| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २६ ॥
॥ नाट्य-शास्त्रम् अध्याय ॥
.. nāṭya-śāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
षड्विंशोऽध्यायः
षड्विंशः अध्यायः
ṣaḍviṃśaḥ adhyāyaḥ
अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ १॥
अनुरूपा विरूपा च तथा रूप-अनुरूपिणी । त्रि-प्रकारा इह पात्राणाम् प्रकृतिः च विभाविता ॥ १॥
anurūpā virūpā ca tathā rūpa-anurūpiṇī . tri-prakārā iha pātrāṇām prakṛtiḥ ca vibhāvitā .. 1..
नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ २॥
नाना अवस्था-क्रिया-उपेता भूमिका प्रकृतिः तथा । भृशम् उद्योतयेत् नाट्यम् स्वभाव-करण-आश्रयम् ॥ २॥
nānā avasthā-kriyā-upetā bhūmikā prakṛtiḥ tathā . bhṛśam udyotayet nāṭyam svabhāva-karaṇa-āśrayam .. 2..
बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ ३॥
बहु-बाहु-बहु-मुखाः तथा च विकृत-आननाः । पशु-श्वापद-वक्त्राः च खर-उष्ट्राः च गज-आननाः ॥ ३॥
bahu-bāhu-bahu-mukhāḥ tathā ca vikṛta-ānanāḥ . paśu-śvāpada-vaktrāḥ ca khara-uṣṭrāḥ ca gaja-ānanāḥ .. 3..
एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः ॥ ४॥
एते च अन्ये च बहवः नाना रूपाः भवन्ति ये । आचार्येण तु ते कार्याः मृद्-काष्ठ-जतु-चर्मभिः ॥ ४॥
ete ca anye ca bahavaḥ nānā rūpāḥ bhavanti ye . ācāryeṇa tu te kāryāḥ mṛd-kāṣṭha-jatu-carmabhiḥ .. 4..
स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ ५॥
स्वाभाविकेन रूपेन प्रविशेत् रङ्ग-मण्डलम् । आत्म-रूपम् अवच्छाद्य वर्णकैः भूषणैः अपि ॥ ५॥
svābhāvikena rūpena praviśet raṅga-maṇḍalam . ātma-rūpam avacchādya varṇakaiḥ bhūṣaṇaiḥ api .. 5..
यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् ॥ वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ ६॥
यादृशम् यस्य यत् रूपम् प्रकृत्या तत्र तादृशम् ॥ वयः-वेष-अनुरूपेण प्रयोज्यम् नाट्य-कर्मणि ॥ ६॥
yādṛśam yasya yat rūpam prakṛtyā tatra tādṛśam .. vayaḥ-veṣa-anurūpeṇa prayojyam nāṭya-karmaṇi .. 6..
यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ ७॥
यथा जीवत्-स्वभावम् हि परित्यज्य अन्य-देहिकम् । पर-भावम् प्रकुरुते पर-भावम् समाश्रितः ॥ ७॥
yathā jīvat-svabhāvam hi parityajya anya-dehikam . para-bhāvam prakurute para-bhāvam samāśritaḥ .. 7..
एवं बुधः परम्भावं सोऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ ८॥
एवम् बुधः परम्भावम् सः अस्मि इति मनसा स्मरन् । येषाम् वाच्-अङ्ग-लीलाभिः चेष्टाभिः तु समाचरेत् ॥ ८॥
evam budhaḥ parambhāvam saḥ asmi iti manasā smaran . yeṣām vāc-aṅga-līlābhiḥ ceṣṭābhiḥ tu samācaret .. 8..
सुकुमारप्रयोगो यो राज्ञामामोदसम्भवः । शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ ९॥
सुकुमार-प्रयोगः यः राज्ञाम् आमोद-सम्भवः । शृङ्गार-रसम् आसाद्य तत् नारीषु प्रयोजयेत् ॥ ९॥
sukumāra-prayogaḥ yaḥ rājñām āmoda-sambhavaḥ . śṛṅgāra-rasam āsādya tat nārīṣu prayojayet .. 9..
युद्धोद्धताविद्धकृता संरम्भारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥
युद्ध-उद्धत-अविद्ध-कृता संरम्भ-आरभटाः च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ १०॥
yuddha-uddhata-aviddha-kṛtā saṃrambha-ārabhaṭāḥ ca ye . na te strībhiḥ prayoktavyāḥ yoktavyāḥ puruṣeṣu te .. 10..
अनुद्भटमसम्भ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ ११॥
अन् उद्भटम् असम्भ्रान्तम् अन् आविद्ध-अङ्ग-चेष्टितम् । लय-ताल-कला-पात-प्रमाण-नियत-अक्षरम् ॥ ११॥
an udbhaṭam asambhrāntam an āviddha-aṅga-ceṣṭitam . laya-tāla-kalā-pāta-pramāṇa-niyata-akṣaram .. 11..
सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ १२॥
सु विभक्त-पद-आलापम् अनिष्ठुरम् अकाहलम् । ईदृशम् यत् भवेत् नाट्यम् नारीभिः च प्रयोजयेत् ॥ १२॥
su vibhakta-pada-ālāpam aniṣṭhuram akāhalam . īdṛśam yat bhavet nāṭyam nārībhiḥ ca prayojayet .. 12..
एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ १३॥
एवम् कार्यम् प्रयोग-ज्ञैः भूमिका-विनिवेशनम् । स्त्रियः हि स्त्री-गतः भावः पौरुषः पुरुषस्य च ॥ १३॥
evam kāryam prayoga-jñaiḥ bhūmikā-viniveśanam . striyaḥ hi strī-gataḥ bhāvaḥ pauruṣaḥ puruṣasya ca .. 13..
यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ १४॥
यथा वयः यथावस्थम् अनुरूपा इति सा स्मृता । पुरुषः स्त्री-कृतम् भावम् रूपात् प्रकुरुते तु यः ॥ १४॥
yathā vayaḥ yathāvastham anurūpā iti sā smṛtā . puruṣaḥ strī-kṛtam bhāvam rūpāt prakurute tu yaḥ .. 14..
रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ १५॥
रूप-अनुरूपा सा ज्ञेया प्रयोगे प्रकृतिः बुधः । छन्दतः पौरुषीम् भूमिम् स्त्री कुर्यात् अनुरूपतः ॥ १५॥
rūpa-anurūpā sā jñeyā prayoge prakṛtiḥ budhaḥ . chandataḥ pauruṣīm bhūmim strī kuryāt anurūpataḥ .. 15..
न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ १६॥
न परस्पर-चेष्टासु कार्यौ स्थविर-बालिशौ । पाठ्य-प्रयोगे पुरुषाः प्रयोक्तव्याः हि संस्कृते ॥ १६॥
na paraspara-ceṣṭāsu kāryau sthavira-bāliśau . pāṭhya-prayoge puruṣāḥ prayoktavyāḥ hi saṃskṛte .. 16..
स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ १७॥
स्त्रीणाम् स्वभाव-मधुराः कण्ठाः पुंसाम् तु बलवन्तः । यदि अपि पुरुषः विद्यात् गीत-विधानम् च लक्षण-उपेतम् ॥ १७॥
strīṇām svabhāva-madhurāḥ kaṇṭhāḥ puṃsām tu balavantaḥ . yadi api puruṣaḥ vidyāt gīta-vidhānam ca lakṣaṇa-upetam .. 17..
माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ १८॥
माधुर्य-गुण-विहीनम् शोभाम् जनयेत् न तत् गीतम् । यत्र स्त्रीणाम् पाठ्यात् गुणैः नराणाम् च कण्ठ-माधुर्यम् ॥ १८॥
mādhurya-guṇa-vihīnam śobhām janayet na tat gītam . yatra strīṇām pāṭhyāt guṇaiḥ narāṇām ca kaṇṭha-mādhuryam .. 18..
प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ १९॥
प्रकृति-विपर्यय-जनितौ विज्ञेयौ तौ अलङ्कारौ । प्रायेण देव-पार्थिव-सेनापति-मुख्य-पुरुष-भवनेषु ॥ १९॥
prakṛti-viparyaya-janitau vijñeyau tau alaṅkārau . prāyeṇa deva-pārthiva-senāpati-mukhya-puruṣa-bhavaneṣu .. 19..
स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ २०॥
स्त्री-जन-कृताः प्रयोगाः भवन्ति पुरुष-स्वभावेन । रम्भा-उर्वशी-प्रभृतिषु स्वर्गे नाट्यम् प्रतिष्ठितम् ॥ २०॥
strī-jana-kṛtāḥ prayogāḥ bhavanti puruṣa-svabhāvena . rambhā-urvaśī-prabhṛtiṣu svarge nāṭyam pratiṣṭhitam .. 20..
तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ २१॥
तथा एव मानुषे लोके राज्ञाम् अन्तःपुरेषु इह । उपदेष्टव्यम् आचार्यैः प्रयत्नेन अङ्गना-जने ॥ २१॥
tathā eva mānuṣe loke rājñām antaḥpureṣu iha . upadeṣṭavyam ācāryaiḥ prayatnena aṅganā-jane .. 21..
न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ २२॥
न स्वयम् भूमिका-अभ्यासः बुधैः कार्यः तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुष-आश्रयः ॥ २२॥
na svayam bhūmikā-abhyāsaḥ budhaiḥ kāryaḥ tu nāṭake . strīṣu yojyaḥ prayatnena prayogaḥ puruṣa-āśrayaḥ .. 22..
यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ २३॥
यस्मात् स्वभाव-उपगतः विलासः स्त्रीषु विद्यते । तस्मात् स्वभाव-मधुरम् अङ्गम् सुलभ-सौष्ठवम् ॥ २३॥
yasmāt svabhāva-upagataḥ vilāsaḥ strīṣu vidyate . tasmāt svabhāva-madhuram aṅgam sulabha-sauṣṭhavam .. 23..
ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ २४॥
ललितम् सौष्ठवम् यत् च सः अलङ्कारः परः मतः । प्रयोगः द्विविधः च एव विज्ञेयः नाटक-आश्रयः ॥ २४॥
lalitam sauṣṭhavam yat ca saḥ alaṅkāraḥ paraḥ mataḥ . prayogaḥ dvividhaḥ ca eva vijñeyaḥ nāṭaka-āśrayaḥ .. 24..
सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ २५॥
सुकुमारः तथा आविद्धः नाना भाव-रस-आश्रयः । नाटकम् स प्रकरणम् भाणः वीथि-अङ्कः एव च ॥ २५॥
sukumāraḥ tathā āviddhaḥ nānā bhāva-rasa-āśrayaḥ . nāṭakam sa prakaraṇam bhāṇaḥ vīthi-aṅkaḥ eva ca .. 25..
ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः ॥ २६॥
ज्ञेयानि सुकुमाराणि मानुषैः आश्रितानि तु । सुकुमार-प्रयोगः अयम् राज्ञाम् आमोद-कारकः ॥ २६॥
jñeyāni sukumārāṇi mānuṣaiḥ āśritāni tu . sukumāra-prayogaḥ ayam rājñām āmoda-kārakaḥ .. 26..
शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरम्भारभटाश्च ये ॥ २७॥
शृङ्गारसम् आसाद्य स्त्रीणाम् तत् तु प्रयोजयेत् । युद्ध-उद्धत-आविद्ध-कृत-अ संरम्भ-आरभटाः च ये ॥ २७॥
śṛṅgārasam āsādya strīṇām tat tu prayojayet . yuddha-uddhata-āviddha-kṛta-a saṃrambha-ārabhaṭāḥ ca ye .. 27..
न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ २८॥
न ते स्त्रीणाम् प्रकर्तव्याः कर्तव्याः पुरुषैः हि ते । यथा आविद्ध-अङ्गहारम् तु भेद्य-भेद्य-आहव-आत्मकम् ॥ २८॥
na te strīṇām prakartavyāḥ kartavyāḥ puruṣaiḥ hi te . yathā āviddha-aṅgahāram tu bhedya-bhedya-āhava-ātmakam .. 28..
मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसञ्चारमल्पस्त्रीकमथोद्धतम् ॥ २९॥
माया-इन्द्रजाल-बहुलम् पुस्त-नैपथ्य-दीपितम् । पुरुष-प्राय-सञ्चारम् अल्प-स्त्रीकम् अथ उद्धतम् ॥ २९॥
māyā-indrajāla-bahulam pusta-naipathya-dīpitam . puruṣa-prāya-sañcāram alpa-strīkam atha uddhatam .. 29..
सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसन्ज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ ३०॥
नाट्यम् आविद्ध-सन्ज्ञितम् । डिमः समवकारः च व्यायः-गेहामृगौ तथा ॥ ३०॥
nāṭyam āviddha-sanjñitam . ḍimaḥ samavakāraḥ ca vyāyaḥ-gehāmṛgau tathā .. 30..
एतान्याविद्धसन्ज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ ३१॥
एतानि आविद्ध-सन्ज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषाम् प्रयोगः कर्तव्यः देव-दानव-राक्षसैः ॥ ३१॥
etāni āviddha-sanjñāni vijñeyāni prayoktṛbhiḥ . eṣām prayogaḥ kartavyaḥ deva-dānava-rākṣasaiḥ .. 31..
उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ ३२॥
उद्धताः ये च पुरुषाः शौर्य-वीर्य-समन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सतत-प्रमादेन ॥ ३२॥
uddhatāḥ ye ca puruṣāḥ śaurya-vīrya-samanvitāḥ . yogyaḥ sa ca prayatnaḥ kartavyaḥ satata-pramādena .. 32..
न हि योग्यया विना भवति च भावरससौष्ठवं किञ्चित् । सङ्गीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ ३३॥
न हि योग्यया विना भवति च भाव-रस-सौष्ठवम् किञ्चिद् । सङ्गीत-परिक्लेशः नित्यम् प्रमदा-जनस्य गुणः एव ॥ ३३॥
na hi yogyayā vinā bhavati ca bhāva-rasa-sauṣṭhavam kiñcid . saṅgīta-parikleśaḥ nityam pramadā-janasya guṇaḥ eva .. 33..
यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥३४॥
यत् मधुर-कर्कश-त्वम् लभते नाट्य-प्रयोगेण । प्रमदाः नाट्य-विलासैः लभते यत् कुसुमैः विचित्र-लावण्यम् । काम-उपचार-कुशलाः भवन्ति च काम्याः विशेषेण ॥३४॥
yat madhura-karkaśa-tvam labhate nāṭya-prayogeṇa . pramadāḥ nāṭya-vilāsaiḥ labhate yat kusumaiḥ vicitra-lāvaṇyam . kāma-upacāra-kuśalāḥ bhavanti ca kāmyāḥ viśeṣeṇa ..34..
गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ ३५॥
गीतम् वृत्तम् तथा वाद्यम् प्रस्तार-गमन-क्रिया । शिष्य-निष्पादनम् च एव षष् आचार्य-गुणाः स्मृताः ॥ ३५॥
gītam vṛttam tathā vādyam prastāra-gamana-kriyā . śiṣya-niṣpādanam ca eva ṣaṣ ācārya-guṇāḥ smṛtāḥ .. 35..
एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ ३६॥
एतानि पञ्च यः वेत्ति सः आचार्यः प्रकीर्तितः । ऊह-अपोहौ मतिः च एव स्मृतिः मेधा तथा एव च ॥ ३६॥
etāni pañca yaḥ vetti saḥ ācāryaḥ prakīrtitaḥ . ūha-apohau matiḥ ca eva smṛtiḥ medhā tathā eva ca .. 36..
मेधास्मृतिर्गुणश्लाघारागः सङ्घर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ ३७॥
मेधा-स्मृतिः गुण-श्लाघा-रागः सङ्घर्षः एव च । उत्साहः च षट् एव एतान् शिष्यस्य अपि गुणान् विदुः ॥ ३७॥
medhā-smṛtiḥ guṇa-ślāghā-rāgaḥ saṅgharṣaḥ eva ca . utsāhaḥ ca ṣaṭ eva etān śiṣyasya api guṇān viduḥ .. 37..
एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ ३८॥
एवम् कार्यम् प्रयोग-ज्ञैः नाना भूमि-विकल्पनम् । अतस् ऊर्ध्वम् प्रवक्ष्यामि सिद्धीनाम् अपि लक्षणम् ॥ ३८॥
evam kāryam prayoga-jñaiḥ nānā bhūmi-vikalpanam . atas ūrdhvam pravakṣyāmi siddhīnām api lakṣaṇam .. 38..
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः ॥
इति भारतीये नाट्यशास्त्रे विकृतिविकल्पः नाम षड्विंशः अध्यायः ॥
iti bhāratīye nāṭyaśāstre vikṛtivikalpaḥ nāma ṣaḍviṃśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In