्ग-उपाङ्ग-सम्भवम् ॥ ५०॥
mā vai praṇaśyatām etat nāṭyam duḥkha-pravartitam . mahā-āśrayam mahā-puṇyam vedāṅga-upāṅga-sambhavam .. 50..
अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ ५१॥
अप्सरोभ्यः इदम् च एव यथातत्त्वम् यथाश्रुतम् । नाट्यम् दत्त्वा ततस् सर्वे प्रायश्चित्तम् चरिष्यथ ॥ ५१॥
apsarobhyaḥ idam ca eva yathātattvam yathāśrutam . nāṭyam dattvā tatas sarve prāyaścittam cariṣyatha .. 51..
। इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशोऽध्यायः ।
। इति भरतीये नाट्य-शास्त्रे नाट्यशापः नाम षट्त्रिंशः अध्यायः ।
. iti bharatīye nāṭya-śāstre nāṭyaśāpaḥ nāma ṣaṭtriṃśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In