| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १३ ॥
॥ नाट्यशास्त्रम् अध्याय- ॥
.. nāṭyaśāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ त्रयोदशोऽध्यायः
अथ त्रयोदशः अध्यायः
atha trayodaśaḥ adhyāyaḥ
ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ १॥
ये तु पूर्वम् मया प्रोक्ताः त्रयः वै नाट्य-मण्डपाः । तेषाम् विभागम् विज्ञाय ततस् कक्ष्याम् प्रयोजयेत् ॥ १॥
ye tu pūrvam mayā proktāḥ trayaḥ vai nāṭya-maṇḍapāḥ . teṣām vibhāgam vijñāya tatas kakṣyām prayojayet .. 1..
ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ २॥
ये नेपथ्य-गृह-द्वारे मया पूर्वम् प्रकीर्तिते । तयोः भाण्डस्य विन्यासः मध्ये कार्यः प्रयोक्तृभिः ॥ २॥
ye nepathya-gṛha-dvāre mayā pūrvam prakīrtite . tayoḥ bhāṇḍasya vinyāsaḥ madhye kāryaḥ prayoktṛbhiḥ .. 2..
कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ ३॥
कक्ष्या-विभागः निर्देश्यः रङ्ग-पीठ-परिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या हि अन्या विधीयते ॥ ३॥
kakṣyā-vibhāgaḥ nirdeśyaḥ raṅga-pīṭha-parikramāt . parikrameṇa raṅgasya kakṣyā hi anyā vidhīyate .. 3..
कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च । उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ ४॥
कक्ष्या-विभागे ज्ञेयानि गृहाणि नगराणि च । उद्यान-आराम-सरितः तु आश्रमाः अटवी तथा ॥ ४॥
kakṣyā-vibhāge jñeyāni gṛhāṇi nagarāṇi ca . udyāna-ārāma-saritaḥ tu āśramāḥ aṭavī tathā .. 4..
पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ ५॥
पृथिवी सागराः च एव त्रैलोक्यम् सचराचरम् । वर्षाणि सप्त-द्वीपाः च पर्वताः विविधाः तथा ॥ ५॥
pṛthivī sāgarāḥ ca eva trailokyam sacarācaram . varṣāṇi sapta-dvīpāḥ ca parvatāḥ vividhāḥ tathā .. 5..
अलोकश्चैव लोकश्च रसातलमथापि च । दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ ६॥
अलोकः च एव लोकः च रसातलम् अथ अपि च । दैत्य-नाग-आलयाः च एव गृहाणि भवनानि च ॥ ६॥
alokaḥ ca eva lokaḥ ca rasātalam atha api ca . daitya-nāga-ālayāḥ ca eva gṛhāṇi bhavanāni ca .. 6..
नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ ७॥
नगरे वा वने वा अपि वर्षे वा पर्वते अपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्याम् प्रवर्तयेत् ॥ ७॥
nagare vā vane vā api varṣe vā parvate api vā . yatra vārtā pravarteta tatra kakṣyām pravartayet .. 7..
बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ ८॥
बाह्यम् वा मध्यमम् वा अपि तथा एव अभ्यन्तरम् पुनर् । दूरम् वा सन्निकृष्टम् वा देशम् तु परिकल्पयेत् ॥ ८॥
bāhyam vā madhyamam vā api tathā eva abhyantaram punar . dūram vā sannikṛṣṭam vā deśam tu parikalpayet .. 8..
पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः । पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ ९॥
पूर्व-प्रविष्टाः ये रङ्गम् ज्ञेयाः ते अभ्यन्तराः बुधैः । पश्चात् प्रविष्टाः विज्ञेयाः कक्ष्या-भागे तु बाह्यतस् ॥ ९॥
pūrva-praviṣṭāḥ ye raṅgam jñeyāḥ te abhyantarāḥ budhaiḥ . paścāt praviṣṭāḥ vijñeyāḥ kakṣyā-bhāge tu bāhyatas .. 9..
तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् । दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् ॥ १०॥
तेषाम् तु दर्शन-इच्छुः यः प्रविशेत् रङ्ग-मण्डपम् । दक्षिण-अभिमुखः सः अथ कुर्यात् आत्म-निवेदनम् ॥ १०॥
teṣām tu darśana-icchuḥ yaḥ praviśet raṅga-maṇḍapam . dakṣiṇa-abhimukhaḥ saḥ atha kuryāt ātma-nivedanam .. 10..
यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च । सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे न नित्यशः ॥ ११॥
यतस् मुखम् भवेत् भाण्डम् द्वारम् नेपथ्यकस्य च । सा मन्तव्या तु दिश् पूर्वा नाट्य-योगे न नित्यशस् ॥ ११॥
yatas mukham bhavet bhāṇḍam dvāram nepathyakasya ca . sā mantavyā tu diś pūrvā nāṭya-yoge na nityaśas .. 11..
निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ १२॥
निष्क्रामेत् यः च तस्मात् वै स तेन एव तथा व्रजेत् । यतस् तस्य कृतम् तेन पुरुषेण निवेदनम् ॥ १२॥
niṣkrāmet yaḥ ca tasmāt vai sa tena eva tathā vrajet . yatas tasya kṛtam tena puruṣeṇa nivedanam .. 12..
निष्क्रान्तोऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् । यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ १३॥
निष्क्रान्तः अर्थ-वशात् च अपि प्रविशेत् यदि तत् गृहम् । यतस् प्राप्तः स पुरुषः तेन मार्गेण निष्क्रमेत् ॥ १३॥
niṣkrāntaḥ artha-vaśāt ca api praviśet yadi tat gṛham . yatas prāptaḥ sa puruṣaḥ tena mārgeṇa niṣkramet .. 13..
अथवार्थवशाच्चापि तेनैव सह गच्छति । तथैव प्रविशेत् गेहमेकाकी सहितोऽपि वा ॥ १४॥
अथवा अर्थ-वशात् च अपि तेन एव सह गच्छति । तथा एव प्रविशेत् गेहम् एकाकी सहितः अपि वा ॥ १४॥
athavā artha-vaśāt ca api tena eva saha gacchati . tathā eva praviśet geham ekākī sahitaḥ api vā .. 14..
तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् । परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ १५॥
तयोः च अपि प्रविशतोः कक्ष्याम् अन्याम् विनिर्दिशेत् । परिक्रमेण रङ्गस्य तु अन्या कक्ष्या विधीयते ॥ १५॥
tayoḥ ca api praviśatoḥ kakṣyām anyām vinirdiśet . parikrameṇa raṅgasya tu anyā kakṣyā vidhīyate .. 15..
समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः । अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ १६॥
समैः च सहितः गच्छेत् नीचैः च परिवाहितः । अथ प्रेक्षणिकाः च अपि विज्ञेयाः हि अग्रतस् गतौ ॥ १६॥
samaiḥ ca sahitaḥ gacchet nīcaiḥ ca parivāhitaḥ . atha prekṣaṇikāḥ ca api vijñeyāḥ hi agratas gatau .. 16..
सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ १७॥
सा एव भूमिः तु बहुभिः विकृष्टा स्यात् परिक्रमैः । मध्याः वा सन्निकृष्टाः वा तेषाम् एवम् विकल्पयेत् ॥ १७॥
sā eva bhūmiḥ tu bahubhiḥ vikṛṣṭā syāt parikramaiḥ . madhyāḥ vā sannikṛṣṭāḥ vā teṣām evam vikalpayet .. 17..
नगरे वा वने वापि सागरे पर्वतेऽपि वा । दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ १८॥
नगरे वा वने वा अपि सागरे पर्वते अपि वा । दिव्यानाम् गमनम् कार्यम् द्वीपे वर्षेषु वा पुनर् ॥ १८॥
nagare vā vane vā api sāgare parvate api vā . divyānām gamanam kāryam dvīpe varṣeṣu vā punar .. 18..
आकाशेन विमानेन माययाप्यथ वा पुनः । विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १९॥
आकाशेन विमानेन मायया अपि अथ वा पुनर् । विविधाभिः क्रियाभिः वा नाना अर्थाभिः प्रयोगतः ॥ १९॥
ākāśena vimānena māyayā api atha vā punar . vividhābhiḥ kriyābhiḥ vā nānā arthābhiḥ prayogataḥ .. 19..
नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः । मानुषे कारणादेषां यथा भवति दर्शनम् ॥ २०॥
नाटके छन्न-वेषाणाम् दिव्यानाम् भूमि-सञ्चरः । मानुषे कारणात् एषाम् यथा भवति दर्शनम् ॥ २०॥
nāṭake channa-veṣāṇām divyānām bhūmi-sañcaraḥ . mānuṣe kāraṇāt eṣām yathā bhavati darśanam .. 20..
भारते त्वथ हैमे वा हरिवर्ष इलावृते । रम्ये किम्पुरुषे वापि कुरुषूत्तरकेषु वा ॥ २१॥
भारते तु अथ हैमे वा हरिवर्षे इलावृते । रम्ये किम्पुरुषे वा अपि कुरुषु उत्तरकेषु वा ॥ २१॥
bhārate tu atha haime vā harivarṣe ilāvṛte . ramye kimpuruṣe vā api kuruṣu uttarakeṣu vā .. 21..
दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् । भारते मानुषाणाञ्च गमनं संविधीयते ॥ २२॥
दिव्यानाम् छन्द-गमनम् सर्व-वर्षेषु कीर्तितम् । भारते मानुषाणाम् च गमनम् संविधीयते ॥ २२॥
divyānām chanda-gamanam sarva-varṣeṣu kīrtitam . bhārate mānuṣāṇām ca gamanam saṃvidhīyate .. 22..
गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । अङ्कच्छेदे तमन्यस्मिन् निर्दिशेद्धि प्रवेशके ॥ २३॥
गच्छेत् यदि विकृष्टः तु देश-काल-वशात् नरः । अङ्क-छेदे तम् अन्यस्मिन् निर्दिशेत् हि प्रवेशके ॥ २३॥
gacchet yadi vikṛṣṭaḥ tu deśa-kāla-vaśāt naraḥ . aṅka-chede tam anyasmin nirdiśet hi praveśake .. 23..
अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् । तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ २४॥
अह्नः प्रमाणम् गत्वा तु कार्य-लाभम् विनिर्दिशेत् । तथा अलाभे तु कार्यस्य अङ्क-छेदः विधीयते ॥ २४॥
ahnaḥ pramāṇam gatvā tu kārya-lābham vinirdiśet . tathā alābhe tu kāryasya aṅka-chedaḥ vidhīyate .. 24..
क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके । एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ २५॥
क्षणः मुहूर्तः यानः वा दिवसः वा अपि नाटके । एक-अङ्के स विधातव्यः बीजस्य अर्थ-वश-अनुगः ॥ २५॥
kṣaṇaḥ muhūrtaḥ yānaḥ vā divasaḥ vā api nāṭake . eka-aṅke sa vidhātavyaḥ bījasya artha-vaśa-anugaḥ .. 25..
अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ २६॥
अङ्क-छेदे तु निर्वृत्तम् मासम् वा वर्षम् एव वा । न ऊर्ध्वम् वर्षात् प्रकर्तव्यम् कार्यम् अङ्क-समाश्रयम् ॥ २६॥
aṅka-chede tu nirvṛttam māsam vā varṣam eva vā . na ūrdhvam varṣāt prakartavyam kāryam aṅka-samāśrayam .. 26..
एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ २७॥
एवम् तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणाम् गतिः या तु दिव्यानाम् तु निबोधत ॥ २७॥
evam tu bhārate varṣe kakṣyā kāryā prayogataḥ . mānuṣāṇām gatiḥ yā tu divyānām tu nibodhata .. 27..
हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे । यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ २८॥
हिमवत्-पृष्ठ-संस्थे तु कैलासे पर्वत-उत्तमे । यक्षाः च गुह्यकाः च एव धनद-अनुचराः च ये ॥ २८॥
himavat-pṛṣṭha-saṃsthe tu kailāse parvata-uttame . yakṣāḥ ca guhyakāḥ ca eva dhanada-anucarāḥ ca ye .. 28..
रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ २९॥
रक्षः-पिशाच-भूताः च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वाः विज्ञेयाः स अप्सरः-गणाः ॥ २९॥
rakṣaḥ-piśāca-bhūtāḥ ca sarve haimavatāḥ smṛtāḥ . hemakūṭe ca gandharvāḥ vijñeyāḥ sa apsaraḥ-gaṇāḥ .. 29..
सर्वे नागाश्च निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशद् ज्ञेया देवगणा बुधैः ॥ ३०॥
सर्वे नागाः च निषधे शेष-वासुकि-तक्षकाः । महामेरौ त्रयस्त्रिंशत् ज्ञेयाः देव-गणाः बुधैः ॥ ३०॥
sarve nāgāḥ ca niṣadhe śeṣa-vāsuki-takṣakāḥ . mahāmerau trayastriṃśat jñeyāḥ deva-gaṇāḥ budhaiḥ .. 30..
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा । दैत्यानां दानवानाञ्च श्वेतपर्वत इष्यते ॥ ३१॥
नीले तु वैडूर्य-मये सिद्धाः ब्रह्मर्षयः तथा । दैत्यानाम् दानवानाम् च श्वेतपर्वतः इष्यते ॥ ३१॥
nīle tu vaiḍūrya-maye siddhāḥ brahmarṣayaḥ tathā . daityānām dānavānām ca śvetaparvataḥ iṣyate .. 31..
पितरश्चापि विज्ञेया शृङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ ३२॥
पितरः च अपि विज्ञेया शृङ्गवन्तम् समाश्रिताः । इति एते पर्वताः श्रेष्ठाः दिव्य-आवासाः प्रकीर्तिताः ॥ ३२॥
pitaraḥ ca api vijñeyā śṛṅgavantam samāśritāḥ . iti ete parvatāḥ śreṣṭhāḥ divya-āvāsāḥ prakīrtitāḥ .. 32..
तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् । तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ ३३॥
तेषाम् कक्ष्या-विभागः च जम्बूद्वीपे भवेत् अयम् । तेषाम् न चेष्टितम् कार्यम् स्वैः स्वैः कर्म-पराक्रमैः ॥ ३३॥
teṣām kakṣyā-vibhāgaḥ ca jambūdvīpe bhavet ayam . teṣām na ceṣṭitam kāryam svaiḥ svaiḥ karma-parākramaiḥ .. 33..
परिच्छ(च्छे)दविशेषस्तु तेषां मानुषलोकवत् । सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ ३४॥
परिच्छ(छेद-विशेषः तु तेषाम् मानुष-लोक-वत् । सर्वे भावाः च दिव्यानाम् कार्याः मानुष-संश्रयाः ॥ ३४॥
pariccha(cheda-viśeṣaḥ tu teṣām mānuṣa-loka-vat . sarve bhāvāḥ ca divyānām kāryāḥ mānuṣa-saṃśrayāḥ .. 34..
तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ ३५॥
तेषाम् तु अनिमिष-त्वम् यत् तत् न कार्यम् प्रयोक्तृभिः । इह भावाः रसाः च एव दृष्टौ एव प्रतिष्ठिताः ॥ ३५॥
teṣām tu animiṣa-tvam yat tat na kāryam prayoktṛbhiḥ . iha bhāvāḥ rasāḥ ca eva dṛṣṭau eva pratiṣṭhitāḥ .. 35..
दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते । एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ ३६॥
दृष्ट्या हि सूचितः भावः पुनर् अङ्गैः विभाव्यते । एवम् कक्ष्या-विभागः तु मया प्रोक्तः द्विजोत्तमाः ॥ ३६॥
dṛṣṭyā hi sūcitaḥ bhāvaḥ punar aṅgaiḥ vibhāvyate . evam kakṣyā-vibhāgaḥ tu mayā proktaḥ dvijottamāḥ .. 36..
पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी ॥ ३७॥
पुनर् च एव प्रवक्ष्यामि प्रवृत्तीनाम् तु लक्षणम् । चतुर्विधा प्रवृत्तिः च प्रोक्ता नाट्य-प्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली च ऊढ्रमागधी ॥ ३७॥
punar ca eva pravakṣyāmi pravṛttīnām tu lakṣaṇam . caturvidhā pravṛttiḥ ca proktā nāṭya-prayogataḥ . āvantī dākṣiṇātyā ca pāñcālī ca ūḍhramāgadhī .. 37..
अत्राह प्रवृत्तिरिति कस्मात् ? उच्यते पृथिव्यां नानादेशवेषभाषाचारवार्ताः प्रख्यापयतीति वृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो देशाः सन्ति , कथमासां चतुर्विधत्वम् उपपन्नं, समानलक्षणश्चासां प्रयोग उच्यते , सत्यमेतत् । समानलक्षण आसां प्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्यास्तावत् बहुनृत्तगीतवाद्या कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः । एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ ३८॥
अत्र आह प्रवृत्तिः इति कस्मात् ? उच्यते पृथिव्याम् नाना देश-वेष-भाषा-आचार-वार्ताः प्रख्यापयति इति वृत्तिः । प्रवृत्तिः च निवेदने । अत्र आह यथा पृथिव्याम् बहवः देशाः सन्ति , कथम् आसाम् चतुर्विध-त्वम् उपपन्नम्, समान-लक्षणः च आसाम् प्रयोगः उच्यते , सत्यम् एतत् । समान-लक्षणः आसाम् प्रयोगः । किन्तु नाना देश-वेष-भाषा-आचारः लोकः इति कृत्वा लोक-अनुमतेन वृत्ति-संश्रितस्य नाट्यस्य वृत्तीनाम् मया चतुर्विध-त्वम् अभिहितम् भारती सात्त्वती कैशिकी आरभटी च इति । वृत्ति-संश्रितैः च प्रयोगैः अभिहिताः देशाः । यतस् प्रवृत्ति-चतुष्टयम् अभिनिर्वृत्तम् प्रयोगः च उत्पादितः । तत्र दाक्षिणात्याः तावत् बहु-नृत्त-गीत-वाद्या कैशिकी-प्रायाः चतुर-मधुर-ललित-अङ्ग-अभिनयाः च । तत् यथा महेन्द्रः मलयः सह्यः मेकलः पालमञ्जरः । एतेषु ये श्रिताः देशाः स ज्ञेयः दक्षिणापथः ॥ ३८॥
atra āha pravṛttiḥ iti kasmāt ? ucyate pṛthivyām nānā deśa-veṣa-bhāṣā-ācāra-vārtāḥ prakhyāpayati iti vṛttiḥ . pravṛttiḥ ca nivedane . atra āha yathā pṛthivyām bahavaḥ deśāḥ santi , katham āsām caturvidha-tvam upapannam, samāna-lakṣaṇaḥ ca āsām prayogaḥ ucyate , satyam etat . samāna-lakṣaṇaḥ āsām prayogaḥ . kintu nānā deśa-veṣa-bhāṣā-ācāraḥ lokaḥ iti kṛtvā loka-anumatena vṛtti-saṃśritasya nāṭyasya vṛttīnām mayā caturvidha-tvam abhihitam bhāratī sāttvatī kaiśikī ārabhaṭī ca iti . vṛtti-saṃśritaiḥ ca prayogaiḥ abhihitāḥ deśāḥ . yatas pravṛtti-catuṣṭayam abhinirvṛttam prayogaḥ ca utpāditaḥ . tatra dākṣiṇātyāḥ tāvat bahu-nṛtta-gīta-vādyā kaiśikī-prāyāḥ catura-madhura-lalita-aṅga-abhinayāḥ ca . tat yathā mahendraḥ malayaḥ sahyaḥ mekalaḥ pālamañjaraḥ . eteṣu ye śritāḥ deśāḥ sa jñeyaḥ dakṣiṇāpathaḥ .. 38..
कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः । द्रविडान्ध्रमहाराष्ट्रा वैष्णा वै वानवासजाः ॥ ३९॥
कोसलाः अग्ग्स्तोशलाः च एव कलिङ्गाः यवनाः खसाः । द्रविड-अन्ध्र-महाराष्ट्राः वैष्णाः वै वान-वास-जाः ॥ ३९॥
kosalāḥ aggstośalāḥ ca eva kaliṅgāḥ yavanāḥ khasāḥ . draviḍa-andhra-mahārāṣṭrāḥ vaiṣṇāḥ vai vāna-vāsa-jāḥ .. 39..
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ ४०॥
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य च अन्तरे । ये देशाः तेषु युञ्जीत दाक्षिणात्याम् तु नित्यशस् ॥ ४०॥
dakṣiṇasya samudrasya tathā vindhyasya ca antare . ye deśāḥ teṣu yuñjīta dākṣiṇātyām tu nityaśas .. 40..
आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ ४१॥
आवन्तिकाः वैदिशिकाः सौराष्ट्राः मालवाः तथा । सैन्धवाः तु अथ सौवीराः आवर्ताः सार्बुदेयकाः ॥ ४१॥
āvantikāḥ vaidiśikāḥ saurāṣṭrāḥ mālavāḥ tathā . saindhavāḥ tu atha sauvīrāḥ āvartāḥ sārbudeyakāḥ .. 41..
दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः । कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ ४२॥
दाशार्णाः त्रैपुराः च एव तथा वै मार्तिकावताः । कुर्वन्ति आवन्तिकीम् एते प्रवृत्तिम् नित्यम् एव तु ॥ ४२॥
dāśārṇāḥ traipurāḥ ca eva tathā vai mārtikāvatāḥ . kurvanti āvantikīm ete pravṛttim nityam eva tu .. 42..
सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता । भवेत् प्र्योगो नाट्येऽत्र स तु कार्यः प्रयोक्तृभिः ॥ ४३॥
सात्त्वतीम् कैशिकीम् च एव वृत्तिम् एषाम् समाश्रिता । भवेत् प्र्योगः नाट्ये अत्र स तु कार्यः प्रयोक्तृभिः ॥ ४३॥
sāttvatīm kaiśikīm ca eva vṛttim eṣām samāśritā . bhavet pryogaḥ nāṭye atra sa tu kāryaḥ prayoktṛbhiḥ .. 43..
अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ ४४॥
अङ्गाः वङ्गाः कलिङ्गाः च वत्साः च एव ऊढ्र-मागधाः । पौण्ड्राः नेपालकाः च एव अन्तर्गिरि-बहिर्गिराः ॥ ४४॥
aṅgāḥ vaṅgāḥ kaliṅgāḥ ca vatsāḥ ca eva ūḍhra-māgadhāḥ . pauṇḍrāḥ nepālakāḥ ca eva antargiri-bahirgirāḥ .. 44..
तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ ४५॥
तथा प्लवङ्गमाः ज्ञेयाः मलदाः मल्लवर्तकाः । ब्रह्मोत्तर-प्रभृतयः भार्गवाः मार्गवाः तथा ॥ ४५॥
tathā plavaṅgamāḥ jñeyāḥ maladāḥ mallavartakāḥ . brahmottara-prabhṛtayaḥ bhārgavāḥ mārgavāḥ tathā .. 45..
प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ ४६॥
प्राज्योतिषाः पुलिन्दाः च वैदेहाः ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयः च एव युञ्जन्ति इह ओढ्र-मागधीम् ॥ ४६॥
prājyotiṣāḥ pulindāḥ ca vaidehāḥ tāmraliptakāḥ . prāṅgāḥ prāvṛtayaḥ ca eva yuñjanti iha oḍhra-māgadhīm .. 46..
अन्येऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ ४७॥
अन्ये अपि देशाः प्राच्याम् ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते हि एषा प्रवृत्तिः चोढ्रमागधी ॥ ४७॥
anye api deśāḥ prācyām ye purāṇe samprakīrtitāḥ . teṣu prayujyate hi eṣā pravṛttiḥ coḍhramāgadhī .. 47..
पाञ्चाला सौरसेनाश्च काश्मीरा हस्तिनापुराः । बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ ४८॥
सौरसेनाः च काश्मीराः हस्तिनापुराः । शल्यकाः च एव मद्र-कौशीनराः तथा ॥ ४८॥
saurasenāḥ ca kāśmīrāḥ hastināpurāḥ . śalyakāḥ ca eva madra-kauśīnarāḥ tathā .. 48..
हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥ ४९॥
हिमवत्-संश्रिताः ये तु गङ्गायाः च उत्तराम् दिशम् । ये श्रिताः वै जनपदाः तेषु पाञ्चाल-मध्यमाः ॥ ४९॥
himavat-saṃśritāḥ ye tu gaṅgāyāḥ ca uttarām diśam . ye śritāḥ vai janapadāḥ teṣu pāñcāla-madhyamāḥ .. 49..
पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ ५०॥
पाञ्चाल-मध्यमायाम् तु सात्त्वती आरभटी स्मृता । प्रयोगः तु अल्प-गीत-अर्थः आविद्ध-गति-विक्रमः ॥ ५०॥
pāñcāla-madhyamāyām tu sāttvatī ārabhaṭī smṛtā . prayogaḥ tu alpa-gīta-arthaḥ āviddha-gati-vikramaḥ .. 50..
द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ ५१॥
द्विधा क्रिया भवति आसाम् रङ्ग-पीठ-परिक्रमे । प्रदक्षिण-प्रदेशा च तथा च अपि अप्रदक्षिणा ॥ ५१॥
dvidhā kriyā bhavati āsām raṅga-pīṭha-parikrame . pradakṣiṇa-pradeśā ca tathā ca api apradakṣiṇā .. 51..
आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । अपसव्यप्रदेशास्तु पाञ्चाली चोढ्रमागधी ॥ ५२॥
आवन्ती दाक्षिणात्या च प्रदक्षिण-परिक्रमे । अपसव्य-प्रदेशाः तु पाञ्चाली च ऊढ्र-मागधी ॥ ५२॥
āvantī dākṣiṇātyā ca pradakṣiṇa-parikrame . apasavya-pradeśāḥ tu pāñcālī ca ūḍhra-māgadhī .. 52..
आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् । पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ ५३॥
आवन्त्याम् दाक्षिणात्यायाम् पार्श्व-द्वारम् अथ उत्तरम् । पाञ्चाल्याम् ओढ्रमागध्याम् योज्यम् द्वारम् तु दक्षिणम् ॥ ५३॥
āvantyām dākṣiṇātyāyām pārśva-dvāram atha uttaram . pāñcālyām oḍhramāgadhyām yojyam dvāram tu dakṣiṇam .. 53..
एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ ५४॥
एकीभूताः पुनर् च एताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदम् देश-कालौ वा अपि अर्थ-युक्तिम् अवेक्ष्य च ॥ ५४॥
ekībhūtāḥ punar ca etāḥ prayoktavyāḥ prayoktṛbhiḥ . pārṣadam deśa-kālau vā api artha-yuktim avekṣya ca .. 54..
येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ ५५॥
येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्-वृत्तिकानि रूपाणि तेषु तद्-ज्ञः प्रयोजयेत् ॥ ५५॥
yeṣu deśeṣu yā kāryā pravṛttiḥ parikīrtitā . tad-vṛttikāni rūpāṇi teṣu tad-jñaḥ prayojayet .. 55..
एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि । अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ ५६॥
एकीभूताः पुनर् तु एताः नाटक-आदौ भवन्ति हि । अवेक्ष्य वृत्ति-बाहुल्यम् तत् तत् कर्म समाचरेत् ॥ ५६॥
ekībhūtāḥ punar tu etāḥ nāṭaka-ādau bhavanti hi . avekṣya vṛtti-bāhulyam tat tat karma samācaret .. 56..
सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ ५७॥
सार्थे बाहुल्यम् एकस्य शेषाणाम् अथ बुद्धिमान् । येषाम् अन्यस्य बाहुल्यम् प्रवृत्तिम् पूरयेत् तदा ॥ ५७॥
sārthe bāhulyam ekasya śeṣāṇām atha buddhimān . yeṣām anyasya bāhulyam pravṛttim pūrayet tadā .. 57..
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ ५८॥
प्रयोगः द्विविधः च एव विज्ञेयः नाटक-आश्रयः । सुकुमारः तथा आविद्धः नाट्य-युक्ति-समाश्रयः ॥ ५८॥
prayogaḥ dvividhaḥ ca eva vijñeyaḥ nāṭaka-āśrayaḥ . sukumāraḥ tathā āviddhaḥ nāṭya-yukti-samāśrayaḥ .. 58..
यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् । मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ ५९॥
यत् तु आविद्ध-अङ्गहारम् तु छेद्य-भेद्य-आहव-आत्मकम् । माया-इन्द्रजाल-बहुलम् पुस्त-नेपथ्य-संयुतम् ॥ ५९॥
yat tu āviddha-aṅgahāram tu chedya-bhedya-āhava-ātmakam . māyā-indrajāla-bahulam pusta-nepathya-saṃyutam .. 59..
पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ ६०॥
पुरुषैः बहुभिः युक्तम् अल्प-स्त्रीकम् तथा एव च । सात्त्वती-आरभटी-युक्तम् नाट्यम् आविद्ध-संज्ञितम् ॥ ६०॥
puruṣaiḥ bahubhiḥ yuktam alpa-strīkam tathā eva ca . sāttvatī-ārabhaṭī-yuktam nāṭyam āviddha-saṃjñitam .. 60..
डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ ६१॥
डिमः समवकारः च व्यायः-गेहामृगौ तथा । एतानि आविद्ध-संज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ ६१॥
ḍimaḥ samavakāraḥ ca vyāyaḥ-gehāmṛgau tathā . etāni āviddha-saṃjñāni vijñeyāni prayoktṛbhiḥ .. 61..
एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ ६२॥
एषाम् प्रयोगः कर्तव्यः दैत्य-दानव-राक्षसैः । उद्धताः ये च पुरुषाः शौर्य-वीर्य-बल-अन्विताः ॥ ६२॥
eṣām prayogaḥ kartavyaḥ daitya-dānava-rākṣasaiḥ . uddhatāḥ ye ca puruṣāḥ śaurya-vīrya-bala-anvitāḥ .. 62..
नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके । सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ ६३॥
नाटकम् स प्रकरणम् भाणः वीथि-अङ्कनाटिके । सु कुमार-प्रयोगाणि मानुषेषु आश्रिताः तु ये ॥ ६३॥
nāṭakam sa prakaraṇam bhāṇaḥ vīthi-aṅkanāṭike . su kumāra-prayogāṇi mānuṣeṣu āśritāḥ tu ye .. 63..
अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते । विदिक्ष्वपि भवेद्रङ्गः कदाचिद् भर्तुराज्ञया ॥ ६४॥
अथ बाह्य-प्रयोगेषु प्रेक्षागृह-विवर्जिते । विदिक्षु अपि भवेत् रङ्गः कदाचिद् भर्तुः आज्ञया ॥ ६४॥
atha bāhya-prayogeṣu prekṣāgṛha-vivarjite . vidikṣu api bhavet raṅgaḥ kadācid bhartuḥ ājñayā .. 64..
पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः । सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ ६५॥
कुतपम् नाट्ये युक्ताः यतस् मुखम् भरताः । सा पूर्वा मन्तव्या प्रयोग-काले तु नाट्य-ज्ञैः ॥ ६५॥
kutapam nāṭye yuktāḥ yatas mukham bharatāḥ . sā pūrvā mantavyā prayoga-kāle tu nāṭya-jñaiḥ .. 65..
द्वाराणि षट् चैव भवन्ति चास्य रङ्गस्य दिग्भागविनिश्चितानि । नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ ६६॥
द्वाराणि षड् च एव भवन्ति च अस्य रङ्गस्य दिश्-भाग-विनिश्चितानि । नाट्य-प्रयोगेण खलु प्रवेशे प्राच्याम् प्रतीच्याम् च दिशि प्रवेशः ॥ ६६॥
dvārāṇi ṣaḍ ca eva bhavanti ca asya raṅgasya diś-bhāga-viniścitāni . nāṭya-prayogeṇa khalu praveśe prācyām pratīcyām ca diśi praveśaḥ .. 66..
विधानमुत्क्रम्य यथा च रङ्गे विना प्रमाणाद्विदिशः प्रयोगे । द्वारन्तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ ६७॥
विधानम् उत्क्रम्य यथा च रङ्गे विना प्रमाणात् विदिशः प्रयोगे । द्वारम् तु यस्मात् स मृदङ्ग-भाण्डम् प्राचीम् दिशम् ताम् मनसा अध्यवस्येत् ॥ ६७॥
vidhānam utkramya yathā ca raṅge vinā pramāṇāt vidiśaḥ prayoge . dvāram tu yasmāt sa mṛdaṅga-bhāṇḍam prācīm diśam tām manasā adhyavasyet .. 67..
वयोऽनुरूपः प्रथमन्तु वेशो वेशोऽनुरूपश्च गतिप्रचारः । गतिप्रचारानुगतश्च पाठ्यं पाठ्यानुरूपाभिनयश्च कार्यः ॥ ६८॥
वयः-अनुरूपः वेशः वेशः अनुरूपः च गति-प्रचारः । गति-प्रचार-अनुगतः च पाठ्यम् पाठ्य-अनुरूप-अभिनयः च कार्यः ॥ ६८॥
vayaḥ-anurūpaḥ veśaḥ veśaḥ anurūpaḥ ca gati-pracāraḥ . gati-pracāra-anugataḥ ca pāṭhyam pāṭhya-anurūpa-abhinayaḥ ca kāryaḥ .. 68..
धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ ६९॥
धर्मी या द्विविधा प्रोक्ता मया पूर्वम् द्विजोत्तमाः । लौकिकी नाट्य-धर्मी च तयोः वक्ष्यामि लक्षणम् ॥ ६९॥
dharmī yā dvividhā proktā mayā pūrvam dvijottamāḥ . laukikī nāṭya-dharmī ca tayoḥ vakṣyāmi lakṣaṇam .. 69..
स्वभावभावोपगतं शुद्धं त्वविकृतं तथा । लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ ७०॥
स्वभाव-भाव-उपगतम् शुद्धम् तु अविकृतम् तथा । लोक-वार्ता-क्रिया-उपेत-मङ्ग-लीला-विवर्जितम् ॥ ७०॥
svabhāva-bhāva-upagatam śuddham tu avikṛtam tathā . loka-vārtā-kriyā-upeta-maṅga-līlā-vivarjitam .. 70..
स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ ७१॥
स्वभाव-अभिनय-उपेतम् नाना स्त्री-पुरुष-आश्रयम् । यदि ईदृशम् भवेत् नाट्यम् लोक-धर्मी तु सा स्मृता ॥ ७१॥
svabhāva-abhinaya-upetam nānā strī-puruṣa-āśrayam . yadi īdṛśam bhavet nāṭyam loka-dharmī tu sā smṛtā .. 71..
अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् । लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ ७२॥
अति वाक्य-क्रिया-उपेतम् अति सत्त्व-अतिभावकम् । लीला-अङ्गहार-अभिनयम् नाट्य-लक्षण-लक्षितम् ॥ ७२॥
ati vākya-kriyā-upetam ati sattva-atibhāvakam . līlā-aṅgahāra-abhinayam nāṭya-lakṣaṇa-lakṣitam .. 72..
स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ ७३॥
स्वर-अलङ्कार-संयुक्तम् अस्वस्थ-पुरुष-आश्रयम् । यदि ईदृशम् भवेत् नाट्यम् नाट्य-धर्मी तु सा स्मृता ॥ ७३॥
svara-alaṅkāra-saṃyuktam asvastha-puruṣa-āśrayam . yadi īdṛśam bhavet nāṭyam nāṭya-dharmī tu sā smṛtā .. 73..
लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते । मूर्तिमत् साभिलाषञ्च नाट्यधर्मी तु सा स्मृता ॥ ७४॥
लोक-प्रसिद्धम् यदा नाट्ये प्रयुज्यते । मूर्तिमत् स अभिलाषञ्च च नाट्य-धर्मी तु सा स्मृता ॥ ७४॥
loka-prasiddham yadā nāṭye prayujyate . mūrtimat sa abhilāṣañca ca nāṭya-dharmī tu sā smṛtā .. 74..
आसन्नोक्तन्तु यद्वाक्यं न शृण्वन्ति परस्परम् । अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ ७५॥
आसन्न-उक्तम् तु यत् वाक्यम् न शृण्वन्ति परस्परम् । अनुक्तम् श्रूयते वाक्यम् नाट्यधर्मी तु सा स्मृता ॥ ७५॥
āsanna-uktam tu yat vākyam na śṛṇvanti parasparam . anuktam śrūyate vākyam nāṭyadharmī tu sā smṛtā .. 75..
शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ ७६॥
शैल-यान-विमानानि चर्म-वर्म-आयुध-ध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्य-धर्मी तु सा स्मृता ॥ ७६॥
śaila-yāna-vimānāni carma-varma-āyudha-dhvajāḥ . mūrtimantaḥ prayujyante nāṭya-dharmī tu sā smṛtā .. 76..
य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् । कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ ७७॥
यः एकाम् भूमिकाम् कृत्वा कुर्वीत एकान्तरे अपराम् । कौशल्यात् एकक-त्वात् वा नाट्य-धर्मी तु सा स्मृता ॥ ७७॥
yaḥ ekām bhūmikām kṛtvā kurvīta ekāntare aparām . kauśalyāt ekaka-tvāt vā nāṭya-dharmī tu sā smṛtā .. 77..
या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ ७८॥
या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिषु अगम्या च नाट्यधर्मी तु सा स्मृता ॥ ७८॥
yā gamyā pramadā bhūtvā gamyā bhūmiṣu yujyate . gamyā bhūmiṣu agamyā ca nāṭyadharmī tu sā smṛtā .. 78..
ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ ७९॥
ललितैः अङ्ग-विन्यासैः तथा उत्क्षिप्त-पद-क्रमैः । नृत्यते गम्यते यत् च नाट्य-धर्मी तु सा स्मृता ॥ ७९॥
lalitaiḥ aṅga-vinyāsaiḥ tathā utkṣipta-pada-kramaiḥ . nṛtyate gamyate yat ca nāṭya-dharmī tu sā smṛtā .. 79..
योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ ८०॥
यः अयम् स्वभावः लोकस्य सुख-दुःख-क्रिया-आत्मकः । सः अङ्ग-अभिनय-संयुक्तः नाट्य-धर्मी तु सा स्मृता ॥ ८०॥
yaḥ ayam svabhāvaḥ lokasya sukha-duḥkha-kriyā-ātmakaḥ . saḥ aṅga-abhinaya-saṃyuktaḥ nāṭya-dharmī tu sā smṛtā .. 80..
यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ ८१॥
यः च इतिहास-वेद-अर्थः ब्रह्मणा समुदाहृतः । दिव्य-मानुष-रति-अर्थम् नाट्य-धर्मी तु सा स्मृता ॥ ८१॥
yaḥ ca itihāsa-veda-arthaḥ brahmaṇā samudāhṛtaḥ . divya-mānuṣa-rati-artham nāṭya-dharmī tu sā smṛtā .. 81..
यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ ८२॥
यः च कक्ष्याविभागः अयम् नाना विधि-समाश्रितः । रङ्गपीठ-गतः प्रोक्तः नाट्य-धर्मी तु सा भवेत् ॥ ८२॥
yaḥ ca kakṣyāvibhāgaḥ ayam nānā vidhi-samāśritaḥ . raṅgapīṭha-gataḥ proktaḥ nāṭya-dharmī tu sā bhavet .. 82..
नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ ८३॥
नाट्य-धर्मी-प्रवृत्तम् हि सदा नाट्यम् प्रयोजयेत् । न हि अङ्ग-अभिनयात् किञ्चिद् ऋते राग प्रवर्तते ॥ ८३॥
nāṭya-dharmī-pravṛttam hi sadā nāṭyam prayojayet . na hi aṅga-abhinayāt kiñcid ṛte rāga pravartate .. 83..
सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः । अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ ८४॥
सर्वस्य सहजः भावः सर्वः हि अभिनयः अर्थतः । अङ्ग-अलङ्कार-चेष्टाभिः नाट्य-धर्मी प्रकीर्तिता ॥ ८४॥
sarvasya sahajaḥ bhāvaḥ sarvaḥ hi abhinayaḥ arthataḥ . aṅga-alaṅkāra-ceṣṭābhiḥ nāṭya-dharmī prakīrtitā .. 84..
एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च । विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ ८५॥
एवम् कक्ष्या-विभागः तु धर्मी युक्तयः एव च । विज्ञेयाः नाट्य-तत्त्व-ज्ञैः प्रयोक्तव्याः च तत्त्वतः ॥ ८५॥
evam kakṣyā-vibhāgaḥ tu dharmī yuktayaḥ eva ca . vijñeyāḥ nāṭya-tattva-jñaiḥ prayoktavyāḥ ca tattvataḥ .. 85..
उक्तो मयेहाभिनयो यथावत् शाखाकृतो यश्च कृतोऽङ्गहारैः । पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ ८६॥
उक्तः मया इह अभिनयः यथावत् शाखा-कृतः यः च कृतः अङ्गहारैः । पुनर् च वाक्य-अभिनयम् यथावत् वक्ष्ये स्वर-व्यञ्जन-वर्ण-युक्तम् ॥ ८६॥
uktaḥ mayā iha abhinayaḥ yathāvat śākhā-kṛtaḥ yaḥ ca kṛtaḥ aṅgahāraiḥ . punar ca vākya-abhinayam yathāvat vakṣye svara-vyañjana-varṇa-yuktam .. 86..
इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः ।
इति भरतीये नाट्य-शास्त्रे करयुक्तिधर्मीव्यञ्जकः नाम त्रयोदशः अध्यायः ।
iti bharatīye nāṭya-śāstre karayuktidharmīvyañjakaḥ nāma trayodaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In