| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय १३ ॥
.. nāṭyaśāstram adhyāya 13 ..
॥ श्रीरस्तु ॥
.. śrīrastu ..
अथ त्रयोदशोऽध्यायः
atha trayodaśo'dhyāyaḥ
ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ १॥
ye tu pūrvaṃ mayā proktāstrayo vai nāṭyamaṇḍapāḥ . teṣāṃ vibhāgaṃ vijñāya tataḥ kakṣyāṃ prayojayet .. 1..
ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ २॥
ye nepathyagṛhadvāre mayā pūrvaṃ prakīrtite . tayorbhāṇḍasya vinyāso madhye kāryaḥ prayoktṛbhiḥ .. 2..
कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ ३॥
kakṣyāvibhāgo nirdeśyo raṅgapīṭhaparikramāt . parikrameṇa raṅgasya kakṣyā hyanyā vidhīyate .. 3..
कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च । उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ ४॥
kakṣyāvibhāge jñeyāni gṛhāṇi nagarāṇi ca . udyānārāmasaritastvāśramā aṭavī tathā .. 4..
पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ ५॥
pṛthivī sāgarāścaiva trailokyaṃ sacarācaram . varṣāṇi saptadvīpāśca parvatā vividhāstathā .. 5..
अलोकश्चैव लोकश्च रसातलमथापि च । दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ ६॥
alokaścaiva lokaśca rasātalamathāpi ca . daityanāgālayāścaiva gṛhāṇi bhavanāni ca .. 6..
नगरे वा वने वापि वर्षे वा पर्वतेऽपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ ७॥
nagare vā vane vāpi varṣe vā parvate'pi vā . yatra vārtā pravarteta tatra kakṣyāṃ pravartayet .. 7..
बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ ८॥
bāhyaṃ vā madhyamaṃ vāpi tathaivābhyantaraṃ punaḥ . dūraṃ vā sannikṛṣṭaṃ vā deśaṃ tu parikalpayet .. 8..
पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्तेऽभ्यन्तरा बुधैः । पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ ९॥
pūrvapraviṣṭā ye raṅgaṃ jñeyāste'bhyantarā budhaiḥ . paścātpraviṣṭā vijñeyāḥ kakṣyābhāge tu bāhyataḥ .. 9..
तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् । दक्षिणाभिमुखः सोऽथ कुर्यादात्मनिवेदनम् ॥ १०॥
teṣāṃ tu darśanecchuryaḥ praviśedraṅgamaṇḍapam . dakṣiṇābhimukhaḥ so'tha kuryādātmanivedanam .. 10..
यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च । सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे न नित्यशः ॥ ११॥
yato mukhaṃ bhavedbhāṇḍaṃ dvāraṃ nepathyakasya ca . sā mantavyā tu dik pūrvā nāṭyayoge na nityaśaḥ .. 11..
निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ १२॥
niṣkrāmedyaśca tasmādvai sa tenaiva tathā vrajet . yatastasya kṛtaṃ tena puruṣeṇa nivedanam .. 12..
निष्क्रान्तोऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् । यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ १३॥
niṣkrānto'rthavaśāccāpi praviśedyadi tadgṛham . yataḥ prāptaḥ sa puruṣastena mārgeṇa niṣkramet .. 13..
अथवार्थवशाच्चापि तेनैव सह गच्छति । तथैव प्रविशेत् गेहमेकाकी सहितोऽपि वा ॥ १४॥
athavārthavaśāccāpi tenaiva saha gacchati . tathaiva praviśet gehamekākī sahito'pi vā .. 14..
तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् । परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ १५॥
tayoścāpi praviśatoḥ kakṣyāmanyāṃ vinirdiśet . parikrameṇa raṅgasya tvanyā kakṣyā vidhīyate .. 15..
समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः । अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ १६॥
samaiśca sahito gacchennīcaiśca parivāhitaḥ . atha prekṣaṇikāścāpi vijñeyā hyagrato gatau .. 16..
सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ १७॥
saiva bhūmistu bahubhirvikṛṣṭā syātparikramaiḥ . madhyā vā sannikṛṣṭā vā teṣāmevaṃ vikalpayet .. 17..
नगरे वा वने वापि सागरे पर्वतेऽपि वा । दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ १८॥
nagare vā vane vāpi sāgare parvate'pi vā . divyānāṃ gamanaṃ kāryaṃ dvīpe varṣeṣu vā punaḥ .. 18..
आकाशेन विमानेन माययाप्यथ वा पुनः । विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ १९॥
ākāśena vimānena māyayāpyatha vā punaḥ . vividhābhiḥ kriyābhirvā nānārthābhiḥ prayogataḥ .. 19..
नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः । मानुषे कारणादेषां यथा भवति दर्शनम् ॥ २०॥
nāṭake cchannaveṣāṇāṃ divyānāṃ bhūmisañcaraḥ . mānuṣe kāraṇādeṣāṃ yathā bhavati darśanam .. 20..
भारते त्वथ हैमे वा हरिवर्ष इलावृते । रम्ये किम्पुरुषे वापि कुरुषूत्तरकेषु वा ॥ २१॥
bhārate tvatha haime vā harivarṣa ilāvṛte . ramye kimpuruṣe vāpi kuruṣūttarakeṣu vā .. 21..
दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् । भारते मानुषाणाञ्च गमनं संविधीयते ॥ २२॥
divyānāṃ chandagamanaṃ sarvavarṣeṣu kīrtitam . bhārate mānuṣāṇāñca gamanaṃ saṃvidhīyate .. 22..
गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । अङ्कच्छेदे तमन्यस्मिन् निर्दिशेद्धि प्रवेशके ॥ २३॥
gacchedyadi vikṛṣṭastu deśakālavaśānnaraḥ . aṅkacchede tamanyasmin nirdiśeddhi praveśake .. 23..
अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् । तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ २४॥
ahnaḥ pramāṇaṃ gatvā tu kāryalābhaṃ vinirdiśed . tathālābhe tu kāryasya aṅkacchedo vidhīyate .. 24..
क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके । एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ २५॥
kṣaṇo muhūrto yāno vā divaso vāpi nāṭake . ekāṅke sa vidhātavyo bījasyārthavaśānugaḥ .. 25..
अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ २६॥
aṅkacchede tu nirvṛttaṃ māsaṃ vā varṣameva vā . nordhvaṃ varṣātprakartavyaṃ kāryamaṅkasamāśrayam .. 26..
एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ २७॥
evaṃ tu bhārate varṣe kakṣyā kāryā prayogataḥ . mānuṣāṇāṃ gatiryā tu divyānāntu nibodhata .. 27..
हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे । यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ २८॥
himavatpṛṣṭhasaṃsthe tu kailāse parvatottame . yakṣāśca guhyakāścaiva dhanadānucarāśca ye .. 28..
रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ २९॥
rakṣaḥpiśācabhūtāśca sarve haimavatāḥ smṛtāḥ . hemakūṭe ca gandharvā vijñeyāḥ sāpsarogaṇāḥ .. 29..
सर्वे नागाश्च निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशद् ज्ञेया देवगणा बुधैः ॥ ३०॥
sarve nāgāśca niṣadhe śeṣavāsukitakṣakāḥ . mahāmerau trayastriṃśad jñeyā devagaṇā budhaiḥ .. 30..
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा । दैत्यानां दानवानाञ्च श्वेतपर्वत इष्यते ॥ ३१॥
nīle tu vaiḍūryamaye siddhā brahmarṣayastathā . daityānāṃ dānavānāñca śvetaparvata iṣyate .. 31..
पितरश्चापि विज्ञेया शृङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ ३२॥
pitaraścāpi vijñeyā śṛṅgavantaṃ samāśritāḥ . ityete parvatāḥ śreṣṭhā divyāvāsāḥ prakīrtitāḥ .. 32..
तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् । तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ ३३॥
teṣāṃ kakṣyāvibhāgaśca jambūdvīpe bhavedayam . teṣāṃ na ceṣṭitaṃ kāryaṃ svaiḥ svaiḥ karmaparākramaiḥ .. 33..
परिच्छ(च्छे)दविशेषस्तु तेषां मानुषलोकवत् । सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ ३४॥
pariccha(cche)daviśeṣastu teṣāṃ mānuṣalokavat . sarve bhāvāśca divyānāṃ kāryā mānuṣasaṃśrayāḥ .. 34..
तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ ३५॥
teṣāntvanimiṣatvaṃ yattanna kāryaṃ prayoktṛbhiḥ . iha bhāvā rasāścaiva dṛṣṭāveva pratiṣṭhitāḥ .. 35..
दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते । एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ ३६॥
dṛṣṭyā hi sūcito bhāvaḥ punaraṅgairvibhāvyate . evaṃ kakṣyāvibhāgastu mayā prokto dvijottamāḥ .. 36..
पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः । आवन्ती दाक्षिणात्या च पाञ्चाली चोढ्रमागधी ॥ ३७॥
punaścaiva pravakṣyāmi pravṛttīnāntu lakṣaṇam . caturvidhā pravṛttiśca proktā nāṭyaprayogataḥ . āvantī dākṣiṇātyā ca pāñcālī coḍhramāgadhī .. 37..
अत्राह प्रवृत्तिरिति कस्मात् ? उच्यते पृथिव्यां नानादेशवेषभाषाचारवार्ताः प्रख्यापयतीति वृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो देशाः सन्ति , कथमासां चतुर्विधत्वम् उपपन्नं, समानलक्षणश्चासां प्रयोग उच्यते , सत्यमेतत् । समानलक्षण आसां प्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्यास्तावत् बहुनृत्तगीतवाद्या कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः । एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ ३८॥
atrāha pravṛttiriti kasmāt ? ucyate pṛthivyāṃ nānādeśaveṣabhāṣācāravārtāḥ prakhyāpayatīti vṛttiḥ . pravṛttiśca nivedane . atrāha - yathā pṛthivyāṃ bahavo deśāḥ santi , kathamāsāṃ caturvidhatvam upapannaṃ, samānalakṣaṇaścāsāṃ prayoga ucyate , satyametat . samānalakṣaṇa āsāṃ prayogaḥ . kintu nānādeśaveṣabhāṣācāro loka iti kṛtvā lokānumatena vṛttisaṃśritasya nāṭyasya vṛttīnāṃ mayā caturvidhatvamabhihitaṃ bhāratī sāttvatī kaiśikyārabhaṭī ceti . vṛttisaṃśritaiśca prayogairabhihitā deśāḥ . yataḥ pravṛtticatuṣṭayamabhinirvṛttaṃ prayogaścotpāditaḥ . tatra dākṣiṇātyāstāvat bahunṛttagītavādyā kaiśikīprāyāḥ caturamadhuralalitāṅgābhinayāśca . tadyathā - mahendro malayaḥ sahyo mekalaḥ pālamañjaraḥ . eteṣu ye śritā deśāḥ sa jñeyo dakṣiṇāpathaḥ .. 38..
कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः । द्रविडान्ध्रमहाराष्ट्रा वैष्णा वै वानवासजाः ॥ ३९॥
kosalāggstośalāścaiva kaliṅgā yavanā khasāḥ . draviḍāndhramahārāṣṭrā vaiṣṇā vai vānavāsajāḥ .. 39..
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ ४०॥
dakṣiṇasya samudrasya tathā vindhyasya cāntare . ye deśāsteṣu yuñjīta dākṣiṇātyāṃ tu nityaśaḥ .. 40..
आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा । सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ ४१॥
āvantikā vaidiśikāḥ saurāṣṭrā mālavāstathā . saindhavāstvatha sauvīrā āvartāḥ sārbudeyakāḥ .. 41..
दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः । कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ ४२॥
dāśārṇāstraipurāścaiva tathā vai mārtikāvatāḥ . kurvantyāvantikīmete pravṛttiṃ nityameva tu .. 42..
सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता । भवेत् प्र्योगो नाट्येऽत्र स तु कार्यः प्रयोक्तृभिः ॥ ४३॥
sāttvatīṃ kaiśikīṃ caiva vṛttimeṣāṃ samāśritā . bhavet pryogo nāṭye'tra sa tu kāryaḥ prayoktṛbhiḥ .. 43..
अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ ४४॥
aṅgā vaṅgāḥ kaliṅgāśca vatsāścaivoḍhramāgadhāḥ . pauṇḍrā nepālakāścaiva antargiribahirgirāḥ .. 44..
तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ ४५॥
tathā plavaṅgamā jñeyā maladā mallavartakāḥ . brahmottaraprabhṛtayo bhārgavā mārgavāstathā .. 45..
प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ ४६॥
prājyotiṣāḥ pulindāśca vaidehāstāmraliptakāḥ . prāṅgāḥ prāvṛtayaścaiva yuñjantīhoḍhramāgadhīm .. 46..
अन्येऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ ४७॥
anye'pi deśāḥ prācyāṃ ye purāṇe samprakīrtitāḥ . teṣu prayujyate hyeṣā pravṛttiścoḍhramāgadhī .. 47..
पाञ्चाला सौरसेनाश्च काश्मीरा हस्तिनापुराः । बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ ४८॥
pāñcālā saurasenāśca kāśmīrā hastināpurāḥ . bāhlīkā śalyakāścaiva madrakauśīnarāstathā .. 48..
हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमाः ॥ ४९॥
himavatsaṃśritā ye tu gaṅgāyāścottarāṃ diśam . ye śritā vai janapadāsteṣu pāñcālamadhyamāḥ .. 49..
पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ ५०॥
pāñcālamadhyamāyāṃ tu sāttvatyārabhaṭī smṛtā . prayogastvalpagītārtha āviddhagativikramaḥ .. 50..
द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ ५१॥
dvidhā kriyā bhavatyāsāṃ raṅgapīṭhaparikrame . pradakṣiṇapradeśā ca tathā cāpyapradakṣiṇā .. 51..
आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । अपसव्यप्रदेशास्तु पाञ्चाली चोढ्रमागधी ॥ ५२॥
āvantī dākṣiṇātyā ca pradakṣiṇaparikrame . apasavyapradeśāstu pāñcālī coḍhramāgadhī .. 52..
आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् । पाञ्चाल्यामोढ्रमागध्यां योज्यं द्वारं तु दक्षिणम् ॥ ५३॥
āvantyāṃ dākṣiṇātyāyāṃ pārśvadvāramathottaram . pāñcālyāmoḍhramāgadhyāṃ yojyaṃ dvāraṃ tu dakṣiṇam .. 53..
एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ ५४॥
ekībhūtāḥ punaścaitāḥ prayoktavyāḥ prayoktṛbhiḥ . pārṣadaṃ deśakālau vāpyarthayuktimavekṣya ca .. 54..
येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ ५५॥
yeṣu deśeṣu yā kāryā pravṛttiḥ parikīrtitā . tadvṛttikāni rūpāṇi teṣu tajjñaḥ prayojayet .. 55..
एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि । अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ ५६॥
ekībhūtāḥ punastvetā nāṭakādau bhavanti hi . avekṣya vṛttibāhulyaṃ tattatkarma samācaret .. 56..
सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ ५७॥
sārthe bāhulyamekasya śeṣāṇāmatha buddhimān . yeṣāmanyasya bāhulyaṃ pravṛttiṃ pūrayettadā .. 57..
प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ ५८॥
prayogo dvividhaścaiva vijñeyo nāṭakāśrayaḥ . sukumārastathāviddho nāṭyayuktisamāśrayaḥ .. 58..
यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् । मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ ५९॥
yattvāviddhāṅgahārantu cchedyabhedyāhavātmakam . māyendrajālabahulaṃ pustanepathyasaṃyutam .. 59..
पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ ६०॥
puruṣairbahubhiryuktamalpastrīkaṃ tathaiva ca . sāttvatyārabhaṭīyuktaṃ nāṭyamāviddhasaṃjñitam .. 60..
डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ ६१॥
ḍimaḥ samavakāraśca vyāyogehāmṛgau tathā . etānyāviddhasaṃjñāni vijñeyāni prayoktṛbhiḥ .. 61..
एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ ६२॥
eṣāṃ prayogaḥ kartavyo daityadānavarākṣasaiḥ . uddhatā ye ca puruṣāḥ śauryavīryabalānvitāḥ .. 62..
नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके । सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ ६३॥
nāṭakaṃ saprakaraṇaṃ bhāṇo vīthyaṅkanāṭike . sukumāraprayogāṇi mānuṣeṣvāśritāstu ye .. 63..
अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते । विदिक्ष्वपि भवेद्रङ्गः कदाचिद् भर्तुराज्ञया ॥ ६४॥
atha bāhyaprayogeṣu prekṣāgṛhavivarjite . vidikṣvapi bhavedraṅgaḥ kadācid bharturājñayā .. 64..
पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः । सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ ६५॥
pṛṣṭha kutapaṃ nāṭye yuktā yato mukhaṃ bharatāḥ . sā pūrvā mantavyā prayogakāle tu nāṭyajñaiḥ .. 65..
द्वाराणि षट् चैव भवन्ति चास्य रङ्गस्य दिग्भागविनिश्चितानि । नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ ६६॥
dvārāṇi ṣaṭ caiva bhavanti cāsya raṅgasya digbhāgaviniścitāni . nāṭyaprayogeṇa khalu praveśe prācyāṃ pratīcyāṃ ca diśi praveśaḥ .. 66..
विधानमुत्क्रम्य यथा च रङ्गे विना प्रमाणाद्विदिशः प्रयोगे । द्वारन्तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ ६७॥
vidhānamutkramya yathā ca raṅge vinā pramāṇādvidiśaḥ prayoge . dvārantu yasmātsamṛdaṅgabhāṇḍaṃ prācīṃ diśaṃ tāṃ manasā'dhyavasyet .. 67..
वयोऽनुरूपः प्रथमन्तु वेशो वेशोऽनुरूपश्च गतिप्रचारः । गतिप्रचारानुगतश्च पाठ्यं पाठ्यानुरूपाभिनयश्च कार्यः ॥ ६८॥
vayo'nurūpaḥ prathamantu veśo veśo'nurūpaśca gatipracāraḥ . gatipracārānugataśca pāṭhyaṃ pāṭhyānurūpābhinayaśca kāryaḥ .. 68..
धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ ६९॥
dharmī yā dvividhā proktā mayā pūrvaṃ dvijottamāḥ . laukikī nāṭyadharmī ca tayorvakṣyāmi lakṣaṇam .. 69..
स्वभावभावोपगतं शुद्धं त्वविकृतं तथा । लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ ७०॥
svabhāvabhāvopagataṃ śuddhaṃ tvavikṛtaṃ tathā . lokavārtākriyopetamaṅgalīlāvivarjitam .. 70..
स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ ७१॥
svabhāvābhinayopetaṃ nānāstrīpuruṣāśrayam . yadīdṛśaṃ bhavennāṭyaṃ lokadharmī tu sā smṛtā .. 71..
अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् । लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ ७२॥
ativākyakriyopetamatisattvātibhāvakam . līlāṅgahārābhinayaṃ nāṭyalakṣaṇalakṣitam .. 72..
स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ ७३॥
svarālaṅkārasaṃyuktamasvasthapuruṣāśrayam . yadīdṛśaṃ bhavennāṭyaṃ nāṭyadharmī tu sā smṛtā .. 73..
लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते । मूर्तिमत् साभिलाषञ्च नाट्यधर्मी तु सा स्मृता ॥ ७४॥
lokaprasiddhaṃ dravyantu yadā nāṭye prayujyate . mūrtimat sābhilāṣañca nāṭyadharmī tu sā smṛtā .. 74..
आसन्नोक्तन्तु यद्वाक्यं न शृण्वन्ति परस्परम् । अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ ७५॥
āsannoktantu yadvākyaṃ na śṛṇvanti parasparam . anuktaṃ śrūyate vākyaṃ nāṭyadharmī tu sā smṛtā .. 75..
शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ ७६॥
śailayānavimānāni carmavarmāyudhadhvajāḥ . mūrtimantaḥ prayujyante nāṭyadharmī tu sā smṛtā .. 76..
य एकां भूमिकां कृत्वा कुर्वीतैकान्तरेऽपराम् । कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ ७७॥
ya ekāṃ bhūmikāṃ kṛtvā kurvītaikāntare'parām . kauśalyādekakatvādvā nāṭyadharmī tu sā smṛtā .. 77..
या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ ७८॥
yā gamyā pramadā bhūtvā gamyā bhūmiṣu yujyate . gamyā bhūmiṣvagamyā ca nāṭyadharmī tu sā smṛtā .. 78..
ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ ७९॥
lalitairaṅgavinyāsaistathotkṣiptapadakramaiḥ . nṛtyate gamyate yacca nāṭyadharmī tu sā smṛtā .. 79..
योऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । सोऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ ८०॥
yo'yaṃ svabhāvo lokasya sukhaduḥkhakriyātmakaḥ . so'ṅgābhinayasaṃyukto nāṭyadharmī tu sā smṛtā .. 80..
यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ ८१॥
yaścetihāsavedārtho brahmaṇā samudāhṛtaḥ . divyamānuṣaratyarthaṃ nāṭyadharmī tu sā smṛtā .. 81..
यश्च कक्ष्याविभागोऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ ८२॥
yaśca kakṣyāvibhāgo'yaṃ nānāvidhisamāśritaḥ . raṅgapīṭhagataḥ prokto nāṭyadharmī tu sā bhavet .. 82..
नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ ८३॥
nāṭyadharmīpravṛttaṃ hi sadā nāṭyaṃ prayojayet . na hyaṅgābhinayātkiñcidṛte rāga pravartate .. 83..
सर्वस्य सहजो भावः सर्वो ह्यभिनयोऽर्थतः । अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ ८४॥
sarvasya sahajo bhāvaḥ sarvo hyabhinayo'rthataḥ . aṅgālaṅkāraceṣṭābhirnāṭyadharmī prakīrtitā .. 84..
एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च । विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ ८५॥
evaṃ kakṣyāvibhāgastu dharmī yuktaya eva ca . vijñeyā nāṭyatattvajñaiḥ prayoktavyāśca tattvataḥ .. 85..
उक्तो मयेहाभिनयो यथावत् शाखाकृतो यश्च कृतोऽङ्गहारैः । पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ ८६॥
ukto mayehābhinayo yathāvat śākhākṛto yaśca kṛto'ṅgahāraiḥ . punaśca vākyābhinayaṃ yathāvadvakṣye svaravyañjanavarṇayuktam .. 86..
इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशोऽध्यायः ।
iti bharatīye nāṭyaśāstre karayuktidharmīvyañjako nāma trayodaśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In